Manuscript : Manuscript no.: 781 Research Library J. and K. Govt. Shrinigar

Description: A short liturgical manual from Kashmir on fire sacrifice. Contains very interesting incidental information on the deities worshipped in Kashmir. Some are main stream Kaula Tantra of the early period, such as Siddhalakṣmī who was the tutelary goddess of the Malla kings in Nepal.



ओं श्रीमहाराज्ञी भगवत्यै नमः ॥

ओं श्रीगणाधिपतये नमः ।

ओं यद्बीजं वेदवृक्षस्य सम्पूर्णानन्तशाखिनः । फलं तस्यैव यत्प्राहुस्तं वन्दे भैरवागमम् ॥

अथ विस्तरे सत्यग्निकार्यपद्धतिर्लिख्यते ।

तत्रादौ पुस्तकवागीश्वरीं पुस्तके पूजयेत् ॥

पद्माधिरूढां सुसितां त्रिनेत्रां शूलाक्षमाले कमलं च खड्गाम् ॥

करैश्चतुर्भिः पतितो वहन्तीं सरस्वतीं सिद्धिकरीं नमामि ॥

श्रीपुस्तकवागीश्वर्यै समालभन्नं गन्धो नमः ॥

अर्घो नमः ॥ पुष्पं नमः ॥ ऐ& क्लीं सौः वद २ वाग्वादिनि सरस्वत्यै नमः ॥

ओं ह्सौः अं आं इत्यादि लं हं क्षः इत्यन्तं ह्सौः सरस्वत्यै नमः ॥

तत्र प्रथमं विघ्नोपशमनार्थं गणपति पूजा ॥

मण्डलाद्बहिः स्वदक्षेऽष्ट *?लपद्मं विलिख्य कर्णिकायां फलादिकं संस्थाप्य ॥ तत्र पूजा ॥

अक्षसूत्राङ्कुशौ दत्ते लडुपात्रं गणेश्वरः ॥ भुजैश्चतुर्भिः पाशं च द्विदंष्ट्रः सिंहवाहनः


एह्येहि? गणपतिनाथ पूजामिमां प्रतीच्छ ॥ इत्यावाहनम् ।

ओं गूं गणपतये नमः ॥ ओं विघ्नहर्त्रे नमः हरस्वतम *? लव ए ह्म रक्षमलवय-ऊं वित्तं मे देहि २
स्वाहा ॥ ३२ ?

अथ कलशार्चनं यथा ॥

तत्र स्नातः कृतनित्यकृत्यो *? द्वादशाङ्गुलोष्णीषाद्या भरणाद्यलङ्कृतदेहः साङ्गुलीयककरः
संयत कुन्तलः स्वस्त्यकाद्यासन पूर्वं पूर्वशिरस्कोर्ध्वलोमाद्यजिनाद्यासनोपविष्टः
सुगन्धिगन्धलिप्ताङ्गः सुप्रसनः सुभावितः सुधूपितः सुताम्बूलश्चन्दनागुरु चर्चितः
हारकटककेयूराङ्कित विग्रहः ॥ तत्र ॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नाभि भवे भजस्वमांभवोद्भव ॥

इति मन्त्रेण सुगन्धिगन्ध लिप्ताङ्गः मृत्युञ्जयेन सुधूपितः स्वताम्बुलश्च ॥

अमृतेश्वरभैरवमां रक्ष ३ ॥

इति मन्त्रेण हारकटककेयूराङ्कितः ॥

जानुभ्यां धरणिं गत्वा प्रणम्य पूजित शम्भोरिति विस्तारः क्रियते ॥

षट्त्रिंशदङ्गुलां कलशवेदिं कृत्वा ॥

तत्र स्ववामे द्वादशाङ्गुले कलशद्वयस्थापनम् ॥ स्वदक्षे लोकपालास्त्राभ्यावरणमण्डलं कृत्वा ॥

तत्र नैर्-ऋत्ये अस्त्रार्घपात्रं कृत्वा तेन सर्वद्रव्य प्रोक्षणम् ।

ओं फट् सर्वद्रव्योपचार शुद्धिरस्तु फट् स्वाहा ॥ पुनः स्वैः स्वैर्मन्त्रैः पुष्पादि संस्कुर्यात् ॥

आं धूम्र २ जीव २ सः २ सर्वासां पुष्पजातीनां जीव आगच्छ तु स्वाहा ॥

इति पुष्पमन्त्रः ॥

ओं कालाग्निरुद्राय जगद्धूपसुगन्धिने सर्वगन्धवहाय नमः धूपे ॥

जगज्ज्योतीरूपाय दीपाय नमः दीपे ॥

गन्धमादिनिगन्ध जीवापय तु स्वाहा चन्दने ॥

प्. २)

ह्रीं स्वाहा कुङ्कुमे ॥

ओं लां पृथिव्यै धरित्रिशक्तये नमः अर्घे ॥

ओं व्लीं वरुण राजानकाय नमः ॥ उदके ॥

इति द्रव्यसंस्कारः ॥

दूतीं सौम्यां चतुर्बाहुं सुघोषां मन्त्रघोषिणीम् ॥ अक्षमाला पुस्तकस्रग्वराभय करां यजेत् ॥

ओं हूं शुद्धविद्यायै मन्त्रमात्रे दूत्यै नमः ॥

इति शाम्भव व्याप्त्या दूतीं पूजयेत् ।

ओं ह्रीं श्रीं शिवादूत्यै नमः ॥

इति शाक्तव्याप्त्यादूतीं वादयेत् ॥

अमृतेशाय विद्महे व्योमदेहाय धीमहि तन्नो नेत्रः प्रचोदयात् ॥ ३ ॥

तन्महेशाय विद्महे वाग्विशुद्धायधीमहि तन्नोः शिवः प्रचोदयात् ॥ ३ ॥

बहुरूपाय विद्महे कोटराक्षाय धीमहि तन्नोघोरः प्रचोदयात् ॥ ३ ॥

ग्रहमण्डलाग्रे ॥

प्रभामण्डलाय नमः ॥ वृषभाय नमः ॥

भ्यङ्गेशाय नमः ॥ दिङ्मातृभ्यो नमः ॥ गं गणेशाय नमः ॥ कुंकुमाराय नमः ॥ श्रीं श्रियै
नमः ॥ सं सरस्वत्यै नमः ॥ ओं विश्वकर्मणे नमः ॥

ततः प्राणायामः ॥ आवाहनं ग्रहमण्डलोपरि ॥

पुष्पाञ्जलिप्रमाणेन संमुखं भावयेद्विभुम् ॥

विभो सपरिवारस्य स्वागतमित्युदीरयेत् ॥

स्वागतं स्वस्वागतं शिवस्य स परिवारस्य भोः ॥

ततो ग्रहमण्डलोपरि ॥

अमृतेश्वरममृतलक्ष्मीं निष्कलं च पूजयेत् ॥ मध्ये क्षोटे सूर्यं तद्बहि भैरवान् स्वस्वमन्त्रेण
पूजयेत् ॥

प्. २ब्)

ओं क्षमरय-ऊं कपालेशभैरवाय नमः ॥ ओं ह्रूं शिखिवाहनभैरवाय नमः ॥ ओं क्षुं
क्रोधराजभैरवाय नमः ॥ ओं झ्रूं विकरालभैरवाय नमः ॥ ओं ह्वूं मन्मथभैरवाय नमः ॥ ओं
ह्र्यूं मेघनादभैरवाय नमः ॥ ओं हूं सोमराजभैरवाय नमः ॥ ओं ठूं विद्याराजभैरवाय नमः
॥ तद्बहिर्ग्रहाः ॥

आदौ मध्ये सूर्यः ॥

ओं रूं अग्नये नमः ॥ ओं हां झ्रीं सः वीरेश्वरभैरवाय नमः ॥ ओं ह्रां झ्रीं सः वीरलक्ष्म्यै
नमः ॥

ततः पूर्वादि क्रमेण ॥

ओं व्लूं वरुणाय नमः ॥ ओं स्रूं चन्द्रमसे नमः ॥ पूर्वे ॥

ओं कुंकुमाराय नमः ॥ ओं रहर-ऊं अङ्गारकाय नमः ॥ आग्नेये ॥

ओं हूं विष्णवे नमः ॥ ओं स्रूं बुधाय नमः ॥ दक्षे ॥

ओं लूं इन्द्राय नमः ॥ ओं र्सूं जीवाय नमः ॥ पश्चिमे ॥

ऐं क्लीं सौः वद २ वाग्वादिनि सरस्वत्यै नमः ॥

ओं आसुरोत्तमाय नमः ॥ उत्तरे ॥

ओं आं व्रां व्रं ब्रह्मणे नमः ॥ ओं क्ष्म्र्यूं शनैश्चराय नमः ॥ नैर्-ऋते ॥

ओं गं गणेशाय नमः ॥ ओं यूं गहवे नमः ॥ वायौ ॥

ओं नमो भगवते रुद्राय नमः ॥ ओं ह्रीं केतवे नमः ॥ वायौ ॥

ईशे ॥ यागाद्बहिस्स्ववामे पक्षरूपे ॥

ओं ह्लां ब्रह्मणे नमः ॥ ओं ओत्तान पादात्मजाय ध्रूवाय नमः ॥ यागाद्बहिः स्वदक्षे स्वस्तिकोपरि ॥ ओं
ह्लां अनन्ताय नमः ॥ ओं अवर्णापादात्मजायागस्त्याय नमः ॥ तद्बहिः ॥

ओं लूं इन्द्राय वज्रहस्ताय नमः ॥

प्. ३)

रूं अग्नये शक्तिहस्ताय नमः ॥

ओं टूं यमाय दण्डहस्ताय नमः ॥ ओं क्षूं नैर्-ऋते खड्गाहस्ताय नमः ॥ ओं वूं वरुणाय
पाशहस्ताय नमः ॥ ओं यूं वायवे ध्वजहस्ताय नमः ॥ ओं कुंकुवीराय गदाहस्ताय नमः ॥ ओं मूं
ईशानाय त्रिशूलहस्ताय नमः ॥ ओं आं व्रां व्रं ब्रह्मणे पद्महस्ताय नमः ॥ ओं ह्लां विष्णवे
चन्द्रहस्ताय नमः ॥

इत्थं पूजित शम्भोः जानुभ्याधरणीं गत्वा प्रणम्य विज्ञप्तिं कृत्वाज्ञां ग्राहयेत् ॥

पूर्वमेवत्व या शम्भो नियुक्तोहं शिवाध्वरे ॥ गुरुः परापरे स्थित्वा लोकानुग्रह कृद्भव ॥

त्वच्छक्त्याघ्रात हृदयस्तदयं भगवन्मया ॥ दृष्टोदास्यानुग्रहार्थं प्रवृत्तोहं न लोभतः ॥

त्वमेवचात्रभगवन्प्रमाणं सर्वकर्मणाम् ॥ साक्षिरूपः स्वयंकर्ता परमः शङ्करः शिवः ॥

तद्विशेषेणमामेव समधिष्ठाय सन्निधिम् ॥ कुरुष्व येन तत्पाद समानक्रियतामियाम् ॥

त्वदाज्ञां हृदये कृत्वा करोमि निखिलाः क्रियाः ॥ अन्यथा कर्तुमीशा हि विद्येशा अपि किं प्रभो ॥

विभोगवेदयिष्यामि यद्यत्कर्मकरोम्यहम् ॥

इत्याज्ञां शम्भोर्गृहीत्वा ॥

ओं ठू&? विद्याराजभैरवाय नमः ॥

इति विद्याराट्सप्तजप्तोष्णीष आश्रित शिवाहं भावोनुग्रह्यः परंपारं
प्रप्स्यतीतिमुदितमनाबहिर्यायात् ॥

कलशधाषि आदौ बहिः प्रभामण्डलपूजा ॥

तत्र वृषभध्यानं ॥

श्वेतस्त्रिनेत्रो वृषभो दीप्तस्त्रिशूलवांस्तथा ॥ ध्यातव्यः पापहा चैव वराभय लसत्करः ॥

ओं वृषभाय नमः ॥

एकवक्त्रं चतुर्भाहुं सर्वविघ्नविनाशनम् ॥ प्रभामण्डलदीप्तं च भास्वरं तं विचिन्तयेत् ॥

ओं प्रभामण्डलाय नमः ॥

वृषभाय नमः ॥ भृङ्गीशाय नमः ॥ कुमाराय नमः ॥ अम्बिकायै नमः ॥ ओं द्वारश्रियै नमः ॥ ओं
लक्ष्म्यै नमः ॥ ओं गणपतये नमः ॥ ओं सरस्वत्यै नमः ॥ विश्वकर्मणे नमः ॥ त्रिशूलाय नमः ॥

ततः कलशयागाद्बहिः पूर्वादिक्रमेणदिङ्मातृदशकं पूजयेत् ॥

स्वधाकलश सत्पुष्पमालाहस्ताः सुशोभनाः ॥ आकाशमातर एकवक्त्रादेवस्य सम्मुखाः ॥

ओं उमायै नमः ॥ ओं दुर्गायै नमः ॥ ओं भद्रकाल्यै नमः ॥ ओं स्वस्तये नमः ॥ ओं स्वाहायै नमः ॥ ओं
शुभङ्कर्यै नमः ॥ ओं श्रियै नमः ॥ ओं गौर्यै नमः ॥ ओं लोकधात्र्यै नमः ॥ ओं वागीश्वर्यै नमः
॥ ओं दिङ्मातृभ्यो नमः ॥

ततो द्वारपूजा ॥

स्ववामे दक्षिणशाखायां ॥ ओं नन्दिने नमः ॥ ओं गङ्गायै नमः ॥ ओं मेषास्याय नमः ॥ ओं दण्डिने
नमः ॥ स्वदक्षे वामशाखायां ॥ ओं महाकालाय नमः ॥ ओं यमुनाय नमः ॥ छागलास्याय नमः ॥
महोदराय नमः ॥

द्वारोपरि ॥

ओं गं गणेशाय नमः ॥ द्वाराधः ॥

देहल्यै नमः ॥ वास्तु पुरुषाय नमः ॥ ब्रह्मणे नमः ॥ सर्वेभ्यो भूतेभ्यो नमः ॥

प्. ४)

ततः स्वपश्चे द्वारमध्ये न्यासे ॥

हुं फट्कार प्रयोगेन नाराच मुद्रया ॥

तद्ध्यानमाह ॥

नाराचास्त्रं सूर्यनिभं रौद्रं नेत्रत्रयोज्जयोज्ज्वलम् ॥ शूलपाशधरं विघ्नहरं तन्मुयास्मरेत् ॥

इति यागधासान्तः पुष्पं प्रक्षिप्य ॥

पार्ष्णाहति त्रयेण भूमिगतांस्तालत्रयेणान्तरिक्षगतान्दिव्यदृष्ट्यावलोकेन दिव्यान् ॥ छोटिकाभिश्च
दिग्विदिक्स्थान् विघ्नान् हुं फट्कार प्रयोगेन निवार्य ॥

तत्र वक्ष्यमाण भूतबलिं दत्वा ॥

भूतानियान्येव वसन्ति भूतले बलिं गृहीत्वा विधिवत् प्रयुक्तम् ॥

अन्यत्र वासं परिकल्पयन्तु क्षमन्तु चान्यत्र नमोस्तुतेभ्यः ॥

इति पठित्वा भूतापसर्पणं कृवा ॥

उत्तरदिशि सध्यानं शलभ रुद्रं सशक्तिकं स्मृत्वा तन्मन्त्रेण तं पूजयेत् ॥

ओं नमोभगवते शलभशाल्वाय पक्षिराजाय मम शत्रून्नाशय २ हौं घ घ हुं फट् स्वाहा ॥

शलभरुद्रश्री पादुकां पूजयामि नमः ॥

तद्वामे ॥

ओं नमो भगवति शलभिश्वालि मम शत्रून्नाशय २ हुं फट् स्वाहा ॥

शलभ देवी श्रीपादुकां पूजयामि नमः ।

ओं सहस्रार हुं फट् श्रीसुदर्शनास्त्राय नमः ।

इति पूर्वदिशि ॥

ओं ह्रीं २ प्रस्फुर २ स्फुर २ घोरघोरतर तनुरूप नट २ प्रचट २ कर्ष २ घातय २ हुं फट् अस्त्राय
फट् अघोरास्त्राय नमः ॥

इति दक्षिणे ॥

उत्तिष्ठ पुरुषि किं सुपिषिभयं मे समुपस्थितं यदि शक्यम शक्य तन्मे भगवति शमय स्वाहा ॥

प्. ४ब्)

वनदुर्गायै नमः ॥ इति पश्चिमे ॥

पाशुपतास्त्रं विदिक्षु ॥ श्लीं पशु हूं फट् स्वाहा ॥ गणपतिर्मध्ये स्मृत्वार्चयेत् ॥ अनन्तरं
प्रविश्य । तत्र लोकपालानां वज्राद्यस्त्र प्रकारं मखरक्षार्थं संचिन्त्य ॥

दक्षदिक्स्थः सौम्यास्या उत्तराभिमुखः पापप्लोषसामर्थ्यादघोरवक्त्रसाम्मुख्येनोपविश्य ॥ कलशवेद्यग्रे
वास्तु पुरुषं पूजयेत् ॥

ध्यानमाह ॥

सितं त्र्यक्षं सौम्यमुखं द्विभुजं वास्तु पुरुषम् ॥ अक्षमालाशूलकरं चिन्तयेद्विघ्ननाशनम् ॥

ओं हां वास्तु पुरुषाय नमः ॥

ततः कलशवेदौ पूर्वादि क्रमेण भूतपूजा ॥ ओं लांक्षितये नमः ॥ ओं रौं अग्नये नमः ॥ ओं सौं
यजमानाय नमः ॥ ओं सौं सूर्याय नमः ॥ ओं वौं जलाय नमः ॥ ओं यौं वायवे नमः ॥ ओं सौं
सोमाय नमः ॥ ओं हौं आकाशाय नमः ॥ ततः करन्यासमारभेत् ॥

गन्धदिग्धौ करौ कृत्वा अस्त्रेण प्रोक्षितौ कवचेनावगुण्ठितौ चामृतेनाप्लावयेत् ॥

यथा ॥

कन्दस्थानादुत्थितां शक्तिं ध्यात्वा द्वादशान्तं यथा प्राप्तां चिन्तयित्वा तत्स्थानादुत्थितां
शक्तिं ध्यात्वा यथा बिन्दुस्थानं प्राप्तां चिन्तयित्वा तत्स्थानाद मृतं गृहीत्वानासिक्य द्वादशान्तेन
निर्गतां ध्यात्वा करावाप्लावितौ भावयेत् ॥ ध्यायेश्च ॥

अनन्तरं पद्ममुद्रावद्ध्वा अङ्गुष्ठमूले आधारशक्तिरग्रे पद्मं तदुपरि मूर्तिं तत्र श्रीमन्नेत्र

प्. ५)

भट्टारकमङ्गुष्ठादि कनिष्ठान्तमङ्गपञ्चकं । अस्त्रं नखेषु ।

दक्षि तर्जन्यारभ्य वामतर्जन्यन्तं भैरवाष्टकं । वामतर्जन्या आरभ्य दक्षिण तर्जन्यन्तं
भैरवाष्टकम् ॥

ततो निष्कलं साङ्गं देवीकं न्यसेदङ्गुष्ठयोः ॥ इति करन्यासः ॥

अथ प्राणायामः ॥

ओं लं रेचकं करोमि नमः । इत्यशुद्धं प्राणप्राणवायुं द्वादश प्रणवोच्चारकालं
यावद्दक्षिणनासापुटेन बहिः क्षिपेत् ॥

ओं वं पूरकं करोमि नमः । शुद्धं स्वेतं प्राणवायुं चतुर्विंशतिप्रणवोच्चारकालं
यावदन्तर्वामनासापुटेन प्रविशेत् ॥

ओं रं कुम्भकं करोमि नमः ।

तमेव प्राण वायुं जलभ्यत कुम्भवदचलस्थित्या षट्त्रिंशत्प्रणवोच्चारण कालं यावदन्तर्निरोधयेत्


यं ऊर्ध्वरेचकं करोमि नमः । तमेव कुम्भितं हृत्कण्ठतालुभ्रूमध्य ब्रह्मरन्ध्र भेदन क्रमेण नोवा
शक्यत्वाश्शनिः शनैर्वामनासापुटेन बहिः क्षिपेत् ॥ इत्युपकर्षः ॥

ओं हं व्योमात्मानं स्थापयामि नमः ।

हृत्पद्मस्थितमात्मानं खद्योतनिभं सूक्ष्मं स्फुरत्तारकाकारं हृत्कण्ठतालु
भ्रूमध्यब्रह्मारन्ध्रभेदनक्रमेणोर्ध्वरेचकेन द्वादशान्ते नियोज्यमनोहङ्कारबुद्धिः परतत्वे विलोप्य
शून्यं शरीरं ध्यात्वा विश्रमेत् ॥ इति सूक्ष्मशरीरशुद्धिः ॥ इत्यपकर्षः ॥

ओं क्ष्यूं इमांतनुं शोषयामि नमः ॥ इति सूर्यरूपं प्रणवं शरीर व्यापकं सञ्चिन्त्य ॥

इति पार्थिवीधारणा ॥

रक्षरय-ऊं तनुंदाहयामि नमः । इति दक्षिणपादाङ्गुष्ठे कालाग्निं ध्यात्वा तज्ज्वालाभिः शरीरं
सबाह्याभ्यन्तरं भस्मीभूतं भावयेत् ॥

इत्याग्नेयीधारणा ॥

यूं तनो उत्प्लवनं करोमि नमः । इति शारीरं भस्मवायुना दशदिग्गतं भावयेत् ॥ वायवी ॥

ओं वं तनुमाप्लावयामि नमः । इति द्वादशान्तपतितेन शाक्तामृतजलेन तत्स्थानं क्षालितं भावयेत् ॥

इति वारुणी ॥

ओं हं सं विन्मयोस्मिनाहमस्मिनचान्योस्ति ध्येयं चात्र न विद्यते ॥

आनन्दपदसंलीनं मनः समरसी गतम् ॥ इत्याकाशी ॥

एवं धारणापञ्चकं क्षित्याद्याकाशपर्यन्तं भूतपञ्चकं पुरमाणुतया ब्रह्मादि सदाशिव पर्यन्तं
कारणपञ्चकं श्रोत्रादि करण पञ्चकं सद्योजातादि वक्त्रपञ्चकं जाग्रदाद्यवस्था पञ्चकं एवं
यत्किञ्चित्प्रपञ्चं तत्परमशिवे शून्यातिशून्ये परप्रकाश स्वरूपे कल्पनाजालरहिते गुणातीते षष्ठे
परमाकाशशायिनि द्वादशान्तस्थे श्रीमन्निष्कलभट्टारके लीनं भावयेत् ॥

यथा विषस्यैव मारकत्वं मन्त्रशक्त्या निवार्यते । न तु तत्स्वरूपं । तथा देहाहं भावस्य विलोपः न
तु स्वरूपनाशः । इति भावः ॥

एवं षाट्कोशिके शरीरे निवृत्ते परमानन्दमयमात्मानं भावयेत् ॥

शिवोस्म्यहमेवेति भावः ॥

प्. ६)

ओं हां दिव्यां तनुं सञ्जीवयामि नमः । कर्मात् प्रभृति आसन पक्षं सञ्चिन्त्य ॥

आधारशक्त्यै नमः ॥ कन्दे ॥ धात्र्यै नमः ॥ नाभ्यावधि ॥ पयोर्णवाय नमः ॥ नाभौ ॥ मूलाय
नमः ॥ कन्दाय नमः ॥ नालाय नमः ॥ हृदयावधि ॥

हृदिधर्मादिचरणसहितं योगपीठासनं संचिन्त्यतदुपरि मध्ये । सितकमलासनमष्टपत्रंसके
सरकर्णिकं ध्यायेत् ॥

पत्त्रेभ्यो नमः ॥ सूर्यमण्डलाय नमः ॥ पत्राणि श्वेतानि ध्यायेत् ॥ तदधि पतये ब्रह्मणे नमः ॥

