प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः २१ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २३ →


अथ वक्ष्ये विशेषेण प्रासादं मानलक्षणम् ।
प्रासादं सदनं सद्म हर्म्यं धाम निकेतनम् ॥ १ ॥

मन्दिरं भवनं व्यासं गेहं दिव्यविमानकम् ।
आस्पदं चाश्रयं चैव आधारं च मनोहरम् ॥ २ ॥

आशाममाव्रतं धिष्ण्यं एवं पर्याय वाचकाः ।
यस्मादणुपशो नास्ति परमाणुस्स उच्यते ॥ ३ ॥

अणवोष्टौ रथारेणुः स्यादथरेण्वष्टकं पिचुः ।
पिचूणामष्टको यास्तु केशाग्रमिति संज्ञितम् ॥ ४ ॥

बालानां तद्धिकेशं स्यात् अग्रं तद्वपनात्पुरा ।
तत्केशाग्राष्टकायास्तु लिख्यं तदुचदाहृतम् ॥ ५ ॥

लीख्याष्टकोस्तु यूकंस्या यूकाष्टकयवं भवेत् ।
यवमष्टगुणं मानं अंगुलं तदुदाहृतम् ॥ ६ ॥

सप्तसंख्यायवं तारं मध्यमांगुलमुच्यते ।
षट्संख्यायवतारं स्यात् अधमांगुलमितिस्मृतम् ॥ ७ ॥

शाल्यायामचतुष्कं तु उत्तमांगुलि संज्ञितम् ।
त्रिसार्धाशालिदीर्घं तु मध्यमा इति संज्ञिताः ॥ ८ ॥

शाल्या च दीर्घ त्रिगुणं अधमं तदुदाहृतम् ।
श्वेतशालीमहाशाली रक्तशाली तथैव च ॥ ९ ॥

सौगन्धी हेमशाली च शालयः पंचधा स्मृताः ।
रक्तशाल्यायतं तेषु अंगुलार्धं तु संगृहेत् ॥ १० ॥

एवं हि षड्विधं प्रोक्तं मानांगुलं द्विजोत्तम ।
चन्द्रस्थिवोऽवकाशं च व्योममेकांगुलाख्यकम् ॥ ११ ॥

अक्षिपक्षाश्विनी चैव द्वितीयांगुलिसंज्ञिताः ।
कालं चानलरुद्राक्षं शूलं चालेखनं गुणम् ॥ १२ ॥

तृतीयांगुलसंज्ञास्ते वेदाब्धीयुगवर्धकम् ।
चतुरंगुलिसंज्ञास्ते बाणं भूतेन्द्रियामृतम् ॥ १३ ॥

पंचांगुलस्य संज्ञास्ते ऋतुषट्कौशिकं च वै ।
रसगायत्रिकृत्तिका षडंगुलस्य संज्ञका ॥ १४ ॥

पातालमृषिधातुर्वा सप्तांगुलस्य संज्ञका ।
मातृलोकस्वराश्चैव सप्तांगुलाभिधायकः ॥ १५ ॥

हस्ति पर्वतनागाश्च वसवो मूर्तयस्तथा ।
अष्टांगुलस्य संज्ञास्ते शक्तिद्वार ग्रहास्तथा ॥ १६ ॥

सूत्रनन्दनवं नाट्यं बीजाश्चैव नवांगुलाः ।
नाडिकाष्ठायुधं धर्म दशांगुलस्य संज्ञकाः ॥ १७ ॥

ईशानश्चेश्वरो रुद्रस्त्वेकादशांगुलाख्याः ।
अब्दं भारं च भानुं च द्वादशांगुलसंज्ञकाः ॥ १८ ॥

चन्द्रादित्यशिवांशं च त्रयोदशांगुलाख्यकाः ।
ऋषिद्वयमनुश्चैव चतुर्दशांगुलाख्यकाः ॥ १९ ॥

पक्षश्चैव तिथिश्चैव पंचादशांगुलाः स्मृताः ।
कलामूर्तिद्वयं चैव षोडशांगुलसंज्ञकाः ॥ २० ॥

पंक्तिर्विंशति त्रिंशच्च चत्वारिंशत्तथैव च ।
पंचाशत्षष्टिसप्तत्याशीतिश्च नवतीशतम् ॥ २१ ॥

प्रत्ययस्त्रिषु षष्टिश्च जगती सुगतिस्तथा ।
शक्वरी सशक्वरी च तुष्टिपुष्टिधृतिस्तथा ॥ २२ ॥

सुधृती च दशाद्यादि शतान्तान्नाम गीयकम् ।
एकं दश शतं चैव सहस्रमयुतं तथा ॥ २३ ॥

नियुतं प्रयुतं कोटी सार्बुदं बृन्दखर्विनी ।
खर्वं च शंख पद्मं च समुद्रमध्यमं तरम् ॥ २४ ॥

