अंशुमत्काश्यपागमः/स्तम्भभूषणपटलः १०

← पटलः ९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ११ →

अथ वक्ष्ये विशेषेण फलकानां तु लक्षणम् ।

त्रिदण्डं फलकाव्यासं कन्यसार्धाधिकं समम् ॥ १ ॥


चतुर्दण्डविशालं तु उत्तमा फलका भवेत् ।

अथवा फलकाव्यासं कुंभकर्णसमं भवेत् ॥ २ ॥


सर्वेषां फलकानां तु तुंगं पादोन दण्डकम् ।

तदुत्सेधं त्रिधाभज्य ऊर्ध्वांशोत्संधिरुच्यते ॥ ३ ॥


तदधो वेत्रमेकांशं तस्याधस्तांशमम्बुजम् ।

नागवक्त्रसमाकारं आपोत्रात्पादरूपवत् ॥ ४ ॥


सर्वेषां फलकानां तु उत्सन्ध्याभं युगाश्रकम् ।

फलकेव प्रकर्तव्या तस्याधस्ताद्घटं कुरु ॥ ५ ॥


द्विदण्डं पादहीनं वा सार्धदण्डमथापि वा ।

सपाददण्डतुंगं वा घटोच्चं तु चतुर्विधम् ॥ ६ ॥


प्रियदर्शनसौम्यं च चन्द्रकान्तं च श्रीकरम् ।

यथा क्रमेण नामानि कलशानां क्रमोदितम् ॥ ७ ॥


घटोच्छ्रये नवांशेनघृतभागेन परिकल्पयेत् ।

वेदांशं कलशोत्सेधं कण्ठमेकांशमानतः ॥ ८ ॥


आस्योच्चमेकभागेन पद्ममेकेन कल्पयेत् ।

अर्धेन वृत्तमर्धेन हीनौ संकल्पयेद्बुधः ॥ ९ ॥


ऊर्ध्वादधोगतं कुर्यात् तदेतेन विना क्रमात् ।

एवमुच्चं समाख्यातं निष्कंभमधुना शृणु ॥ १० ॥


पादव्याससमं हीरौ तत्कर्णं चास्य विस्तृतम् ।

आस्यं कर्णं विशेषेण कुंभस्यैव तु विस्तृतम् ॥ ११ ॥


स्तम्भव्याससमं प्रोक्तं विस्तारं धृगकण्ठयोः ।

तस्याधोलशुनं मूलतुंगदण्डैकमानतः ॥ १२ ॥


तदर्धस्तत्तदर्धेन मानेनाब्जं प्रकल्पयेत् ।

अब्जाथस्वर्धदण्डेन वक्त्रस्थानमुदाहृतम् ॥ १३ ॥


तस्याधोदण्डमानेन मुक्तादामैर्विभूषितम् ।

लशुनं चाब्जपत्रं च मुक्तादाम तथैव च ॥ १४ ॥


स्तंभव्याससमं व्यासं कल्पयेत्कल्पवित्तमः ।

अथवा बोधिकादीनां उदयं तु वदाम्यहम् ॥ १५ ॥


गुणांशं चरणोत्सेधं कृत्वाधोद्व्यंशकं व्रजेत् ।

ऊर्ध्वभागं तु संग्राह्य द्वाविंशत्यंशकं भवेत् ॥ १६ ॥


युगांशं बोधिकोत्सेधं वीरकाण्डं च तत्समम् ।

भूतांशं फलकोत्सेधं घृतमानांशकं भवेत् ॥ १७ ॥


घटोत्सेधं तुं वेदांशं कण्ठमानं शिवांशकम् ।

तदास्योदयमेकांशं पद्ममेकेन कारयेत् ॥ १८ ॥


वित्तमर्धेन कर्तव्यं हीरौ तत्सममुच्यते ।

लशुनाब्जलता मुक्तामालामानादि पूर्ववत् ॥ १९ ॥


स्तंभभूषणमेवं स्याद् वेदिका लक्षणं तथा ।


इत्यंशुमान्काश्यपे स्तम्भभूषणपटलः (दशमः) ॥ १० ॥