ब्रह्माणं चतुर्मुखं चतुर्भुजं ध्यायेत् ॥ केसरेभ्यो नमः ॥ सोममण्डलाय नमः ॥ केसराणि
पीतशुक्लानि ध्यायेत् तदधिपतये विष्णवे नमः ॥ विष्णुं कृष्णवर्णं ध्यायेत् ॥ कर्णिकायै नमः ॥
वह्निमण्डलाय नमः ॥ कर्णिकां स्ववर्णवर्णां ध्यायेत् ॥ तदधिपतये रुद्राय नमः ॥ रुद्रं श्वेतं
ध्यायेत् ॥ तत ईश्वराय नमः ॥ ईश्वरं शुक्लं ध्यायेत् ॥ ततः सदाशिवाख्यं प्रेतासनं ।

महाप्रेतं न्यसेत् पश्चात् प्रहसन्तं स चेतनम् ॥ रक्तवर्णं स्वतेजस्कं नेत्रत्रय विभूषितम् ॥

ओं हूं सदाशिवाय महाप्रेतासनाय नमः ॥

ओं आत्मतत्वाय नमः पत्त्रेषु ॥ विद्यातत्वाय नमः केसरेषु ॥ ओं शिवतत्वाय नमः कर्णिकायां ॥
वेदचतुष्टयं पूजितासने । ततो भोगद्वादशान्ताद्भगवन्तं स्फुरत्तारकाकारं । ऊर्ध्वरेचकेन
ब्रह्मरन्ध्र भ्रूमध्यतालु क्रमेण हृत्पद्मस्थभगवन्मूर्तौ तद्द्वादशान्त क्रमेण तद्धृदि संयोजयेत् ॥

आत्मानमेव शिवी कुर्यादित्यर्थः ॥

अमृतीकरोमि नमः ॥ इति द्वादशान्तपतितेन शाक्तामृतजलेन स बाह्याभ्यन्तरं तनुमाप्लावयामि नमः ॥
अधः च्छादनाय नमः ॥ ऊर्ध्वच्छादनाय नमः ॥ मध्यच्छादनाय नमः ॥ ओं सत्वाय नमः ॥ रजसे
नमः ॥ तमसे नमः ॥ तत्र कर्णिकायां देवं स्वधेति ध्यानेन परमेश्वरं ध्यात्वा न्यासं कुर्यात् ॥

ओं शिवतत्वाय नमः करन्ध्रे ॥ सदाशिवतत्वाय नमः । ललाटे ॥

ईश्वरतत्वाय नमः भ्रूमध्ये ॥ ओं विद्यातत्वाय नमः तालुनि ॥

मायातत्वाय नमः कण्ठे ॥

कालतत्वाय नमः हृदि ॥

ओं नियति तत्वाय नमः नाभौ ॥

पुरुषतत्वाय नमः मेढ्रे ॥

प्रकृतितत्वाय नमः पादयोः ॥

अथ त्रितत्वन्यासः ॥

सः शिवतत्वाय नमः करन्ध्रे ॥

णुं विद्यातत्वाय नमः भ्रूमध्ये ॥

ओं आत्मतत्वाय नमः हृदि ॥

अमृतमूर्तये नमः सकल देहे ॥

ततः करन्यासमङ्गन्यासमङ्गषट्केन कुर्यात् ॥

पुनर्मूलं सकल देहे न्यसेत् ॥ ओं मूर्त्यै नमः । शुद्धदेहाय नमः ॥ मानसैः पञ्चोपचारैर्देवं
पूजयेत् ॥

होमं च ॥ ततो बाह्ययागं कुर्यात् ॥ यागभूमौ स्वदक्षेऽस्त्र मन्त्रेणास्त्रं सम्पूज्य ॥

प्. ७)

ज्वलद्ग्रसन्तं विघ्नौघं महापापक्षयावहम् ॥ त्रिनेत्रं द्विभुजं ध्यायेदस्त्रं देवस्य सम्मुखम् ॥

ततो दर्भकाण्डद्वय विष्टरेण द्रव्यसंस्कारः ॥ ततः पात्रत्रयमस्त्रेण सम्प्रोक्ष्य वर्मणा वेष्ट्य


कवचेनावगुण्ठ्य प्रणवेन संपूज्य ।

हं पात्रत्रयमवगुण्ठयामि हुं नमः इत्यवगुण्ठ्य ।

विधि निरोधपश्वर्घ पात्रेभ्यो नमः । इति सम्पूज्य । अष्टाङ्गेनार्घ्येण दर्भकाण्डद्वय विष्टरसहितेन
सम्पूज्य ॥

आपः क्षीरं कुशाग्राणि घृतं च दधितण्डुलाः ॥ यवाः सिद्धार्थकाश्चेति अर्घ्योष्टाङ्गः
प्रकीर्तितः ॥

लां जगद्धात्र्यै पृथिव्यै नमः ॥

इति तण्डुलान् ।

त्रिजटोब्ध पिङ्गलायरुद्राय नमः ॥

सर्षपान् ॥

ओं ब्रह्मणे स्वरण्येष्टाय नमः । यवान् ॥

ओं नमो विष्णवे सुरपतये महाबलाय नमः पुष्पाणि ॥

ओं ज्रीं सावित्रीपापभक्षिणि सावित्र्यै नमः हूं फट् दर्भान् ॥

ओं स्वां स्वां स्वां सोमाय नमः जलं ॥ ओं तत्सत्पितृभ्यो नमः तिलान् ॥

ओं हूं वागीश्वरि वाक्प्रदे सरस्वत्यै नमः क्षीरं ॥

ओं फट् अस्त्रा फट् घृतम् ॥

ओं यां रां लां वां सर्वोत्तमद्रव्येभ्यो नमः सर्वद्रव्यान् ॥

एतानि पात्रेषु क्षिपेत् । इत्यष्टाङ्गत्वमर्घ्य पुर्यकार्पणाभि प्रायात् ॥

तत्र परदृष्टा आदौ विद्यार्घं विभोः पाद्यादि पूजार्थं कुर्यात् ॥

आत्मविद्या शिव प्रकृति । पुरुष । तत्वपञ्चकेन ॥

सूर्यसोमवह्निकलाभिः ॥ तत्रादौ सूर्यकलाः ॥

ओं मारीच्यै ज्वालिन्यै । धूम्रायै । तपन्यै । तापिन्यै ॥ पाचिन्यै । हविर्वाहायै । तेजोवत्यै ।
शतधामायै । सुधामायै । पद्मगर्भायै । तमोपहारिण्यै इति सूर्यकलाः १२ ॥

अथ सोमकलाः ॥

ओं पूषायै । यमस्यै । सुमनस्यै । प्रीत्यै । प्रीतिकार्यै । वृत्यै । वृतिकर्यै । सौम्यायै । मरीच्यै ।
अंशुमालिन्यै । शशिन्यै । हृद्गतायै । लक्ष्म्यै । छायायै । संपूर्णमण्डलायै ॥ अमृतायै नमः ॥
इति सोमकलाः ॥ १६ ॥

अथावह्निकलाः ॥

ओं धूम्रायै । नीलरक्तायै ॥ कपिलायै । विस्फुलिङ्गिन्यै । ज्वालायै । तेजोवत्यै ॥ हविवाहिन्यै ॥
कविवाहिन्यै रौद्र्यै । संहारकारिण्यै ॥ इति वह्निकलाः ॥ १० ॥

मूलेन साङ्गपञ्चकेनात्मविद्या शिवप्रकृति तत्वपञ्चकसहितेन स्ववायौ । इति विद्यर्घं पूजयेत् ॥ तत्र
परदृष्टोपकरणा वलोकनम् ॥

यन्निरावरणं सम्यक् सततं कल्पनोझितम् ॥ तत्परं देवि कथितं साकाष्टासापरागतिः ॥

इति विद्यर्घपात्रात्सर्वद्रव्य प्रोक्षणम् ॥ ततो मध्ये केवलेन मूलेन निरोधार्घं पूजयेत् ॥

तत्र निष्ठुरमुद्रां प्रदर्शयेत् ॥ तन्निकटे ।

ओं हूं शिवाय नमः ॥ इति शिवाम्बुकार्यम् ॥

तन्निकटे स्वदक्षे । मूलेन साङ्गेन स देवीकेन पाशुपतास्त्रेण पाशुपतास्त्रं पूजयेत् ॥

ओं श्लीं पशु हूं फट् पाशुपतास्त्राय फट् ॥

ओं हृदयाय फट् नमः ॥

श्लीं शिरसे फट् स्वाहा ॥ पशिखायै वौषट् ॥ शुकवचाय फट् हूं ॥ हूं नेत्रेभ्यो वषट् ॥ फट्
अस्त्राय फट् फट् ॥

इति विधिनिरोधपश्वर्घ पात्रत्रय पूजनम् ॥

तेष्वऽमृतमुद्रयाऽमृतीकरणम् ॥

मन्त्रार्घपात्रादात्मप्रोक्षणम् ॥ नौमि श्वेत्मेति ॥

सप्तधा मूलेन स्वात्मपूजां कृत्वा ऐशान्यादाग्नेयान्तं गुरुपूजां कृत्वा ॥

शिवाम्भसा । अस्त्राम्भसा । विद्याम्भसा च । करतलमभ्युक्ष्यावगुण्ठ्य ॥

प्रक्षाल्यगन्धतोयेन हस्तं हस्तेन केनचित् ॥ गन्धदिग्धेयजेद्देवं साङ्गमासनवर्जितम् ॥

तथा च ॥

वक्त्रपञ्चकसंयुक्तः शिवेनाधिष्ठितः शिवः ॥

पाशच्छेदकरः क्षेमी शिवहस्तः प्रकीर्तितः ॥

तद्यथा ॥

कुङ्कुमागुरुकुरङ्गनाभिजाचन्दनेन तगरप्रियाङ्गुभिः ॥ गन्धतोय विधिमेवमभ्यधुः शङ्करार्चन विध
वडु क्रमात् ॥

इति गन्धोदकं कृत्वा हस्तौ तेन प्रक्षाल्य ॥

ओं सोममण्डलाय नमः ॥ वामकरे ॥ ओं सूर्यमण्डलाय नमः ॥ दक्षे ॥ इत्थं गन्धैर्मण्डलकं
तत्कर मध्यमाङ्गुष्ठाभ्यामितरकरार्पित कुसुमैरनासनं साङ्गं स वक्त्रं मूलं सम्पूज्य ॥

मन्त्रसन्धानं नाडीसन्धानं परमीकरणं चान्यप्रकारेण करस्थि तस्य विभोः कुर्यात् ॥ तद्यथा ॥

हृदयान्मध्यधाम्नि सौषुम्ण पथामन्त्रमुदीरयन्भ्रूमध्यस्थं बिन्दुं भेदयित्वा सर्वग्रन्थि विदारण
पूर्वं परमं धामद्वादशान्तमाविश्य पुनर्द्वादशान्ता दवरुह्य भ्रूमध्यं क्रमेण
वामनासापुटमार्गेण करस्थमन्त्रवृन्दं ज्वलद्भास्वराकारं गृहीत्वा तेन वामनासापुटमार्गेण
भ्रूमध्यं प्रापय्य भ्रूमध्यादपि सूच्यग्रेणैव करन्ध्रं भित्वा द्वादशान्तं प्रापयेत् ॥

इति मन्त्रसन्धानम् ॥

पुनर्द्वादशान्ताद्भ्रूमध्यं प्रापय्य भ्रूमध्याद्दक्षिणनासापुटमार्गेण रेचकं कृत्वा
करस्थमन्त्ररूपस्य विभोर्हृदि प्रविश्य तस्य करस्थस्य विभोः हृदयमार्गेण द्वादशान्तं प्राप्य ततः
पूरकं कृत्वा दक्षिणनासापुटेन स्वहृदये प्रविशेदिति नाडीसन्धानम् ॥

ततः स्वहृदयाद्द्वादशान्तं तद्द्वादशान्तात्तद्धृदये च सर्वत्र चक्रचापवत्स्वहृदयात्करान्तं
निष्कल भट्टारकं दीप्तं भावयेत् ॥

इति परमीकरणम् ॥

एवं ज्वलन्मन्त्रगणपरिपूर्णं पाणिं विभाव्यमूलमुच्चार्यदक्षिणं हस्तं हृदि न्यसेत् ॥

वामाद्दक्षिणहस्ते पुष्पं दत्वा तं दक्षिणं हस्तं स्वशिरसि स्थापयेत् ॥

इति शिवहस्तविधिः ॥

अथ पञ्चगव्यविधिः ॥

मर्यादयावाशालिचूर्णेन कोष्ठनवकं कृत्वा पात्रनवकमानीय हैमादिमृण्मयान्तं ॥

प्. ९)

ओं हः फट् पात्राणि शोधयामि हः फट् ॥ इति सप्तवाराभिमन्त्रित सट्त्रिंशद्दर्भकृते न
ज्ञानखड्गेन पात्राण्य भिषिञ्चेत् । तं शिवाम्भसा प्रोक्षतं ॥

ओं हैं पात्राणि वेष्टयामि हुम् ॥

इति कवचेनावगुण्ठितं । मध्यमकोष्ठादरभ्य पूर्वादि क्रमेण । शिव । सदाशिव । ईश्वर । विद्या ।
माया । काल । नियति । पुरुष । प्रकृति । रूपे तत्वनवके न्यस्ते । मध्य पूर्वदक्षिण पश्चिमोत्तरेषु ।
सुप्रतिष्ठा । सुशान्ता ।

तेजो वदऽमृताख्य शुक्रोदयानि पूजयेत् ॥ गोमयं तु हृदा पश्चे गोमूत्त्रं शिरसोत्तरे ॥

दधिप्राच्यां शिखायां तु मध्ये क्षीरं तु वर्मणा ॥ दक्षिणे घृतमस्त्रेण नेत्रे नेशे कुशोदकम् ॥

एतदेव । गोमयं तु हृदापश्चे । हां हृदयाय नमः । एकवारमुच्चार्य । लं सद्योजातमूर्तये नमः ॥

इति गोमय मुर्धाङ्गुष्ठमिति पश्चे ॥ गोमूत्रं शिरसोत्तरे ॥ हीं सिरसे स्वाहा ॥ द्विवारमभिमन्त्र्य ॥ ओं
वं वामदेवाय नमः ॥ उत्तरे पलमात्रं गोमूत्रं क्षिपेत् ॥

दधिप्राच्यां शिखायां तु ॥ हूं शिखायै वौषट् ॥ त्रिवारमभिमन्त्र्य ॥

ओं अघोर हृदयाय नमः ॥ प्राच्यां दधि पलमात्रं । मध्ये क्षीरं तु वर्मणा ॥ हैं कवचाय हूम् ॥

चतुर्वारमभिमन्त्र्य ॥ यं तत्पुरुषवक्त्राय नमः । मध्ये क्षीरं पलमात्रं ॥

दक्षिणे घृतमस्त्रेण ॥ ओं हः फट् अस्त्राय फट् ॥ पञ्चवारमभिमन्त्र्य ॥

ओं क्षं ईशान मूर्ध्ने नमः ॥

प्. ११ब्)

घृतमर्धाङ्गुष्ठमात्रं दक्षे क्षिपेत् ॥

नेत्रेणेशे कुशोदकम् ॥

ओं हौं नेत्रभ्यो वषट् ॥ ओं शिवाय नमः ॥

तन्महेशाय विद्महे वाग्विद्धाय धीमहि तन्नः शिवः प्रचोदयात् ॥ ३ ॥

इति कुशोदकं पलमात्रमीशाने क्षिपेत् ॥

अथवा ॥

अर्धाङ्गुष्ठैक द्वित्रिचतुष्पञ्चमितायदिवागोमय घृते अर्धाङ्गुष्ठमिते पलेपलमन्यत्स्थापयित्वे
शदिशिपलमात्रं कुशाम्बु च ॥

यद्वा ॥

गोमयं गोजलं सर्पि दधिक्षीरं तु पञ्चमम् ॥ सद्योजातेन वामेन रूपिणा पुरुषेण च ॥

ईशानेन यथा सङ्ख्यं गोमयाद्यभिमन्त्रयेत् ॥ कुशोदकं तु गायत्र्या धाम्ना संहितयाथवेति ॥

साङ्गेन धाम्ना कुशोदकं मन्त्रयित्वा ॥ ओं हां हीं हूं हैं हौं हः कुशोदकाय नमः ॥

ततः पूर्वं पूर्वं पुरतः कृत्वा संयोजयेत् ॥

गोमयं गोमूत्रे ॥ गोमूत्रं दध्नि ॥ दधिक्षीरे ॥ क्षीरं घृते ॥ घृतं कुशोदके सन्दध्यात् ॥

आग्नेयस्थमीश्वर तत्वं नैर्-ऋतस्थे माया तत्वं ॥ नैर्-ऋतस्थं मायातत्वं वायुस्थे नियति तत्वे ॥

वायुस्थं नियति तत्वमीशानस्थे प्रकृतितत्वे कुशोदके सन्दध्यात् ॥

तदपि सर्वं पृथक् कलशमण्डलोपरि आग्नेयकोणस्थे पूर्वलिखित पद्मोपरि पात्रे न्यसेत् ॥

पुनरङ्गषट्के नालोड्यामृते समुद्रयाऽमृती कृत्य पात्राधः अनन्ताय नमः ।

प्. १०)

पात्रोपरि वामे खेटकेति अघोरं अघोरीश्वरीं । निष्कलं साङ्गं स वक्त्रं सावरणं पूजयेत् ॥

कवचेनावगुण्ठ्य ।

तेनात्मानं यागभूमिं च सम्प्रोक्षयेत् ॥

इति पञ्चगव्यविधिः ॥

अथ दक्षदिक्स्थः सौम्यास्यो यागभूमौ षट्त्रिंशद्दर्भं कृतं ज्ञानखड्गां पूजयेत् ॥

ओं हः फट् षट्त्रिंशत्तत्वरूपाय ज्ञानखड्गाय नमः ॥

ततस्तेन पञ्चगव्येन सप्तास्त्र जप्तसप्तदर्भकृत विष्टरेण वा ज्ञानखड्गेन भूमि प्रोक्षणम् ॥

इति शल्यशुद्धिर्भूमिं मुक्ता पूर्णां ध्यायेत् ॥

ओं हः फट् उल्लेखनं करोमि फट् ॥

एवं मृत्स्नोद्धारं । शल्यापनयनं ॥

वज्रीकरणं ॥ मौक्तिका पूरणं ॥ आकोटनं ॥ सेचनं ॥ समीकरणं ॥ मार्जनं ॥ एते
संस्कारामनसा ॥ इति भूमिशुद्धिः ॥

अथ लेपनं पञ्चगव्यगन्धोदकाभ्याम् ॥

ओं हः फट् लेपनं करोमि हः फट् ॥ ततो विकरक्षेपः ॥

तिलालाजाय वाश्चैव दूर्वाः सिद्धार्थका शुभाः ॥ कुसुमानि च शुक्लानि सुगन्धी निचभूरिशः ॥

ईषश्चन्दन पङ्केन मिश्रोयं विकरः शुभः ॥

अस्त्रेण विकरक्षेपः ॥

विकरांस्तु लोकपालास्त्र रूपान्ध्यायेत् ॥

चासरेण कुशकूर्च्या वा नैर्-ऋतादि ईशानान्तं दौकयेत् ॥

ओं हः फट् अभ्युक्षणो करोमि फट् ॥

गन्धाम्भः पञ्चगव्याभ्यां स्थण्डिलमभ्युक्ष्य ॥

वेदिमध्ये पश्चिमदिशि श्री पूजनम् ॥

ध्रूवेण श्रियमावाह्य पद्महस्तां स्वलोचनाम् ॥ शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्ष्णसंयुताम् ॥

नीलोत्पलदलश्यामां यागहर्म्यावलोकिनीम् ॥ ब्रह्मस्थानोपविष्टां च द्वाराभिमुखभद्रगाम् ॥

ओं ह्रीं श्रीं श्रियै नमः ॥

ततः स्ववामे गणपति पूजा ॥

विभ्रद्दक्षिणहस्तेति ॥ मूलेन साङ्गेन पूजा ॥ स्वदक्षे क्षेकुमार पूजनम् ॥ घण्टां सुवर्णरचितां
॥ मूलेन साङ्गेन पूजा ॥ ततोर्ध्वोर्ध्व क्रमेण ग्रहापूजा ॥ तेषां विज्ञप्तिः ॥

भगवन्तो ग्रहाः सर्वे येन्येचोपग्रहा मताः ॥ ते सर्वे सन्निधानं मे कुर्वन्तां विघ्नशान्तये ॥

स्ववामे ईशानान्तं गुरुपूजा ॥

गणनाथाम्बिके स्वामिपादुके मां जगद्गुरुम् ॥ यजन्तमनुजानीहि यथा सम्पन्नकारकम् ॥

ततो मूलेन साङ्गेन यागवेदीं सम्पूज्य ॥

तत ईशाने स्वस्तिकमालिख्य ॥ तत्समीपं पद्ममालिख्य ॥

ततः शिवकलशमानीय ।

शिवाम्भसास्त्रेण प्रोक्ष्य सितवस्त्रेणोत्पुंस्य गन्धोदकेन संलिख्य वस्त्रपूतेना जलेन सम्पूज्य ।

चुताश्वरूपल्लवैः सर्षपदूर्वाभिः । रत्नगर्भोषधीभिः सहदेव्या श्रीफलजाती फल
पूगफलादिभिः सम्पूर्य ॥

सुगन्धिद्रव्येनाधिवासितं कृत्वा ईशाने स्वस्तिकोपरि पूजितासने ।

अमृतेश्वररूपं शिवकलशं स्थापयेत् ॥

मूलेन साङ्गा पञ्चकेन पूजयेत् ॥

एवमेव वार्धानीममृतलक्ष्मीरूपामस्त्रेण पूजयित्वा पद्मोपरि स्थापयेत् ॥

ततो ज्ञानखड्गां षट्त्रिंशद्दर्भनिर्मितमुत्तराग्रं तयोरुपरिस्थापयेत् ॥

ततो भगलिङ्गीकरणम् ॥

भगस्य हृदयं लिङ्गं लिङ्गस्य हृदयं भगः ॥ तस्मै ते भगलिङ्गाय उमारुद्राय वै नमः ॥

इति मन्त्रेण संस्पृशेत् ॥

आवाहनस्थापनं सन्निधानपन सन्निरोधनाऽमृतीकरणानि कुर्यात् ॥

एवं मुद्राः प्रदर्शयेत् ॥

मूलाष्टोत्तर शत जपः ॥

भुक्तौ गुह्येति । मुक्तौ यद्यद्वै कुर्महे कर्मसादासुकृत दुष्कृतम् ॥

तन्मे शिवपदस्थस्य हूं हः क्षपयशङ्कर ॥

इति विधिपात्रतः कलशे पुष्पं क्षिपेत् ॥

ततो मन्त्र कलशं गुरुर्गृहीत्वा अस्त्रकलशं शिष्यहस्ते दत्वा । पूर्वादि दिक्षुधारापातं कुर्यात् ॥

भोः भोः इन्द्र आगच्छ २ सन्तिष्ठ २ सनीधत्स्व २ सन्निहितो भव २ सनिरुद्धो भव २ भगवन्नमस्ते ॥

एवं । अग्ने । यम । नैर्-ऋत । वरुण । वायो । कुबेर । ईशान । ब्रह्मन् । विष्णो । इति पठन् । धारापातं
कुर्यात् ॥

ततो गुरुर्भैरवं जपन्पद्मोपरि शिवकलशं स्थापयेत् ॥ अस्त्रवार्धानीं जपन् । ईशाने स्वस्तिकोपरि
स्थापयेत् ॥

तत्रैशान्यामस्त्रमन्त्रेणास्त्र कलशं सम्पूज्य शिवकुम्भे विशेष पूजनं कुर्यात् ॥

अघोरं साङ्गं स वक्त्रं । अघो-अघोरीश्वरीं च साङ्गां निष्कलं च साङ्गं मृत्युञ्जयं स देवीकं
साङ्गं भैरवावरणं विद्येयाद्यावरणसप्तकं ब्रह्म्यादि मात्र्यष्टकं क्षित्यादि मूर्त्यष्टकं
भवादिनामाष्टकं गणेश सूर्यकुमार विष्णु दुर्गा कुलवागीश्वरी महात्रिपुरसुन्दरी कुब्जिका शारिका
शारदा श्री महाराज्ञी ज्वालामुखी सिद्धलक्ष्म्यादीन्मन्त्रान्साङ्गषट्कान्यथाकालं यथा शक्तिः
पूजयेत् ॥

