प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अंशुमत्काश्यपागमः/त्रिपुरान्तकमूर्तिलक्षणपटलः ७०

← पटलः ६९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ७१ →


त्रिपुरान्तकमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
त्रिचतुष्पंचमात्रं स्यात् नतमानं यथाक्रमम् ॥ १ ॥

आभंगं समभंगं चाप्यति भंगमिति त्रिधा ।
प्रतिमोच्चं नतं तुंगं भंगमानं हि कल्पयेत् ॥ २ ॥

पादांगुष्ठ द्वयोश्चैव त्वन्तरं षोडशांगुलम् ।
आभंगं तद्विजानीयात् अष्टादशांगुलं समम् ॥ ३ ॥

विंशत्यंगुलमाख्यातं अतिभंगमिति त्रिधा ।
तत्त्रिभागैकभागं तु पार्ष्ण्योश्च त्वन्तरं भवेत् ॥ ४ ॥

उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ।
हनोर्वामे समालंब्य दक्षिणस्तन वामके ॥ ५ ॥

नाभेर्दक्षिणपार्श्वे तु वामोरुः सव्यपार्श्वके ।
दक्षिणांघ्रौ तु पार्ष्ण्योस्तु वामपार्श्वे तु लम्बयेत् ॥ ६ ॥

आभंगसूत्रमाख्यातं समभंगमथ शृणु ।
ललाटं मध्यनासाग्रं पादयोः पार्ष्णिमध्यमे ॥ ७ ॥

लम्बयेत्पूर्वसूत्रं तु अन्तरं तु वदाम्यहम् ।
तत्सूत्राद्वामपार्श्वे तु हिक्कामध्यं शिवांगुलम् ॥ ८ ॥

अर्धांगुलं तु तत्सूत्रात् वामे हृदयमध्यमम् ।
तत्सूत्राद्दक्षिणे नाभिमध्यमं तु द्वियंगुलम् ॥ ९ ॥

तत्सूत्राद्दक्षिणे चैवमग्रं चैव युगांगुलम् ।
तत्सूत्राद्वामगोजानोरन्तरं द्वादशं यवम् ॥ १० ॥

समभंगमिति ख्यातं अतिभंगमथ शृणु ।
उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ॥ ११ ॥

दक्षिणस्तन मध्ये तु तत्सूत्रं तु गुणांगुलम् ।
नाभिमध्यात्तु वामे तु सूत्रनीव्रं द्वयंगुलम् ॥ १२ ॥

तत्सूत्राद्वामजान्वन्तं मध्यमं त्रिविधीयते ।
वामांघ्रिपार्ष्णिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् ॥ १३ ॥

स्पर्शनं वेशनं नीव्रं समपादस्थानकोक्त च ।
एवं त्रिभंगसूत्रेषु संमिश्रं तु न कारयेत् ॥ १४ ॥

उत्तमं त्वतिभंगं स्यात् मध्यमं समभंगकम् ।
आभंगमधमं ख्यातं त्रिपुरान्तकमूर्तिनः ॥ १५ ॥

दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् ।
दक्षिणे पूर्वहस्तोर्ध्वं नाभिसूत्रावसानकम् ॥ १६ ॥

सिंहकर्णं तु तद्धस्तं पाणिमध्यं तु पीडितम् ।
बाणायामं सप्तविंशत्यंगुलं तु विधीयते ॥ १७ ॥

कनिष्ठांगुलि परीणाहं देवेशस्य करे तु तत् ।
आस्यं पंचांगुलं व्यासं मात्रोच्चं व्याससादृशम् ॥ १८ ॥

आस्यतुंगसमं पुच्छं अग्न्यंगुलं तदायतम् ।
वामहस्ते धनुर्धृत्वा कक्षान्तं तत्करोर्ध्वकम् ॥ १९ ॥

एकद्वित्र्यंगुलं वापि तस्य नेत्रोद्धृतं तु वा ।
विंशदंगुलतुंगं त्रिः पंचसप्तनवांगुलम् ॥ २० ॥

हीनं वाप्यधिकं वापि नवधा धनुषायुधम् ।
पूर्णमुष्टिस्तु नाहं स्यान्मध्यादग्रं क्रमात्कृशम् ॥ २१ ॥

अग्रमध्यांगुलं व्यासं वृत्तं वर्णैर्विचित्रितम् ।
बाणनाहं त्रिभागैकं रज्जुनाहं तु तन्तुना ॥ २२ ॥

धनोर्दार्घैकभागे तु सप्तांशं रज्जुदैर्घ्यकम् ।
तद्दीर्घस्यानुकूल्यं तु धनोर्वक्रमुदाहृतम् ॥ २३ ॥

