प्रमुखा विकल्पसूचिः उद्घाट्यताम्


श्रीमच्छन्दपादकेभ्यो नमः ।

श्रीमीनसहजानन्दं स्वकीयाङ्गसमुद्भवम् ।
सर्वमाधारगम्भीरमचलं व्यापकं परम् ।
मायामलविनिर्मुक्तं मीननाथं नमाम्यहम् ॥

अथातः सम्प्रवक्ष्यामि अकुलवीरं महद्भूतम् ।
गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १ ॥
अनुग्रहाय लोकानां सिद्धनाथेन भाषितम् ।
गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २ ॥
संसारार्णवमग्नानां भूतानां महदाश्रयम् ।
यथा नदीनदाः सर्वे सागरे समुपागताः ॥ ३ ॥
तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः ।
सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः ॥ ४ ॥
सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः ।
अजानन्तमलैर्ग्रस्ता महामायान्धच्छादिताः ॥ ५ ॥
शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) ।
न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६ ॥
संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा ।
बौधास्तु अरिहन्ता ये सोमसिद्धन्तवादिनः ॥ ७ ॥
मीमांस पञ्चस्रोताश्च वामसिद्धान्तदक्षिणाः ।
इतिहासपुराणञ्च भूततत्वन्तु गारुडम् ॥ ८ ॥
एभिः शैवागमैः सर्वैः परोक्षञ्च क्रियान्वितैः ।
सविकल्पसिद्धिसञ्चारं तत् सर्वं पापबन्धवित् ॥ ९ ॥
विकल्पबहुलाः सर्वैर्मिथ्यावादा निरर्थकाः ।
न ते मुञ्चन्ति संसारे अकुलवीरविवर्जिताः ॥ १० ॥
सर्वज्ञं सर्वमासृत्य सर्वतो हितलक्षणम् ।
सर्वेषां सिद्धिस्तत्रस्था सर्वसिद्धिञ्च तत्र वै ॥ ११ ॥
यत्रासौ अकुलवीरो दृश्यते सर्वतोमुखम् ।
तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् ॥ १२ ॥
शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम् ।
सर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः ॥ १३ ॥
भावाभावविनिर्मुक्त उदयास्तमनवर्जितः ।
स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् ॥ १४ ॥
अकुलवीरमिति ख्यातं सर्वाधारपरापरम् ।
नाधारलक्षभेदन्तु न नादगोचरे पठेत् ॥ १५ ॥
हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके ।
न इडा पिङ्गला शान्ता न चास्तीति गमागमे ॥ १६ ॥
न नाभिचक्रकण्ठे च न शिरे नैव मस्तके ।
तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे ॥ १७ ॥
न पूरककुम्भके तत्र रेचके (च) तथा पुनः ।
न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके ॥ १८ ॥
प्रवेशनिर्गमे नैव नावाहनविसर्जनम् ।
न करणैर्नासनं मुद्रैर्नामासे भिन्नतालुके (?) ॥ १९ ॥
न निरोधो न चोद्धारो नातीतां चालनं न हि ।
न प्रेर्यप्रेरकञ्चैव न स्थानन्नैव चाश्रयम् ॥ २० ॥
न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् ।
एतत् पक्षविनिर्मुक्तं हेतुदृष्टान्तवर्जितम् ।
सबाह्याभ्यन्तरन्तत्र एकोच्चारं चराचरम् ॥ २१ ॥
न दूरे न च वै निकटे न भरितो न च रिक्तक(ः) ।
न उन्नो न सोऽधिक एभिः पक्षैर्विवर्जितम् ॥ २२ ॥
यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै ।
यत्र लक्षं न विद्येत अकुलवीर स उच्यते ॥ २३ ॥
यस्यैवं संस्थितं कश्चित् समरस संस्थितः ।