वामे खेटकेति ध्यानेन कलशस्थं देवं साङ्गं सपरिवारं स्मरेत् ॥

ओं मन्त्राध्वने नमः ॥ पदाध्वने नमः ॥ वर्णाध्वने नमः ॥ भुवनाध्वने नमः ॥ तत्वाध्वने नमः ॥
कलाध्वने नमः ॥ ओं हां निवृत्तिकलायै नमः ॥

ओं हां निवृत्तिकलाधिपतये ब्रह्मणे नमः ॥

ओं हीं प्रतिष्ठाकलायै नमः ॥ ओं हीं प्रतिष्ठा कलाधिपतये विष्णवे नमः ॥ ओं हूं विद्याकलायै
नमः ॥ ओं हूं विद्या कलाधिपतये रुद्राय नमः ॥ ओं हैं शान्ताकलायै नमः । ओं हैं
शान्ताकलाधिपतये ईश्वराय नमः ॥ ओं हौं शान्त्यतीतायै नमः ॥ ओं हौं शान्त्यतीताकलाधिपतये
सदाशिवाय नमः ॥

एवं शिवकलशं संपूज्य । अस्त्रवार्धानीं च पूजयेत् ॥

ओं हः फट् अनन्तशक्तये अस्त्राय फट् ॥ ओं नमस्ते रुद्ररूपेभ्यो दुर्भेद्याय पाशुपतास्त्राय फट् ॥

ओं हः फट् अस्त्राय फट् ॥ ओं फट् अस्त्राय फट् ॥

प्. १२)

ओं हः फट् ज्ञानास्त्राय हः फट् ॥ एवं ॥

ब्रह्मास्त्राय ॥ ब्रह्मशिरोस्त्राय ॥ अग्न्यास्त्राय । लोकपालास्त्राय ॥ पाशुपतास्त्राय ॥ अघोरास्त्राय ॥
दिव्यास्त्राय ॥

ओं हः फट् सर्वास्त्राय हः फट् । ओं खड्गाय नमः ॥ खेटकाय ॥ पाशाय ॥ अङ्कुशाय ॥ शराय ॥
पिनाकाय ॥ वराय ॥ अभयाय ॥ मुण्डाय ॥ खट्वाङ्गाय ॥ वीणायै ॥ डमरवे ॥ घण्ठायै ॥
त्रिशूलाय ॥ वज्राय ॥ दण्डाय ॥ परशवे ॥ मुद्गराय ॥

वज्रादिलोकपालास्त्राणि च पूजयेत् ॥

ततो नाडीसन्धानम् । आत्मनो कन्दस्थानादुत्थितां शक्तिं ध्यात्वा द्वादशान्तं यावत् प्राप्तां
ज्वालारूपां दक्षिणनासापुटेन निरीयदेवस्य वामनासापुटेन प्रविश्य । हृदयं प्रापय्य ।
हृदयात्कण्ठतालुभ्रूमध्य क्रमेण द्वादशान्तं प्राप्याऽमृतं गृहीत्वा देवस्य दक्षिणेन निरीय ।
एवमेव देवी भैरवलोकपालानां प्रविश्य निर्गमनं कृत्वा वामेन हृदयं प्रविशेत् ॥

इति नाडीसन्धानम् ॥

पुनर्मन्त्रसन्धानम् ॥

आत्मानं विष्णौलीनं भावयेत् ॥ विष्णुब्रह्मणि ॥ ब्रह्माणमीशाने ॥ तं कुबेरे ॥ तं वायौ ॥ तं
वरुण । तं नैर्-ऋते ॥ तं यमे ॥ तं इन्द्रे ॥ तं विद्यागणे ॥ तं सोमराजे ॥ तं मेघनादे । तं
मन्मथे ॥ तं विकराले ॥ तं क्रोधराजे ॥ तं शिखिवाहने ॥ तं कपालेशे ॥ तमऽस्त्रे ॥ तं नेत्रे ॥
तं कवचे ॥ तं शिखायां ॥ तां शिरसि ॥ तत् हृदि ॥ तं देव्यां ॥ तां परमेश्वरे लीनां भावयेत्


इति मन्त्रसन्धानम् ॥

अथ परमीकरणम् ॥

स्वहृदयान्मूलमन्त्रमुच्चार्य । हृत्कण्ठतालुभ्रूमध्यललाटब्रह्मरन्ध्र क्रमेण अकार उकार मकार
बिन्द्वर्धचन्द्र निरोधिनादनादान्तशक्तिव्यापिनी समना उन्मनान्तं स्थाप्य । द्वादशान्त विश्रान्तिमनुभूय
। पुनरवरोह क्रमेण स्वहृदयं प्रविश्य सपरिवारं सदेवीकं देवं चिन्तयेत् ॥

इति परमीकरणम् ॥

ततो मन्त्रकलशे विशेष पूजां कृत्वा ।

अस्त्रकलशस्यास्त्रमन्त्रैः पूजां कृत्वा मूलस्याष्टोत्तर शत जपः । आगच्छ सन्निधिं भजमखं
रक्ष पूरयाशुच्छिद्राणि । हरदुरितं परमेश्वर विश्वात्मन्विश्वशक्तिस्त्वम् ॥

इत्याज्ञां गृहीत्वा कलशमण्डले पूजनं कुर्यात् ॥

स्ववामे गणेश पूजा ॥

स्वदक्षे सूर्यपूजा ॥ मध्ये कुमार पूजा ॥

श्रीसरस्वती विश्वकर्माणौ च पूजयेत् ॥

ओं लूं इन्द्राय वज्रहस्ताय नमः । रूं अग्नये शक्तिहस्ताय नमः ॥ टूं यमाय दण्डहस्ताय नमः ॥
क्षूं नैर्-ऋतेखड्गहस्ताय नमः ॥ वूं वरुणायपाशहस्ताय नमः ॥ यूं वायवे ध्वजहस्ताय नमः
॥ कुंकुबेराय गदाहस्ताय नमः ॥ सूं ईशानाय त्रिलहस्ताय नमः ॥ आं व्रां व्रं ब्रह्मणे
पद्महस्ताय नमः ॥ ह्लां अनन्ताय चक्रहस्ताय नमः ॥ ओं रूं अग्नये नमः ॥ ओं ह्रां ह्रीं सः
सूर्याय नमः ॥ मध्ये ॥

ओं वूं वरुणाय नमः ॥ ओं स्रूं चन्द्रमसे नमः ॥ पूर्वे ॥

प्. १३)

ओं कुंकुमाराय नमः ॥ ओं र्हूं अङ्गारकाय नमः ॥ आग्नेये ॥ ओं ह्लां विष्णवे नमः ॥ ओं स्ह्रूं
बुधाय नमः ॥ दक्षिणे ॥ ओं लूं इन्द्राय नमः ॥ ओं र्स्रूं जीवाय नमः ॥ पश्चिमे ॥ ऐं क्लीं सौः
वाग्वादिनि सरस्वत्यै नमः ॥ ओं ह्रीं भार्गवाय नमः ॥ उत्तरे ॥ ओं आं ब्रां ब्रं ब्रह्मणे नमः ॥ ओं
क्ष्म्र्यूं शन्नैश्चराय नमः ॥ नैर्-ऋते ॥ ओं गूं गां गणपतये नमः । ओं यूं राहवे नमः ॥ वायौ
॥ ओं नमो भगवते रुद्राय नमः ॥ ओं ह्रीं केतवे नमः ॥ ईशाने ॥ ओं ह्लां ब्रह्मणे नमः ॥ ओं ह्रीं
उत्तान पादात्मजाय ध्रूवाय नमः ॥ यागाद्बहि उत्तरे ॥ ओं ह्लां अनन्ताय नमः ॥ ओं ह्रीं अगस्त्याय
नमः ॥ दक्षिणे ॥ ततो मध्ये भैरवावरणम् ॥ आदावुपरिकलशे अमृतेश्वरममृतलक्ष्मी निष्कलं च
सम्पूज्य ॥ कर्णिकायां भैरवं स देवीकं सम्पूज्य ॥ पूर्वादि क्रमेण भैरवा वरणम् ॥

ओं क्षमरय-ऊं कपालेश भैरवाय नमः ॥ पूर्वे ॥ ओं हर-ऊं शिखिवाहनभैरवाय नमः ॥ आग्नेये ॥
ओं क्षूं क्रोधराजभैरवाय नमः ॥ दक्षे ॥ ओं झ्रूं विकरालभैरवाय नमः ॥ नैर्-ऋते ॥ ओं ह्वूं
मन्मथभैरववाय नमः ॥ पश्चिमे ॥ ओं हरय-ऊं मेघनादभैरवाय नमः ॥ वायौ ॥ ओं हूं
सोमराजभैरवाय नमः ॥ उत्तरे ॥ ओं ह्र्क्ष्म्ल्व्यूं विद्याराजभैरवाय नमः ॥ ईशाने ॥

अथ क्षेत्त्रेश पूजनम् ॥

प्. १३ब्)

ओं ह्रीं श्रीं देवी पुत्रवटुकनाथाय नमः ॥ दक्षिणे ॥

वटुकबलये ॥ उत्तरे ।

योगिनीभ्यः पश्चिमे । स्थान क्षेत्रपालाय पूर्वे भूतबलये ॥ मध्ये राजराजेश्वराय । ईशाने
विश्वक्सेनाय । आग्नेये । वेताल भैरवाय । नैर्-ऋते बहुखातकाय । वायव्ये मङ्गलराजानकाय
आनन्दराजानकाय सङ्खाभिधत्तत्तरुष्कराजानकाय पञ्चालराजानकाय रुद्रगणेश्वराय ॥

अथ हेरुकादयः ॥

ह्रां क्षं क्षूं हेरुकाय नमः ॥ पूर्वे ॥

ओं ऐं ह्रीं लां क्षें त्रिपुरान्तकाय नमः ॥ आग्नेये ॥ ओं ह्रीं हूं क्षीं अग्निवेतालाय नमः ।
दक्षिणे ॥ हूं अग्निजिह्वाय नमः नैर्-ऋते ॥ ओं ह्रीं क्षूं हूं कुर्पराय नमः पश्चिमे ॥ काराय
नमः वायौ ॥ ओं क्षां यूं क्षीं विकरालाय नमः । उत्तरे ॥

आं यूं क्ष्मीं एकपादाय नमः ऐशे ॥ क्ष्रूं यूं क्षां भीमरूपाय नमः मध्ये ॥ ऊर्ध्वे
डामराय नमः ॥ अधः हाटकेश्वराय नमः ॥

ततः पञ्चामृतं चरुंनैवेद्यं निवेद्य ॥

ओं ठः ठः द्रव्यरूपिणि ठः ठः ॥ इति ॥

घृतं क्षीरं शरकरां च क्षौद्रं द्राक्षां तथैव च ॥ पञ्चमृतं तु नैवेद्यं दत्वा
विज्ञापयेद्विभुम् ॥

ततो नमस्कारं कृत्वा शिष्यं मानयित्वा स्वदक्षे उपवेशयेत् ॥ पूजां कारयेत् ॥ यथा ॥

ओं नौमी स्वात्मप्रकाशमिति ॥ वन्देमेहेसंविश्वेशमिति ॥ इति मुखस्नानम् ॥

प्. १४)

ओं ह्रीं सः पवित्रकमर्पयामि नमः ॥ इति पवित्रमन्त्रः ॥ आशीर्वादैस्तिलकं पुष्पं देयम् ॥
बध्नामिकङ्कणं ते बद्धमतिर्भवभजनिपुणमचलमभवायेहशाश्वतं स्थानम् ॥

प्राणापानौ चक्षुश्रोत्रे घ्राणं मनाः शिरोहस्तौ प्राकृतावपि यदुपातुं तत्ते देवः शिवः पातु ॥

पापहरस्ते भगवाञ्चिवो शुभं हरतु ॥

सर्वभूतगणा शान्त्यै भवन्तु यत्नाद्धृदयं नारायणः पातु ॥ स्वात्मने शिवस्वरूपाय समलभनं
गन्धो नमः । अर्घो नमः पुष्पं नमः ॥

संसारमरुकान्तार महामोहनिवृत्तये ॥ तदिममृतं चक्षुः दीपोयं शिव गृह्यताम् ॥

कालाग्निरुद्ररूपं तं सर्वाघविनिसूदनम् ॥ सर्वसौभाग्य जननं धूपोयं शिव गृह्यताम् ॥

द्विभुजं चैकवदनं सौम्यं पङ्कज धृत्करे ॥

तेजो बिम्बस्य मध्यस्थं वर्तुलं रक्तवाससम् ॥ आदित्यमे दृशं ध्यायेद् भुक्तिमुक्तिफलप्रदम् ॥

आत्मनः स्वेष्टदेवता सन्तोषणार्थं धूपदीप सङ्कल्पात् सिद्धिरस्तु धूपो नमः दीपं नमः ॥
गायत्र्यै नमः ॥

ओं भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् ३ ॥

तत्पुरुषाय विद्महे वक्त्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ३ ॥ तत्पुरुषाय विद्महे सूर्यज्ञानाय
धीमहि तन्नः सूर्यः प्रचोदयात् ३ ॥ कार्तिकेयाय विषद्वक्त्राय धी तन्नः कुमारः प्रचोदयात् ३ ॥

प्. १४ब्)

तन्महेशाय वि० वाग्विशुद्धायाधी० तन्नः शिवः प्र० ३ ॥ अमृतेशाय वि० व्योमदेहाय तन्नो नेत्रः प्र० ३ ॥
बहुरूपाय विद्महे कोटराक्षाय तन्नो घोरः प्र० ३ ॥ बहुरूपायै० अघोरेश्वर्यै० तन्नोरुद्रः प्र० ३ ॥
परमहंशाय० महाहंसाय० तन्नोहंसः प्र० ३ ॥ तत्पुरुषाय विद्म० महादेवाय० तन्नोरुद्रः प्र० ३ ॥

शिवात्मकमिदं सर्वं शिवादेव प्रवृत्तये । शिवाय शिवगर्भाय शिवः सर्वं प्रचोदयात् ३ ॥

वासुदेवाय लक्ष्यूर्धाय तन्नो विष्णुः प्र० ३ ॥ सुभगायै काममालिन्यै तन्नोदुर्गा प्र० ३ ॥

ऐं त्रिपुरा देव्यै क्लीं कामेश्वर्यै तन्नः क्लीन्ना प्रचोदयात् ३ ॥ तत्पुरुषाय महादेवाय तन्नोनन्दी प्र०
३ ॥ महासेनाय वह्निवक्त्राय तन्नः स्कन्दः प्र० ३ ॥ तीक्ष्णशृङ्गाय वेदपादाय तन्नोवृषः प्र० ३ ॥

नारायणाय वासुदेवाय तन्नोविष्णुः प्र० ३ ॥ महाम्बिकायै कर्मशिद्ध्यै तन्नोलक्ष्मी ३ ॥ पद्मोद्भवायै
विष्णुनैकिण्यै ॥ तन्नोधरा ३ ॥ पद्मोद्भवायै वेदवक्त्राय तन्नः स्रष्टा ३ ॥ वैनतेयाय
सुवर्णपक्षाय तन्नो गरुडः ३ ॥ शिवास्त्रजायै शिवास्यजायै तन्नोवाक् ३ ॥

अद्य तावत् । तिथावमुकायां महागणपतेः कुमारस्य श्रियाः सुरस्वत्याः लक्ष्म्याः विश्वकर्मणः
द्वारदेवतानां प्रजापतेः ब्रह्मणः कलशदेवतानां ब्रह्मविष्णु

प्. १५)

महेश्वरदेवतानां चातुर्वेदेश्वरस्य सानुचरस्य ऋतुपतेः नारायणस्य दुर्गायाः त्र्यम्बकस्य वरुणस्य
यज्ञपुरुषस्य अग्निष्वात्तादीनां पितृगणदेवतानां स्वच्छन्दभैरवस्य सपरिवारस्य भवस्य देवस्य
शर्वस्य देवस्य पशुपतेर्देवस्य उग्रस्य देवस्य भीमस्य देवस्य महादेवस्य गणसहितस्य ईश्वरस्य पार्वती
सहितस्य हरस्य दूत्याः सपरिवारायाः । नन्दिनः महाकालस्य गङ्गायाः यमुनायाः मेषास्यायाः
च्छागलास्यायाः चण्डस्य प्रचण्डस्य शङ्खनिधेः पद्मनिधेः महापद्मनिधेः कारणकारणस्य
विधिनिरोधपश्वर्घ शिवाम्बु देवतानां वामे गुरूणां परमगुरूणां परमेष्ठिगुरूणां
परमाचार्यगुरूणां स्वगुरूणां दक्षे आदित्यादीनामेकादशग्रहाणां ब्रह्मणः सपरिवारस्य विष्णोः
सपरिवारस्य मन्त्रकलशदेवतानां अस्त्रकलशदेवतानां वासुदेवस्य ॥ ८ ॥ ह्रां ह्रीं सः सूर्यस्य ॥ ६
॥ विनायकस्य । १३ ॥ अमायाः इत्यादि । इन्द्रस्य सुराधिपते वज्रहस्तस्य ॥ अग्नेः स्तेजोधिपतेः शक्तिहस्तस्य
यमस्य प्रेताधिपते वृण्ड? हस्तस्य नैर्-ऋतेः रक्षोधिपतेः खड्गाहस्तस्य वरुणस्य जलाधिपतेः
पाशहस्तस्य ध्वजहस्तस्य वधि प्राणाधिपते । कुबेरस्य यक्षाधिपतेः गदाहस्तस्य । ईशानस्य
सर्वाधिपतेः स्त्रीशूलहस्तस्य । ब्रह्मणो वेदाधिपतेः पद्महस्तस्य ।

प्. १५ब्)

विष्णोस्त्रैलोक्याधिपतेश्चक्र हस्तस्य । अग्न्यादित्ययोः वरुणचन्द्रमसोः कुमारभौमयोः विष्णुबुधयोः
इन्द्रा बृहस्पत्योः सरस्वती शुक्रयोः प्रजापति शन्नैश्चरयोः गणपतिराह्वोः ॥

रुद्रकेत्वो ब्रह्मध्रूवयोः अनन्तागस्त्ययोः । कपालेशभैरवस्य शिखिवाहन भै । क्रोधराजभै ।
विकरालभै । मन्मथभै । मेघनादभै । सोमराजभै । विद्याराजभैरवस्य । एतन्मध्यगत
श्रीस्वच्छन्दभैरवस्य । सप्तावरण देवतानां सकलभट्टारकस्य अघोरस्य अघोरेश्वर्याः
निष्कलभैरवस्य अमृतेश्वरस्यामृतलक्ष्याः आनन्दभैरवस्य सदेवीकस्य क्षं ईशानवक्त्रस्य यं
तत्पुरुषवक्त्रस्य रं अघोरवक्त्रस्य वं वामदेववक्त्रस्य लं सद्योजातवक्त्रस्य अङ्गषट्कस्य
ब्रह्मविष्णुरुद्रेश्वर सदाशिवानां वामा याः ज्येष्ठ्याः रौद्र्याः काल्याः कलविकरण्याः
बलविकरण्याः बलप्रमथिन्याः सर्वभूतदमन्याः मनोन्मन्याः निवृत्तिकलाधिपतेः ब्रह्मणः ।
प्रतिष्ठाकलाधिपतेः विष्णोः ॥

विद्याकलाधिपते रुद्रस्य शान्ताकलाधिपते ईश्वरस्य सान्त्यतीताकलाधिपते सदाशिवस्य मन्त्राध्वनः
पदाध्वनः वर्णाध्वनः भुवनाध्वनः तत्वाध्वनः कलाध्वनः महात्रिपुरसुन्दरी प्रभृतीनां
प्रत्यङ्गिरादेवतानां सिद्धलक्ष्म्याः महालक्ष्म्याः कुब्जिकादेव्याः ॥

प्. १६)

मालिन्याः षड्भुजायाः दुर्गायाः अष्टभुजायाः दुर्गायाः अष्टादशभुजायाः दुर्गायाः
श्रीशारिकाभगवत्याः । श्रीशारदाभगवत्याः ॥

श्रीराज्ञी भगवत्याः श्रीज्वालाभगवत्याः । श्रीवीडा भगवत्याः । श्रीशिवाभगवत्याः ।
वज्रेश्वर्याः । कामेश्वर्याः । भगमालिन्याः । भुवनमालिन्याः । दीक्षादेव्याः । पापान्तकारिण्याः ।
मन्त्रमातृकायाः । मन्त्रडामरिकायाः । भद्रकाल्याः । तारायाः । पुस्तकवागीश्वर्याः । गङ्गा
भगवत्याः । वितस्ताभगवत्याः अग्नेः सपरिवारस्य । श्रीदेवीपुत्रवटुकनाथस्य । योगिनीनां
स्थानचरस्य । भूतानां राजराजेश्वरस्य विश्वक्सेनस्य । वेतालराजानकस्य । बहुखातकस्य
मङ्गल्यराजानकस्य रुद्रराजानकस्य सङ्खाभिधत्तत्तरुष्कराजानकस्य । पञ्चालराजानकस्य । हेरुकस्य ।
त्रिपुरान्तकस्य । अग्निवेतालस्य । अग्निजिह्वस्य । कलाख्यस्य । कपालिनः । एकपादस्य । भीमरूपिणः ।
तारकाख्यस्य । हाटकेश्वरस्य । राजराजेश्वरस्य । अजरादिक्षेत्त्र पालानां
समस्तक्षेत्त्रपालदेवतानां । कूर्मस्य । ध्रूवस्यानन्तस्य हरेः वास्तोष्पति देवतानां ।
सर्वदेवतागणस्य । आत्मनोवाङ्मनः कायोपार्जित पापनिवारणार्थं स्वेष्टदेवता सन्तोषणार्थं
कलशपूजनं यागपूजनं क्षेत्रपालपूजनमर्चामहं करिष्ये ।

ओं कुरुष्व । तिलसर्षपयवान्विकीर्य ॥

प्. १६ब्)

एवमेवासनं ॥

महागणपतये कुमारायेत्यादि युष्मान्वः पूजयामि ओं पूजय ॥ महागणपतिं कुमारं इत्यादि
आवाहयिष्यामि ओं आवाहय ॥ आवाहयामि गणनाथमुपातु शान्तं दक्षेक्ष सूत्रवलयं भुजयुग्मकेन ॥

सिंहासनं परशुपात्रविराजमानं वामे स्वहस्तयुगलं मखरक्षणार्थम् ॥

आवाहयाम्यहं देवं क्षेत्त्रपालं महाप्रभुम् ॥

क्रमीकीटपतङ्गेषु वसन्तं सर्वदेहिनाम् ॥ गृहक्षेत्रवनक्षेत्त्र यक्षभूतपिशाचकम् ॥

गणगन्धर्व देवाश्च लोकपालांश्च पूजयेत् ॥ बलिं पुष्पं चरुं चैव धूपोयं प्रतिगृह्यताम् ॥

आवाहयामि भुजगैस्तु विराजमानसाशाम्बरं त्रिनयनं च त्रिशूलहस्तम् ॥ श्यामाननं दुरितदुःखहरं
स्वर्वे?शंक्षेत्रेशमद्भूततरं मखरक्षणार्थम् ॥

आवाहयाम्यहं देवमीश्वरं पार्वतीपतिम् ॥ वृषभासनमारूढं नागाभरणभूषितम् ॥

शुक्लवर्णो महातेजाः शुक्लस्रग्धामभूषितम् ॥ बलिं पुष्पं चरुं चैव धूपोयं प्रतिगृह्यताम् ॥

आवाहयाम्यहं देवं विष्णुं वै विश्वरूपिणम् ॥ अतसी पुष्पसङ्काशं पीतवाससमच्युतम् ॥

येन मस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥ बलिं ॥

आवाहयामि सुरराजमहं गजस्थं दक्षेक्षवज्रधरमर्चितचन्द्रशुभम् ॥

प्. १७)

