अंशुमत्काश्यपागमः/स्तंभलक्षणपटलः ८

← पटलः ७ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ९ →

अथ वक्ष्ये विशेषेण चरणायामविस्तृतम् ।

आकारं भूषणं चैव संक्षेपाच्छृणु सुव्रत ॥ १ ॥


स्तंभं च तलिपं चैव चरणं जंघमेव च ।

स्थाणुः स्थूणं च पादं च पर्याय वचनस्त्विमे ॥ २ ॥


आप्तोत्सेधांशमानेन पादायामं विधीयते ।

अधिष्ठानस्य तुंगस्य द्विगुणं वांघ्रितुंगकम् ॥ ३ ॥


तस्माद्धरातलोच्चं तु षडष्टांशाधिकं तु वा ।

पादोच्चपंक्ती नन्दाष्टभागैकं वांघ्रितुंगकम् ॥ ४ ॥


दारुपादं तु ततं ह्येतत् कुड्यपादमथोच्यते ।

तदर्धं वा त्रिभागोनचतुर्भागोनमेव वा ॥ ५ ॥


कुड्यस्तम्भविशालं स्यात् एतत्सर्वेषु धामसु ।

प्रतेरुत्तरसीमान्तं (अन्यराघ?) षालस्तंभमुच्यते ॥ ६ ॥


उपानादुत्तरान्तं यत् निखातस्तंभमुच्यते ।

तुंगं सप्ताष्टधा भज्य नवधर्मांशमेव वा ॥ ७ ॥


रुद्रभान्वंशकं कृत्वा एकांशं त्वंघ्रिविस्तरम् ।

तन्मूलतारमाख्यातं तत्तारं तु तथा भजेत् ॥ ८ ॥


एकभागविहीनं तु शेषमग्रविशालकम् ।

एकादिषोडशान्तानां तलं प्रत्येवमाचरेत् ॥ ९ ॥


मूलादग्रं युगाश्रं तु कुंभमृण्ड्यादि संयुतम् ।

ब्रह्मकान्तमिति ख्यातं वस्वश्रं विष्णुकान्तकम् ॥ १० ॥


रसाश्रमिन्द्रकान्तं स्यात् चन्द्रकान्तं कलाश्रकम् ।

कण्ठमानेन तन्मूले वेदाश्रं तु प्रकल्पयेत् ॥ ११ ॥


स्तंभाग्रं चैकमानेन चतुरश्रसमन्वितम् ।

तयोर्मध्यं तु वस्वश्रं षोडशाश्रमथापि वा ॥ १२ ॥


वृत्ताकारं तु वा विप्र ! कुंभमंड्यादि संयुतम् ।

रुद्रकान्तमिदं ख्यातं मूलादग्रं तु वर्तुलम् ॥ १३ ॥


कुंभमंड्यादिहीनं यत् तद्व्यापी रुद्रकान्तकम् ।

मूलादग्रं युगाश्रं तु मध्येष्टाश्रं तदुच्यते ॥ १४ ॥


चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा ।

तदूर्ध्वे वृत्तमेवं स्यात् त्रिभागं तुंगसादृशम् ॥ १५ ॥


शिवच्छन्दमिदं ख्यातं शिवहर्म्ये प्रशंसितम् ।

दण्डं सार्धद्विदण्डं वा मूले पद्मासनोदयम् ॥ १६ ॥


द्विगुणं तस्य विस्तारं पद्माकारं तु कारयेत् ।

सपद्मं कर्णिकायां तु चरणस्थापनं कुरु ॥ १७ ॥


यथेष्टाकृतिसंयुक्तं कुंभमण्ड्यादिसंयुतम् ।

चक्रवाकलताद्यैस्तु भूषितं पद्मपादकम् ॥ १८ ॥


पद्ममानेंघ्रिमूले तु व्यालेन व्यालपादकम् ।

मूलेभं तत्प्रमाणेन गजपादमुदाहृतम् ॥ १९ ॥


मूले सिंहादिभिर्युक्तं यथेष्टाकृति संयुतम् ।

कुंभमंड्यादिसंयुक्तं तत्तनाम्ना प्रकीर्तितम् ॥ २० ॥


वृत्ताकारे तदायामे शुण्डुपादैः समन्वितम् ।

कुंभमंड्यादिसंयुक्तं शुण्डुपादमुदाहृतम् ॥ २१ ॥


मुक्तादामैरलं कृत्य पिण्डिपादमुदाहृतम् ।

विष्कंभ कर्णमानेन स्तंभाग्रे चतुरश्रकम् ॥ २२ ॥


तदर्धस्वर्धदण्डेन त्वब्जमष्टाश्रसंयुतम् ।

दण्डमानेन तस्याधो वस्वश्रं परिकल्पयेत् ॥ २३ ॥


तदधः पूर्ववत्पद्मं तस्याधो दण्डमानतः ।

चतुरश्र समायुक्तं तस्याधस्तात्तु पूर्ववत् ॥ २४ ॥


मूले तु शेषं वेदाश्रं चित्रं वाथ तदुच्यते ।

तन्मध्ये पट्टं वस्वश्रं श्रीकण्ठं तदुदाहृतम् ॥ २५ ॥


मध्यपट्टकलाश्रं चेत् श्रीवक्त्रं स्तंभमुच्यते ।

मुलादग्रं युगाश्रं स्यात् त्रिपट्टं क्षेपणान्वितम् ॥ २६ ॥


क्षेपणस्तंभमाख्यातं पट्टं पत्रादिशोभितम् ।

स्तंभतारत्रिभागैकं चतुर्भागैकमेव वा ॥ २७ ॥


स्तंभमध्ये शिवां कुर्यात् ऊर्ध्वाधस्ताद्विशेषतः ।

स्तंभमूले तु पद्मादीन् स्तंभमानेन कल्पयेत् ॥ २८ ॥


स्तंभलक्षणमाख्यातं बोधिकालक्षणं शृणु ।


इत्यंशुमान्काश्यपे स्तंभलक्षणपटलः (अष्टमः) ॥ ८ ॥