स ब्रह्मा सो हरिश्चेशः स रुद्रो स च ईश्वरः ॥ २४ ॥
स शिवः परमदेवः स सोमार्काग्निकस्तथा ।
स च सांख्यः पुराणाश्च अर्हन्तबुद्ध एव च ॥ २५ ॥
स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वत्र देवता ॥ २६ ॥
यादृशेन तु भावेन पुरुषो भावयेत् सदा ।
तादृशं फलमा(व)प्नोति नात्र कार्यविचारणात् ॥ २७ ॥
अस्यैव हि नामानि पृथग्भूतानि योगिभिः ।
अनाम तस्य गीयन्ते भ्रान्तिज्ञानविमोहितैः ॥ २८ ॥
धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः ।
तेन मुञ्चन्ति संसारं नरकं योनिसंकुलम् ॥ २९ ॥
अकुलवीरं महद्भूतं यदा पश्यन्ति सर्वगम् ।
स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् ॥ ३० ॥
निस्तरङ्गं निराभासं पदभेदविवर्जितम् ।
सर्वावयवनिर्मुक्तं निर्लयं निर्विकारजम् ॥ ३१ ॥
अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् ।
सर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् ॥ ३२ ॥
कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् ।
मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् ॥ ३३ ॥
समत्वं एकभूतञ्च ऊहापोहविवर्जितम् ।
अकुलवीरं महद्भूतम् अस्तिनास्तिविवर्जितम् ॥ ३४ ॥
न मनो न च वै बुद्धिर्न चिन्ताचेतनादिकम् ।
न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः ॥ ३५ ॥
न भूते गृह्यते सो हि न सुखं दुःखमेव च ।
न रसो हि न सुखं दुःखमेव च (?) ॥ ३६ ॥
न रसो विरसश्चैव न कृतो न च जायते ।
न च्छाया न च तापस्तु न शीतो न च उष्णवान् ॥ ३७ ॥
न (दृश्यते मन्) स्तत्र उदयास्तमनवर्जितम् ।
न सीमा दृश्यते तत्र न च तीर्थ्यं न चैव हि (?) ॥ ३८ ॥
अद्वैतमचलं शान्तं संगदोषविवर्जितम् ।
निराकुलं निर्विकल्पञ्च निबद्धञ्च मलक्षणम् ॥ ३९ ॥
अनाथं सर्वनाथञ्च उन्मना मदवर्जितम् ।
अनिगूढमसन्धिञ्च स्थावरं जङ्गमेव च ॥ ४० ॥
ज्वलज्ज्वलनभूम्या च आपोञ्चैव तथैव च ।
सर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् ॥ ४१ ॥
यस्यैषा संस्थिता मुक्तिः स मुक्तो भवबन्धनात् ।
न तस्य मातापिता (वा)बान्धवं न च देवता ॥ ४२ ॥
न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् ।
त्यक्त्वा विकल्पसंघातम् अकुलवीरलयं गताः ॥ ४३ ॥
न जपो नार्चनं स्नानं न होमं नैव साधनम् ।
अग्निप्रवेशनं नास्ति हेमन्तभृगु नोदनम् ॥ ४४ ॥
नियमोऽपि न तस्यास्ति नोपवासो विधीयते ।
पितृकार्यं न करोताति तीर्थयात्राव्रतानि च ॥ ४५ ॥
धर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया ।
स्वयं त्यज सर्वकार्याणि लोकाचाराणि यानि च ॥ ४६ ॥
समयाचारविचारञ्च कृतका बन्धकानि तु ।
संकल्पञ्च विकल्पञ्च ये चान्ये किल धर्मिणः ॥ ४७ ॥
भवे योगी निराचारो पशुचारविवर्जितः ।
सिद्धिश्च विविधाकारा पाताले च रसायनम् ॥ ४८ ॥
प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन ।
सर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः ॥ ४९ ॥
एतेषु मोचना नास्ति अकुलवीरविवर्जिताः ।
यथा मृताः (न) जानन्ति स्वादं कटुमधुरस्य तु ॥ ५० ॥
तथा अकुलवीरन्तु न जानन्ति स्वभावगम् ।
यथा मदिरा महान्तस्य कथितं नेवशकृते ॥ ५१ ॥