हर्त्रं च शक्तिसहितं परिधारयन्तं वामे त्रिनेत्रं ममलं मखरक्षणार्थम् ॥

आवाहयामि दहनं धृतवेदमुद्रासाक्षस्रजं शुकवरं निजदक्षहस्ते ॥

आमेग्नि कुण्डसहितं च तथैव दण्डं त्रिक्षं त्रिलोचनपरं मखरक्षणार्थम् ॥

आवाहयामि यममीशपरं त्रिशूलवज्राङ्कितं महिषपृष्ठगतं त्रिनेत्रम् ॥

वीणां च दण्ड सहितां परिधारयन्तं वामे चतुर्भुजयुतं मखरक्षणार्थम् ॥

आवाहयामि निवृतिं शशिखण्डमौलिपूजापरं च सृणि खड्गाधरं स्वदक्षे ॥

वामे स खेटक स पाश समन्वितं तं वृष्यासन स्थितमहंमखरक्षणार्थम् ॥

आवाहयामि वरुणं शशिखण्डमौलि पूजापरं च सृणिखड्गाधरं स्वदक्षे ॥

वामे स खेटक स पाशसमन्वितं तं नक्रासनस्थितमहं मखरक्षणार्थम् ॥

आवाहयामि धृतवायुपुटं स्वहस्त युग्मेन दीक्षितमीशपरं च वायुम् ॥

वामे तथाक्ष सहितं च कमण्डलुं च चञ्चन्मृगासनगतं मखरक्षणार्थम् ॥

आवाहयामि धनदं नरवाहनस्थं चिन्तामणिं निजकरेण तथाक्षसूत्त्रम् ॥ सिंहध्वजेन सहितं
शशिपुस्तकं च विभ्रन्तमीश्वर परं मखरक्षणार्थम् ॥

आवाहयामि शशिखण्ड किरीटमीशंमक्षं त्रिशूलमपि दक्षभुजे वहन्तम् ॥

वा लिङ्गदर्पण करं च तथैव वामे गो वाहनं त्रिनयनं मखरक्षणार्थम् ॥

आवाहयामि कमलासनसंस्थितं तं मुद्रां श्रूतेः परिवहन्तमथाक्षसूत्त्रम् ॥

दण्डं कमण्डलुमथो सततं वहन्तं ब्रह्माणमीश्वरपरं मखरक्षणार्थम् ॥

आवाहयामि सततं निजदक्षभागे विभ्रन्तमक्षसहितं च फलं च विष्णुम् ॥

वा लिङ्गसंयुतमथो मुसुलं च वामे कुर्मासनं शिवापरं मखरक्षणार्थम् ॥

आवाहनमथो कुर्याद्ग्रहाणामनु पूर्वशः ॥ आवाहिताग्रहास्सर्वे ह्यादित्याद्याश्शतेन व ॥

आवाहयामि दिननाथमहं वहन्तं दक्षेक्षसूत्त्रमथ धूम्रपदं ध्वजं च ॥

सप्ताशुगं करयुगेन च रस्मिपुञ्जं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि शशिनं परिधारयन्तं दक्षेक्षसूत्रमथधूम्रपदं ध्वजं च ॥

लग्नं मृगे करयुगेन च रश्मिपुञ्जत्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि धरणी तनयं वहन्तं दक्षेक्षसूत्त्र वलयं शिखिवाहनस्थम् ॥

वामेकमण्डलुधरं धृतरक्तवर्णं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि सितमातु किरीटहारं दक्षेक्षसूत्रवलयं गरुडासनस्थम् ॥

वामे कमण्डलुधरं सितवर्णरम्यं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि धृतमेव गुरुं सुराणां दक्षेक्षसूत्त्रवलयं गजवाहनस्थम् ॥

वामेकमण्डलुधरं धृतपीतवर्णं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि कविमेश्श्वररूपमुग्रं दक्षेक्षसूत्त्रवलयं कपिवाहनस्थम् ॥

प्. १८)

वामे कमण्डलुधरं धृतशुक्लवर्णं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि शनिमन्तकरूपमुग्रं दक्षेक्ष सूत्रवलयं नरवाहनस्थम् ॥

वामे तथैव कलशं परिधारयन्तं त्र्यक्षत्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि धृतकुण्डलमालिकं तं शीर्षाकृतिं कृतस्वधाहरणं च राहुम् ॥

सिंहासनस्थित सतीवकरालवक्त्रं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थम् ॥

आवाहयामि भुजगैर्दशभिस्समेतं दक्षेक्षसंहितमथोकलशं च वामे ॥

केतुं तमोनिकरकृष्णतनुं सुदीर्घं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्तम् ॥

आवाहयाम्यहं ब्रह्मरूपं चोत्थानपादिकम् ॥ ध्रूवं पक्षशरीरस्थं रक्ताङ्गमचलं प्रभुम् ॥

आवाहयाम्यहं देवमगस्त्यं देव सेवितम् ॥ विष्णुरूपधरं नित्यमुग्ररूपधरं प्रभुम् ॥

आवाहया शशिखण्डकिरीटमीशं श्रीसत्कपालिनमुपातु कपालमालमालम् ॥

पञ्चाननं त्रिनयनं दशबाहुरम्यं चन्द्रार्धचूडशरणं मखरक्षणार्थम् ॥

आवाहयामि शिखिवाहन भैरवं तं रक्त प्रभं ललितबाल कपालमालम् ॥ पञ्चाननं त्रिनयनं ॥

आवाहयामि नवमेघनिभं प्रभाभिस्तं क्रोधराजममलं सकपालमालम् ॥

पञ्चाननं ॥

आवाहयामि विकरालमथेश मूर्तिं वह्निप्रभं ललितबालकपालमालम् ॥ पञ्चाननं ॥

आवाहयामि भगवन्तमथेश मूर्तिं तं मन्मथं ललितबालकपालमालम् ॥ पञ्चाननं ॥

आवाहयामि धृतधूम्रशरीरकान्तिं तं मेघनादममलं सकपालमालम् ॥ पञ्चाननं ॥

आवाहया धृतसोमनिभं प्रभाभिस्तं सोमराजममलं सकपालमालम् ॥ पञ्चाननं ॥

आवाहयामि सितरत्न निभं च विद्याराजं विराजित सिरस्थ कपालमालम् ॥ पञ्चाननं ॥

आवाहयामि वसुचन्द्रभुजं महेशं स्वच्छन्दमच्छमणिशुभ्रपरात्मरूपम् ॥

रुद्रासनं त्रिनयनं शशिखण्डजूटं पञ्चाननं परमकारणमप्रमेयम् ॥

त्रिपञ्चनयनं देवमिति भैरवीं विस्मिते क्षणान्तं यावत् ॥

विश्वैकरूपविश्वात्मन्विश्वसर्गादिकारणम् ॥ परप्रकाशवपुषं स्तुमः स्वच्छन्दभैरवम् ॥

विश्वातीतं विश्वमयं भैरवाष्टकसंयुतम् ॥ स्वशान्तं निष्कलं शुद्धं सर्वव्यापि निरञ्जनम् ॥

चिद्बोद्धानन्दगहनं तेजः सर्वाश्रयं भजे ॥ नमस्तस्मै ह्यघोराय घोरघोरतरात्मने ॥

उत्पत्तिस्थिति संहारलयानु ग्रहहेतवे ॥ आवाहयाम्यहं देवि दुर्गे चासुर पूजिते ॥

वराङ्गनावरं देहि धर्मकामार्थ सिद्धये ॥ शङ्खचक्रगदाखड्गा पाशाङ्कुशधनुश्शरान् ॥

क्रमादष्टभुजां देवीं दुर्गां दुर्गति नाशिनीम् ॥ इदमर्घ्यं च पाद्यं च धूपोयं प्रतिगृह्यताम् ॥

आवाहयाम्यहं दुर्गां शूलचक्रासिसायकान् ॥

प्. १९)

विभ्रतीं च धनुः शङ्खखेटतर्जनिका मखे ॥ आवाहयाम्यहं देवीं पार्वतीं वरदामुमाम् ॥

हरस्य दयितां भार्यां चार्वाङ्गीं भूतिवर्धिनीम् ॥ एहि देवि जगन्नाथे मीना हृदयनन्दिनि ॥

पार्वति वरदे सौम्ये नित्यं भक्तजनप्रिये ॥

इदमर्घ्यं च पाद्यं च धूपोयं प्रतिगृह्यताम् ॥ आवाहयाम्यहं देवीं शारिकां परमेश्वरीम् ॥

कारिकां सर्वसिद्धीनामस्मिन्यज्ञे मनोहरे ॥ आवाहयाम्यहं देवीं शारदां वरदां मखे ॥

शाण्डिले नार्चितां नित्यं श्रीशैलस्थां च षड्भुजाम् ॥ आवाहयाम्यहं देवीं राज्ञीं
राज्यप्रदायिनीम् ॥

भूतेश्वरार्ध देहस्थां सिंहासन कृतस्थितिम् ॥ आवाहयाम्यहं देवी महात्रिपुरसुन्दरीम् ॥

अस्मिन्नेव महायज्ञे कामेश्वरसमन्विताम् ॥ आवाहयाम्यहं देवीं भीतां भगवतीं मखे ॥

शीधुपात्रकरां हार भूषणां हंसरूपिणीम् ॥ आवाहयाम्यहं देवीं लक्ष्मीं सर्वसमृद्धिदाम् ॥

पद्मासनां पद्मनाभवक्षस्थलसमाश्रयाम् ॥ आवाहयाम्यहं देवीं भद्रकालीं महेश्वरीम् ॥

भद्रङ्करी मत्रयज्ञे मेघतुल्य प्रभान्विताम् ॥ आवाहयाम्यहं देवीं दक्षिणां कालिका पराम् ॥

महामेघ प्रभां घोरां महाकालसमन्विताम् ॥

त्रिपञ्चनेत्रं शरवक्त्रमाभ्यं सम्पूर्णचन्द्रार्धधरूपमीशम् ॥

चन्द्रार्धमौलिं दधतं तु वामैर्भुजैः सुघण्टाभयमुद्गरांश्च ॥ पाशंशरं सन्महतीं च
दण्डखट्वाङ्गवीणाडमरूंश्च तद्वत् ॥

प्. १९ब्)

खड्गांवरं चाङ्कुशवज्रमस्त्रं मुण्डं तथा खेटकधारिणं च ॥ सव्यैः कुठारं च
धनुस्त्रिशूलं सूर्यप्रभाकोटि जितप्रकाशम् ॥

तथाभयं वाम गया च देव्या युक्तं महावृश्चिकहारभूषिणम् ॥ रुद्रासनस्थं कमलस्य मध्ये
देवाधिदेवं खलु चिन्तयामि ॥

एता देवता आवाहयिष्यामि ओं आवाहय ॥

अपसर्पन्तु ते भूता इत्यादि ॥ ओं १२ रेचकं ओं २४ पूरकं ओं ३६ कुम्भकं । शनैश्शनैरूध्वरेचकं
कुर्यात् ॥

ततोस्त्रमन्त्रेण पाद्यपात्रं ॥

कुङ्कुमागुरुकुरङ्गनाभिजाचन्दनेन तगरप्रियङ्गुभिः ॥ गन्धतोय विधिमेवमभ्युध्वः सङ्करार्चन
विधावनु क्रमात् ॥ महागणपतये कुमारायेत्यादिभ्यः पाद्यं नमः ॥

पाद्यशेषं निवारयेत् ॥ पुनः फडस्त्राय फट् ॥ आपः क्षीरं कुशाग्राणि घृतं च दधितण्डुलाः
॥ यवास्सिद्धार्थकाश्चेति ह्यर्घोष्टाङ्गः प्रकीर्तितः ॥

स्वां स्वां सोमाय नमः जलं ॥

ओं हूं वागीश्वरि वाक्प्रदे सरस्वत्यै नमः क्षीरं । ओं ज्रीं सावित्रि पापभक्षिणि सावित्र्यै नमः
दर्भान् ॥ ऐं त्रिजटोर्ध्वपिङ्गलाय रुद्राय नमः सर्षपान् ॥

ओं तत्सद्यो पितृभ्यो नमः तिलान् ॥

ओं नमो विष्णवे सुरपतये महाबलाय नमः पुष्पं ॥ यं रं लं वं सर्वोत्तमद्रवेभ्यो नमः
सर्वद्रव्यान् ॥

भगवन्तः अर्घ्यं २ ॥ महागणपते कुमार इत्यादयः ॥

प्. २०)

इदं वोर्घ्यं नमः ॥

महागणपतये कुमाराय इत्यादित्यः समालभवं गन्धो नमः ॥ महागणपतये कुमाराय इत्यादित्यः अर्घो
नमः पुष्पं नमः ॥

एताभ्यो देवताभ्यः धूपो नमः दीपं नमः ॥

एताभ्यो देवताभ्यः वासो नमः ।

एतासां देवतानामर्घ्यदानाद्यर्चनविधिः सर्वः परिपूर्णोस्तु ॥

फट् अस्त्राय फट् ॥

एताभ्यो देवताभ्य अपोशानं नमः ॥ आचमनीयं नमः ॥

एताभ्यो देवताभ्यो दक्षिणायै तिलहिरण्यरजत निष्करणं च दानि । एता देवताः स दक्षिणानेन
प्रीयन्तां प्रीतासन्तु ॥

अपसव्येन तिलाम्भसा शिवगोत्र पूर्वं पितृणां शिवपदप्राप्त्यै शिवः प्रीतोस्तु ॥

वितान घण्ठाध्वजच्छत्र चामरादर्शनृत्तगीतादि रत्नदीपादिकं दत्वा ॥

सैन्धववटिकादिभिः पूर्णपात्रं स्थापयित्वा विज्ञप्तिं कुर्यात् ॥

यथा ॥

भोः भोः गणेश्वरस्थानं निर्विघ्नं कुरु साम्प्रतम् ॥

हरार्चनं करिष्यामि परत्रत्राण हेतवे ॥

भगवन्तो ग्रहाः सर्वे येन्ये चोप ग्रहामताः ॥ ते सर्वे सन्निधानं मे कुर्वन्तां विघ्नशान्तये ॥

भोः भोः इन्द्रत्वयास्वस्यां दिशि विघ्नोपशान्तये ॥ सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया ॥
भोः भोः आग्ने ॥ भोः भोर्यम ॥ भोः नैर्-ऋते ॥ भोः वरुण ॥ भोः भोः वायो ॥ भोः कुवीर ॥ भोः
ईशान ॥ भोः भोः ब्रह्मन् ॥ भोः अनन्त ॥ इत्यादि लोकपालाः शिवाज्ञां संश्राव्य निरोधार्घं
दत्वाग्नि समीपं यायात् ॥

नमोस्तु सर्वयोगिभ्यः सिद्धेभ्यश्च नमो नमः ॥ मूर्तामूर्तेश्वर ग्राहिन्नमः शक्तिगणायते ॥

इत्यर्ध प्रदक्षिणं दत्वा सन्निदध्वं इति निरोधार्घ्यं दत्वाग्नि समीपं यायात् ॥

ओं नमः स्वच्छन्दभैरवाय ॥

ओं कुण्डसमीपं गत्वा आसनशोधनं कुर्यात् ॥ अस्य श्री आसनशोधनमन्त्रस्य मेरुपृष्ट ऋषिः सुतलं
च्छन्दः कूर्मो देवता आसनशोधने विनियोगः । प्रीं पृथ्वि त्वया वृतालोकादेवित्वं विष्णुनाधृता ॥

त्वं च धारयमां देवि पवित्रं कुरुचासनम् ॥

आसनाय नमः ॥ आधारशक्त्यै नमः ॥ कूर्माय नमः ॥ अनन्ताय नमः ॥ आसने उपविश्य अस्त्रमन्त्रेण
दिग्बन्धनम् ॥

षट्त्रिंशत्तत्वरूपाय ज्ञानखड्गाय नमः ॥

इत्युपयामं विधाय स्वदक्षेऽस्त्र कलशं सम्पूज्य ।

प्राणायामशोषण दहनादि कृत्वा विधिनिरोधपश्वर्घपात्रत्रय पूजनम् । तेन सेचनं करोमि फट् ।
मूलेन कुण्डं पश्येत् ॥

अस्त्राय फडिति कुण्डं प्रोक्षयेत् । अस्त्राय फडिति कुण्डं ताडयेत् । हुं इति कुणमभ्युक्षेत् ॥

इति संस्कार चतुष्टयं ॥

खननं मार्जनं ॥ मृत्स्नोद्धारं कुट्टनं शोधनं प्रोक्षणं करोमि फट् ॥

एवं क्रियाशक्त्यात्मने कुण्डाय नमः ॥ इति पूजा ॥

अस्त्रेण वज्रीकरणं ॥ फट् वज्रीकरणं करोमि फट् ॥

यथा ॥

प्. २१)

वज्रीकरणमस्त्रेण रेखाः पूर्वाः परास्त्रयः ॥ याम्यसौम्यमुखीचैका वज्रमेतत् प्रकीर्तितम् ॥

अस्त्रेण प्राङ्मुखैर्दभैः कुण्डाच्छादनम् ॥

त्रिवृत्त त्रिकोणं तदुपरि षट्कोणं तदुपरि वृत्तं लिखित्वा यत्रोपरि विष्टरः ॥

मुकुन्दाय नमः ॥ ईशानाय नमः ॥ पुरन्दराय नमः ॥ ब्रह्मणे नमः ॥ स्वधासागराय नमः ॥
रत्नद्वीपाय नमः ॥ कल्पवृक्षाय नमः ॥ इन्धवे नमः ॥ इति संपूज्य ॥ अर्घजलेन संप्रोक्ष्य ॥

तदुपरि पीठानर्चयेत् ॥

आधारशक्त्यै नमः ॥ कूर्माय नमः ॥ अनन्ताय नमः ॥ पृथिव्यै नमः ॥ सुधासागराय नमः ॥
रत्नद्विपाय नमः ॥ कल्पवृक्षाय नमः ॥ रत्नवेदिकायै नमः ॥ चिन्तामणि गृहराजाय नमः ॥
रत्नसिंहासनाय नमः ॥ आनन्दकन्दाय नमः ॥ संविन्नालाय नमः ॥ तत्वात्मक पद्माय नमः ॥
प्रकृतिमय पत्त्रेभ्यो नमः ॥ विकारमय केसरेभ्यो नमः ॥ पञ्चाशद्बीजाद्य कर्णिकायै नमः ॥ धर्माय
४ ॥ अधर्माय ४ ॥ अमुकदेवतायै नमः ॥ इति सम्पूज्य ॥

कुण्डदक्षे चतुष्पञ्चाशति दर्भैर्विष्टरं कृत्वा गोमय गोलकमध्ये संस्थाप्य पूजयेत् ॥

ब्रह्मासनाय नमः ॥ ब्रह्मन्नागच्छेत्यावाह्य । सन्तिष्ठ २ सन्निधत्स्व २ भोः अवगुण्ठयामि नमः ॥

आं ब्रह्मणे सर्वलोकाधिपतये नमः ॥ पाद्यादिना पूजयेत् ॥

तदनु कुण्डमध्ये अस्त्रेनैकं पूर्वमुखं दर्भं संस्थाप्य चतुष्पथं कुर्यात् ॥

अस्त्राय फडिति कुण्डं वज्रत्वेन चिन्तयेत् ॥ वज्रीकरणं ॥ नम इति मन्त्रेण कुशैः कुण्डान्तरे
चतुश्रं कुर्यात् ॥

मध्ये आवमध्यभागः ॥ पच्छे आवनीयभागः ॥ उत्तरे अन्नाहार्यः ॥ दक्षिणे गार्हस्पत्यः ॥

इति तुष्पथीकरणम् ॥

तत्पृष्ठ विष्टरः । तत्र वागीश्वरीं कल्पयेत् ॥

वागीश्वरी मृतु स्नातां नीलीन्देवरसन्निभाम् ॥ वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् ॥

नीलोत्पलदलश्यामा मृत्तमश्चारुलोचनाम् ॥ सर्वलक्षणसम्पूर्णां सर्वाभरणभूषिताम् ॥

ध्यात्वा चैवं विधां देवीं स्थापयेत्कुण्डमध्यतः ॥ ब्रह्मस्थानोपविष्टां च द्वाराभिमुखभद्रगाम्


देव्याध्यान मनुस्मृत्य धूपदीपादिभिस्सह ॥

विष्टरोपरि ॥

ओं वागीश्यासनाय नमः ॥ इत्यासनपूजां कृत्वा ॥

हां वागीश्वरि आगच्छ २ आवाहनादि पूर्वं ॥ ओं हूं वागीश्वर्यै नमः ॥ इति पाद्यादिना सम्पूज्य ॥

ईशशिरसमुत्ताना मृतुमतीं भावयित्वा सन्निधानाय योनि मुद्रां प्रदर्शयेत् ॥

सूर्यकान्तादरणितः स्रोत्त्रियागारतोपि वा ॥ पात्रेण पिहिते पात्रे वह्निमानाय येत्तः ॥

ज्वलन्तं पात्रस्थमग्निमानीय ॥

ओं फट् अग्नेः प्रोक्षणं करोमि फट् ॥ एवं ॥ निरीक्षणं ॥ अवगुण्ठनं ॥

प्. २२)

ओं हूं अग्निमवगुण्ठयामि हूं ॥ कवचेनावगुण्ठनं । ओं रं अग्नये नमः । ओं ज्ञानशक्त्यात्मनेऽग्नये
नमः ॥ इति पूजनम् ॥

ओं फट् क्रव्यादं निष्कर्षयामि फट् ॥

इति दर्भकाण्डं प्रज्वाल्य नैर्-ऋते क्षिपेत् ॥

अग्नेः क्रव्यादशुद्धिरस्तु स्वाहा ॥ तिलेन आप ॥

ततो मूलमुच्चार्यग्नि पात्रं हस्तद्वये गृहीत्वा नासाग्रेण घ्रात्वाऽग्नेश्चैतन्य तयाज्वालाग्रं मूलेन
गृहीत्वा वामनासापुटेन पूरकेनाऽग्निं हृदि प्रविश्य स्वचैतन्यानलेनैकी कृत्य
बहिर्दक्षिणनासापुटेन रेचकेन मूलमुच्चार्य पात्रे क्षिपेत् ॥

ओं रं अग्नये नमः ॥ अङ्गषट्केन पूजनम् ॥ मूलेनामृतीकरणं ॥ स्वयमेव शिवः इति दार्ढ्येन
शिवाभिमानं गृहीत्वा वह्निं शुक्ररूपं ध्यात्वा मायां वागीश्वरीं परिकल्य्यवह्निं योनौ
भ्रामयामि नमः ॥

इति त्रिः परिभ्राम्य ॥ तस्यां योनौ ॥ ओं हूं योजयामि नमः ॥ नैर्-ऋत्यादिशि क्षिपेत् ॥

ततो वह्निं मूलेन वीक्ष्यास्त्राय फडिति ।

अर्घजलेनाग्निं प्रोक्त्यास्त्राय फडिति दर्भैः सन्ताड्य हुं इत्यर्घ जलेनवह्निमभ्युक्ष्य तस्मिन्नग्नौ ।

रां जठराग्नये नमः ॥ रीं वैन्धवाग्नये नमः ॥ रूं भौमाग्नये नमः ॥ इति सम्पूज्य ॥

जठर वैन्दवभौमाग्नीनामैक्यं विभाव्य । रं इति पावक चैतन्यं तस्मिन् संयोज्य
प्रणवेनाग्निमभिमन्त्र्य वं इति धेनुमुद्रयाऽमृतीकृत्यास्त्राय फडिति वह्निमभ्युक्ष्य ॥

हूं इत्यवगुण्ठ्य वह्निं मूलेन सम्पूज्य वह्निं कराभ्यां गृहीतत्तोल्य जानुस्पृष्टमहीतलः
कुण्डोपरि त्रिपरिभ्राम्यात्मनोभिमुखं वह्निं प्रणवमुच्चरन् परम शिवजीवबुद्ध्यासोहमिति
जीवबुद्ध्यावागीश्वर्या योनौ क्षिपेत् ॥

ततो वागीश्वरी वागीश्वराभ्यां नमः ॥ इति सम्पूज्य ।

कामेश्वरी कामेश्वरयोः सङ्गं सविचिन्त्य ॥ कामेश्वरी गर्भनाड्यां तच्चैतन्यं संयोज्य ॥

इति कुशैन्देव्यायोनिमाच्छाद्य गर्भरक्षार्थं वागीशी योनिं प्रच्छादयामि नमः ॥

इति दर्भैर्योनि प्रच्छादनं ॥ ओं फट् अक्षवाटं कल्पयामि नमः ॥ इति
साग्रैरूर्ध्वमुखैरष्टभिर्दर्भैर्दर्भमध्ये दशसुदिक्षुऽक्षवाटः ॥

