सुहृद्भेदः सम्पाद्यताम्

कथा - ९ सम्पाद्यताम्

दक्षिणसमुद्रतीरे टिट्टिभदम्पती निवसतः । तत्र चासन्नप्रसदा टिट्टिभी भर्तारम् आह्नाथ ! प्रसवयोग्यस्थानं निभृतम् अनुसन्धीयताम् । टिट्टिभोवदत्भार्ये, नन्व् इदम् एव स्थानं प्रसूतियोग्यम् । सा ब्रूतेसमुद्रवेलया व्याप्यते स्थानम् एतम् । टिट्टिभोवदत्किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः । टिट्टिभी विहस्याह्स्वामिन् ! त्वया समुद्रेण च महद् अन्तरम् । अथवा <poem> पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः । अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥१५०॥

अपि च् अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥१५१॥

ततः कृच्छ्रेण स्वामिवचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्तिज्ञानार्थं तद्अण्डान्य् अवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारम् आह्नाथ ! कष्टम् आपतितम् । तान्य् अण्डानि मे नष्टानि ।

टिट्टिभोवदत्प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्देव, समुद्रेणाहं स्वगृहावस्थितो विनापराधनेनैव निगृहीतः ।

ततस्तद्वचनम् आकर्ण्य गरुत्मना प्रभुर्भगवान् नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः । स समुद्रम् अण्डदानायादिदेश । ततो भगवद्आज्ञां मौलौ निधाय समुद्रेण तान्य् अण्डानि टिट्टिभाय समर्पितानि । अतोहं ब्रवीमिङ्गाङ्गिभावम् अज्ञात्वा इत्य् आदि ।

राजाह्कथम् असौ ज्ञातव्यो द्रोहबुद्धिरिति । दमनको ब्रूतेयदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितम् इवागच्छति तदा ज्ञास्यति स्वामी । एवम् उक्त्वा संजीवकसमीपं गतः । तत्र गतश्च मन्दं मन्दम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् । संजीवकेन सादरम् उक्तम्भद्र ! कुशलं ते । दमनको ब्रूतेनुजीविनां कुतः कुशलम् । यतः

सम्पत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम् । स्वजीइवितेप्यविश्वासस्तेषां ये राजसेवकाः ॥१५२॥

अन्यच्च कोर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया ।

कः कालस्य भुजान्तरं न च गतः कोर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥१५३॥

संजीवकेनोक्तम्सखे ! ब्रूहि किम् एतत् दमनक आह्किं ब्रवीमि मन्दभाग्यः । पश्य्

मज्जन्न् अपि पयोराशौ लब्ध्वा सर्पावलम्बनम् । न मुञ्चति न चादत्ते तथा मुग्धोस्मि सम्प्रति ॥१५४॥

यतः एकत्र राजविश्वासो नश्यत्य् अन्यत्र बान्धवः । किं करोमि क्व गच्छामि पतित् ओ दुःखसागरे ॥१५५॥

इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूतेमित्र ! तथापि सविस्तरं मनोगतम् उच्यताम् । दमनकः सुनिभृतम् आह्यद्यपि राजविश्वासो न कथनीयस्तथापि भवान् अस्मदीयप्रत्ययाद् आगतः । मया परलोकार्थिनावश्यं तव हितम् आख्येयम् । शृणु, अयं स्वामी तवोपरि विकृतबुद्धी रहस्य् उक्तवान् संजीवकम् एव हत्वा स्वपरिवारं तर्पयामि । एतच् छ्रुत्वा संजीवकः परं विषादम् अगमत् । दमनकः पुनराहलं विषादेन । प्राप्तकालकायम् अनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्वगतम्सुष्ठु खल्व् इदम् उच्यते । किं वा दुर्जनचेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते । यतः

दुर्जनगम्या नार्यः प्रायेणापात्रभृद् भवति राजा । कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥१५६॥