रहस्यपरमानन्दमतिगुह्यं सुगोपितम् ।
लोकानां च हितार्थाय सिद्धनाथेन भाषितम् ॥ ५२ ॥
निर्विकल्पं पदं शान्तं यत्र लीनं परापरम् ।
मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्जितम् ॥ ५३ ॥
तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता ।
किन्तेन बहुनोक्तेन सर्वबन्धविवर्जितम् ॥ ५४ ॥
अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः ।
लब्ध्वा तु मोक्षसद्भावम् अकुलवीरं मलापहम् ॥ ५५ ॥
कौलमार्गे द्वयो सन्ति कृतका सहजा तथा ।
कुण्डली कृतका ज्ञेया सहजा समरसे स्थिता ॥ ५६ ॥
प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते ।
ततः स पातयेद् भूमौ मुद्रामन्त्रैर्नियोजितैः ॥ ५७ ॥
आहुते पतने चान्ये कर्णजापेन धूपकैः ।
एतत् साध्यमिदं तत्त्वं (एतद्) ध्यानञ्च धारणा ॥ ५८ ॥
अनेकैः कर्मसंघातैः नानामार्गविभावनैः ।
विकल्पकललोल्लोला उद्भ्रान्ता भ्रान्तचेतसः ॥ ५९ ॥
हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः ।
हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः ॥ ६० ॥
तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः ।
दग्धबीजेषु संभूतिर्यथा नैव प्रजायते ॥ ६१ ॥
मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते ।
अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः ॥ ६२ ॥
न बध्यते यथा विमले रसं विप्रलयं गतम् ।
तद्वद्कुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः ॥ ६३ ॥
तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति ।
अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता ॥ ६४ ॥
अकुले वीरे च सम्प्राप्ते सर्वमेतद्विनश्यति ।
दधिमध्ये यथा सर्पिः काष्ठे चाग्निः स्थितो यथा ॥ ६५ ॥
पुष्पे गन्धस्तिले तैलं वृक्षे छाया समाश्रिता ।
मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता ॥ ६६ ॥
पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च ।
रक्तार्थाकुलवीरे च तत्सर्वं विनियोजितम् ॥ ६७ ॥
भावाऽभावादिसंयुक्तैः प्रत्ययैर्दृष्टिगोचरैः ।
अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः ॥ ६८ ॥
पाशजालनिबद्धाश्च महामायाविमोहिताः ।
न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः ॥ ६९ ॥
सर्वव्यापिभावस्थं स्थानवर्णविवर्जितम् ।
सर्वभूतस्थितं ह्येकमध्येयं ध्येयवर्जितम् ॥ ७० ॥
स च सर्वगतो भावः स्थिरे पूर्णे निरन्तरे ।
तत्र मनो विलीनन्तु अचलं भवतन्मयम् ॥ ७१ ॥
मनोवृद्धिस्तथा चिन्त्यं क्षिप्ता तन्मयतां गता ।
यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये ॥ ७२ ॥
तदा तन्मयतां याति निर्मलं निश्चलं पदम् ।
अकुलवीरं महद्भुतमेकवीरं च सर्वगम् ॥ ७३ ॥
दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् ।
केचिद् वदन्तीदं धर्ममिदं शास्त्रमिदं तपः ॥ ७४ ॥
अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् ।
इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् ॥ ७५ ॥
ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा ।
तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः ॥ ७६ ॥
