← अध्यायः ११० हरिवंशपुराणम्
अध्यायः १११
वेदव्यासः
अध्यायः ११२ →
श्रीकृष्णस्य महिमा - अर्जुनेन श्रीकृष्णस्य आज्ञां गृहीत्वा ब्राह्मणबालकस्य रक्षणाय गमनम्

एकादशाधिकशततमोऽध्यायः

जनमेजय उवाच
भूय एव महाबाहो कृष्णस्य जगतां पतेः ।
माहात्म्यं श्रोतुमिच्छामि परमं द्विजसत्तम ।। १ ।।
न हि मे तृप्तिरस्तीह शृण्वतस्तस्य धीमतः ।
कर्मणामनुसंतानं पुराणस्य महात्मनः ।। २ ।।
वैशम्पायन उवाच
नान्तः शक्यः प्रभावस्य वक्तुं वर्षशतैरपि ।
गोविन्दस्य महाराज श्रूयतामिदमद्भुतम् ।। ३ ।।
शरतल्पे शयानेन भीष्मेण परिचोदितः ।
गाण्डीवधन्वा बीभत्सुर्माहात्म्यं केशवस्य यत् ।। ४ ।।
राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरमब्रवीत् ।
युधिष्ठिरं जितामित्रमिति तच्छ्रृणु कौरव ।। ५ ।।
अर्जुन उवाच
पुराहं द्वारकां यातः सम्बन्धीनवलोककः ।
न्यवसं पूजितस्तत्र भोजवृष्ण्यन्धकोत्तमैः ।। ६ ।।
ततः कदाचिद् धर्मात्मा दीक्षितो मधुसूदनः ।
एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा ।। ७ ।।
ततो दीक्षितमासीनमभिगम्य द्विजोत्तमः ।
कृष्णं विज्ञापयामास त्राहि त्राहीति चाब्रवीत् ।। ८ ।।
ब्राह्मण उवाच
रक्षाधिकारो भवतः परित्रायस्व मां विभो ।
चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम् ।। ९ ।।
वासुदेव उवाच
न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतो भयम् ।
ब्रूहि तत्त्वेन भद्रं ते यद्यपि स्यात्सुदुष्करम् ।। 2.111.१० ।।
ब्राह्मण उवाच
जातो जातो महाबाहो पुत्रो मे ह्रियतेऽनघ ।
त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि ।। ११ ।।
ब्राह्मण्याः सूतिकालोऽद्य तत्र रक्षा विधीयताम्।
यथा ध्रियेदपत्यं मे तथा कुरु जनार्दन ।। १२ ।।
अर्जुन उवाच
ततो मामाह गोविन्दो दीक्षितोऽहं क्रताविति ।
रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैरपि ।। १३ ।।
श्रुत्वाहमेवं कृष्णस्य वचोऽवोचं नराधिप ।
मां नियोजय गोविन्द रक्षिष्येऽहं द्विजं भयात्।। १४ ।।
इत्युक्तः स स्मितं कृत्वा मामुवाच जनार्दनः ।
रक्षसीत्येवमुक्तस्तु व्रीडितोऽस्मि नराधिप ।। १५ ।।
ततो मां व्रीडितं मत्वा पुनराह जनार्दनः ।
गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम् ।। १६ ।।
त्वत्पुरोगाश्च रक्षन्तु वृष्ण्यन्धकमहारथाः ।
ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम् ।। १७ ।।
ततोऽहं वृष्णिसैन्येन महता परिवारितः ।
तमग्रतो द्विजं कृत्वा प्रयातः सह सेनया ।। १८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये एकादशाधिकशततमोऽध्यायः ।। १११ ।।