ततो दर्भविष्टरं कृत्वा सप्तधास्त्रेण वागीश्या दक्षहस्त स्थितं कङ्कण रूपं ध्यात्वा । ओं फट्
वागीश्याः कङ्कणं बध्नामि नमः ॥ दद्यात् ॥

दक्षिणहस्तस्थितं कङ्कणरूपं ध्यायेत् ॥

ओं रां अग्निगर्भायै नमः । इति पूजा ॥

ततो ज्वालिनी मुद्रां प्रदर्शयेत् ॥

मणिबन्धौ समौकृत्वा करौ प्रतिहताङ्गुली ॥

मध्यमे मिलिते कृत्वा तन्मध्येङ्गुष्ठकं क्षिपेत् ॥

वह्निमुद्दीपयेत्पश्चाज्ज्वालिन्यां मुद्रयानया ॥

ततो वह्निमन्त्रेणाग्निं प्रज्वालयेत् ॥

चित्पिङ्गल हन २ दह २ पच २ सर्वज्ञा ज्ञापय स्वाहा ॥ इति वह्निं प्रज्वाल्य कृताञ्जलिः ॥

अग्निं प्रज्वालितं वन्दे जातरूपं हुताशनम् ॥ सुवर्णवर्णममलं समृद्धं विश्वतो मुखम् ॥

प्. २३)

उपस्थापयेत् ॥ ततःस्तिलैः ॥ ओं जुं अग्नेर्गर्भाधानं करोमि स्वाहा ॥ आ ३ ॥

एवं ॥ ओं जुं अग्नेर्गर्भाधानं सम्पद्यतां स्वाहा ॥ आ ३ ॥ व्यों अग्ने पुमान्भव नमः ॥ इति
विध्यर्घतः दर्भाग्रेण जलं क्षिपेत् ॥

ओं व्यों अग्नये पुंसे नमः इति पूजनं ॥ ओं व्यों अग्नेः पुंसवनं संपद्यतां स्वाहा ॥ आ ३ ॥ ओं ईं
अग्ने विभक्तावयवो भव नमः ॥ इति दर्भाग्रेण समग्रमग्निशरीरमालिख्य ॥

ओं ईं अग्न्याकाराय नमः ॥ इति पूजा ॥

ओं हूं अग्ने वक्त्रकल्पनां करोमि स्वाहा ॥ आ ३ ॥ सम्पद्यतां ॥ ३ ॥

ओं अग्ने नेत्रत्रय कल्पनां करोमि स्वाहा आ ३ ॥ सं ३ ॥

ओं हूं सः ईं अग्नेः शिवतत्वमुखं करोमि स्वाहा आ ३ ॥ सं ३ ॥ ओं जुं ईं अग्ने विद्यातत्व हृदयं
करोमि स्वाहा आ ३ सं ३ ॥ ओं ओं ईं अग्नेः आत्मतत्व पादौ कल्पयामि स्वाहा ३ सं ३ ॥ ओं ईं अग्नेः शिरः
च्छन्दौ कटिं पादौ सर्वाण्यङ्गानि सञ्जीवयामि स्वाहा ३ सं ३ ॥ ओं ईं अग्नेः सीमाकल्पनं करोमि
स्वाहा ३ सं ३ ॥ ओं ईं अग्नेः सीमन्तो नयनं करोमि स्वाहा ३ सं ३ ॥ ओं फट् अग्निं बीजं बीजयामि?
स्वाहा ३ ओं फट् अग्नये नमः ॥

इति पूजनम् ॥

ओं फट् अग्नेः प्रसवाभिमुखो भव नमः ॥ इति विज्ञप्याञ्जलिं बद्ध्वा वागीश्या अग्निः संजातः इति
विभाव्य ॥

ओं फट् ज्ञानशक्त्यात्मने अग्नये नमः । इति पूजनम् ॥

ओं हूं अग्नेर्जातकर्मकरोमि स्वाहा ३ सं ३ ॥

प्. २३ब्)

ओं फट् अस्त्राय फट् अग्नेः सूतक शुद्धिरस्तु स्वाहा ३ सं ३ ॥

अस्त्रेण कुण्डात्सूतक शुद्धिः ॥

ओं फट् अग्नेवक्त्रोद्घाटं करोमि स्वाहा ३ सं ३ ॥ ओं फट् अग्नेर्वक्त्राभिघारं करोमि स्वाहा ३ सं ३ ॥ ओं
फट् अस्त्राय फट् अग्निं परिसमूहासि ॥ एवं पर्युक्ष्यामि ॥ परिषिञ्चामि ॥ ततस्तरपरिधिविष्टरन्यासः
॥ फट् अग्निमास्तृणामि फट् ॥ पूर्वे दर्भकाण्डत्रयं ॥ दक्षिणे पञ्च ॥ उत्तरे पञ्च ॥ पश्चिमे त्रीन्


ततो हस्तमात्रसमिधो दर्भद्वय सहिताः उत्तराग्राः पूर्वे ॥

पूर्वाग्रादक्षिणे ॥ पूर्वाग्रा उत्तरे ॥ उत्तराग्राः पश्चिमे ॥ इति परिधि न्यासः ॥ ततो विष्टर
चतुष्टयं दिक्षस्थापयेत् ॥ पूर्वे ब्रह्मणे नमः ॥ दक्षिणे रुद्राय नमः । पश्चिमे विष्णवे नमः ॥
उत्तरे सदाशिवाय नमः ॥ ततो ज्वालालिङ्गोपरि मूलेन साङ्गेन शान्तिकलशं पूजयेत् ॥ तद्यथा ॥

तत्रादौ ज्वालालिङ्गौ परिसजलकलशे सप्तदर्भ पिञ्जरकृत विष्टरसहितं विभुं यजेत् ॥ तस्य
ध्यानमाह ॥

देवं चतुर्भुजं ध्यायेच्छ्रीकण्ठं नीलकण्ठकम् ॥ चतुर्वक्त्रं शूलपाणिमक्षसूत्त्रकरार्पितम् ॥
वृषभारूढमत्युग्रं पृथक्छक्त्या? समन्वितम् ॥

तदुत्सङ्गे तु हेमाभां साक्षमालां कमण्डलुम् ॥ देवीं वराभय करां ज्योतीरूपां तु चिन्तयेत् ॥

ओं हूं ज्वालारूपाय ज्वालालिङ्गस्थाय भैरवाय नमः ॥ इति शान्तिकलशपूजां ॥

प्. २४)

मूलेनसाङ्गेन शान्तिकलशं पूजयेत् ॥ ततो दशसुदिक्षु लोकपालदशकं पूजयेत् ॥ तद्यथा ॥

ऐरावनसमारूढं सहस्रनयनं हरिम् ॥

वज्रहस्तं शचीयुक्तं होमकाले तु चिन्तयेत् ॥ ओं लूं इन्द्राय वज्रहस्ताय नमः ॥ पूर्वे ॥

पञ्चवक्त्रं विशालाक्षं स्वाहया सहितं सदा ॥ शुकारूढं शक्तिहस्तं नवजिह्वं विचिन्तयेत् ॥

ओं रूं अग्नये शक्तिहस्ताय नमः ॥

प्रेतारूढं दण्डहस्तं नीलजीमुतसन्निभम् ॥ यामीयुक्तं सदाध्याये दन्तकं महिषासनम् ॥

ओं टूं यमाय दण्डहस्ताय नमः ॥

देवीं युक्तं महाबाहुं खड्गाहस्तं त्रिलोचनम् ॥ निर्-ऋतिं चैव लोकेशं होमकाले तु चिन्तयेत् ॥

ओं क्षूं नैर्-ऋते खड्गाहस्ताय नमः ॥ पश्चिमस्थं स देवीकं निर्मलं मकरासनम् ॥

पाशहस्तं सदाध्याये होमे विघ्नौघशान्तये ॥ ओं वूं वरुणाय पाशहस्ताय नमः ॥

मृगारूढं जवयुतं ध्वजहस्तं समीरणम् ॥ शक्तियुक्तं वह्निशायं होमकाले तु चिन्तयेत् ॥

ओं यूं वायवे ध्वजहस्ताय नमः ॥

कुबेरं त्र्यम्बकमखं निधीशं सर्वसिद्धिदम् ॥ यक्षराजं गदाहस्तं चिन्तयेद्विघ्नशान्तये ॥

ओं कुं कुबेराय गदाहस्ताय नमः ॥

वृषारूढं महेशानं स्वच्छस्फटिकनिर्मलम् ॥

शूलहस्तं सदाध्यायेद् देव्या सार्धं त्रिलोचनम् ॥

ओं मूं ईशानाय त्रिशूलहस्ताय नमः ॥

ब्रह्माणं कमलारूढं पद्महस्तं चतुर्मुखम् ॥

प्. २४ब्)

गायत्री सहितं ध्यायेद्धोमे वेदनिधिं परम् ॥

ओं आं व्रां व्रं ब्रह्मणे पद्महस्ताय नमः ॥ शङ्खचक्रगदापद्मैर्भूषितं च चर्भुजम् ॥

श्रिया युक्तं पीतवस्त्रं विष्णुं विचिन्तयेद्बुधः ॥

ओं ह्लां विष्णवे चक्रहस्ताय नमः ॥ ओं ज्यं अग्नेर्निष्क्रामणं करोमि स्वाहा ॥ ३ ॥ सम्पद्यतां ॥ ३ ॥
ओं ज्यों अग्नेरादित्यदर्शनं करोमि स्वाहा ३ ॥ संपद्यतां ३ ॥

अग्ने शिवाग्निर्भव नमः ॥ शिवाग्नये नमः ॥ इति पूजा ॥

अग्नेः शिवाग्निरिति नामकरणं करोमि स्वाहा ३ ॥ सं ३ ॥ वागीश्या कङ्कणमोक्षं करोमि स्वाहा आ ३ ॥
सं ३ ॥

वागीश्याविष्टररूपं कङ्कणं विमुच्य ॥ ब्रह्मणे नमः ॥ पूजा ॥

ब्रह्मणे स्वाहा ३ ॥ ब्रह्मन्क्षम्यतां । पूर्वविष्टरं विमोचयेत् ॥

ओं एवं रुद्राय नमः ॥ रुद्राय स्वाहा ३ ॥ रुद्रक्षम्यताम् ॥ दक्षिण विष्टरं विमोचयेत् ॥

ओं विष्णवे नमः ॥ ओं विष्णवे स्वाहा ३ ॥ विष्णोक्षम्यताम् ॥ पश्चिमविष्टरं विमोचयेत् ॥ ओं सदाशिवाय
नमः ॥ ओं सदाशिवाय स्वाहा ३ ॥ सदाशिवक्षम्यताम् ॥ उत्तर विष्टरं विमोचयेत् ॥

ओं जुं वागीश्वर्यै नमः ॥ पूजा ॥ जुं वागीश्वर्यै स्वाहा १० ॥ वागीश्वरि क्षम्यताम् ॥

सृष्टिस्थितिलये दक्षे भोगमोक्षप्रदे शिवे ॥ वागीश्वरि नमस्तेस्तु गच्छ देवि सुविष्टपम् ॥

प्. २५)

ततो हस्त मात्रा इध्माहोमः ॥ २४ ॥ मूलेन ॥ शिवांग्निं तर्पयामि स्वाहा २४ ॥

ओं अथ स्रग्स्रुवसंस्कारः ॥

ओं फट् प्रोक्षणं करोमि फट् ॥ अवगुण्ठनं ॥ शिवाम्भसा प्रोक्षणम् ॥ एवं ॥ तापनं ॥ भ्रामणं
॥ पुनः प्रोक्षणम् ॥ अग्रेण तदग्रस्पर्शः ॥ पुनः प्रोक्षणभ्रामण तापनानि ॥ तन्मध्येन
तन्मध्यस्पर्शः ॥ पुनः तापयामि नमः ॥ भ्रामयामि ॥ प्रोक्षयामि ॥ मूलेन तन्मूलस्पर्शः ॥ ततो
नाभाऽवधो मुखौ संस्थाप्य ॥ शिवशक्तिभ्यां समालभनं गन्धो नमः ॥ अर्घो नमः ॥ पुष्पं नमः
॥ ऊर्ध्वमुखौ कृत्वा ॥ शिवाय नमः ॥ शक्तये नमः ॥

तत आज्यसंस्कारः ॥

आज्य पात्रमानीय । अस्त्राय फडिति प्रक्षाल्य । मूलेनाऽज्यं वीक्ष्य । अस्त्राय फडिति प्रोक्ष्य । अस्त्राय
फडिति दर्भैर्घृतं सन्ताड्य । हुं इत्यर्घजलेनाऽभ्युक्ष्य । इति संस्कार चतुष्टयं
कृत्वाऽज्यपात्रं वायु कोणे संस्थाप्य । नमः इति मन्त्रेणाज्य स्थालीं स्थापयेत् ॥

इदं तापनं ॥

ततो दर्भयुगलं प्रज्वाल्याज्ये निक्षिप्य दग्धशेषं नम इति मन्त्रेणाग्नौ क्षिपेत् ॥

इदं पवित्री करणं ॥

पुनः प्रज्वालितेन दर्भ युगलेन हुमिति मन्त्रमुच्चरन् ॥ घृतं नीराज्य अग्नौ क्षिपेत् ॥

इत्यभिद्योतनं ॥

ततः प्रज्वालित कुशमुष्टिं गृहीत्वास्त्राय फडिति मन्त्रमुच्चरन् ॥

घृते प्रज्वालितान्दर्भान्प्रदर्श्याग्नौ क्षिपेत् ॥

इत्युद्द्योतनं ॥

तत उत्तानयोर्हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यां पवित्रं पृथक्पृथग्वृत्वाऽस्त्राय फडिति मन्त्रमुच्चरन्
प्राङ्मुखं घृतमुत्प्लवनमात्मनोभिमुखं संप्लवनं च कृत्वा मूलेनसाङ्गेनाज्यं पूजयेत् । ते
नैवामृतीकरणं ॥ आज्यं मूलेनार्चयेत् ॥

इत्याज्यसंस्कारः ॥

लं सद्योजातवक्त्रेण रं अघोरवक्त्रमनुसन्दधे स्वाहा ॥ ३ ॥

रं अघोरवक्त्रेण यं तत्पुरुष वक्त्रमनुसन्दधे स्वाहा ॥ ३ ॥ यं तत् पुरुषवक्त्रेण क्षं ईशान
वक्त्रमनुसन्दधे स्वाहा ॥ ३ ॥ ओं हूं नाडित्रय कल्पनां करोमि नमः । इत्याजि पात्रे पूर्वाग्रं
दर्भद्वयं स्थापयेत् ॥ तत्र मध्ये ॥

ओं हां इच्छाशक्तये नमः ॥ ओं वह्निधाम्ने सुषुम्णायै नमः ॥ स्ववामे ॥

ओं ह्रीं क्रियाशक्तये नमः ॥ ओं सः सोमधाम्ने इडायै नमः ॥ स्वदक्षे ॥

ओं हूं ज्ञानशक्तये नमः ॥ ओं जुं सूर्यधाम्ने पिङ्गलाय नमः ॥ अथाग्नेः ॥

ओं शिवाग्नेर्भागत्रयकल्पनां करोमि नमः ॥

इत्युर्ध्वमुखं प्रादेशमात्रं समिधाद्वयं दद्यात् ॥

ओं ओं पिङ्गलास्रय सूर्याय नमः ॥ इति स्ववामे वह्निदक्षे पूजनम् ॥

ओं जुं सुषुम्णाश्रयायाग्नये नमः । इति मध्ये ॥ ओं सः इडाश्रयाय सोमाय नमः ॥ इति स्वदक्षे
वह्निवामे ॥ ओं जुं सः अग्नये स्वाहा ॥ इत्याज्य दक्षभागाद्वह्नि दक्षभागे ॥ मूलेन सोमाय स्वाहा ॥
इत्याज्य वामभागाद्वह्निवामभागे ॥

प्. २६)

वामभागाद्वह्निवामभागे ॥

ओं जुं सः अग्नीषोमाभ्यां स्वाहा इत्याज्य मध्यभागाद्वह्नि मध्यभागे ॥

इति शुक्लपक्षे ॥

ओं जुं सः अग्नये स्वाहा ॥ इत्याज्य दक्षभागाद्वह्निदक्षभागे ॥ ओं जुं सः सूर्याय स्वाहा ॥ इत्याज्य
वामभागादग्नि वामभागे ॥ ओं जुं सः अग्नि सूर्याभ्यां स्वाहा ॥ इत्याज्य मध्यभागाद्वह्नि मध्यभागे


इति कृष्णपक्षे ॥

ओं जुं सः शिवाग्नेः प्राशनं करोमि स्वाहा ॥ ३ ॥ संपद्यतां ३ ॥ ततो यजमानस्य सपरिवारस्य
तिलकं पुष्पमाशीर्वादं च दत्वाबन्धामि कङ्कणं ते बद्धमतिर्भवभयोच्छित्यै ॥

भज निपुणममलमभयाय शाश्वतं स्थानम् ॥ प्राणापानौ चक्षुश्श्रोत्त्रे घ्राणं मनः शिरो हस्तौ
प्राकृतावपि यदुपातुं तत् ते देवः शिवः पातु ॥

ओं पापहरस्ते भगवाञ्शिवोऽशुभं हरतु सर्वभूतगणाः शान्त्यै भवन्तु यत्नाद्धृदयं नारायणः
पातु ॥

इति कङ्कणमन्त्रः ॥ अथाज्य दर्शनम् ॥

आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् ॥ आज्यं स्वराणामाहार आज्ये लोका प्रतिष्ठिताः ॥

दिव्यान्तरिक्षभौमाद्यैर्यत्ते किल्विषमागतम् । तत्सर्वमाज्य स्पर्शेन विनाशमुपगच्छतु ॥

आत्मनो वाङ्मनः कायोपार्जितपाप निवारणार्थमशेष पापक्षयार्थं स्वेष्टदेवता प्रीत्यर्थं
शिवाग्नये इदमाज्यमर्पयामि नमः ॥ इत्याज्य दर्शनम् ॥

अग्निं ज्वालामयं देवं भूषयन्तमनेकशः ॥ ज्वालामण्डितमाकाशं साक्षसूत्रकमण्डलुम् ॥

वरदाभयहस्तं च श्वेतवर्णं हुताशनम् ॥ शुकपृष्ठगतं देवं शक्तिहस्तं चतुर्भुजम् ॥
मृगाजिनेन सन्नद्धं यजमानवरप्रदम् ॥

त्रिनेत्रं पञ्चवक्त्रं च होमकाले तु चिन्तयेत् ॥ एवं ध्यात्वा भगवन्तं सर्वसिद्धि प्रदायकम् ॥

स्वर्णाश्वरूविनिर्मितं हुतवहं सिन्दूर पुञ्जप्रभं ज्वालाभि निचिताङ्गरोम हृदयं कान्त्याजगन्मोहनम्


अश्वाकारमनर्घ्यरत्नविलसद्भूषानमत्कन्धरं रत्नैरिन्द्रिय निर्गतैर्वसुमतीमाच्छादयन्तं स्मरेत् ॥

शक्तिं वह्नेः स्रूग्स्रूवौ दक्षहस्तैर्वामैर्हस्तैस्तोमरं ताल वृत्तम् ॥ सर्पिः पूर्णं तप्तसौ
वर्णवर्णं पात्रं शश्वत्सप्तजिह्वां दधानाम् ॥

ओं जुं सः शिवाग्नेच्चुडाद्याः संस्काराबाल्यादि संस्थिता ब्रह्मचारि व्रतान्ताश्च सर्वे संस्काराः
सम्पूर्णास्सन्तु वौषट् ॥ इति पूर्णा ॥

ततः स्वदक्षे च मसे विष्णुं पूजयेत् ॥ पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र कल्पयेत् ॥

स्वनामपदसंयुक्तं स्वाध्यायेन नमोन्तगम् ॥ शङ्खचक्रगदापद्मैर्भूषितं च चतुर्भुजं ॥

श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥ ध्याये देवं विधं देवं च मसे विष्णुमव्ययम् ॥

विष्णुपीठाय विद्महे विष्णुध्यानाय धीमहि तन्नो विष्णुप्रचोदयात् ॥ ३ ॥

ओं भूपुरुषमावाहयामि नमः ॥ ओं हूं भुवः पुरुषमावाहयामि नमः ॥

प्. २७)

ओं ह्रीं स्वः पुरुषमावाहयामि नमः ॥ ओं हूं ह्रीं भूर्भुवस्स्वः पुरुषमावाहयामि नमः ॥

भगवन्विष्णो आगच्छ २ भगवन्विष्णो स्वागतं भोः सन्तिष्ठ २ सन्निधत्स्व २ हं हं हं भगवन्पाद्यं
गृहाण नमः ॥

ओं हं हं हं विष्णो आचमनीयं गृहाण स्वधा ॥ ओं हं हं हं विष्णो अर्घ्यं गृहाण स्वधा ॥

एवं समालभन्नमाधत्स्व ॥ एवमक्षतपुष्पाणि वौषट् ॥ एवं पञ्चोपचारपूजां गृह्ण २ वौषट् । ओं
हूं विष्णवे नमः ॥

इति चमसपात्र पूजनम् ॥

तस्मादाज्ञां ग्राहयेत् ॥

पश्वर्थं यज्ञ आरब्ध आत्मार्थं वापि साधकैः ॥ भगवंस्तुत्प्रसादेन यागे निच्छिद्रतास्तुनः ॥

अथ चरुसंस्कारः ॥

चरुसाधनार्थं कुण्डदग्निमानीय चरुसाधनं कुर्यात् ॥

अथवा यदि दीक्षापरस्त्वयं विशेषः चर्वर्थमग्निमुद्यत्य कवचेनावगुण्ठितं सुरक्षितं स्थापयेत् ॥

यदि लौकिकाग्नेः सिद्धं चरुमानीतं तदायं संस्कारः ॥

अथ स्ववामेग्नि दक्षे मर्यादयामण्डलं कृत्वा पूर्वाग्रान्दर्भानास्तीर्य । तत्र आधारशक्त्यै नमः ॥

इत्यासनपक्षं संपूज्य । तदुपरि चरुंसंस्थाप्य । तत्र मूलेन साङ्गेन चरुं सम्पूज्य
अमृतेशमुद्रयाऽमृतीकृत्य । दर्भकाण्डं प्रज्वाल्य फट् नीराजनं करोमि फट् ॥

इति चरूपरि त्रिन्भ्राम्य अग्नौ क्षिपेत् । शिवाम्भसा प्रोक्ष्य । अस्त्रेण दर्भविष्टरमध्ये प्रज्वाल्याऽग्रतः
विष्टरसहितं मे क्षणं स्थाप्यसन्दीप्याऽर्घपात्राम्बुनाऽलङ्कृत्य अङ्गैस्त्रिः कुर्यात् ॥

ओं जुं सः स्वतप्तो भवस्त्वा इत्यग्नौ हा इति चरौ ॥ ओं जुं सन्तुष्टो भव स्वा इत्यग्नौ हा इति चरौ ॥

एवं व्यों ईं हूं जुं फट् । अग्नावधिश्रित्य ॥ ततो भूमौ स्वदक्षे आसनाय नमः इति दर्भानास्तीर्य
चरुमवतारयेत् ॥

शीताभिघारः सोमव्याप्त्यानिस्विन्नता दोषोपशमनाय मूलेन साङ्गषट्केन वौषड् जाति युतेन ॥

स्वशीतो भव वौषट् स्वा इति चरौ ॥ हा इत्यग्नौ ॥

एवं जुं सुशीतो भव वौषट् स्वा इति चरौ ॥ हा इत्यग्नौ ३ ॥

एवं व्यों ईं हुं जुं फट् ॥ पुनः सोमवत्यै नमः पूजनम् ॥

ओं स्यूं जगदाप्यायकर्त्रे सोमाय नमः इति ॥ ततः संपात होमः ॥ ततस्तं चरुमस्त्रेण ॥

ओं फट् चरुमाच्छादयामि नमः ॥ इति दर्भैराच्छाद्य । ओं हूं चरुं संरक्षयामि नमः ॥
इत्युपरिपुष्पं दद्यात् ॥