कश्चिद् आश्रयसौन्दर्याद् धत्ते शोभाम् असज्जनः । प्रमदालोचनन्यस्तं मलीमसम् इवाञ्जनम् ॥१५७॥

आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम् । अयं त्व् अपूर्वप्रतिमाविशेषो यः सेव्यमानो रिपुताम् उपैति ॥१५८॥

तद् अयम् अशक्यर्थः प्रमेयः, यतः निमित्तम् उद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ॥१५९॥

किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः । दमनको ब्रूते एवम् एतत् । शृणु विज्ञैः स्निग्धैरुपकृतम् अपि द्वेष्यताम् एति कैश्चित् साक्षाद् अन्यैरपकृतम् अपि प्रीतिम् एवोपयाति ।

चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनाम् अप्यगम्यः ॥१६०॥

अन्यच्च कृतशतम् असत्सु नष्टं सुभाषितशतं च नष्टम् अबुधेषु । वचनशतम् अवचनकरे बुद्धिशतम् अचेतने नष्टम् ॥१६१॥

किं च् चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः । गुणघातिनश्च भोगे खला न च सुखान्य् अविघ्नानि ॥१६२॥

मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भल्लैः । नास्त्य् एव तच्चन्दनपादपस्य यन् नाश्रितं दुष्टतरैश्च हिंस्रैः ॥१६३॥

अयं तावत् स्वामी वाचि मधुरो विषहृदयो ज्ञातः । यतः दूराद् उच्छ्रितपाणिराद्रनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः ।

अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः को नामायम् अपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥१६४॥

तथा हि पोतो दुस्तरवारिराशितरणे दीपोन्धकारागमे निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः ।

इत्थं तद् भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥१६५॥

संजीवकः पुनर्निःश्वस्य्कष्टं भोः ! कथम् अहं सस्यभक्षकः सिंहेन निपातयितव्यः यतः

ययोरेव समं वित्तं ययोरेव समं बलम् । तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥१६६॥

अयुद्धे हि यदा पश्येन् न काञ्चिद् हितम् आत्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥१७०॥

अपरं च् भूम्य्एकदेशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः । भृत्यप्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥१७७॥

दमनको ब्रूतेस्वामिन् ! कोयं नूतनो न्यायो यद् अरातिं हत्वा सन्तापः क्रियते तथा चोक्तम्

पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् । प्राणच्छेदकरा राज्ञा हन्तव्या भूतिम् इच्छता ॥१७८॥

अपि च् धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् । नहि हस्तस्थम् अप्यन्नं क्षमावान् भक्षितुं क्षमः ॥१७९॥

किं च् क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥१८०॥

अपरं च् राज्यलोभाद् अहङ्काराद् इच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥१८१॥

अन्यच्च राजा घृणी ब्राह्मणः सर्वभक्षी स्त्री चावज्ञा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपोधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति ॥१८२॥

विशेषतश्च् सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुररत्नधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥१८३॥

इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्टमनाः विजयतां महाराजः शुभम् अस्तु सर्वजगताम् इत्य् उक्त्वा यथासुखम् अवस्थितः । विष्णुशर्मोवाच्सुहृद्भेदः श्रुतस्तावद् भवद्भिः ।

राजपुत्रा ऊचुःभवत्प्रसादाच् छ्रुतः । सुखिनो भूता वयम् । विष्णुशर्माब्रवीत्परम् अपीदम् अस्तु सुहृद्भेदस्तावद् भवतु भवतां शत्रुनिलये खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्अहः ।

जनो नित्यं भूयात् सकलसुखसम्पत्तिवसतिः कथारम्भे रम्भ्ये सततम् इह बालोपि रमताम् ॥१८४॥

इति हितोपदेशे सुहृद्भेदो नाम द्वितीयः कथासङ्ग्रहः समाप्तः

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_१३&oldid=23534" इत्यस्माद् प्रतिप्राप्तम्