प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः १२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १४ →

अथ वक्ष्ये विशेषेण तोरणानां तु लक्षणम् ।

पादोदये दशांशे तु सप्तांशं चरणोदयम् ॥ १ ॥


शेषं च गुणभागं तु झषमानमुदाहृतम् ।

नवांशे पादतुंगं तु षडंशं चरणायतम् ॥ २ ॥


शेषं झषोदयं ख्यातं अष्टांशे वांघ्रितुंगकम् ।

पंचांशं चरणोत्तुंगं झषोत्सेधं गुणांशकम् ॥ ३ ॥


तुंगार्धं विपुलं वाथ वेदभूतरसांघ्रिकैः ।

तोरणस्यैव पाद्बाह्ये व्यासमेवं चतुर्विधम् ॥ ४ ॥


प्रासादमण्टपादीनां मध्यभागे तु तोरणम् ।

अनेन विधिना वापि कर्तव्यं भित्तिबाह्यके ॥ ५ ॥


पत्राख्यतोरणं चादौ द्वितीयं मकरतोरणम् ।

तृतीयं चित्रसंज्ञा तु त्रिविधं तोरणाकृतिः ॥ ६ ॥


अर्धचन्द्रमिवाकारं पत्रजादिविराजितम् ।

पत्रतोरणमाख्यातं ततोमकरमुच्यते ॥ ७ ॥


पंचवक्त्रसमायुक्तं पार्श्वयोर्मकरास्यकम् ।

मध्ये पूरीससंयुक्तं नानाविधलतान्वितम् ॥ ८ ॥


नानालंकारसंयुक्तं युक्तं मकर तोरणम् ।

तदेव पार्श्वयोर्मध्ये पुरीमस्य द्वयोरपि ॥ ९ ॥


नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्यकम् ।

सिंहेभव्यालहंसाद्यैः पालास्रं मुक्तदामकैः ॥ १० ॥


अन्यैश्च विविधैश्चित्रैः रत्नबन्धैश्च भूषितम् ।

चित्रतोरणमेतत्स्यात् प्रोच्यते तोरणत्रयम् ॥ ११ ॥


तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः ।

पादोच्चं पंचषट्सप्तभागेद्वौ तोरणाग्रकम् ॥ १२ ॥


शेषं पादोदयं ख्यातं एवं चित्रमिदं भवेत् ।

चतुराश्राष्टकं वापि वृत्तं वा तोरणांघ्रिकम् ॥ १३ ॥


कुंभमंड्यादिसंयुक्तं बोधिकारहितं तु वा ।

बोधिका सहितं वापि वीरकाण्डसमन्वितम् ॥ १४ ॥


कुड्यस्तंभविशालार्धं त्रिपादं वा समं तु वा ।

तोरणांघ्रिविशालं तु प्रोच्यते द्विजसत्तम ! ॥ १५ ॥


उत्तरं वाजनं साब्जक्षेपणं कुद्रवाजनम् ।

यथाक्रमेण संकल्प्य अनेन विधिना बुधः ॥ १६ ॥


तोरणांघ्रि विशालं वा त्रिपादं वोत्तरोदयम् ।

तदर्धं वाजनोच्चं तु तस्यार्धं दलमानकम् ॥ १७ ॥


दलोर्ध्वक्षेपणं ख्यातं तस्यार्धं क्षुद्रवाजनम् ।

उत्तरं बोधिकोर्ध्वे वा वीरकाण्डे तु वा भवेत् ॥ १८ ॥


उत्संध्यं तन्नताग्रेण कुर्यान्मकरविष्ठरम् ।

तोरणाग्रविशालं तु कुड्यस्तंभोदयार्धकम् ॥ १९ ॥


कुड्यस्तंभद्वयोरन्तर्व्यासं वा तोरणाग्रकम् ।

अंघ्रिवेत्रावसानं वा तस्माद्दण्डाधिकं तु वा ॥ २० ॥


एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम् ।

कुड्यतोरणमाख्यातं द्वारतोरणमुच्यते ॥ २१ ॥


द्वारतुल्योन्नतं व्यासं तोरणांघ्र्यन्तरं समम् ।

उत्तरं वाजनं चाब्जक्षेपणं चाष्टमंगलम् ॥ २२ ॥


फलका पंचवक्त्राढ्यं प्रागुक्त विधिना कुरु ।

पत्राख्यं मकराख्यं वा चित्रतोरणमेव वा ॥ २३ ॥


मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम् ।

दर्पणं पूर्णकुंभं च वृषभं युग्मचामरम् ॥ २४ ॥


श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् ।

श्रीवत्सं मध्यमे कुर्यात् शेषास्तु तस्य पार्श्वयोः ॥ २५ ॥


लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम् ।

द्वारतोरणमेवं हि स्तंभतोरणमुच्यते ॥ २६ ॥


पादोच्चं तु त्रिधाभज्य द्विभागं चरणोदयम् ।

पादं सर्वांगसंयुक्तं बोधिकारहितं कुरु ॥ २७ ॥


उत्तरं वाजनं चाब्जक्षेपणं निम्नवाजनम् ।

तदूर्ध्वे झषखण्डं तु नानाचित्रैर्विचित्रितम् ॥ २८ ॥


तोरणं मकराख्यं तु मृणाभ्ये द्विक्रकन्धरम् ।

द्युडानलात्मसंयुक्तं एतत्स्यात्स्तंभतोरणम् ॥ २९ ॥


पादान्तरे वा हारायां कर्णप्रासादमध्यमे ।

शालामध्यान्तरालायां कर्तव्यं सर्वधामसु ॥ ३० ॥


स्तम्भतोरणमाख्यातं कुंभलता विधिं शृणु ।


इत्यंशुमान्काश्यपे तोरणलक्षणपटलः (त्रयोदश) ॥ १३ ॥