आद्यं परं परार्धं च दशवृद्ध्या प्रकीर्तिताः ।
श्रेष्ठमध्यान्तरैर्वान्यैः तालं भान्वंगुलं भवेत् ॥ २५ ॥

भानुद्वयांगुलं किष्कु हस्तमित्युच्यते द्विज ! ।
श्रेष्ठमध्याधमैर्मात्रैः कल्प्य हस्तं तथोदितम् ॥ २६ ॥

चतुष्कं भवेद्दण्डं तेन वास्तुनिमापयेत् ।
पंचविंशति मात्रं स्यात् प्राजापत्यं करं बुधः ॥ २७ ॥

षट्विंशति धनुर्मुष्टिः सप्तविंशद्धौर्ग्रहम् ।
अष्टाविंशांगुलं प्राच्यं वैदेहं नवविंशतिः ॥ २८ ॥

वैपुल्यं त्रिंशदंगुल्यं एकत्रिंशत्प्रकीर्णतम् ।
एवमष्टविधं हस्तं प्रत्येकं द्विजसत्तम ! ॥ २९ ॥

अधमं मध्यमोत्कृष्ट भेदेनैवं द्वयं द्वयम् ।
धनुर्ग्रहप्रकीर्णाभ्यां द्विजानां गृहमारभेत् ॥ ३० ॥

वैपुल्यधौर्मुष्टिभ्यां क्षत्रियाणां गृहं कुरु ।
प्राजापत्यकरं चैव वैदेहं वैश्ययोग्यकम् ॥ ३१ ॥

किष्कुप्राच्यकरं चैव शूद्रजात्यर्हकं भवेत् ।
अधिकजात्यहं हस्तं हीनं तत्तद् विसर्जयेत् ॥ ३२ ॥

हीनजात्यर्हकं हस्तं अधिकानां शुभावहम् ।
सर्वेषामुदितं हस्तं मानं सद्मनि पूजितम् ॥ ३३ ॥

अन्याश्च सर्वदेवानां योग्यं सद्मनि मानयेत् ।
अथवा किक्षुहस्तं तु सर्वजात्यर्हकं भवेत् ॥ ३४ ॥

यानानि शयनानी च किक्षुहस्तेन मानयेत् ।
आरामोद्यानखादीनि प्राजापत्यकरेण तु ॥ ३५ ॥

धनुर्मुष्टिकरेणैव ग्रामादयस्तु मानयेत् ।
धनुर्ग्रहेण वाप्यादि नद्याध्वानं च मानयेत् ॥ ३६ ॥

सर्ववास्तुनि वा किक्षु हस्तेनैव द्विजोत्तम ! ।
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ ३७ ॥

नवपंक्तिकरान्तं तु आभासैकतलं भवेत् ।
एवमष्टविधं मानं युग्मायुग्मं चतुश्चतुः ॥ ३८ ॥

पंचषढस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
रुद्रभानुकरान्तं तु आभास द्वितकाऽष्टधा ॥ ३९ ॥

सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
तिथिकलाकरान्तं तु आभास त्रितलं दश ॥ ४० ॥

ग्रहकर्मसमारभ्य सप्ताष्टाधिकपंक्तयः ।
चतुष्पंचतलं वाथ युग्मायुग्मं च ते दश ॥ ४१ ॥

विस्तारं सप्तषट्पंच भागं कृत्वा द्विजोत्तम ! ।
रसभूतयुगांशं तु विस्तारा द्रोपयेत्क्रमात् ॥ ४२ ॥

विस्तारद्विगुणं चैव तस्मादष्टांशमाधिकम् ।
पंचधाभ्युदितं तुंगं आभासे सदने द्विज ! ॥ ४३ ॥

शान्तिकं पौष्टिकं चैव जयदं चाद्भुतं तथा ।
सार्वकामिकमित्येते अभिधानं क्रमाद्भवेत् ॥ ४४ ॥

हस्तश्चेते तु वृध्या वा अन्या वा पूर्णमाचरेत् ।
आभासं हर्म्यमाख्यातं विकल्पमधुना शृणु ॥ ४५ ॥

नवपंक्तिकरात्पंच षट्पंचाशत्करान्तकम् ।
द्विद्विहस्तविवृद्ध्या तु चतुर्विंशति संख्यया ॥ ४६ ॥

पंचभूमी समारभ्य यावदर्कतलं क्रमात् ।
अधमं मध्यमोत्कृष्टं त्रयोभेदतलं प्रति ॥ ४७ ॥

सप्ताष्टाधिकपंक्त्यादि त्रित्रिहस्तविवर्धनात् ।
षट्सप्ताष्टाधिकाशीत्यन्तं उच्चं प्रागिव संख्यया ॥ ४८ ॥

एवं विकल्पमाख्यातं छन्दमार्गमतःशृणु ।
त्रिचतुर्दशहस्तादि द्विद्विहस्त विवर्धनात् ॥ ४९ ॥

