प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः २३ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २५ →


अथ वक्ष्ये विशेषेण आयादिलक्षणं परम् ।
हर्म्यविस्तारहस्तं तु गुणवृद्ध्यावसुभिर्हरेत् ॥ १ ॥

शेषं ध्वजादि योनिः स्यात् उत्सेधं तु करं बुधः ।
वर्धयेद्वसुभिर्ह्रासे नक्षत्रेणाहयादिभम् ॥ २ ॥

नववृद्धिं परितो हस्तं पातालैस्त्रासयेद्बुधः ।
शेषमर्कादिवारं स्यात् व्यासायामकरं गुणैः ॥ ३ ॥

वर्धयेत्त्रिंशतिर्ह्रासे शेषं प्रतिपदोदयः ।
तिथयस्तु समाख्याता तुंगहस्ताष्ट वृद्धितौ ॥ ४ ॥

नागरादि विमानानां लक्षणं वक्ष्यतेऽधुना ।
हिमाद्रिकन्ययोरन्त * तो देशमुदाहृतम् ॥ १ ॥

सोऽपि देशं त्रिधाभिन्नं तत्तद्देशोद्भवै गुणः ।
यथैव देहिनां देवं हं वातपित्तकफात्मकम् ॥ २ ॥

तथैव दण्डवत्सर्वं यज्ञेयं त्रिगुणात्मकम् ।
सात्विकं तामसं चैव राजसं च त्रिधा स्मृताः ॥ ३ ॥

हिमद्रि सिद्धयोरन्तर्गता तस्मात्सात्विका धराः ।
सिद्धादि कृष्णवर्णान्तं तामसाख्यं महीतलम् ॥ ४ ॥

कृष्णवर्णादिकन्यान्तं राजसं भूतलं भवेत् ।
नागरं सात्विकं देशं तामसं वेसरं तथा ॥ ५ ॥

राजसं द्राविडं देशं क्रमशः परिकीर्तिताः ।
सात्विकं नागरं हर्म्यं तामसं वेसरालयम् ॥ ६ ॥

राजसं द्राविडं हर्म्यं क्रमात्पुंषण्डयोषितः ।
विष्णुर्महेश्वरो धाता क्रमाद्धर्म्याधिदेवताः ॥ ७ ॥

नागरं भूसुरं विद्यात् वेसरं वैश्यमुच्यते ।
द्राविडं तु नृपो ज्ञेयो आकृतिं शृणु सुव्रत ! ॥ ८ ॥

कूटकोष्ठादि निष्क्रान्ति मानसूत्रे तु संस्थिताः ।
उन्नतावनतोपेतौ कूटकोष्ठौ यथा क्रमम् ॥ ९ ॥

एकानेकतलस्तंभं पत्रतोरणसंयुतम् ।
क्षुद्रकोष्ठसमायुक्तं महानास्यपरे द्विज ! ॥ १० ॥

वेदिकाजालकोपेतं कूटं वेदाश्रशीर्षकम् ।
एकानेकतलं वापि सालिन्दं वा विहीनकम् ॥ ११ ॥

देवाग्रशीर्षकं कण्ठं शालाकारमथापि वा ।
नागरं भवनं ख्यातं तद्देशं तु प्रकल्पितम् ॥ १२ ॥

प्राग्वत्कूटादि निष्क्रान्तं कोष्ठं कूटाद्गतं तु वा ।
मानसूत्राद्बहिः कूटं नीव्रं कूटं तु कोष्ठकम् ॥ १३ ॥

मध्यकोष्ठं सभद्रं वा विभद्रं वा द्विजोत्तम ! ।
पंजरं मानसूत्रे वा कूटनिष्क्रान्त सादृशम् ॥ १४ ॥

उन्नतावनता शाला सौष्ठिकोष्ठं यथाक्रमम् ।
उन्नतं सान्तरं मंच तत प्रस्तरहीनकम् ॥ १५ ॥

चतुरश्राष्ट वृत्ताभं तले तले सौष्टिकं क्रमात् ।
नानामसूरकस्तंभे वेदिकाजालक तोरणैः ॥ १६ ॥

वृत्ताख्य स्फुटितैर्हस्ति कु(तु)ण्डे कुंभलतादिभिः ।
हारान्तरेषु मंचोर्ध्वे क्षुद्रकोष्ठयुतं तु वा ॥ १७ ॥

