प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ४५ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४७ →


तुंगे पंचाशदंशे तु एकांशं चांगुलं भवेत् ।
चत्वारिंशांगुलायामं गलात्पृष्ठावसानकम् ॥ १ ॥

मूर्ध्निस्वगलपर्यन्तं धर्ममात्रमुदाहृतम् ।
तस्माद्ग्रीवोच्चमष्टांशं उरोऽन्तं षोडशांगुलम् ॥ २ ॥

ऊरुदीर्घं तु तस्माद्वै षण्मात्रं परिकीर्तितम् ।
जानुमानं द्विमात्रं स्यात् जंघमानं षडंगुलम् ॥ ३ ॥

खुरमानं द्विमात्रं स्यात्तुंगमेवं प्रकल्पयेत् ।
शृंगारं तु वस्वंशं शृंगोच्चं चतुरंगुलम् ॥ ४ ॥

शृंगमूलविशालं तु चतुरंगुलमुच्यते ।
अर्धांगुलं तदग्रं स्यात् अग्रं मूलात्क्रमात्कृशम् ॥ ५ ॥

किंचिद् द्व्यश्रसमायुक्तं शृंगं वाऽभ्यन्तरं बुधैः ।
ललाट व्यासनन्दांशं मुखव्यासं शरांमुलम् ॥ ६ ॥

घनं च तत्समं ख्यातं नेत्रायामं द्वयांगुलम् ।
अध्यर्धांगुलमुत्सेधं शफराकृतिवत्कृतम् ॥ ७ ॥

नेत्रमध्यान्मुखायामं वस्वंगुलमुदाहृतम् ।
तस्माद्वै पृष्ठग्रीवान्तं षण्मात्रं परिकीर्तितम् ॥ ८ ॥

नेत्रात्कण्ठान्तरं तद्वत् पंचांशं कर्णदैर्घ्यकम् ।
कर्णमूलविशालं तु द्विमात्रमिति विद्यते ॥ ९ ॥

मध्यवासं चतुर्मात्रं अग्रमंगुलविस्तृतम् ।
घनमर्धांगुलं ख्यातं घ्राणं सार्धांगुलायतम् ॥ १० ॥

व्यासमेकांगुलं ख्यातं गाढं तत्सममुच्यते ।
अंगुलं नासिकादूर्ध्वं तुंगमित्यभिधीयते ॥ ११ ॥

आस्यं पंचांगुलायामं अधरोच्चं द्विमात्रकम् ।
त्रिमात्रं चोत्तरोष्ठं च युक्तितः कल्पयेत्क्रमात् ॥ १२ ॥

जिह्वायामविशालोच्चं त्रिद्व्येकांगुलमुच्यते ।
ग्रीवव्यासं दशांशंस्यातन्मूलं द्वादशांगुलम् ॥ १३ ॥

पृष्ठग्रीवस्य मूलस्य व्यासमष्टांगुलं भवेत् ।
पृष्ठग्रीवाग्रविस्तारं षडंगुलमुदाहृतम् ॥ १४ ॥

ककुदुच्चं चतुर्मात्रं तस्य व्यासं षडंगुलम् ।
ग्रीवस्याग्रघनं चापि अध्यर्धांगुलमुच्यते ॥ १५ ॥

ककुदस्तु शरिरोच्चं द्विर्नवांगुलमुच्यते ।
शरीरमध्यमे व्यासं चतुर्दशांगुलं भवेत् ॥ १६ ॥

अपरव्यासभान्वंशं युक्तियुक्त्या समाचरेत् ।
पूर्वपादोरुमूलस्य व्यासं पंचांगुलं भवेत् ॥ १७ ॥

तदूर्वाग्रं चतुर्मात्रं जानुमूलं च तत्समम् ।
जंघाग्रं गुणमात्रं स्यात् सार्धाग्न्यंशं खुरस्ततम् ॥ १८ ॥

अपरे चोरुमूलस्य व्यासं वै दशमात्रकम् ।
शेषं पूर्वोरुवत्कार्यं पुच्छं जंघाग्रसीमकम् ॥ १९ ॥

पुच्छाग्रं केशसहितं व्यासं वेदांगुलं भवेत् ॥ २० ॥

मूलाग्रे त्वर्धमात्रं स्यात् केशदीर्घं युगांगुलम् ।
बीजायामविशालं तु चतुरग्न्यंगुलं भवेत् ॥ २१ ॥

द्विमात्रं घनमित्युक्तं मुष्कायामं युगांगुलम् ।
उदरात्प्यंगुलं शेषघनमित्यभिधीयते ॥ २२ ॥

स्थितं वा शयनं वापि पद्मे वा भद्रपीठके ।
सुधया इष्टिकागर्भं शिलालोहजमेव वा ॥ २३ ॥

घनं वाप्यघनं वापि लोहजं वृषभं कुरु ।
किंचिन्यूनाधिके विप्र मानोन्मान प्रमाणके ॥ २४ ॥

तथा कर्तुं न कर्तव्यं तस्मात्तल्लक्षणान्वितम् ।
कर्तव्यं विपरीतं चेत् विपरीतफलप्रदम् ॥ २५ ॥

वृषलक्षणमाख्यातं शृणुष्वानललक्षणम् ।

इत्यंशुमान्काश्यपे वृषलक्षणपटलः (षट्चत्वारिंशः) ॥ ४६ ॥