(अ)नागतन्तु गतञ्चैव न गच्छेन्न च तिष्ठति ।
न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् ॥ ७७ ॥
न चाहं प्रचितैर्दोषैः लिप्यते न कदाचन ।
नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः ॥ ७८ ॥
न मुक्तो वै न च न मुक्तमे मोक्षस्य च स्पृहा ।
गच्छंस्तिष्ठन् स्वपन् जाग्रद्भूञ्जानो मैथुनेऽपि वा ॥ ७९ ॥
भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा ।
चिकित्सा नैव कुर्वीत इन्द्रियार्थैः कदाचन ॥ ८० ॥
आचरेत् सर्ववर्णैस्तु न तु भक्ष्यं विचारयेत् ।
एवं स चरते योगी यथारण्ये हुताशनः ॥ ८१ ॥
पिण्डबधाञ्च नानास्ति अवस्था मूर्खवासनाम् ।
सोमशून्यस्तथा वह्निप्राणायामविवर्जितम् ॥ ८२ ॥
अप्रमेयनिराभासं धारणाध्यानवर्जितम् ।
येन जन्मसहस्राणि भक्त्या संपूजितो गुरुः ॥ ८३ ॥
ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम् ।
योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला ॥ ८४ ॥
अकुलवीरं महद्भूतं गम्भीरं गहनामयम् ।
पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्जितम् ॥ ८५ ॥
पदव्यञ्जननिर्मुक्तं विमलं सततोदितम् ।
तल्लीने तन्मयात्मानं विन्दते श्वाश्वतं पदम् ॥ ८६ ॥
चिन्तातीतं भवेत् सो हि योगसंयोगवर्जितम् ।
निर्वाणं वासनाहीनं तृप्तात्मा च निरामयः ॥ ८७ ॥
तेन लब्धा न सन्देहोऽमला मलच्छेदनाः ।
तस्य प्रवर्तते क्षिप्रं तस्यैव सर्वसर्वगम् ॥ ८८ ॥
वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च ।
तानि सर्वाणि मोहानि कायक्लेशैर्निरर्थकम् ॥ ८९ ॥
विद्याहङ्कारग्रस्तास्तु गर्विताः कुगतिं गताः ।
अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः ॥ ९० ॥
अकुलवीरं न विन्दन्ति कृतकैर्मोहितात्मनः ।
गर्वितानां कुतो ज्ञानं ग्रन्थकोटिशतैरपि ॥ ९१ ॥
कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च ।
खरवद्भवति तद्भारं सर्वं तस्य निरर्थकम् ॥
अकुलवीरञ्च देहस्थं यदा पश्यति सर्वगम् ॥ ९२ ॥
धर्माधर्मफलं नास्ति नोदकं तीर्थसेवना ।
न क्रिया सत्यशौचं वा कर्मकाण्डे न भावना ॥ ९३ ॥
न तस्य कर्मकर्माणि लोकाचाराणि यानि च ।
चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः ॥ ९४ ॥
अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् ।
कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः ॥ ९५ ॥
संकल्पविकल्पञ्च कलाकर्माणि यानि च ।
सिद्धयो विविधा लोके पातालं च रसायनम् ॥ ९६ ॥
प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन ।
सर्वे ते पाशबद्धश्च अधोमार्गप्रदायकाः ॥ ९७ ॥
न चैतैर्मुक्तिः संसारे अकुलं वीरवर्जिताः ।
यथा मदिरमानन्दं कथितं नैव जायते ॥ ९८ ॥
तद्वदकुलवीराख्यं स्वसंवेद्यनिरोपणम् ।
न जानन्ति नरा मूढाः सारात् सारतरं परम् ॥ ९९ ॥
तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति ।
चिन्तातीते यदा योगी स योगी योगचिन्तकः ॥ १०० ॥
विरक्ता वासना यस्य तृप्तात्मा च निरामयः ।
तावद् भ्रमन्ति मोहात्मा नानाभावानुबन्धनैः ॥ १०१ ॥
यावत् सममेकत्वं परमानन्दं न विन्दति ।