पंचषट्षष्टि हस्तानां व्यासं वै सप्तविंशतिः ।
वेदभूमिं समारभ्य भानुभूमावसानकम् ॥ १५० ॥

अधमं मध्यमोत्कृष्टं मानं स्यूर्वै तलं प्रति ।
सप्ताष्टदशहस्तादि त्रित्रिहस्तविवर्धनात् ॥ ५१ ॥

पंचषण्णवतिर्यावत् उच्चं प्रागिव संख्यया ।
अधमं मध्यमोत्कृष्टं तुंगभेदं तलं प्रति ॥ ५२ ॥

छन्दमेवं समाख्यातं जातिहर्म्यमतः शृणु ।
सप्ताष्टदशहस्तादि द्विद्विहस्तविवर्धनात् ॥ ५३ ॥

यावत्सप्ततिहस्तान्तं सप्तविंशति संख्यया ।
चतुर्भूमिसमारभ्य यावदर्कतलावधि ॥ ५४ ॥

तावद्विस्तारमाख्यातं उत्सेधं शृणु सुव्रत ! ।
एकद्वाविंशहस्तादि त्रित्रिहस्तविवर्धनात् ॥ ५५ ॥

यावदाशतहस्तान्तं उच्चं प्रागुक्तसंख्यया ।
अधमं मध्यमोत्कृष्टं उत्सेधं वै क्रमोदितम् ॥ ५६ ॥

एवं जातिविमानं तु सप्तविंशति बोदितम् ।
जातिच्छन्दविकल्पं च आभासेन द्विजोत्तम ! ॥ ५७ ॥

महतीष्यन्तराल्पं च क्षुद्रनाम्ना क्रमोदिताः ।
युगाश्रेत्युक्तमाने तु मानसूत्रं तु विन्यसेत् ॥ ५८ ॥

तदर्धाकृति हर्म्याणां वेदाश्रे गर्तपूरणम् ।
यत्रैव वर्जितं यत्तत्मानसूत्रं विधीयते ॥ ५९ ॥

प्रासादानां तु विस्तारं भित्तिपाद्बाह्यमेव वा ।
तत्पादाभ्यन्तरान्तं वा तत्पादमध्यमं तु वा ॥ ६० ॥

उत्सेधं तदुपानादिस्तूप्यन्तं वा शिरोन्तकम् ।
सभामण्टपशालानां भित्तिमध्यावसानकम् ॥ ६१ ॥

भित्तिमध्यांघ्रि बाह्ये वा मध्ये वा भ्यन्तरेऽपि वा ।
भित्ति बाह्यगतां घ्रौ तु बाह्ये वाऽभ्यन्तरेपि वा ॥ ६२ ॥

तदंघ्रि मध्यावसानं वा मानसूत्रं द्विजोत्तम ! ।
भित्तिव्यासे तु भान्वंशे बाह्येऽथात्वंशकं व्रजेत् ॥ ६३ ॥

अभ्यन्तरयुगांशं तु त्यक्त्वा शेषं द्विजोत्तम ! ।
भित्ति मध्यांघ्रिविस्तारं अंघ्रिस्थाने निवोच्यते ॥ ६४ ॥

भित्ति बाह्ये गतं पादं प्रागेव प्रोच्यतेऽथवा ।
शालांनां भित्ति मध्ये वा बाह्ये वाऽभ्यन्तरेऽपि वा ॥ ६५ ॥

यानानां शयनानां च पादमध्ये मानसूत्रकम् ।
मानसूत्रं समाख्यातं सर्वेषां सदनादिनाम् ॥ ६६ ॥

मानसूत्रं तु बाह्ये तु कूटशालादि नीव्रकम् ।
कूटस्योक्त विशालं वा त्रिपादं वार्धमेव वा ॥ ६७ ॥

पादं सार्धं सपादं वा मानसूत्राद्बहिर्गतिः ।
अथवादण्डमानेन कूटादीनां तु निर्गतिः ॥ ६८ ॥

दण्डं वाध्यर्धदण्डं वा द्विदण्डं वार्धद्विदण्डकम् ।
त्रिदण्डं वाथ निष्क्रान्तं मानसूत्रात्तु बाह्यतः ॥ ६९ ॥

मानस्याभ्यन्तरे वेशं विपदामास्पदं सदा ।
तस्मात्सर्वप्रयत्नेन मानसूत्राद्बहिर्गतम् ॥ ७० ॥

एतद्विन्याससूत्रं वा समसूत्रं समं तु वा ।
होमबाह्यगतं सूत्रं अवसानमुदाहृतम् ॥ ७१ ॥

मानविन्याससूत्रं च अवसानं च ते त्रिधा ।
ख्यातं संक्षेपतो विप्रा ! शृणुष्वायादि लक्षणम् ॥ ७२ ॥

इत्यंशुमान्काश्यपे मानादिसूत्रलक्षणपटलः (द्वाविंशः) ॥ २२ ॥