हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०४१

← अध्यायः ०४० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०४१
[[लेखकः :|]]
अध्यायः ०४२ →
हिरण्यकशिपोः तपः, वरप्राप्तिः, अत्याचारः, देवेभ्यः ब्रह्मणः आश्वासनं, भगवता विष्णुना नृसिंहस्य रूपं धारयित्वा हिरण्यकशिपोः सभायां गमनं, सभायाः वर्णनम्

एकचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ।। १ ।।
पुरा कृतयुगे राजन् हिरण्यकशिपुः प्रभुः ।
दैत्यानामादिपुरुषश्चकार सुमहत् तपः ।। २ ।।
दश वर्षसहस्राणि शतानि दश पञ्च च ।
जलवासी समभवत् स्थानमौनव्रतस्थितः ।। ३ ।।
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ।
ब्रह्मा प्रीतोऽभवत् तस्य तपसा नियमेन च ।। ४ ।।
ततः स्वयम्भूर्भगवान् स्वयमागत्य तत्र ह ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।। ५ ।।
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिंनरैः ।। ६ ।।
दिग्भिश्चाथ विदिग्भिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ।। ७ ।।
देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यकृद्धिर्गन्धर्वैरप्सरोगणैः ।। ८ ।।
चराचरगुरुः श्रीमान् वृतो देवगणैः सह ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ।। ९ ।।
ब्रह्मोवाच
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ।। 3.41.१० ।।
ततो हिरण्यकशिपुः प्रीतात्मा दानवोत्तमः ।
कृताञ्जलिपुटः श्रीमान् वचनं चेदमब्रवीत् ।। ११ ।।
हिरण्यकशिपुरुवाच
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च निहन्युर्मां कथंचन ।। १२ ।।
ऋषयो नैव मां क्रुद्धाः सर्वलोकपितामह ।
शपेयुस्तपसा युक्ता वर एष वृतो मया ।। १३ ।।
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ।। १४ ।।
न स्वर्गेऽप्यथ पाताले नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न चाप्यन्येन मे वधः ।। १५ ।।
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्यः स मे मृत्युर्भविष्यति ।। १६ ।।
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ।। १७ ।।
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ।। १८ ।।
मूर्तिमन्ति च दिव्यानि ममास्त्राणि महाहवे ।
उपतिष्ठन्तु देवेश सर्वलोकपितामह ।। १९ ।।
पितामह उवाच
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वकामप्रदा वत्स दुर्लभास्त्वतिमानुषाः ।
सर्वान्कामानल्पभावात् प्राप्स्यसि त्वं न संशयः।।3.41.२०।।
वैशम्पायन उवाच
एवमुक्त्वा स भगवाञ्जगामाकाशमेव च ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।। २१ ।।
ततो देवाश्च नागाश्च गन्धर्वा मुनिभिः सह ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ।। २२ ।।
देवा ऊचुः
वरेणानेन भगवन् वधिष्यति स नोऽसुरः ।
तत्प्रसीदस्व भगवन् वधोऽप्यस्य विचिन्त्यताम्।। २३ ।।
भवान् हि सर्वभूतानामादिकर्ता स्वयं प्रभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ।। २४ ।।
वैशम्पायन उवाच
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ।। २५ ।।
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति।। २६ ।।
एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि प्रतिजग्मुर्मुदान्विताः ।। २७ ।।
लब्धमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ।। २८ ।।
आश्रमेषु मुनीन्सर्वान् ब्राह्मणान् संशितव्रतान् ।
सत्यधर्मरतान् दान्तान् धर्षयामास वीर्यवान् ।। २९ ।।
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।। 3.41.३० ।।
यदा वरमदोन्मत्तश्चोदितः कालधर्मणा ।
यज्ञियानकरोद् दैत्यान् दैवतानप्ययज्ञियान् ।। ३१ ।।
तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा ।
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः ।। ३२ ।।
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ।
देवं वेदमयं यज्ञं ब्रह्मदेवं सनातनम् ।। ३३ ।।
भूतं भव्यं भविष्यं च प्रजालोकनमस्कृतम् ।
देवा ऊचुः
नारायण महाभाग देव त्वां शरणं गताः ।। ३४ ।।
त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ।। ३५ ।।
त्वं पद्मामलपत्राक्ष शत्रुपक्षभयावह ।
क्षयाय दितिवंशस्याक्षयाय भव नः प्रभो ।। ३६ ।।
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ।
विष्णुरुवाच
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।। ३७ ।।
तथैव त्रिदिवं देवाः प्रतिपत्स्यथ मा चिरम् ।
एष तं सगणं दैत्यं वरदानेन दर्पितम् ।। ३८ ।।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ।
वैशम्पायन उवाच
