प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः १९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २१ →


अथ वक्ष्ये विशेषेण शिखरस्य तु लक्षणम् ।
ऊर्ध्वभूम्यंघ्रितुंगस्य सदृशं शिखरोदयम् ॥ १ ॥

आप्तोत्सेधांशमानं वा तुंगं वै शिखरस्य तु ।
वेदिविस्तारतुल्यं वा शिखरस्य कपोतकम् ॥ २ ॥

वलभिर्वाजनान्नीव्रं दण्डं वा ध्यर्धमेव वा ।
द्विदण्डं सार्धद्विदण्डं वा नीव्रं नालंबनं समम् ॥ ३ ॥

तन्नीव्रसदृशं तुंगं कपोतं वलभिवाजनात् ।
शिरस्तारं कपोतोर्ध्वे वलभीवाजनं समम् ॥ ४ ॥

शिखरे मध्यविस्तारं कपोतनिष्ठान्तसदृशम् ।
तत्त्रिपादार्धपादं वातारमेवं चतुर्विधम् ॥ ५ ॥

तत्र तारं तु पंचांशं त्र्यंशं बलिकविस्तृतम् ।
शिखरे बलिकास्थानं भूतांशे तु शिरोदये ॥ ६ ॥

वेदभागावसाने तु बलिकं मण्डलाकृतिः ।
तत्तारे तु चतुर्थांशं तन्मण्डलघनं भवेत् ॥ ७ ॥

युग्मं वा युग्मसंख्या वा परितः कल्पयेत्समम् ।
बलिकानामधश्चोर्ध्वे वेत्रं तदर्धमानतः ॥ ८ ॥

बलिकव्यासभूतांशे युगांशं पद्मविस्तरम् ।
शिखरस्य तु मानान्तं पद्मतुंगमुदाहृतम् ॥ ९ ॥

पद्मतारं त्रिभागैकं स्थूपी कुंभविशालकम् ।
कुंभतारं त्रिभागैकं कुंभस्याधो बलग्नकम् ॥ १० ॥

वलग्नस्य त्रिभागैकं कुंभस्योपरिकन्धरम् ।
कन्धरं त्रिगुणं पालितत्त्रिभागैककुड्मलम् ॥ ११ ॥

पालीनालविशालं तु कन्धरादीन्बृहन्तरम् ।
वलग्नान्तं शिरोमध्यात् अनुपूर्वात्कृशं कुरु ॥ १२ ॥

मध्याद्वाजनतुल्यान्तं क्रमेण कृशतां कुरु ।
तस्मत्कपोतनीव्रान्तक्रमेणैव बृहन्तरम् ॥ १३ ॥

शिखरस्य तु भागार्धं पद्मोर्ध्वे स्थूपिकोदयम् ।
द्वाविंशद्विभजेदुंच्चं पद्ममानार्धभागया ॥ १४ ॥

कंपमर्धांशमित्युक्तं गलमर्धांशमानतः ।
तत्समं चोर्ध्वकंपं तु पद्ममंशेन कल्पयेत् ॥ १५ ॥

भूतभागं घटोत्सेधं कंपमर्धांशमानतः ।
पद्ममंशेन कर्तव्यं कंपमर्धांशमानतः ॥ १६ ॥

पंचांशं पालिकानालं अर्धांशं कम्पमुच्यते ।
पद्ममर्धेन कर्तव्यं पालिकोच्चं तु एकया ॥ १७ ॥

अर्धेन पद्ममर्धेन कंपं शेषं तु कुड्मलम् ।
शिखराकृतिवत्कुंभं पालिकाकुड्मलं तथा ॥ १८ ॥

नागरे चतुरश्राभं वस्वश्रं द्राविडे शिरः ।
वृत्तं वेसरहर्म्यं तु तत्ततद्वर्वर्तनं क्रमात् ॥ १९ ॥

नानावल्लिलताभिस्तु शिखरं तु सुभूषयेत् ।
शिखरं लक्षणं प्रोक्तं नासिका लक्षणं शृणु ॥ २० ॥

इत्यंशुमान्काश्यपे शिखरलक्षणपटलः (विंशः) ॥ २० ॥