ततो नवजिह्वा ज्वालालिङ्गोपरि कल्पयेत् पूजयेश्च ॥ तद्यथा ॥

ओं प्रभायै नमः ॥ ओं दीप्त्यै नमः ॥ ओं प्रकाशाय नमः ॥ एवमर्चा ॥ मरीच्यै ॥ स्थापिन्यै ॥ रुच्यै
॥ कराल्यै ॥ लीलिहायै ॥

इति ज्वालालिङ्गोपरि जिह्वारूपाश्चिन्तयेत् पूजयेश्च ॥ अथ कुण्डमध्ये नवजिह्वा पूजनं यथा ॥

राज्यार्थदायै नमः पूर्वे ॥ दाहजनन्यै नमः आग्नेये ॥ ओं मृत्युदायै नमः दक्षिणे ॥ ओं
शत्त्रुहारिण्यै नमः नैर्-ऋते ॥

प्. २८)

ओं वशीकर्त्र्यै नमः पश्चिमे ॥ ओं उच्चाटिन्यै नमः वायौ ॥ अर्थदायै नमः उत्तरे ॥ ओं मुक्तिदायै नमः
ईशाने ॥ ओं सर्वसिद्धिप्रदायै नमः मध्ये ॥

एवं सम्पूज्य स्वाहान्तो होमः ॥ तत पूर्णा ॥ द्वारेशेति ॥

ओं जुं सः शिवाग्नेः जिह्वाकल्पयामि स्वाहा वौषट् ॥

अथ द्वितीया ॥ ३ ॥

शिवाग्नेर्जिह्वा सन्निधिरस्तु स्वाहा वौषट् ॥ अथ वह्निं चैतन्य तया कल्पितं ज्वालाग्रं विभाव्य ॥
रक्तं जटाधरं वह्निं चिन्तयेद्रक्तवाससम् ॥

वामौत्सङ्ग्रगत स्वाहं द्विभुजं तु त्रिलोचनम् ॥ शुक पृष्ठासनं देवं ज्वालाश्मश्रूविभूषितम् ॥

ईदृशं चिन्तयेद्देवं हव्यकव्ये च पावकम् ॥ शुकारूढाय स्वाहा सहिताय शक्तिहस्तायाग्नये नमः ॥
इति पूजनम् ॥

ततो वह्नि ज्वालाग्रं जुमिति गृहीत्वा वह्नि चैतन्यं विभाव्य ॥

ओं जुं शिवाग्नेर्ज्वालाग्रे सङ्गृह्णामि नमः ॥ इति तर्जन्या कुटिली कृताया सङ्गृह्य ।
दक्षिणनासापुटेन स्वीकृत्य हृत्गत चैतन्या नलेन संयोज्य ॥

हृत्कण्ठतालुभ्रूमध्य क्रमेण ब्रह्मरन्ध्रं गच्छेत् ॥

तत द्विस्तनीमनङ्गधेनुं दुग्ध्वा तस्याः क्षीरं निर्मथ्य हविर हं घृतं निर्गतं विभाव्य ।
तत्घृतं गृहीत्वा पुनस्ते नैव क्रमेण हृद्यवरुह्य मूलेन साङ्गेन यथा शक्तिहोमं विधाय ।
पूर्णादेया ॥ तद्यथा ॥ ओं धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा श्रूचा ॥

प्. २८ब्)

सुषुम्णावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहं स्वाहा ॥

इति बाह्यवह्नौ चैतन्य वह्निं संयोज्य । तस्य वह्नेः मध्य जिह्वायाः शिवताभावेनामृतेश्वर रूपं
स्मृत्वा तं च ।

ध्यायेदात्मनि देवेशं चन्द्रकोटि समप्रभम् ॥ कुन्देन्दु गोक्षीरनिभं हिमाद्रि सदृशं विभुम् ॥

शुभ्रहारेन्दु कान्तादि सितभूषणभूषितम् ॥ सितचन्दनलिप्ताङ्गं कर्पूरक्षोद धूसरम् ॥

स्फुरश्चन्द्रा?मृतस्फारबहलोर्मि परिप्लूतम् ॥ सोममण्डलमध्यस्थमेकवक्त्रं त्रिलोचनम् ॥

सितपद्मोपविष्टं च बद्धपद्मासन स्थितम् ॥

चतुर्भुजं विशालाक्षं वरदाभय पाणिकम् ॥ परिपूर्णं तथा चन्द्रं वामहस्तस्य चिन्तयेत् ॥

सर्वश्वेतोपचारेण चार्चितं तमनुस्मरेत् ।

इति ध्यानेन मानसैः पञ्चोपचारैर्देवं सदेवीकं सपरिवारं पूजयेत् ॥ तद्यथा ॥

नाभौ कन्दं हृदयावधिनालं हृदये पद्मं सितमष्टदलं धर्मादि चरणं सिंहासनाऽनन्तासनं
विभाव्य तत्रोपरिभगवन्तं पूजयेत् ॥

एवं बाह्याग्नि चैतन्याग्नि शिवानामेकी भावं कृत्वा । तेषां स्वमूर्तेरप्येकी भावं कृत्वा न्यासं
कुर्यात् ॥ शिवतत्वाय नमः करन्ध्रे ॥

ओं सदाशिवतत्वाय नमः ललाटे ॥ ईश्वरतत्वाय नमः भ्रूमध्ये ॥ विद्यातत्वाय नमः । तालुनि ॥
मायातत्वाय नमः कण्ठे ॥ कालतत्वाय नमः । हृदि ॥ नियति तत्वाय नमः नाभौ ॥ पुरुष तत्वाय
नमः मेढ्रे ॥ प्रकृति तत्वाय नमः पादयोः ॥

प्. २९)

अथ त्रितत्वन्यासः ॥

ओं सः शिवतत्वाय नमः करन्ध्रे । ओं जुं विद्यातत्वाय नमः । भ्रूमध्ये ॥ ओं ओं आत्मतत्वाय नमः हृदि
॥ ओं जुं सः अमृतेश्वर मूर्तये नमः ॥ सकलदेहे ॥

ततः करन्यासं कुर्यात् ॥ अङ्गुष्ठादि कनिष्ठान्तं हृदयाद्यङ्गपञ्चकं । अस्त्रं नखेषु । इति
करन्यासः ॥

ओं जुं हृदयाय नमः अङ्गुष्ठयोः ॥ व्यों शिरसे स्वाहा तर्जन्योः ॥ ईं शिखायै वौषट्
मध्यमाङ्गुल्योः ॥ हुं कवचाय हुं अनामिकयोः ॥ जुं नेत्रेभ्यो वषट् कनीयस्योः ॥ फट् अस्त्राय फट्
नखेषु ॥

इति करन्यासं कृत्वा देहन्यासं कुर्यात् ॥ एवं हृदयं हृदये । इत्यादि । अस्त्रं सर्वाङ्गेषु ॥

एवं देहन्यासं कृत्वा पुनर्मूलं सकलदेहे न्यसेत् ॥

ओं शुद्धदेहाय नमः ओं मूर्त्यै नमः ॥

इति सकलदेहन्यासं कृत्वा ततः पद्ममुद्रां बद्ध्वा यथोक्तं ध्यानं कुर्यात् ॥

देवं स्वधाकलश इति ।

यथोक्त ध्यानेन स्वमूर्तिं शिवस्वरूपं ध्यात्वा । ततो बाह्ययागार्थं स्ववामे मूलाङ्गैरर्घपात्र
पूजनं क्षीरार्णवोपरिभावेनाष्टाङ्गं पाञ्चाङ्गं त्र्यङ्गं वा कुर्यात् ॥

अमृतमुद्रां बद्ध्वा तदम्बुकणैः सर्वोपचारान्संप्रोक्ष्यात्मानं शिवस्वरूपं सप्तधामूलेन
ऊर्ध्वरेखां ललाटे तिलकं कुर्यात् ॥ मूलाङ्गैरात्म पूजां कुर्यात् ॥

ततो बाह्ये कुण्डमध्ये शिवाग्नेर्मध्यजिह्वानुसारेण नाभौ कन्दं हृदयावधि नालं हृदये

प्. २९ब्)

पद्मं सितमष्टदलं धर्मादि चरणं सिंहासनानन्तासनं अग्निमूर्तिं विभाव्य ।

ओं जुं अग्निं शिव स्वरूपं कल्पयामि नमः ।

इति प्राङ्निवेशितां ज्वालां हृदयादुन्मील्यदक्षनासापुटेन रेचकेन बाह्य वह्न्यन्तर्भावितासनोपरि
क्षिपेत् ॥

एवमेव शिवाग्नि चैतन्याग्नि परमेश्वर स्वमूर्त्तीनामेकी भावः ॥

ततो बाह्यकुण्डस्थितस्याग्नेर्मध्य जिह्वायाः शिवताभावेनामृतीश्वररूपं स्मृत्वा तं च ॥

ध्यायेदात्मनि देवेशं चन्द्रकोटि समप्रभम् ॥ ध्यानं स्मृत्वा ॥

अञ्जलौ पुष्पमादाय देवस्या वाहनं कुर्यात् ॥

ओं भगवन्नागच्छ २ नमः इत्यावाहनम् ॥ भगवंस्तिष्ठ २ स्वाहेति स्थापनं ॥ भगवन्सन्निधत्स्व २
भगवन्सन्निरुद्धो भवं हुं फट् ॥ भगवन्सन्निहितो भव । भगवन्नेतत्सन्निवेश ।

ओं हूं भगवन्नवगुण्ठनं करोमि नमः ॥

इत्यवगुण्ठ्य ॥ भगवन्नमृती करोमि नमः ॥ इत्यमृती कृत्य ॥

ततो मन्त्रार्घपात्रात् भगवन्पाद्यं गृहाण नमः ॥ भगवन्नाचमनीयं गृहाण नमः ॥

एवं पञ्चोपचारपूजां गृह्ण २ वौषट् ॥ ततो मूलेन साङ्गे सदेवीकेनार्चयेत् ॥ द्वारपूजा ॥ गुरुपूजा
॥ आधारशक्त्याद्यासनपक्षं ॥ अघोरं सवक्त्रं साङ्गं ॥ अघोरीश्वरीं सवक्त्रांसाङ्गं निष्कलं
साङ्गं भैरवावरणं । अस्त्रावरणं । विद्येशादि सप्तावरणं । ब्रह्म्यादिमात्र्यष्टकं ।
भवादिनामाष्टकं ॥

प्. ३०)

हेरुकादि वटुकादि क्षेत्रेशा वरणम् ॥ मन्त्राद्यध्व षट्कमिति संपूज्य ॥ ततः प्राङ्निवेशितस्य चरोः


ओं ह्रीं षड्रसापाचिन्यै स्थाल्यै नमः ॥ इति पूजनम् ॥ ओं स्व्यूं सः सः
सोमकोटिपदसोमसोमधामधामाऽयामृतकलनायान्नाय वौषट् ॥ मूलेन साङ्गेन पूजनम् ॥

ओं जुं सः चरुममृतीकरोमि नमः ॥ इत्यमृतमुद्रयामृतीकरणं । ततः संपातं होमः ॥ ओं संपातं
करोमि श्वा इत्यग्नौ हा इति चरौ ॥ आ ३१ ॥

एवं समिद्यवतिलादीनां सर्वेषां होमोपयोगि द्रव्यानामाहुतिभिस्त्रिभिः सम्पातं कुर्यात् ॥

ततः कलशेषु यागमण्डले क्षेत्रपालानां वा अग्नौ वा अग्निसमीपे लोकपालानां चरोः किञ्चिदन्नं
गृहीत्वा मत्स्यं मांसं अपूपादि सहितं घण्ठावादन पूर्वं नैवेद्यं निवेद्य ॥

ओं भैरववक्त्रं शिवाग्निवक्त्रेषु नुसन्दधे स्वाहा ॥ आज्येन् । आ ३ ॥ ओं भैरववक्त्रजिह्वां शिवाग्नि
वक्त्रजिह्वा स्वनुसन्दधे स्वाहा ॥ ३ ॥

ततो मूलमन्त्रमुच्चार्य । अग्नेर्भावनया हृदयाद्वामनासापुटेन निर्गत्यस्थण्डिलेशस्य दक्षिणे प्रविश्य
आवरणेभ्य एवमेव प्रवेशनिर्गमनम् ॥

वह्नेर्दक्षेण प्रविशेति नाडीसन्धानम् ॥ इत्यग्निसाधनम् ॥

तत अनुग्रहाभिमुखीकरणाय समिदां होमः ॥

ओं अमृतेश्वर भैरवं तर्पयामि स्वाहा ॥ आ १०८ ॥ वा ५४ । वा २७ ॥ वा १४ ॥

प्. ३०ब्)

अङ्गानां दशांशः ॥ देव्याभैरवादर्धं । भैरव वद्वागणीशादीनां सर्वेषां आ १ ॥

अथ यदि यजमानो व्याध्यादिग्रस्थो भवति । तदाक्षीराकुसमिद्भिः ततः शान्तिकलशे शुक्लपुष्पैर्वा
तदभावात्सिततण्डुलैर्द्वग्धेन चन्दनेन च । अनेन विधिनारक्षामन्त्रेणा मृतेश्वरं व्याधिशान्त्यर्थं
पूजयेत् ॥

ओं जुं सः अमृतेश्वर भैरव अमुकं सर्वरोगेभ्यो रक्ष २ सः जुं ओं नमः स्वाहा आ १०८ वा ५४ वा २७ वा
१४ वा ७ । अङ्गानां दशांशः ॥ ओं जुं सः अमृत लक्ष्य? अमुकमाधिव्याधिभयाद्रक्ष २ सः जुं ओं
नमः स्वाहा आ ५४ । वा २७ वा १४ वा ७ ॥

ओं जुं अमुकस्य हृदयं रक्ष २ हृदयाय नमः स्वाहा ॥ व्यों अमुकस्य शिरोरक्ष २ शिरसे स्वाहा स्वाहा ॥
ईं अमुकस्य शिखां रक्ष २ शिखायै वौषट्स्वाहा ॥ हूं अमुकस्य कवचं रक्ष २ कवचाय हूं स्वाहा
॥ ज्यों? अमुकस्य नेत्रेरक्ष २ नेत्रेभ्यो वषट् स्वाहा ॥ फट् अमुकस्य सर्वाणि अङ्गानि रक्ष २ अस्त्राय फट्
स्वाहा ॥ यदुक्तं अमृतेश विधाने ॥

क्षीरवृक्षसमिद्भिस्तु क्षीराक्ताभिस्समाहितः ॥ होमयेद्यस्य नाम्नैव तस्य शान्तिर्भवेद्ध्रूवम् ॥ ४ ॥ इति
जुरशान्तिः ॥ तत आज्येन ।

ओं जुं सः अमृतेश्वर भैरवं तर्पयामि स्वाहा ॥ आ २४ वा २७ वा १४ वा ७ अङ्गानां प्रतीकं आ १ ततः
पूर्णा ॥ ओं जुं सः सर्वमन्त्रचक्रतृप्ति(सिद्धिः)रस्तु स्वाहा वौषट् ॥

प्. ३१)

अथ द्वितीया ॥

ओं जुं सः भैरवाप्यायनमस्तु स्वाहा वौषट् ॥ अथान्या ॥

अथसप्तावरण होमः ॥

तत्रादौ विद्येश्वराः ॥ ओं ह्रीं अनन्ताय स्वाहा । ओं झ्रूं सूक्ष्माय स्वाहा । ओं सूं शिवोत्तमाय
स्वाहा ॥ ओं क्षूं एकनेत्राय स्वाहा ॥ क्ष्यां एकरुद्राय स्वाहा ॥ य्लूं त्रिमूर्तये स्वाहा ॥ ह्जूं
श्रीकण्ठाय स्वाहा ॥ श्रीं शिखण्डिने स्वाहा ॥ इति

इति विद्येश्वराः ॥

ओं रां रीं र्लूं नन्दिने स्वाहा ॥ मां मीं म्लूं ह्स्रौं महाकालाय स्वाहा ॥ ह्स्रां भृङ्गिरुद्राय
स्वाहा ॥ ओं गूं गां गणपतये स्वाहा ॥ ओं व्रां वृषभाय स्वाहा ॥ ओं ह्स्रां कुंकुमाराय स्वाहा ॥
ओं ह्रीं सः अम्बिकायै स्वाहा ॥ ओं ह्सूं चण्डेश्वराय स्वाहा ॥

इति गणेशाः ॥ एवं लोकेशाः ॥

ओं लूं इन्द्राय वज्रहस्ताय स्वाहा ॥ रूं अग्नये शक्तिहस्ताय ॥ टूं यमाय दण्डहस्ताय ॥ क्षूं
निर्-ऋते खड्गा हस्ताय ॥ वूं वरुणाय पाशहस्ताय ॥ यूं वायवे ध्वजहस्ताय ॥ कुंकुबेराय
गदाहस्ताय ॥ मूं ईशानाय त्रिशूलहस्ताय ॥ आं व्रां व्रं ब्रह्मणे पद्महस्ताय ॥ ह्लां अनन्ता
हलहस्ताय स्वाहा ॥ इति लोकेशाः ॥

ज्म्रूं जयायै स्वाहा । व्म्र्यूं विजयायै स्वाहा ॥ गं सुभगायै ॥ यं दुर्भगायै ॥ म्स्र्यूं जयन्त्यै ॥
पं ऊ हिन्यै ॥ ह्स्र्यूं अपराजितायै ॥ रां करल्यै स्वाहा ॥ इति मातरः ॥

प्. ३१ब्)

ओं ह्रां ह्रीं सः सूर्याय स्वाहा ॥ स्रूं चन्द्रमसे ॥ र्ह्रूं अङ्गारकाय ॥ स्ह्रूं बुधाय ॥ र्सूं
जीवाय ॥ ह्रीं भार्गवाय ॥ क्ष्म्र्यूं शनैश्चराय ॥ यूं राहवे ॥ ह्रीं केतवे स्वाहा ॥ इति ग्रहाः
। ओं अनन्तरागगजाय स्वाहा ॥ वासुकि । पद्म । महापद्म ॥ तक्षक । कार्कोट ॥ शङ्खपाल ॥
कुलिकनागराजाय स्वाहा ॥ वज्राय फट् स्वाहा ॥ शक्तये । दण्डाय । खड्गाय । पाशाय । ध्वजाय ।
गदायै । त्रिशूलाय । पद्माय । फलाय फट् स्वाहा ॥

ओं ह्रीं श्रीं ब्राह्म्यै स्वाहा ॥ माहेश्वर्यै ॥ कौमार्यै ॥ वाराह्यै ॥ वैष्णव्यै ॥ ऐन्द्र्यै ॥
चामुण्डायै ॥ अपराजितायै ॥ नारसिंह्यै ॥ महालक्ष्यै ॥ जयायै ॥ विजयायै ॥ जयन्त्यै स्वाहा ॥
ततः क्षेत्रेशावरणं ॥ ह्रां क्षं क्षूं हेरुकाय स्वाहा ॥

ओं ऐं ह्रीं लां क्षें त्रिपुरान्तकाय ॥ ओं ह्रीं हूं क्षी.ं अग्निवेतालाय ॥ हूं अग्निजिह्वाय ॥ ओं
ह्रीं क्षूं हूं कुर्पकरालाय ॥ ओं क्षां यूक्षीं विकरालाय ॥ आं धूं क्ष्मीं एकपादाय ॥
क्षूं धूं क्षां भीमरूपाय ॥ डामराय ॥ हाटकेश्वराय स्वाहा ॥

ओं ह्रीं श्रीं देवीपुत्रवटुकनाथाय ॥ दक्षिणे वटुकवलये ॥ उत्तरे योगिनीभ्यः ॥ पश्चिमे
स्थानक्षेत्त्रपालाय ॥ पूर्वे भूतवलये ॥ मध्ये राजराजेश्वराय ॥ ईशाने विश्वक्सेनाय ॥ आग्नेये
वेताल भैरवाय । नैर्-ऋत्ये बहुखातकाय ॥ वायव्ये मङ्गलराजानकाय ॥ पूर्णराजानकाय ॥

प्. ३२)

मङ्खाभिधत्तत्तष्कराजानकाय? ॥ मङ्गल्यराजानकाय ॥ आनन्दराजानकाय ॥ सातीराजानकाय ॥
धान्यराजानकाय ॥ रुद्रराजानकाय ॥ पञ्चालराजानकाय ॥ शीतलनाथाय ॥ सप्तावरण देवताभ्यः
॥ ततः पूजा ॥ ततस्तर्पणम् ॥

इति स सिद्धोमः ॥ अथ पशुमन्त्रः ॥

सर्वलक्षणसंपूर्णं पशुं स्वस्नाप्या । वाराही यमुना गङ्गा करतो या सरस्वती ॥

काबेरी चन्द्रभागा च सिन्धुर्भैरव सा गतः ॥ पशुस्थाने समायान्तु ये चान्येनदसंज्ञकाः ॥

वाचं ते स्वधामि ॥ प्राणं ते स्वधामि ॥ नाभिं ते स्वधामि ॥ चक्षुस्ते स्वधामि ॥ श्रोत्त्रं ते
स्वधामि ॥ वाक्ते आप्यायतां । घ्राणं ते आप्यायतां ॥ श्रोत्त्रं ते आप्यायतां ॥ नाभिस्ते
आप्यायतां ॥ चक्षुस्ते आप्यायतां ॥ श्रोत्त्रं ते आप्यायतां ॥

पशुपाशविनाशाय हेमकुट स्थिताय च ॥ परापराय परमकारणायाज रूपिणे ॥

पद्मे पद्मे महापद्मे पद्मावति माये स्वाहा ॥

इति पशु प्रोक्षणम् ॥ मूलेन च प्रोक्षयेत् ॥ फें फें पशून् हन २ हूं फट् इत्यभ्युक्ष्य ॥ ततो
रजुमादायमस्तके पशुं बन्धयेत् ॥

ओं ह्रीं फट् पशुं बन्धय २ ॥ ततो देव्यग्रे स्थाप्य ॥

मूलेन प्रोक्षिणी पात्रजलेन प्रोक्ष्य कवचेनावगुण्ठ्य । धेनुमुद्रयाऽमृती कृत्य परमपशुरूपिणे नमः


इति मन्त्रेण पाद्यादिकं दत्वा पुनः पुष्पैः पूजयेत् ॥

ओं रुधिरवदनायै नमः शिरसि ॥ ऐं चण्डिकायै नमः कपोले ॥ सरस्वत्यै नमः मुखे ॥ श्रद्धायै
नमः । मेधायै नमः चक्षुषोः ॥ बृहस्पतये नमः प्राणदायै नमः चन्द्रादिभ्यां नमः ॥ नासिकयोः


लीं ह्रीं बहुरूपायै नमः प्रचण्डरूपायै नमः ॥ उग्रनासायै नमः इति कर्णयोः ॥ वैष्णव्यै
नमः जिह्वायां ॥ पद्मनाभाय नमः उदरे ॥ विष्णवे नमः नाभौ ॥ श्रियै नमः गुह्ये ॥ रुधिरोत्तमाय
नमः ॥ भैरव्यै नमः पादेषु ॥ इमममुकं पशुं सुर्गान्नियोजय मुक्तिं प्रदर्शय ॥ ओं ह्रीं
चन्द्रमण्डलाधिष्ठित विघ्नहायै रमुं पशुमर्पयामि स्वाहा ॥

चण्डी विधाने ॥

ओं हिलि २ बहुरूपधरायै चंडं दुर्गायै इमं पशुं स्वार्थं नियोजय २ मुक्तिं प्रदर्शय २ ओं ह्रीं
श्रीं चन्द्रमण्डलाधिष्ठित विघ्नायै इमं पशुमर्पयामि स्वाहा ॥ ओं ह्रीं श्रीं सर्वदेवता रूपिणे
बलिरूपायामुकपशवे गन्धमर्पयामि नमः ॥

अक्षतपुष्पाणि वौषट् ॥

पशो दक्षिणे कर्णे पशु गायत्रीं त्रिपठेद्यथा ॥ पशुपाशाय विद्महे विश्वगर्भाय धीमहि तन्नो
जीवः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं हूं फट् शिवरूपं गच्छतु स्वाहा ॥ ओं जुं सः हसरक्षमलवय-ऊं शिवरूपं गच्छतु
स्वाहा ॥ १२ ॥

