गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः १०

← अध्यायः ०९ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →

।। अथ दशमोऽध्यायः ।।
भृगुरुवाच ।।
नारायणांश संभूतः पाराशर्योमहामुनिः ।
अतीतानागत ज्ञानी वेदशास्त्रार्थतत्ववित् ।।१।।
कृत्वा वेदं चतुर्भागं तदर्थ ज्ञानसिद्धये ।
स्वविद्यामदगर्वेणं पुराणं कर्तुमारभत् ।।२।।
समाप्ति साधनं नैव कृतवान् मङ्गलं पुरा ।
गणेशस्य नतिं वापि स्तुतिं वा तस्य वा क्वचित् ।।३।।
ततोविघ्नाभिभूतः सन्नर्थं कंचननास्मरत् ।
भ्रान्तिरेवा भवत्तस्य लौकिकेऽलौकिकेपथि ।।४।।
नित्यनैमित्तिकेकाम्येश्रौतेस्मार्ते च कर्मणि ।
व्याख्यातुर्वेदशास्त्राणां सर्वज्ञस्य स तेपि च ।।५।।
औषधीभिश्च मन्त्रैश्च भग्नवीर्यइवाहिराट् ।
तस्तं भेस्वात्मनिभृशं तद्धेतुं नाभ्यगच्छत ।।६।।
ततोगच्छत्सत्यलोकं धातारं प्रष्टुमादरात् ।
विस्मयाक्रान्तहृदयो ह्रीणः पाराशरो मुनिः ।।७।।
नमस्कृत्वा देवगणान्देवर्षीन् कमलासनम् ।
पूजितो ब्रह्मणादत्ते निषसादासने शुभे ।।८।।
पाणिनाचास्पृशत्पादौ पाराशर्यो महामुनिः ।
प्रणयावनतो भूत्वा ब्रह्माणं प्रष्टुमारभत् ।।९।।
व्यास उवाच ।।
ब्रह्मन्नद्भुत मे तद्धि किं मे दैवादुपस्थितम् ।
वेदार्थानि पुराणानि कर्तुं मे बुद्धिरादृता ।।१०।।
आवीक्षतोखिलाँल्लोकान् ज्ञानाचार विवर्जितान् ।
कलौकर्मजडांस्तब्धान् नास्तिकान् वेदनिन्दकान् ।।११।।
विधिं चैव निषेधं च ज्ञास्यन्ति मम वाक्यतः ।
ममैवतुगतं ज्ञानं भ्रान्तः क्षीबइवाभवम् ।।१२।।
नहेतुं तत्र पश्यामि स्फूर्तिः कापि न जायते ।
तद्धेतुं स्फूर्तिहेतुं च प्रष्टुं त्वामहमागतः ।।१३।।
अन्यं कं शरणं यामि विना त्वां चतुरानन ।
सर्वज्ञः सर्वकर्ता त्वं मम भ्रान्तिं निवारय ।।१४।।
वदहेतुं मम भ्रान्तेर्नारायणस्वरूपिणः ।
नित्याचारवतोब्रह्मन् सर्वज्ञस्य सतोपि च ।।१५।।
सूत उवाच ।।
एवमाकर्ण्य तद्वाक्यं विचार्य कमलासनः ।
प्रणतं मुनिमभ्याह प्रहसन् विस्मयन्निव ।।१६।।
ब्रह्मोवाच ।।
हंत ते कथयिष्यामि गतिं सूक्ष्मां हि कर्मणाम् ।
विचार्य म्यक्कर्तव्यं कर्मसाध्वितरच्चयत् ।।१७।।
अन्यथा कुर्वतः पुंसः कृतं भवति चान्यथा ।
बुद्ध्यायुक्त्यार्जवेनापि गुरूणि च लघूनि च ।।१८।।
कार्याणि साधयेद्धीमान् न गर्वान् न च मत्सरात् ।
वाहन त्वं समापन्नो गर्वेण तु खगेश्वरः ।।१९।।
मत्सरान् नाशितं सर्वं आबिकेय सुतेन च ।
मत्सरादेव रामेण क्षत्रमुत्सादितं पुरा ।।२०।।
योनादि निधनोदेवो जगत्कर्ता जगन्मयः ।
जगद्धाता जगद्धर्ता सदसद्व्यक्तमव्ययम् ।।२१।।
यो कर्तुमन्यथाकर्तुं शक्तः कर्तुं च सर्वदा ।
यस्याज्ञा वशगा नित्यं देवा इन्द्रपुरोगमाः ।।२२।।
अहं विष्णुश्च रुद्रश्च सूर्याग्निवरुणादयः ।
यो विघ्नहर्ता भक्तानां विघ्नकर्तेतरस्य च ।।२३।।
तस्मिंस्त्वं कृतवान् गर्वं स्वविद्याबलसंश्रयात् ।
सर्वज्ञताभिमानेन न कृतं पूजनं त्वया ।।२४।।
स्मरणं वा गणेशस्य प्रारम्भेन्यस्य वा तथा ।
न कृतं च त्वया व्यास तेन भ्रान्तिस्तवानघ ।।२५।।
आरम्भे सर्वकार्याणां प्रवेशे वापि निर्गमे ।
श्रौतेस्मार्त्तेलौकिकेयोस्मृतोविघ्नं करोति च ।।२६।।
यमाहुः परमानन्दं यमाहुः परमां गतिम् ।
यमाहुः परमं ब्रह्म वेदशास्त्रार्थदर्शिनः ।।
तं गच्छ शरणं वत्स द्विरदाननमादरात् ।।२७।।
स चेत्प्रसन्ने भगवान् वाञ्छितं ते करिष्यति ।
नोचेद्वर्षसहस्रेण न स्ववाञ्छामवाप्स्यति ।।२८।।
व्यास उवाच ।।
को सौ गणेशः किं चास्य रूपं वेद्यं कथं च तत् ।
कस्य वायं प्रसन्नोभूत्पूर्वं हि चतुरानन ।।२९।।
कतिवाह्यवताराश्च किं किं कार्यं च वै कृतम् ।
पूर्वं च पूजितः केन कस्मिन् काले स्मृतोपि च ।।३०।।
मम विक्षिप्त चित्तस्य पृच्छतः प्रपितामह ।
एतत्सर्वं सुविस्तार्य ब्रूहि मे करुणानिधे ।।३१।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे व्यासप्रश्नवर्णनं नाम दशमोऽध्यायः ।।१०।।