मूर्खाणां च यथाशास्त्रं कुमारीसुरतिं यथा ॥ १०२ ॥
अकुलवीरं विन्दन्ति कथ्यमानैः कुमारिकाः ।
दिशवेशविनिर्मुक्तं स्थानवर्णविवर्जितम् ॥ १०३ ॥
निराकुलं निर्विकल्पं निर्गुणञ्च सुनिर्मलम् ।
अनाथं सर्वनाथञ्च प्रमादोन्मादवर्जितम् ॥ १०४ ॥
घननिविडनि(ः)सन्धिस्थावरे जङ्गमेषु च ।
जले ज्वलने तथा पवने भूम्याकाशे तथैव च ॥ १०५ ॥
सर्वत्र समरसं भरितमकुलवीरन्तु केवलम् ।
तं ज्ञातं येन देहस्थं स मुक्तः सर्वबन्धनात् ॥ १०६ ॥
न तस्य क्रियाबन्धेन न वेद्यं न च वेदना ।
न यज्ञो नोपवासश्च न चर्या न क्रियोदयः ॥ १०७ ॥
न वर्णो वर्णभेदश्च अकुलवीरं यदागतम् ।
न जापो नार्चनाग्नीनां न होमो नैव साधनम् ॥ १०८ ॥
नाग्निप्रवेशनन्तस्य मन्त्रपूजाचरणोदकम् ।
नियमाश्च न तस्यास्ति क्षेत्रपीठे च सेवनैः ॥ १०९ ॥
न क्रिया नार्चनाकाद्यैर्न तीर्थानि व्रतानि च ।
निरालम्बपदं शान्तं तथातीतं निरञ्जनम् ॥ ११० ॥
सर्वज्ञपरिपूर्णञ्च स्वभावेन विलक्ष्यते ।
कार्यकारणनिर्मुक्तमचिन्तितञ्च अनामयम् ॥ १११ ॥
मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् ।
स्वदेहे संस्थितं शान्तमकुलवीरं तदुच्यते ॥ ११२ ॥
समस्तमेकदाभूतं द्वैताभावविवर्जितम् ।
अकुलवीरं महद्भूतमस्तिनास्तिविवर्जितम् ॥ ११३ ॥
मनोबुद्धिचित्तस्तचित्ता नैव स्वचेतना ।
न कालकलना चैव न शक्तिश्च न चेन्द्रियः ॥ ११४ ॥
न भूते गृह्यते सो हि न दुःखं सुखमेव च ।
न रसोऽधिरसश्चैव कृतकं नैव कारकम् ॥ ११५ ॥
न च्छाया नातपो वह्निर्न च शीतोष्णवेदना ।
न दिनं रात्रिमित्युक्तमुदयास्तमनवर्जितम् ॥ ११६ ॥
न मनो दृश्यते तत्र नोर्द्धमध्यं च ज्ञायते ।
अक्षोभ्यमचलं शान्तमीदृशं तत्त्वनिर्णयम् ॥ ११७ ॥
यादृशेन तु भावेन पुरुषो भावयेत् सदा ।
तादृशं फलमाप्नोति नात्र कार्यविचारणात् ॥ ११८ ॥
एवञ्च कुलसद्भावमवाच्यं परमामृतम् ।
अगम्यं गम्यते कस्माद् भ्रान्तिज्ञानविमोहिताः ॥ ११९ ॥
न दूरे निकटे चैव प्रत्यक्षं न परोक्षता ।
न भरितो न रिक्तो वा निपुणो नापि चाधिकः ॥ १२० ॥
एतत् पक्षविनिर्मुक्तो हेतुदृष्टान्तवर्जितः ।
कृतकैर्मोहिता मूढाः कर्मकाण्डरतास्तु ये ॥ १२१ ॥
न तेषां मुक्तिः संसारे नरके योनिसंकुले ।
अकुलवीरं महद्भूतं यदा पश्यति सर्वगम् ॥ १२२ ॥
सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थित(म्) ।
निस्तरङ्गं निराभासं पदच्छेदविवर्जितम् ॥ १२३ ॥
सर्वावयवनिर्मुक्तं निर्विकारञ्च निर्मलम् ।
अदृश्यं निर्गुणं नित्यं निर्णिरोधञ्च निश्चलम् ॥ १२४ ॥
न ध्यानं धारणा नैव न स्थानं वर्णमेव च ।
न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् ॥ १२५ ॥
न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च ।
ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत् ॥ १२६ ॥
एतैः सर्वैर्विनिर्मुक्तं हेतुदृष्टान्तवर्जितम् ।
सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् ॥ १२७ ॥
समरसानन्दरूपेण एकाकारं चराचरे ।
ये च ज्ञातं स्वदेहस्थमकुलवीरं महद्भूतम् ॥ १२८ ॥
यस्या वशं स्थितः कश्चित् समरसं रससंस्थितम् ।
स ब्रह्मा स हरिश्चैव स रुद्रञ्चै(वे)श्वरस्तथा ॥ १२९ ॥