कर्णमूले जपेत् ॥

एतद्देवि महामन्त्रं दुर्लभं च स्वरैरपि ॥ कर्णमूले जपेद्यस्तु सप्तवारं वरानने ॥

तं च मोक्षपदे प्राप्य शिवतत्वं लभेत् पशुः ॥

प्. ३३)

एतद्यो वै न जानाति नारकी पशुघातकः ॥

ततो गन्धाक्षतजलादिकमान्दीय मूलमुच्चार्य अद्य तावत् ॥ अमुक शर्मा अमुक गोत्रो दीर्घायुरस्तु
दुर्भिक्षदुःख निवृत्ति परमानन्ददशाश्वमेध समफलध्वजमालाकुलविमानवरारोहण पूर्व देवी
लोकगमनोत्तर शाश्वत समाधि चिन्मया खण्डविजयकामः श्रीमदमुकदेवतायै इमं पशुं
तुभ्यमर्पयामि नमः प्रसन्नो भवेत् युक्त्वा पुष्पाक्षत जलादिकं पशोश्शिरसि क्षिपेत् ॥ तत अमृमस्तु
नैवेद्यं निवेद्य ॥

ततः पशोः शिरो धृत्वा इमं मन्त्रं पठेत् ॥ यज्ञार्थं पशवः सृष्ठा यज्ञार्थं पशुघातनम्


अतस्त्वां घातयिष्यामि तस्माद् यज्ञविधौ वधः ॥ शिवाय तु मिमं पिण्डं मत्तस्त्वं शिवतां गतः ॥

तद्बुद्ध्य स्वपशोत्वं हि ना शिवस्त्वं शिवोसि हि ॥ पशुरुत्पादितो देवैर्यज्ञार्थं च विधानतः ॥

इदानीं तु महोत्साहे च्छेत्तव्योसि मया नघ ॥ अजोसि त्वं पशुत्वेन यज्ञार्थं निर्मितः पुरा ॥

त्वन्मांस बलिदानेन हीष्टपूजां करोम्यहम् ॥ पशुमेनं मयादत्तमपशुत्वं प्रदे हि मे ॥

उपयोग्यस्त्वया कार्यो यज्ञ मध्ये सदैव हि ॥ देवता बलिदानेन मांसेन रुधिरेण च ॥

दातुरा पद्विनाशाय पशुरूप नमोस्तुते ॥ लोकानामुपकारार्थं पशु सृष्टो मया ध्वना ॥

प्रोक्षितो देवता प्रीत्यै ममात्मानं च तारय ॥

प्. ३३ब्)

रक्षार्थं बन्धने सित्वं मुक्तयेधिकृतो मया ॥

देव्याः प्रीतिं समुमुत्पाद्य स्वर्गं गच्छ पशूत्तम ॥ इति तं पशुं बोधयित्वा तत्र खड्गां पूजयेत् ॥

मूलविद्यया खड्गां निष्कृष्या पुरतसंस्थाप्य । ह्रीं कलि २ वज्रेश्वरि लोहदण्डायै नमः ॥

इति गन्धाक्षत जलैः प्रोक्षयेत् ॥

तत्र गन्धाक्षतजलैः सम्पूज्य ॥ आदौ मुष्टि देशे ॥ *? वागी ब्रह्माभ्यां नमः ॥ मध्ये सावित्री
विष्णुभ्यां नमः ॥ अग्रे उमामहेश्वराभ्यां नमः ॥ इति सम्पूज्य ॥

तं धृत्वाभिमन्त्रयेत् ॥

खड्गधायासुरनाशाय देवकार्यार्थ तत्पर ॥ पशुः च्छेद्यस्त्वयाशीघ्रं खड्गनाथ नमोस्तुते ॥

इति मन्त्रेण खड्गामभिमन्त्र्य ॥ पुनरपि पूजयेत् ॥

खड्गाय नमः खड्गाबीजाय नमः ॥

व्यासव्यालितस्वराङ्क सेवित ह्रीं बीजात्मने नमः ॥ असिर्विभिन्न दैत्येशस्तीक्ष्णदारो दुरासदः ॥

श्रीगर्भोविजयश्चैव धर्मपाल नमोस्तुते ॥

इति प्राथ्य तं खड्गमादाय ॥

ओं ह्रीं क्लीं चण्डिकायै लोहदण्डायै नमः ॥ ओं ह्रीं क्लीं इमममुक पशुं तृप्तिं कुरु २ मुरु २ हे
अमुक देवि गृहाण स्वाहा ॥ इति मन्त्रेण खड्गेन च्छेदयेत् ॥

ततः स्वयं देवी रूपो भूत्वा निर्विकल्पः सन् तमेक प्रहारेण च्छिन्द्यात् ॥

सविकल्पः साधकस्तु परहस्तेन च्छेदयेत् ॥ तस्य रुधिरं गृहीत्वा स्वपुरतः आनीय स्ववामे बिन्दुत्रिकोण
वृत्त चतुरश्रं मण्डलं विलिख्यास्त्र मन्त्रेण प्रोक्ष्याधारशक्तीः संपूज्य तदुपरि रुधिरभाण्डं
संस्थाप्य वामाङ्गुष्ठानामिकाभ्यां स्पृष्ट्वा पठेत् ॥

ओं ऐं दिव्यकपालरुधिररक्तवर्णाय वदनाय सिद्धाय सिद्धघाताय नमः इदं कपालं गृह्ण २ स्वाहा


ततः क्षेत्त्रपालेषु क्षिपेत् ॥ शिरो मांसमानीय देव्यग्रे संस्थाप्य मूलेन नैवेद्यं दत्वा ॥

इति बलिदानं समाप्तम् ॥

तदुक्तं श्री वृद्धस्वच्छन्देऽष्टमे पटले ॥

श्रीभैरवः ॥

निवेदयेत् परे ब्रह्मे भैरवोत्सङ्ग वृंहिते ॥ स्वदेहोत्कर्तनं कृत्वा जुहुयात् सततं परे ॥

होमयेत् तत् समाख्यातं मन्त्रस्या प्यायनं महत् ॥

एतद्वै त्रिविधं कर्ममनः कायिकवाचिकम् ॥ कृत्वा पूर्वेन ये पश्चान् महापशूपकारकम् ॥

सत्वाङ्गलक्षणोपेतं प्रत्यग्रं तु नरेश्वरम् ॥

सुस्नातं सुसमानन्दं बद्धनेत्रपटं शुभम् ॥ उदलास्तु सशेषं वै अजं वा महिषं वृषम् ॥

मीनं चाथवरारोहे यत्किञ्चिज्जीवरूपिणम् ॥ सुशुष्कं चैव सुस्नातं सुरोमं शृङ्गिणं शुभम् ॥

सर्वलक्षणसंपूर्णमक्षताङ्गमरोगिणम् ॥ ओं ह्रीं क्षां क्षः तृतीयेन आकर्णान्तावलोकयेत् ॥

ततो नेत्र पटाद्घाट्या कुलाचरसमन्वितः ॥ अर्घैः पुष्पासवोपीतैः शिरः पृष्ठे कटिस्थले ॥

प्रोक्षयित्वा प्रदानेन दिव्यनैवेद्य धूपकैः ॥ यावन्नचालयेद्देहं पशुं तावन्नपातयेत् ॥

प्. ३४ब्)

ह्रीं हूं क्षः तृतीयेन न वीरकर्मसदा चरेत् ॥ * * * * * * * * * * काम विभूतिदम् ॥

यदादौ चालयेद्वक्त्रं पश्चाद्देहं वरानने ॥ अशुभं तत् तु विज्ञेयं दुःखशोकामय प्रदम् ॥

यदादौ ध्वन्वते वक्त्रं पश्चाद्देहं पुनः शिरः ॥ सिद्धि एवं वलक्षणैर्ज्ञत्वा पशुं सर्वाङ्ग
कम्पितम् ॥

घातयित्वा ततः पश्चाद् रक्तेनार्घं विकीर्यते ॥ च्छित्वा तस्योत्तमाङ्गं वै सर्वकारणकारणम् ॥

श्री कण्ठेति सविखातं पशूनां पतिरव्ययम् ॥ पशुस्त्रत्रैवतं रूपं * * * * न्ति मोहितः ॥

तस्य यद्दक्षिणं हस्तं पश्चाद्भूतसुरालयम् ॥ यत्रोत्पन्नं पुनस्तस्य पशु पञ्चकभूषितम् ॥

ये जानन्ति मुखेपाणि महासंहारभैरवी ॥ नाम्नाकरङ्किणी प्रोक्ता भुक्तिमुक्ति फलप्रदा ॥

सिद्धिदा सादकेन्द्राणां सुपिण्डेदममोक्षदम् ॥ सकृ * * र्षनास्तस्य देवदेव्यो महाबलाः ॥

अदृष्ट विग्रहाः सर्वा नित्य तृप्तामुदान्विताः ॥ ददन्ति विपुलां कामामधमामध्यमोत्तमाम् ॥

पूर्वोक्तं विविधाकान्नैवेद्यं तत्प्रकल्पयेत् ॥ द्वैताद्वैत समोपेतं भक्षभोज्यान्नपानकम् ॥

तत्रैवाहारकं कार्यं सुतृप्तस्तु मुदान्वितः ॥ भक्तोच्छिष्टं भवेत्किञ्चित्पशूनां गोपयेत् सदा ॥

मपथज्ञेथवा भद्रे अगाधेम्भसि विक्षिपेत् ॥

प्. ३५)

इति समाप्तं मिदं तत्र विज्ञेयं पशुदेहं विलम्बितम् ॥ प्रवृष्टिं तु यदामुञ्चेत् पुरीषाण्डानिशोभने


समैर्वित्तागमं विन्द्याद्विसमं ज्ञानसिद्धिदम् ॥ पुरीषं तु यदा मुञ्चेद्गृहीत्वा वीरवन्दिते ॥

स्वकुलामृतसंयुक्तं मान्दं भृङ्गिरजान्वितम् ॥

महाकुष्टसमोपेतं मुनिसङ्ख्याभिमन्त्रितम् ॥ सप्तादशाक्षराविद्या नस्ये पाने पिबेद्गुदः ॥

आपादतलमुर्ध्नान्तं सर्वाङ्गेषु समालभेत् ॥ चतुष्षष्ठि विधैर्घोरैः कालकुटादिभिः क्रमात् ॥

नाभिभूयत्यसौभद्रे शस्त्रास्त्रैर्न स बाध्यते ॥ स्तम्भयेत् सर्वसैन्यानि सत्यं देवासुरोपमः ॥
दिक्षुर्वाभिमुखो भूत्वा यदासौ ध्वन्वते नघे ॥

तदा अक्षागमं विन्द्याद्दिव्यस्त्री प्रियसङ्गमम् ॥ स्थान लाभं शरीरस्य वज्रका वचिकं भवेत् ॥

आग्नेयां तु भयं घोरं वह्नि सञ्जननं भवेत् ॥ दुर्भिक्षं राष्ट्रसम्पातं राजा चैव विनश्यति ॥

याम्यायां मरणं घोरं कर्ता च लभते भ्यशम् ॥ अति वृष्टिमनावृष्टिं भवते वासुमध्यमे ॥

शत्रूहस्ताद्भवेन्मृत्युरर्थहानिर्वियोगकम् ॥ कर्तावन्दुजनैः सार्धं दुष्टसत्त्वभयं लभेत् ॥

सुभिक्षं वारुणे भागे सर्वसत्त्व सुसिद्धिदम् ॥ * * * * * साधकेन्द्रस्य सर्वभूताश्चराचराः ॥

वायव्यं विद्युसम्पातं विद्वेषोश्चारमारणम् ॥

प्. ३५ब्)

वज्रवाताशनिभयं सरणं चार्थनाशनम् ॥

यत्किञ्चिदशुभं भद्रे तत्सर्वं वायवीं दिशम् । उत्तरे ज्ञानसिद्धि स्याद् वश्याकर्षणमारणम् ॥

प्रसादं सर्वदेवीनां सिद्धिश्च मनसीप्सिता ॥ अधमां मध्यमां कामां कौबेरीं ध्वनते यचा ॥

ईशानाभिमुखो भूत्वा यदासौ ध्वनते पशुः ॥ अशेषं पुण्यपापं वै जन्मान्तरशतार्जितम् ॥

तदा नरेश्वरश्चापि सुखं मोदन्ति मानवाः ॥ मृत्युजिद्वज्रकायश्च वलीपलित वर्जितः ॥

सिद्ध्यन्ति विपुलां कामामधमान्मध्यमोत्तमान् ॥

साधकस्य न सन्देह इत्याज्ञा पारमेश्वरी ॥

ओं जुं सः न्यूनातिरिक्तं पूरयामि स्वाहा वौषट् ॥ अथान्न होमः ॥

त्रिभागकरणेनान्नस्य होमः ॥

ओं गां विनायकं तर्पयामि स्वाहा ॥ आ १० । ओं हां भूतधात्रीं तर्पयामि स्वाहा ॥ १० ॥ ओं श्रीं
श्रियै स्वाहा ॥ आ १० ॥ ओं जुं अधिवासदिनं तर्पयामि स्वाहा । आ १० ॥ ओं जुं अधिवास सिद्धिरस्तु स्वाहा
॥ आ १० ॥ ओं हूं प्रायश्चित्तं शोधयामि स्वाहा ॥ आ १० ॥ ओं हूं प्रायश्चित्त शुद्धिरस्तु स्वाहा ॥ आ
१० ॥ ओं न्युनातिरिक्तं पूरयामि स्वाहा ॥ आ १० ॥ ओं जुं सः अमृतेश्वर भैरवं तर्पया स्वाहा ॥ १०८ ॥
वा ५४ ॥ ओं जूं सः अमृतलक्ष्मीं तर्पयामि स्वाहा ॥ १० ॥

ततो गणेशादीनां मन्त्राणां यथा शक्ति यथाऽन्नविस्तरं तर्पणं कार्यम् ॥ ततः पूर्णा ॥

प्. ३६)

द्वारे शानवरन्ध्रगा हृदय गो वास्तु गणेशो सनः शब्दाद्या गुरवः समीरदशकं
त्वाधारशक्त्यात्मकम् ॥

चिद्देवोथविमर्शशक्तिसहितं षाद्गुण्यमङ्गावलिर्लोकेशाकारणानि यस्य महिमा तं नेत्रनाथं स्तुमः ॥

सर्वमन्त्र चक्र तृप्तिरस्तु स्वाहा वौषट् ॥ देवं स्वधा कलशेति ॥

ओं जुं सः भैरवाप्याय नमस्तु स्वाहा वौषट् ॥ मध्यप्राण निविष्टहं स परमः यो रोम कूपाश्रयः
प्राणः सूक्ष्म विमर्शशालि वपुषा सार्धत्रिकोट्यात्मकः ॥

तान्मन्त्रात्म तया विलोम इति यः स्वच्छन्दनाथः परो देवो सौविदधातु भैरव वपुस्तेजः परं शाश्वतम्
॥ ओं जुं सः न्यूनाति रिक्तविधिपूरणमस्तु स्वाहा वौषट् ॥

ततस्तर्पणं ॥

अनेनान्नहोमेन शिवः सपरिवारः साङ्गः सदेवीकः प्रियतां प्रीतोस्तु ॥

अथाज्य होमः ॥ तत्रादौ गणेशस्य ॥

विभ्रद्दक्षिणहस्तेति ध्यानेनाग्नौ पुष्पं दत्वा ॥

तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ३ ॥ ओं गूं गां गणपतये नमः स्वाहा
॥ आ ७ ॥ ओं गीं सः गणपति वल्लभायै स्वाहा ॥ आ । अर्धं गां हृदयाय नमः स्वाहा ॥ गीं शिरसे
स्वाहा ॥ गूं शिखायै वौषट् ॥ गैं कवचाय हूं । गौं नेत्रेभ्यो वषट् । गः अस्त्राय फट् स्वाहा ॥
दशांसः ॥ ततोन्य प्रकारेण ॥ हस्तेन्द्राननमिन्दु चुडमरुणच्छायं त्रिनेत्रं रसादाश्लीष्टं
प्रियया स पद्मकरया स्वाङ्कस्थया सन्ततम् ॥


(सा भाग्यरत्नाकरे ॥

शतसङ्ख्यास्तिलादेविराजिका शतसङ्ख्यया ॥ लाजामुष्टिप्रमाणा स्युर्घृतं गत्या न मात्रकम् ॥

चलकार्धं दधिक्षीरमन्नं ग्रासमितं भवेत् ॥ स्थानं फलं महेशानि कुष्माण्डं मातुलङ्गकम् ॥

मनः प्रियैश्च खण्डैश्च फलं भवति निश्चयात् ॥ रम्भाफलं चतुष्खण्डं लघुचेत्खण्डितं न हि


नारिकीलस्य खण्डं च स्थुलं कुर्यान्मनः प्रियम् ॥

पूर्वस्थाने चेक्षदण्डं मनः सन्तोषकारि वा ॥ द्राक्षाफलं समग्रं स्यान्नारङ्ग खार्जरं तथा


गुग्गुलः क्रमुका *? तु कुङ्कुमं वा तथा भवेत् ॥ गुञ्जासमं तु कर्पूरं कस्तूरी घुसृणं तथा ॥

चन्दनं चागुरुदेवि क्रमुकेन समं भवेत् ॥ मनः प्रियाहुतीः कृत्वा होमो कुर्यात् स्वलोचने ॥

एतदाहुतिमानं ते कथितं सर्वसिद्धिदम् ॥ यथेच्छया वरारोहे श्रीविद्यां परितोषयेत् ॥

तथा च शारदातिलके ॥

कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ॥ दधिप्रसृतिमात्रं वा लाजाः स्युर्मुष्टि सम्मिता ॥

पृथुकास्तत्प्रमाणास्युः सक्तवोपि तथोदिताः ॥ गुडः पलामितोपि स्याच्छर्करापि तथा मताः ॥

ग्रासार्धं चरु * * * * * * * * * * * । मातुलुङ्गं चतुष्षष्खण्डं * * * * * * * ॥



वीहयोपषिमा * स * * माषयवा अपि ॥? तण्डुलास्तव दर्धांशाः कोत्रवमष्टिममिताः ॥

गोधूमारक्तकलशा विहितामुःष्ठिमानतः ॥ तिलाश्चुलकमात्रास्युः सर्षपास्तत्प्रमाणकाः ॥

शुक्तिप्रमाणं लवणं मरिचापि विंशति ॥ पुरं वदिरमानं स्यातामर्धं तत्समं स्मृतम् ॥

चन्दनागुरुकर्पूर कस्तूरी कुङ्कुमानि च ॥ तिर्त्रिभी? बीजमानानि समुद्दिष्टानि दैशिकैः ॥

अथ कर्षलक्षण मुक्तं सारसङ्ग्रहे । माषोदशगुञ्जः स्यात् षोडशमाषानिगद्यते कर्षः ॥

इति तिलस्या प्यदेव परिमाणमिति शुक्तिः ॥

कर्षद्वयं पलद्वयमात्रं मुष्टिः पलं पालार्धं कर्षद्वयं ग्रासार्धं असीति रक्तिका शतम् ॥

तदुक्तं हि फलामते ॥

गुञ्जाभिर्दशभिर्माषः मणिमाष चतुष्टयम् ॥ कः कालो वदिरं च * * * * * * *? ॥)


प्. ३६ब्)

बीजापूर गदाधनुस्त्रीशिख युक्शङ्खाब्ज पाशोत्पल व्रीह्यग्रस्वविषाण रत्नकलशार्हस्तैवहन्तं भजे


अग्नौ पुष्पं ॥ अस्य श्रीगणपति मन्त्रस्य ॥

गणक ऋषिः । निवृत्तिगायत्री च्छन्दः श्रीमहागणपतिर्देवता गं बीजं ह्रीं शक्तिः कुरु २ कीलकं
होमे विनियोगः ॥ गां इत्यादि न्यासः ॥ ओं श्रीं ह्रीं क्लीं ग्लां गं गणपतये वरवरद सर्वं जनं
मे वशमानय स्वाहा १०८ ॥ ततः पूर्णा ॥

रक्ताङ्ग रागं परश्वक्षमालास्वदन्तपाणिं सितलद्रुपात्रम् ॥

गजाननं सिंहरथाधिरूढं गणेश्वरं विघ्नहरं नमामि ॥ गजवदनमचिन्त्यं तीक्ष्णदन्तं ॥
लाक्षासिन्दूरवर्णं सुरवर नमितमिति ॥ सिन्दूरकुङ्कुमेति ॥ मूलेन पूर्णा ॥

ततस्तर्पणम् ॥ अनेन मन्त्र होमेन श्रीमहागणपतिः साङ्गः सपरिवारः प्रीयतां प्रीतोस्तु ॥

अथ वल्लभा ॥

द्विभुजां हसिताननाम्बुजामति रक्ताम्बरधारिणीं शिवाम् ॥ दधतीं मभयं वरं हृदि प्रभजे हं
गणनाथवल्लभाम् ॥ अग्नौ पुष्पं ॥

अस्य श्रीगणपति वल्लभा मन्त्रस्य । गणक ऋषिः । निवृत्ति गायत्री च्छन्दः श्रीगणपति वल्लभा
देवता गं बीजं ह्रीं शक्तिः कुरु २ कीलकं । होमे विनियोगः ॥ गां इत्यादि न्यासः ॥

ओं श्रीं ह्रीं क्लीं ग्लां गं गणपति वल्लभायै वरवरदे सर्वजनस्य हृदयं ममात्मवशं कुरु २
स्वाहा । १०८ ॥

प्. ३७)

ततः पूर्णा ॥ मूलेन वौषट् । इति पूर्णा ॥ ततस्तर्पणं ॥

अनेन मन्त्रहोमेन श्रीगणपति वल्लभा सायुधा सवाहना सपरिवारा सानुचरा प्रीयन्तां प्रीतास्तु ॥
ततः सूर्यस्य ॥

कल्पान्ता नलकोटिभास्वरमुखं सिन्द्रुरधूली जपावर्णं रत्नकीरीटिनं द्विनयनं श्वेताब्ज
मध्यासनम् । नानाभूषणभूषितं स्मितमुखं रक्ताम्बरं चिन्मयं सूर्यं स्वर्णसरोजरत्नकलशौ
दोर्भ्यां दधानं भजे ॥

धवलाम्भोरुहारूढं दाडिमी कुसमप्रभम् ॥ स्फुरत्प्र?क्त महातेजो वृत्तमण्डलमण्डितम् ॥

अंसासक्त स्फुरश्श्वेतो सनालाब्ज करद्वयम् ॥ एकास्यं चिन्तयेद्भानुं द्विभुजं रक्तवाससम् ॥ अग्नौ
पुष्पं ॥

आवाहनादि विध्यर्घपात्रात्पाद्यादि ॥

तत्पुरुषाय विद्महे सूर्यज्ञानाय धीमहि तन्नः सूर्यः प्रचोदयात् ॥

ओं ह्रां ह्रीं सः सूर्याय नमः स्वाहा । आ १० ॥ अं हृदयाय नमः स्वाहा । अर्का सिरसे स्वाहा ॥

भूर्भुवस्स्वः ज्वालिन्यै शिखायै वौसट् हुं कवचाय हूं ॥ भां नेत्रेभ्यो वषट् रः अस्त्राय फट्
स्वाहा ॥ ततः पूर्णा ॥

बद्ध पद्मासनो देवः प्रपन्नजनवत्सलः ॥ सप्ताश्वासप्तरजुश्च द्विभुजः पातुनो रविः ॥ मूलेन पूर्णा


तर्पणं ॥ निरोधार्घः सन्निधत्स्वेति ॥ ततो विस्फुरा त्रिनेत्रां द्विभुजां देवीं वराभयलसत्कराम् ॥
पद्मासनां हसद्वक्त्रां सूर्याङ्के विस्फुरां स्मरे ॥ अग्नौ पुष्पं ॥

अस्य श्रीविस्फुरामन्त्रस्य ।

प्. ३७ब्)

हंस ऋषिः ॥ गायत्री च्छन्दः ॥ श्रीविस्फुरा देवता रां बीजं ओं शक्तिः नमः कीलकं होमे
विनियोगः ॥ रां इत्यादि ॥ ओं रां विस्फुरायै नमः स्वाहा १०८ ॥ मूलेन पूर्णा ॥