तत्रैव हस्ति कु(तु)ण्डं वा भद्रनास्यल्प एव वा ।
साधारं वा निराधारं एकानेकतलं तु वा ॥ १८ ॥

शिरसो वर्तनं कण्ठं वृत्तं वाष्टाश्रमेव वा ।
युगाश्रं वा शिरश्छन्दं विमानं द्राविडं भवेत् ॥ १९ ॥

तदेव चरणाधारं एकाकारेण कल्पयेत् ।
हारान्तरे विशेषेण कल्प्या वृत्तस्फुटादयः ॥ २० ॥

समौ तु कूटकोष्ठौ द्वौ सान्तरप्रस्तरान्वितौ ।
हीनौ वान्तरमंचौ द्वौ नीव्रं च समसूत्रकौ ॥ २१ ॥

हारान्तरेषु कर्तव्यं भद्रपंजरसंयुतम् ।
कपोतपंजरं मध्यं वा सान्तरप्रस्तरान्वितम् ॥ २२ ॥

सर्वेषां कर्णकूटानां शीर्षं तु च युगाश्रकम् ।
वस्वश्रं वेदिकोपेतं मण्डलं शीर्षकं गलम् ॥ २३ ॥

वस्वश्रं वा शिरः कण्ठं युगाश्रं वा प्रकल्पयेत् ।
एतच्च द्राविडं ख्यातं हेमादिकुड्मलं तथा ॥ २४ ॥

वस्वश्रं वा षडश्रं वा तच्च द्राविडमुच्यते ।
एवं त्रिविधं नीत्या सु प्रोच्यते द्राविडालयम् ॥ २५ ॥

वेसरे कूटकोष्ठादि नीव्रं स्यात् समसूत्रकम् ।
वृत्ताकारं शिरोपेतं कर्णकूटं प्रकल्पयेत् ॥ २६ ॥

वृत्तं गर्भगृहाकारं बाह्ये वृत्ताभमेव वा ।
वृत्तग्रीवशिरोपेतं यथेष्टशिखरेण वा ॥ २७ ॥

सालिन्दं वा सभद्रं वा ह्येकानेकतलं तु वा ।
समाश्रं सायताश्रं वा वृत्तं वृत्तायतं तु वा ॥ २८ ॥

द्व्यश्र वृत्तं तु वा हर्म्यं कूटकोष्ठादिभिर्युतम् ।
उन्नतावनतोपेतौ कूटकोष्ठौ यथाक्रमम् ॥ २९ ॥

समौ वा कुटकोष्ठौ वा बहुभूम्यैकमेव वा ।
वेसरं भवनं ख्यातं अथवान्यप्रकारतः ॥ ३० ॥

जन्मादिस्तूपिपर्यन्तं युगाश्रं नागरं भवेत् ।
वस्वश्रं शीर्षकं कण्ठं द्राविडं भवनं भवेत् ॥ ३१ ॥

वृत्तग्रीव शिरोपेतं वेसरं हर्म्यमीरितम् ।
कूटकोष्ठविहीनानां हर्म्याणां कथितास्त्विमे ॥ ३२ ॥

नानाधिष्ठानसंयुक्तं तलं प्रत्यंघ्रि भेदितम् ।
सर्वत्र वृत्त पादं वां वेसरे भवने कुरु ॥ ३३ ॥

लिंगं च पिण्डिकां चैव प्रासादं चैक जादिकम् ।
सर्वसंपत्समृद्धिः स्यात् नृपस्य वास्तुजन्मिनाम् ॥ ३४ ॥

विपरीते विपत्तिः स्यात् राजराष्ट्रभयंकरम् ।
तस्मात्सर्व प्रयत्नेन एकजात्येव माचरेत् ॥ ३५ ॥

नागरे सकलं शान्तं वेसरे यानमूर्तिनाम् ।
भोगवीरं च नृत्तं च द्राविडे भवने भवेत् ॥ ३६ ॥

अन्यथा चेद्विपत्तिः स्यात् कर्तुश्च भिक्षदेहिनाम् ।
नागरादि विधिः प्रोक्तः गर्भन्यासविधिं शृणु ॥ ३७ ॥

इत्यंशुमान्काश्यपे नागरादिविधिपटलः (चतुर्विंशः) ॥ २४ ॥