स शिवः शाश्वतो देवः स च सोमार्कशङ्करः ।
स विशाख्यो मयूराक्षो अर्हन्तो बुधमेव च ॥ १३० ॥
स्वयं देवि स्वयं देवः स्वयं शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वेश्वरो गुरुः ॥ १३१ ॥
सर्वज्ञः सर्वमासृत्य सर्वतो हितलक्षणः ।
सर्वयोगिनी तत्रस्था सर्वे सिद्धाश्च तत्र वै ॥ १३२ ॥
सर्वं सर्वार्थकं चैव सर्वज्ञानश्च तत्र वै ।
यथासौ महार्थञ्च अकुलवीरमिति स्मृतम् ॥ १३३ ॥
शब्दः स्पर्शो रसो रूपं गन्धो वद्याणिपम च (?) ।
सर्वे भीराश्च (?) तत्रैव ये प्रलीनाः प्रलयं गताः ॥ १३४ ॥
नाधारे ध्येयलक्ष्ये च न नादगोचरे परे ।
न हृदि नाभिकण्ठे वा वक्त्रे घण्टिकरन्ध्रयोः ॥ १३५ ॥
न इडा पिङ्गला चैव सुष्मणा च गमागमैः ।
न नाभिचक्रे कण्ठे च न शिरे बिन्दुके तथा ॥ १३६ ॥
चक्षुकर्णोन्मीलनं नैवं नासिकाग्रनिरीक्षणे ।
न पूरके कुम्भके चैव रेचके च तथा पुनः ॥ १३७ ॥
न बिन्दुभेदग्रन्थौ च ललाटे न च चन्द्रमाः ।
प्रवेशे निर्गमे चैव शिखा ऊर्द्ध्वे न बिन्दुके ॥ १३८ ॥
न करैर्न सरैर्मुद्रैः नाकाशे वायुमण्डले ।
न चापे चन्द्रसूर्ये च भावाभावे समागमे ॥ १३९ ॥
अनौपम्यं निरालम्बं पक्षापक्षविवर्जितम् ।
अज्ञानमलग्रस्तात्मा महामायाविमोहिताः ॥ १४० ॥
शास्त्रार्थेन विमुढात्मा मोहिता विदुषो जनाः ।
न विदन्ति पदं शान्तं कैवल्यं निष्क्रियं गुरुम् ॥ १४१ ॥
संख्यादयश्च ये केचित् न्यायवैशेषिकास्तथा ।
बौद्धारहन्ताश्च ये केचित् सोमसिद्धान्तदक्षिणाः ॥ १४२ ॥
मीमांसा पञ्चरात्रञ्च वामदक्षिणकौलिकाः ।
इतिहासपुराणानि भूततत्त्वञ्च गारुडम् ॥ १४३ ॥
एते चैव समाः सर्वे केचित् वा(ऽपि) क्रियान्विताः ।
विकल्पसिद्धिदाः सर्वे तद्विदुर्न च पण्डिताः ॥ १४४ ॥
विकल्पबहुलाः सर्वे मिथ्यावादनिरर्थकाः ।
न ते मुच्यन्ति संसारे अकुलवीरविवर्जिताः ॥ १४५ ॥
यानि कानि च स्थानानि गिरिर्नगरसागरम् ।
सर्वत्र संस्थितं नित्यं स्थावरे जङ्गमेषु च ॥ १४६ ॥
पञ्चभूतात्मकं सर्वे यत् किञ्चित् सचराचरम् ।
शिवाद्यदेवपर्यन्तं सर्वं तत्रैव संस्थितम् ॥ १४७ ॥
ईदृशं योगिनं दृष्ट्वा उपसर्पन्ति ये नराः ।
गन्धैः पुष्पैश्च धूपैश्च खानपानादिभक्षणैः ॥ १४८ ॥
तर्पयन्ति च ये भक्तास्त्रिविधैश्चैवान्तरात्मना ।
तेऽपि बन्धैः प्रमुच्यन्ति मुक्तिमार्गी न काङ्क्षिणः ॥ १४९ ॥
ब्रह्मेन्द्रविष्णुरुद्रञ्च अरहन्ता बुद्धमेव च ।
विषाख्यो मयूराक्ष ये च ऋषयस्तपोधनाः ॥ १५० ॥
देवादिभ्यो नरेन्द्राश्च ये चान्ये मोक्षकाङ्क्षिणः ।
ते (सर्वे) मोक्षमिच्छन्ति अकुलवीरन्तु मोक्षदम् ॥ १५१ ॥
अथान्यं संप्रवक्ष्यामि भिन्नावस्थां स्वभावगः ।
पूर्वं यदुक्ता सर्वे अन्वयमार्गे त्वकौलिके ॥ १५२ ॥

परमामृतसन्तृप्ताः सहजानन्दं च केवलम् ॥ १५३ ॥
न जरास्तेषां न मृत्युश्च न शोको दुःखमेव च ।
सर्वव्याधिहरश्चैव न पुनर्भवसंभवः ॥ १५४ ॥
अकुलवीरं स्थितं दिव्यं सिद्धनाथप्रसादतः ।
सर्वतः सर्वदा शुद्धः सर्वतः सर्वदा प्रभुः ॥ १५५ ॥

इति मच्छेन्द्रपादावतारिते कामरूपिस्थाने योगिनी प्रसादाल्लब्ध(म्) अकुलवीरं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=अकुलवीरतन्त्रम्&oldid=197204" इत्यस्माद् पुनः प्राप्तिः