अंशुमत्काश्यपागमः/दक्षिणामूर्तिलक्षणपटलः ७९

← पटलः ७८ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८० →



अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम् ।
लम्बितं दक्षिणं पादं वामांघ्रेर्नलकाग्रकम् ॥ १ ॥

सव्योर्वग्रे निधातव्यं वामपादं तु शाययेत् ।
ललाटदक्षिणे सव्ये नेत्रान्ते तत्पुटान्तके ॥ २ ॥

हिक्कामध्यस्य वामे तु हृदयं मध्यवामके ।
यवत्रयान्तरं नीत्वा लम्ब्य वामे तु मध्यमे ॥ ३ ॥

मेढ्रमूलस्य मध्यात्तु पूर्वसूत्रं प्रलम्बयेत् ।
नत मध्यर्धमात्रं स्यात् चतुर्भुजसमन्वितम् ॥ ४ ॥

दक्षिणे पूर्वहस्तं तु ज्ञानमुद्रां तु कारयेत् ।
दक्षिणे परहस्तं तु अक्षमालासमन्वितम् ॥ ५ ॥

वरदं वामहस्तं स्यात् दण्डहस्तमथापि वा ।
वामजानूपरिष्टात्तु वरदे तलपृष्ठकम् ॥ ६ ॥

वामजानूपरिष्टात्तु दण्डं चेत्कोर्परं न्यसेत् ।
वामे त्वपरहस्ते तु वह्निं वा व्यालमेव वा ॥ ७ ॥

अत्यर्जुवक्त्रं सर्वांगं मार्दवं स्फटिकावटम् ।
सुकीर्णमूर्धांगं वापि जटामण्डलमेव वा ॥ ८ ॥

वामे धूर्धूरनागं च दक्षिणेऽर्धेन्दुशेखरम् ।
हसितं वक्त्रसंयुक्तं सर्वाभरणभूषितम् ॥ ९ ॥

सितवस्त्रोत्तरीयं च सितयज्ञोपवीतकम् ।
त्रिणेत्रं शंखपत्रं तु वामे सर्वं तु कुण्डलम् ॥ १० ॥

कर्णौ द्वौ शंख पत्रं वा कुण्डलं वाथ मण्डितम् ।
रुद्राक्षैः कण्ठमाला च भस्मना च विभूषितम् ॥ ११ ॥

व्याघ्रचर्माम्बरोपेतं सर्वक्लेश विवर्ज्तम् ।
नारदो जमदग्निश्च वसिष्ठो भृगु दक्षिणे ॥ १२ ॥

भारद्वाजः शोनकश्च अगस्त्यो वामपार्श्वके ।
नान्दिना किंनराद्यैश्च वटवृक्षसमुद्गृहम् ॥ १३ ॥

अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत् ।
सूत्रात्पादजंघापार्ष्ण्यन्तं त्रिवेदमनुमात्रकम् ॥ १४ ॥

सूत्रात्तत्पादजान्वोस्तु अन्तरं मनुमात्रकम् ।
श्यामवर्णमपस्मारं नागलीलासमन्वितम् ॥ १५ ॥

धर्मव्याख्यानमूर्त्येवं कल्पयेत्कल्पवित्तमः ।
तदेव वामपादेन कुटीकासनसंयुतम् ॥ १६ ॥

पूर्वहस्तद्वये वीणाधृतो वै तु द्विजोत्तम ! ।
शेषं प्रागिव कर्तव्यं एतद्वीणाकरं भवेत् ॥ १७ ॥

तदेव वीणाहीनं तु ज्ञानमुद्राभयान्वितम् ।
वामं प्रसारितं हस्तं वामजानुर्ध्वकोपरि ॥ १८ ॥

दक्षिणे ह्यपरे चाक्षमाला वामेब्जवोत्पलम् ।
शुद्धश्वेतनिभं वर्णं शेषं पूर्ववदाचरेत् ॥ १९ ॥

ज्ञानमूर्तिरिति ख्यातं सर्वकारणकारणम् ।
अन्योन्यांघ्रितलं विप्र ! स्फिक् पिण्डाधः प्रकल्पयेत् ॥ २० ॥

ज्ञानमुद्राहृदस्थाने भ्यन्तरमुखं करम् ।
वरदं वामहस्तं तु मेढ्रपीठोपरिन्यसेत् ॥ २१ ॥

अपरे दक्षिणे वाब्जमालाक्षं वामहस्तके ।
नासाग्रं तु समीश्चक्ष्याक्षवार्जवं सूत्रदेहके ॥ २२ ।

अपरे तु जटालं स्यात् ऋषिभिस्सेवितं वरम् ।
योगमूर्तिरिति ख्यातं सर्वपापहरं परम् ॥ २३ ॥

एवं चानेकभेदेन दक्षिणामूर्तिरुच्यते ।


इत्यंशुमान्काश्यपे दक्षिणामूर्तिलक्षणपटलः (एकोनाशीतितमः) ॥ ७९ ॥