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवौकसः ।। ३९ ।।
वधं संकल्पयित्वा तु हिरण्यकशिपोः प्रभुः ।
सोऽचिरेणैव कालेन हिमवत्पार्श्वमागतः ।। 3.41.४० ।।
किं नु रूपं समास्थाय निहन्म्येनं महासुरम् ।
यत् सिद्धिकरमाशु स्याद् वधाय विबुधद्विषः ।। ४१ ।।
अनुत्पन्नं ततश्चक्रे सोऽत्यन्तं रूपमास्थितः ।
नारसिंहमनाधृष्यं दैत्यदानवरक्षसाम् ।। ४२ ।।
सहायं तु महाबाहुर्जग्राहोङ्कारमेव च ।
अथोङ्कारसहायोऽसौ भगवान् विष्णुरव्ययः ।। ४३ ।।
हिरण्यकशिपोः स्थानं जगाम प्रभुरीश्वरः ।
तेजसा भास्कराकारः कान्त्या चन्द्र इवापरः ।। ४४ ।।
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं विभुः ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ।। ४५ ।।
ततो ऽपश्यत् विस्तीर्णां दिव्यां रम्यां मनोरमाम् ।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ।। ४६ ।।
विस्तीर्णो योजनशतं शतमध्यर्धमायताम् ।
वैहायसीं कामगमां पञ्चयोजनमुच्छ्रिताम् ।। ४७ ।।
जराशोकक्लमत्यक्तां निष्प्रकम्पां शिवां शुभाम् ।
शुभासनवतीं रम्यां ज्वलन्तीमिव तेजसा ।। ४८ ।।
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा ।
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ।। ४९ ।।
नीलपीतासितश्यामैः सितैर्लोहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरीशतधारिभिः ।। 3.41.५० ।।
सिताभ्रघनसंकाशा प्लवन्तीवाप्सु दृश्यते ।
धन्यासनवती रम्या ज्वलन्ती इव तेजसा ।। ५१ ।।
प्रभावती भास्वरा च दिव्यगन्धमनोरमा ।
न सुखा न च दुःखा सा न शीता न च घर्मदा ।। ५२ ।।
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्ति हि ।
नानारूपैर्विरचिता विचित्रैरतिभास्वरैः ।। ५३ ।।
स्तम्भैर्मणिमयैर्दिव्यैः शाश्वती चाक्षता च सा ।
अतिचन्द्रं च सूर्यं च पावकं च स्वयम्प्रभा ।। ५४ ।।
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम् ।
सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः ।। ५५ ।।
रसवन्तः प्रभूताश्च भक्ष्यभोज्यं तथाक्षयम् ।
पुण्यगन्धा स्रजस्तत्र नित्यपुष्पफलद्रुमाः ।। ५६ ।।
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै ।
पुष्पिताग्रान् महाशाखान् प्रवालाङ्कुरधारिणः ।। ५७ ।।
लतावितानसंच्छन्नान् सरित्सु च सरःसु च ।
मनोहरांश्च विविधान् ददर्श स तदा प्रभुः ।। ५८ ।।
द्रुमान् बहुविधांस्तत्र मृगेन्द्रो ददृशे द्रुतम् ।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ।। ५९ ।।
तानि शीतानि तोयानि तत्र तत्र सरांसि च ।
अपश्यत् सर्वतीर्थानि सभायां शतशो विभुः ।। 3.41.६० ।।
नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः ।
रक्तैः कुवलयैर्नीलैः कुमुदैः संयुतानि च ।। ६१ ।।
सकान्तैर्धार्तराष्ट्रैश्च राजहंसैः सुरप्रियैः ।
कादम्बैश्चक्रवाकैश्च सारसैः कुररैरपि ।। ६२ ।।
विमलस्फटिकाभानि पाण्डुराष्टदलानि च ।
कलहंसोपगीतानि सारिकाभिरुतानि च ।। ६३ ।।
गन्धवत्यः शुभास्तत्र पुष्पमञ्जरिधारिणीः ।
दृष्टवान् पादपाग्रेषु नानापुष्पधरा लताः ।। ६४ ।।
केतकाशोकसरलाः पुन्नागतिलकार्जुनाः ।
चूता नीपा नागपुष्पाः कदम्बबकुला धवाः ।। ६५ ।।
प्रियङ्गुपाटलीवृक्षाः शाल्मल्यः सहरिद्रकाः ।
शालास्तालाः प्रियालाश्च चम्पकाश्च मनोरमाः ।। ६६ ।।
तथा चान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः ।
वैद्रुमाश्च द्रुमानीका दावाग्निज्वलितप्रभाः ।। ६७ ।।
स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः ।
अञ्जनाशोकवर्णाभा भान्ति वञ्जुलका द्रुमाः ।। ६८ ।।
वरणा वत्सनाभाश्च पनसाश्चन्दनैः सह ।
नीलाः सुमनसश्चैव पीताम्लाश्वत्थतिन्दुकाः ।। ६९ ।।
प्राचीनामलका लोध्रा मल्लिका भद्रदारवः ।
आम्रातकास्तथा जम्बूलकुचाः शैलवालुकाः ।। 3.41.७० ।।
सर्जार्जुनाः कन्दुरवाः पतङ्गाः कुटजास्तथा ।
रक्ताः कुरबकाश्चैव नीपाश्चागरुभिः सह ।। ७१ ।।
कदम्बाश्चैव भव्याश्च दाडिमीबीजपूरकाः ।
कालीयका दुकूलाश्च हिङ्गवस्तैलपर्णिकाः ।। ७२ ।।
खर्जूरा नालिकेराश्च पूगवृक्षा हरीतकी ।
मधूकाः सप्तपर्णाश्च बिल्वाः पारावतास्तथा ।। ७३ ।।
पनसाश्च तमालाश्च नानागुल्मलतावृताः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः ।। ७४ ।।
एते चान्ये च बहवस्तत्र काननजा द्रुमाः ।
नानापुष्पफलोपेता व्यराजन्त समन्ततः ।। ७५ ।।
चकोराः शतपत्राश्च मत्तकोकिलसारिकाः ।
पुष्पितान् फलिताग्रांश्च सम्पतन्ति महाद्रुमान्।। ७६ ।।
रक्तपीतारुणास्तत्र पादपाग्रगता द्विजाः ।
परस्परमवैक्षन्त प्रहृष्टा जीवजीवकाः ।। ७७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे हिरण्यकशिपुसभावर्णने एकचत्वारिंशोऽध्यायः।।४१।।