विकिस्रोतः:सामान्यं प्रत्याख्यानम्
समयस्य मूल्यम्
समयस्य वर्तमानयुगे अतीव महत्वमस्ति।य: कार्यं न करोति स: पश्चात् दु:खसागरे पतति। संसारे सर्वेषां चेतनेष्वचेतनानां कृते समय: परमावश्यक:भवत्येव। यथा वृक्षा:समये एव फलानि पुष्पानि च दादाति। किमपि कार्यं समये एव भवति। वयम् अनुचिते काले किमपि कार्यं कुर्म: तदा तस्य: परिणाम: हानिकारक: एव भवति। समयस्य वाहनं कर्तव्यपथे सर्वदा सञ्चरति। ये समयस्य दुरुपयोगं कुर्वंति ते समयवाहनतः अध:पतित्वा स्वकीयं दुर्लभ मानुषजीवनं नश्यन्ति। अत: ये समयस्य महत्वम् सर्वदा मनसि ध्यातव्यमेव। ये सर्वं कार्यं समये आरंभं कुर्वंन्ति, समये एव समापयन्ति, ते जीवने कदापि दु:खं न अनुभवन्ति ।
शिक्षकानां समय: बहुमूल्यमस्ति, यतोहि बहुधनं स्वीकृत्य समयस्य उपयोगं कुर्वंन्ति। छात्राणां समय: अमूल्य: अस्ति। छात्रजीवनस्य एकैकं क्षणमपि अमूल्यं भवति। धनै:, रुप्यकै:,वा तेषां समयस्य तुलनां नैव भवितुं शक्नोति।अत: छात्रै: स्वजीवनं प्रतिक्षणं स्मर्तव्यम्,उपयोक्तव्यम् एवं। वर्गे एकस्मिन् समये एव शिक्षक: सर्वान् छात्रान् पाठ्यति। तत्र कोऽपि छात्र: परीक्षायाम् अनुत्तीर्ण: भवति, कोऽपि प्रथमश्रेण्यां प्रथम: भवति। सर्वेषां कृते चतुर्विंशति: घंटा एवं अहर्निशम् आहत्य मिलन्ति। ये समयस्य योजनां कृत्वा पठन्ति,ते उत्तमा: भवन्ति।ये च समयम् एवमेव यापयन्ति, ते अनुत्तमा:, असफला: च भवन्ति। अतः अस्माभि:समयस्य उपयोग:कर्तव्य:।
“अनन्तशास्त्रं बहुलाश्च विद्या अल्पश्चकालो बहुविघ्नता च। यत्सारभूतं तदुपासनीयं हंसोयथा क्षीरमिवाम्बुमध्यात्।।“
अत एव उच्यते “समयो रक्षति रक्षित:”।यदा वयं समयस्य रक्षाम् अर्थात् पालनं कुर्म: तदा समय: अपि अस्मान् रक्षति एवं मधुरं सफलताफलमं दादात्येव।