त्रिवक्रसहितं वाथ बालचन्द्राभमेव च ।
धनुषाकृतिरेव स्यात् लोहजं दारुजं तथा ॥ २४ ॥

कर्तरी परहस्तौ द्वौ टंककृष्णमृगान्वितौ ।
टंकं दक्षिण हस्ते तु वामहस्ते मृगं धृतम् ॥ २५ ॥

जटामकुटसंयुक्तं सर्वाभरणभूषितम् ।
प्रवालसदृशप्रख्यं वामे गौरीसमन्वितम् ॥ २६ ॥

त्रिपुरान्तकमूर्तेस्तु प्रथमं लक्षणं त्विदम् ।
तदेव वामपादं तु अपस्मारोपरिस्थितम् ॥ २७ ॥

शेषं प्रागिव कर्तव्यं द्वितीयं लक्षणं भवेत् ।
सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् ॥ २८ ॥

शेषं प्रागिव कर्तव्यं सूत्रं चितिरपार्श्वकम् ।
तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु ॥ २९ ॥

तदेव वामपादं तु अपस्मारोपरिस्थितम् ।
प्रागिवैव विशेषं तु चतुर्थं लक्षणं तु वा ॥ ३० ॥

कटके बाणधरे हस्ते मध्यरेखा कलांगुलम् ।
तिथ्यंशं मनुमात्रं वा त्रयोदशांगुलमेव वा ॥ ३१ ॥

भानुरुद्रांगुलं वाथ अन्तरं षड्विधं भवेत् ।
तत्करे कोर्परं नीव्रं श्रोणिपार्श्वे तथा भवेत् ॥ ८२ ॥

कक्षाद्धनुर्धरे हस्ते मणिबन्धान्तरं तथा ।
तत्करे कोर्परोद्धृत्यं हृदयान्तमुदाहृतम् ॥ ३३ ॥

एकद्वित्रिचतुष्पंचमात्रं तस्मात्तदन्तु वा ।
सर्वेषामपि सामान्यप्यन्तरं कथितं मया ॥ ३४ ॥

तदेव पूर्वहस्तौ द्वौ कटको हृदि सीमके ।
वामदक्षिणहस्तं च क्रमादूर्ध्वमधोमुखम् ॥ ३५ ॥

बाणमूलधृतं सव्यं वामबाणासनोद्धृतम् ।
परहस्ते दक्षिणे टंकं धनुश्चैव तु वामके ॥ ३६ ॥

तद्धस्ते तु मृगं वाथ वामे गौरीसमन्वितम् ।
अपस्मारं विना पादं नतं सूत्रं च प्रागिव ॥ ३७ ॥

एवं चतुर्भुजोपेतं मूर्तं पंचविधं भवेत् ।
अतिभंगसमोपेतं अष्टहस्तसमन्वितम् ॥ ३८ ॥

बाणं च परशुं खड्गं अभयं दक्षिणे करे ।
धनुर्विस्मयहस्तं च खेटकं कटकं तथा ॥ ३९ ॥

वामहस्ते समाख्यातं पूर्वसूत्रात् करान्तकम् ।
यथा शोभनतुंगं वा कल्पयेद्गौरिसंयुतम् ॥ ४० ॥

षष्ठमेवं समाख्यातं सप्तमं दशदोर्युतम् ।
बाणं चक्रं तथा शूलं टंकं वज्रं च दक्षिणे ॥ ४१ ॥

धनुश्शंखं तथा सूचिविस्मयं खेटकं तथा ।
वामे पंचकरे ख्यातं अतिभंगमथोपरि ॥ ४२ ॥

तदेव दक्षिणं जानुं रथस्याधो निधापयेत् ।
तत्पूर्वे वामपादं तु तलं न्यस्त्वा रंथोपरि ॥ ४३ ॥

रथं तु मुकुलोपेतं मुकुलं रज्जुना वृतम् ।
मुकुलाभ्यन्तरे ब्रह्मा चतुर्वक्त्रश्चतुर्भुजः ॥ ४४ ॥

तस्य दक्षिण हस्तौ द्वौ वेणुदण्डकमण्डलुम् ।
कुण्डिकं पद्मपाशं च वामहस्तद्वये धृतम् ॥ ४५ ॥

रथस्य मुकुला धस्ताद् वृषभं श्वेतवर्णकम् ।
रथं त्वापन्नमार्गेण कल्पयेत्कल्पवित्तमः ॥ ४६ ॥

त्रिपुरान्तकमाख्यातं अष्टभेदं द्विजोत्तम ! ।
प्रवालसदृशं वर्णं सत्वराजसमाश्रितम् ॥ ४७ ॥

सर्वाभरणसंयुक्तं एकवक्त्रं त्रिणेत्रकम् ।
तस्य वामेऽप्युमा देवीं प्रागुक्तविधिना कुरु ॥ ४८ ॥


इत्यंशुमान्काश्यपे त्रिपुरान्तकमूर्तिलक्षणपटलः (सप्ततितमः) ॥ ७० ॥