ततस्तर्पणम् ॥

ततः कुमारस्य ॥

कार्तिकेयं सुरश्रेष्ठं सड्वक्त्रं कुकुटाङ्कितम् ॥ घण्ठाशक्तिधरं शुभ्रमक्षमालाधरं तथा


द्विनेत्रं चातकरूढं बालरूपं शशिप्रभम् ॥

हिमाद्रि श्वेतं द्विभुजं भुजङ्गैर्वृतं निविष्टं शिखिनश्च पृष्ठे ॥ नगेन्द्रकन्याप्रियपुत्रमाद्यं
हृदिस्मरेभीष्टप्रदं कुमारम् ॥

अग्नौपुष्पं ॥ आवाहनादि पाद्यादि ॥

कार्तिकेयाय विद्महे शीनाधिपतये धीमहि तन्नः कुमारः प्रचोदयात् ॥ ३ ॥

ओं क्लूं कां कुमाराय नमः ॥ १०८ ॥ कां इत्यादि न्यासः ॥ ततः पूर्णा ॥ घण्ठां स्ववर्णरचितां
रुचिरां पताकां शक्तिं दधानमपि चारुशिखण्डिराजः ॥

भूयात्स्वदन्तवदनो भवतां विभुत्यै बद्ध स्थितिर्वयसि बालवयः कुमारः ॥ मूलेन पूर्णा ॥ तर्पणं
निरोधार्घः ॥

ततो मृत्युञ्जयस्य ॥

ध्यायेदात्मनि देवेशं चन्द्रकोटिसमप्रभम् ॥ स्वच्छमुक्तामणि प्रख्यं स्फाटिकाद्रिसमप्रभम् ॥

कुन्देन्दु गोक्षीरनिभं हिमाद्रिसदृशं विभुम् ॥ शुभ्रहारेन्दु कान्तादि सितभूषणभूषितम् ॥

सितचन्दनलिप्ताङ्गं कर्पोरक्षोद धूसरम् ॥ स्फुरश्चन्द्रामृतस्फारवहलोर्मिपरिप्लुतम् ॥

सोममण्डल मध्यस्थमेकं वक्त्रं त्रिलोचनम् ॥ सितपद्मोपविष्टं च बद्धपद्मासन स्थितम् ॥

प्. ३८)

चतुर्भुजं विशालाक्षं वादाभयपाणिकम् ॥ परिपूर्णं तथा चन्द्रं वामहस्तेस्य चिन्तयेत् ॥

सर्वश्वेतोपचारेण चार्चितं तमनुस्मरेत् ॥ चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्त स्थितं
मुद्रापाशस्वधाक्षसूत्त्रवरसत्पाणि हिमांशु प्रभम् ॥

कोटी चन्द्रगलत्स्वधाप्लुतं तनुं हारादिभूषोज्ज्वलं कान्त्याविश्वविमोहनं पशुपतिं मृत्युञ्जयं
भावयेत् ॥

चन्द्रोद्भासित मूर्धजं सुरपतिं पीयूषपात्रं तथा हस्ताब्जेन स्वधांशकोटिविमलं हास्यस्यपङ्के
रुहम् ॥

सूर्याग्निन्दु विलोचनं करतलैः पाशाक्षमालाङ्कुशान्विभ्राणं सदशं शिवं पशुपतिं मृत्युञ्जयं
तं स्मरे ॥ अग्नौ पुष्पं ॥

अस्य श्री मृत्युञ्जय मन्त्रस्य । महाचमसकलोह ऋषिः ॥ गायत्री च्छन्दः ॥ मृत्युञ्जयो देवता ॥ जुं
बीजं सः शक्तिः ओं कीलकं । होमे विनियोगः ॥

आवाहनादि पाद्यादि ॥

ओं अमृतेशाय विद्महे व्योमदेहाय धीमहि तन्नो नेत्रः प्रचोदयात् ॥ ३ ॥ ओं जुं सः हंसः मां पालय २
सोहंसः जुं ओं ॥ १०८ ॥ ओं जुं हृदयाय नमः स्वाहा ॥ ओं व्यों शिरसे स्वाहा ॥ ओं ईं शिखायै
वौषट् । ओं हुं कवचाय हुं । ओं ज्यों नेत्राभ्यां वषट् । ओं फट् अस्त्राय फट् स्वाहा ॥ पूर्णा ।
देवं स्वधेति मूलेन पूर्णा । तर्पणं निरोधार्घः ॥

अथगुह्यकाली ॥

नीलाम्बोधरसन्निभां शशिकला चूडालसत्कुन्तलां नानाभूषणभूषितां त्रिनयनां
श्वेताम्बारलङ्कृताम् ॥

प्. ३८ब्)

कुन्ताखस्व्गा? वराभयानिदधतीं प्रेतासनाध्यासिनीं ध्यायाम्युत्तरकालिकां भगवतीं मृत्युञ्जया
लङ्कृताम् ॥

अस्य श्रीगुह्यकाली मन्त्रस्येत्यादि मृत्युञ्जयवत् आवाहनादि ॥ ओं ऐं क्लीं सौः ओं जुं सः ऐं क्लीं
गुह्यकालिके ह्रीं स्वाहा ॥ १०८ ॥

मूलेन पूर्णा ॥ अथामृतेश्वरस्य ॥

चन्द्रार्धमौलिमतिसुन्दरमादि देवं पूर्णेन्दु विश्ववदनं कमलासनस्थम् ॥

पीयूषपात्र कलशाब्जवराभयाढ्यं देवं त्रिनेत्रममृतेश्वरमाश्रयामि ॥

अस्य श्री अमृतेश्वर भैरवमन्त्रस्य । वामदेव ऋषिः पङ्क्तिच्छन्दः । अमृतेश्वरो देवता जुं बीजं ।
सः शक्तिः ओं कीलकं । होमे विनियोगः ॥ आवाहनादि ॥

ओं जुं सः अमृतेश्वर भैरवाय नमः ॥ पूर्णेन्दु वदनां चन्द्रमुकुटाममृतेश्वरीम् ॥

त्रिनेत्राममृते शाङ्कगतां तद्रूपिणी भजे ॥ ओं जुं सः अमृतलक्ष्म्यै नमः ॥

अथाघोरभैरवस्य ॥

त्रिपञ्चनयनं देवमिति भैरवीं विस्मिते क्षणान्तम् ध्यानं ॥ अग्नौ पुष्पं ॥

अस्य श्री अघोरभट्टारकमन्त्रस्य कालाग्नि रुद्र ऋषिः अनुष्टुप्च्छन्दः श्रीसकलभट्टारको देवता ।

ओं बीजं हूं शक्तिः कुरु २ कीलकं होमे विनियोगः ॥

आवाहनादि विध्यर्घ पात्रात्पाद्यादि दत्वा स्वात्मने वक्त्राङ्गन्यासं कृत्वा । बहुरूपाय विद्महे
कोटराक्षाय धीमहि तन्नो घोरः प्रचोदयात् ३ ॥

प्. ३९)

ततो मूलेन होमः ॥ १०८ ॥ क्षं ईशानवक्त्राय स्वाहा ॥ यं तत्पुरुषवक्त्राय स्वाहा ॥ रं
अघोरवक्त्राय स्वाहा ॥ यं तत्पुरुषवक्त्राय स्वाहा ॥ रं अघोरवक्त्राय स्वाहा ॥ वं वामदेववक्त्राय
स्वाहा ॥ लं सद्योजातवक्त्राय स्वाहा ॥ अघोरेभ्यः सर्वात्मने हृदयाय नमः स्वाहा ॥ थ घोरेभ्यो
ब्रह्मणे शिरसे स्वाहा ॥

घोरघोरतरेभ्यश्च ज्वालिन्यै शिखायै वौषट् ॥ सर्वतः सर्वसर्वेभ्यः पिङ्गलाय कवचाय हूं ॥ जुं
सः ज्योतीरूपाय नेत्रत्रयाय वषट् ॥ नमस्ते रुद्ररूपेभ्यो दुर्भेद्याय पाशुपतास्त्राय फट् ॥

ततः पूर्णा वामे खेटकेति मूलान्ते वौषट् इति पूर्णा ॥

अथाघोरेश्वरी ॥ नोगम्यहं तां परब्रह्ममहिषीं चित्स्वरूपिणीम् ब्रह्मादिकारणातीतां
परानन्दमयीं शिवाम् ॥

अस्य श्री अघोरेश्वरी मन्त्रस्य । कालाग्निरुद्र ऋषिः । अनुष्टुप्च्छन्दः ॥ श्री अघोरीश्वरी देवता ह्रीं
बीजं । हूं शक्तिः २ कीलकम् ॥ होमे विनियोगः ॥

आवाहनादि पाद्यादि ॥ बहुरूपाय विद्महे अघोरीश्वर्यै धीमहि तन्नो रुद्रः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं अघोरीश्वर्यै हूं फट् । १०८ ॥ हां इत्यादि न्यासः ॥ क्षं ईशानवक्त्राय स्वाहा । एवं
मूलेन पूर्णा ॥

ततो निष्कलस्य ॥ मध्यप्राणेति ॥ अस्य श्री निष्कलमन्त्रराजस्य ॥ सदाशिव ऋषिः । त्रिष्टुप्च्छन्दः
श्रीसच्चिदानन्द स्वरूपः परमशिवो देवता ॥ हूं बीजं । ओं शक्तिः । नमः कीलकम् । होमे विनियोगः ॥

प्. ३९ब्)

विश्वैक रूपविश्वात्मन्विश्वसर्गादि कारणम् ॥ परप्रकाशवपुषं स्तुमः स्वच्छन्दभैरवम् ॥

विश्वातीतं विश्वमयं भैरवाष्टकसंयुतम् ॥ सकलं निष्कलं शान्तं स्तुमः स्वच्छन्दभैरवम् ॥
अग्नौ पुष्पं ॥

आवाहनादि विध्यर्घपात्रार्घद्यादि ॥

परमहंसाय विद्महे महाहंसाय धीमहि तन्नो शिवः प्रचोदयात् ॥ ३ ॥

ओं हूं निष्कल स्वच्छ भैरवा नमः । स्वाहा ॥ १०८ ॥

हां हृदयाय नमः स्वाहा । इत्यादि ॥ वामादिभ्यः स्वाहा । कपालेशादिभ्यः स्वाहा
खड्गाद्यायुधेभ्यः स्वाहा ॥

सप्तावरणदेवताभ्यः स्वाहा ॥ ततः पूर्णाध्यानं ॥ वामे खेटकेति मूलान्ते पूर्णा तर्पणम् ॥
स्वच्छन्दभट्टारकः साङ्गः स देवी कः सपरिवारः प्रीयन्तां प्रीतोस्तु ॥ सन्निधत्स्वेति निरोधार्घः


ततो लक्ष्मी वासुदेवस्य ॥

स्वेतं शङ्खगदाब्जचक्रसहितैः सव्यैर्भुजैरङ्कितं वामैः पुस्तकदर्पणाग्र नलिनीकुम्भानुपक्तैः
सदा ॥

राजन्तं ग?रुडाधिरूढमधिकं भक्तानु कम्पास्पदं लक्ष्म्यार्धाङ्कित मद्यनौमि वरदं
श्रीवासुदेवं विभुम् ॥

अस्य श्रीलक्ष्मी वासुदेव मन्त्रस्य ॥ प्रजापतिः ऋषिः गायत्रं च्छन्दः श्रीविष्णुर्देवता ॥ ह्रीं
बीजं हौ शक्तिः ओं कीलकं । होमे विनियोगः ॥ अग्नौ पुष्पं ॥

प्. ४०)

आवाहनपाद्यादि ॥

वासुदेवाय विद्महे लक्ष्यर्धाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ ३ ॥

ओं हूं ह्रीं लक्ष्मी वासुदेवाय नमः ॥ स्वाहा ॥ १०८ ॥ ओं हां महालक्ष्म्यै नमः स्वाहा ॥ १०८ ॥ ओं
हां विमलज्ञा सद्भाव हृदयाय नमः स्वाहा ॥ ओं ह्रां सर्वैश्वर्य गुणमूर्तये शिरसे स्वाहा ॥ हीं
सर्वशक्तिरूपायै ज्वालिन्यै शिखायै वौषट् ॥ ओं ह्रूं अतुलबलरूपिणे कवचाय हुं ॥ ओं हां अपरिमित
तेजसे नेत्राभ्यां वषट् । ओं ह्रः अप्रतिहवीर्यरूपिणे अस्त्राय फट् स्वाहा ॥ ततः पूर्णा ॥

विद्यारविन्दमकुरामृतकुम्भपूर्णकौ मोदकी वरस्व दर्शन शोभिहस्तम् ॥ सौदामिनी मदिरकान्ति
विभातिलक्ष्मी नारायणात्मकमखण्डितमात्म मूर्तेः ॥

पूर्णेन्दुवदनं पीतवसनं कमलासनम् ॥ लक्ष्म्याश्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥

मूलान्ते वौषट् पूर्णातर्पणम् ॥ सन्निधत्स्वेति निरोधार्घः ॥

अथान्न पतेः ॥

अतिसुललितगात्रं रौप्यपात्रस्थमन्नं सूललितधृधि खण्डं पाणिना दक्षिणेन ॥

कलशममृतपूर्णं वामहस्ते दधानं त्यजति सकलदुःखं वामनं ध्यायते यः ॥

अस्य श्रीदधिवामनमन्त्रस्य । इन्दुः ऋषिः । विराट्छन्दः श्रीदधिवामनो देवता । होमे विनियोगः ॥ अग्नौ
पुष्पं ॥

आवाहनपाद्यादि स्वात्मन्यासः ॥

वसुदेवाय विद्महे नारायणाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ ३ ॥

ओं नमो विष्णवे सुरपतये महाबलायान्नं देहि स्वाहा ॥ १०८ ॥

ओं नमो हृदयाय नमः स्वाहा । विष्णवे शिरसे स्वाहा सुरपतये शिखायै वौषट् महाबलाय कवचाय हुं
स्वाहा अन्नं देहि २ नेत्रेभ्यो वषट् स्वाहा अस्त्राय फट् स्वाहा ॥ ततः पूर्णा ॥

मुक्तागौरं नवमणिलसद्भूषणं चन्द्रसंस्थं भ्यङ्गाकारैरलकनिकरैः शोभिवक्त्ररविन्दम् ॥

हस्ताब्जाभ्यां कणककलशं शुद्धतोयाभिपूर्णं दध्यन्नं रौप्यसंस्थं परमगुणयुतं धारयन्तं
भजामः ॥ मूलान्ते वौषट् ॥ इति पूर्णा तर्पणं । निरोधार्घः ॥

ततः पूर्णात्रयं दद्यात् ॥

यस्योन्मेषनिमेषतः प्रभवति ध्वंसं च याति ध्रूवं ब्रह्माद्यं खलु हेतुपञ्चकमिदं क्ष्मापोग्नि
वाय्वभ्रकम् ॥

बद्धं पञ्चकलामयेन सततं पाशेन मायादिना वन्दे सर्वकलाकलङ्करहितं तन्निष्कलाख्यं महः ॥

ओं जुं सः सर्वमन्त्रचक्रतृप्तिरस्तु स्वाहा १ ॥

पञ्चास्यं वरदं वृषेन्द्रवहनं गङ्गाधरं शङ्करं स्वच्छन्दं शशिखण्डमण्डितजटाजूटं
नृमुण्डस्रजम् ॥

ब्रह्मादि स्तुत पादपङ्कज युगं कालापहं निष्कलं विश्वाभीष्टवरप्रदं भवभयप्रध्वंसनस्त्वां
स्तुमः ॥

ओं हूं भैरवाप्याय नमस्तु स्वाहा ॥ २ ॥

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलंवज्रं ध?
खड्गांपरशुमभयदं दक्षभागे वहन्तम् ॥

प्. ४१)

नागं पाशं च घण्टां डमरुकसहितं साङ्कुवामभागे नानालङ्कार युक्तं स्फटिकपुटनिभं
नौमिदक्षं महेशम् ॥

न्यूनातिरिक्त विधिं पूरयामि स्वाहा ॥ ३ ॥ ततस्तर्पणम् ॥

अवशेषं घृतं देवीनां होमार्थं संरक्षयेत् ॥

अथ यवतिलहोमः ॥

तत्रादौ व्याहृति होमः ॥ ओं भूः स्वाहा ॥ ओं भुवः स्वाहा ॥ ओं स्वः स्वाहा ॥ ओं भुर्भुवस्स्वः स्वाहा
॥ ओं भूः स्वाहा ॥ ओं भुवः स्वाहा ॥ ओं स्वः स्वाहा ॥ ओं महः स्वाहा ॥ ओं जनः स्वाहा ॥ ओं तपः
स्वाहा ॥ ओं सत्यं स्वाहा ॥

अथ गायत्री ध्यानम् ॥

तथा प्रपञ्चसारे ॥

मन्दारा ह्वय रोचनाञ्जन जपाखाभैर्मुखैरिन्दुसद्रत्नोद्यन्मुकुटाङ्गसन्तत चतुर्विंशार्ण चित्रातनुः ॥

अब्जेचारिदराह्वयौ गुणकपालौ चापपाशाङ्कुशौष्टाभीतिर्दधती भवेद्भवदभीष्टौत्तारिणी तारिणी
॥ अग्नौ पुष्पं ।

आवाहनादि पाद्यादि ॥ स्वात्मन्यासः ॥ ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् ॥
१०८ ॥ वा ५४ । वा २७ । वा १४ । वा ७ ॥

ओं तत्सवितुर्हृदयाय नमः स्वाहा ॥ ओं वरेण्यं शिरसे स्वाहा ॥ ओं भर्गो देवस्य शिखायै वौषट् ॥
धीमहि कवचाय हूं ॥ धियो योनः नेत्रेभ्यो वषट् ॥ प्रचोदयात् अस्त्राय फट् स्वाहा ॥ दशांशः
मुक्ताविद्रूमेति पूर्णा तर्पणं सन्निधत्स्वेति निरोधार्घः ॥

अथान्य प्रकारेण ॥ आदौ ब्रह्मणः ॥

प्. ४१ब्)

चन्द्रार्धमौलिं शशिकोटि शोभितं वेदाक्षसूत्रे च वराभये भुजैः ॥ हसन्तमाद्यं
मणिपीठसंस्थितं चतुर्मुखं पञ्चमुखं शिवं भजे ॥

अस्य श्रीचतुर्मुखमन्त्रस्य सदाशिव ऋषिः ॥ गायत्री च्छन्दः । श्रीचतुर्मुखो देवता । ह्रां बीजं
ह्सौः शक्तिः । ओं कीलकम् ॥ होमे विनियोगः ॥

ह्रां ह्सौः । ओं । इति न्यासः । अग्नौ पुष्पं । आवाहन पाद्यादि ॥ ओं ह्रां ह्सौः
चतुर्मुखपरमार्थसिद्धिं देहि २ स्वाहा ॥ १०८ ॥

मूलेन पूर्णा तर्पणं ॥

चतुर्भुजामर्कसहस्रकोटिभां त्रिलोचनां हारकिरीट शोभितम् ॥ चतुर्मुखाङ्कोपगतां महोज्ज्वलां
वेदेश्वरीं पञ्चमुखीं भजाम्यहम् ॥

अस्य श्रीगायत्री मन्त्रस्य ।

ब्रह्मा ऋषिः त्रिष्टुप्छन्दः । श्रीवेदमातागायत्री देवता ॥ ओं बीजं । श्रीं शक्तिः । भैं कीलकम्
। होमे विनियोगः ॥

ओं सौः ह्सौः इति न्यासः ॥ आवाहन पाद्यादि ॥ ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः
प्रचोदयात् ॥ ३ ॥

ओं सौः ह्सौः सौः ऐं क्लीं ह्रीं श्रीं भैं ग्लौं गायत्री श्रीं श्रीं ह्रीं श्रीं ह्रीं ह्रीं
ऐं प्रीं स्त्रीं स्वाहा ॥ १०८ ॥

मूलेन पूर्णा । तर्पणं । विरोधार्घः ॥

ततो गणेशादीनां यवतिल होमः ॥

इन्द्रं ध्यायेन्नृपं यद्वद्वज्रिनं बहुलोचनम् ॥ ऐरावण समारूढं भद्रं भद्राप्सरो वृतम् ॥ अग्नौ
पुष्पं ।

प्. ४२)

आवाहनादि पद्यादि ॥ लूं इन्द्राय वज्रहस्ताय नमः ॥ वीरासनस्थं कूर्चाङ्गं साक्षिसूत्रं
शशक्तिकम् ॥ वह्निं ध्यायेदजारूढं पिङ्गलं पिङ्गलोचनम् ॥

रूं अग्नये शक्तिहस्ताय नमः ॥

यमं ध्यायेत् स दण्डं तु सकोपं महिषासनम् ॥ प्रेतनाथं पाशहस्तं होमे विघ्ननिवर्हणम् ॥

टूं यमाय दण्डहस्ताय नमः ॥

तथैव निर्-ऋतिं ध्यायेत् खड्गहस्तं वरासनम् ॥ राक्षसाधिपतिं भीमं सर्वविघ्नप्रशान्तये ॥

क्षूं निर्-ऋते खड्गाहस्ताय नमः ॥ वरुणं पाशहस्तं तु श्वेतवर्णं झषासनम् ॥ आघतिं पश्चिमे
ध्यायेद्धोमे रक्षाकरं परम् ॥

वूं वरुणाय पाशहस्ताय नमः ॥

ध्यायेत् पीताम्बरं वायुं धूम्रध्वजकरं चलम् ॥ मृगासनं च रक्षार्थं सर्वविघ्ननिवारकम् ॥

यूं वायवे ध्वजहस्ताय नमः ॥

मेषारूढं गदाहस्तं पीतं तु नरवाहनम् ॥ यक्षाधिपं स्मरेद्भक्त्याधर्म कामार्थसिद्धये ॥

कुंकुवेगय गदाहस्ताय नमः ॥

शूलहस्तो वृषारूढो जटामुकुटमण्डितः ॥ सितो गौरी युतस्त्र्यक्षो ध्येयो द्विपत्वगम्बरः ॥

स्थं ईशानाय त्रिशूलहस्ताय नमः ॥

ब्रह्मासौम्यश्चतुर्वक्त्रो वृहज्जठरमण्डलः ॥ लम्बकूर्चोजिनीदण्डकमण्डलु कुशाब्ज भृत् ॥

ध्येयो विघ्नहरः सृष्टा श्रूति जिज्जलजासनः ॥

प्. ४२ब्)

ओं आं ब्रां ब्रं ब्रह्मणे पद्महस्ताय नमः ॥

पातालदिग्गतं ध्यायेत् कुर्मारूढं हलायुधम् ॥

सितं सहस्र फणिनमनन्ताख्यं फणीश्वरम् ॥

ह्लां अनन्ताय हल हस्ताय नमः ॥

इति लोकेशाः ॥

ततो ग्रहहोमः ॥ तत्रादौ सूर्यस्य ॥

धूम्रध्वजं तथा मालां रश्मिपुञ्जं करद्वये ॥ वहन्सप्ता शुराः सूर्यो रक्तस्त्र्यक्षो वतात्मनः ॥

प्रत्यक्ष देवं विषदं सहस्रमरीचिभिः शोभितभूमि देशम् ॥

सप्ताश्वरां सद्ध्वजहस्तमाद्यं देवं भजेहं मिहरं ह्यदब्जे ॥ अस्य श्रीसूर्यमन्त्रस्य शतचिह्न
ऋषिः त्रिष्टुप्छन्दः श्रीसविता देवता ओं बीजं श्रीं शक्तिः ह्सौः कीलकम् ॥ होमे विनियोगः ॥

अग्नौ पुष्पं । आवाहनादि पाद्यादि ॥ आदित्याय विद्महे मार्ताण्डाय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ ३


ओं रं अग्नये स्वाहा ॥ ओं ह्रां झ्रीं सः वीरेश्वर भैरवाय स्वाहा ॥ १०८ ॥ वा ५४ । वा २७ वा १४ । वा
७ । ओं ह्रां झ्रीं सः वीरलक्ष्म्यै स्वाहा ॥ देव्याः अर्धं ॥ ओं ह्सौः श्रीं आं ग्रहाधि राजाय
आदित्याय स्वाहा ॥ १०८ ॥ ओं नमः अं आदित्याय स्वाहा ॥ ओं अं शिवचर्यधराय स्वाहा ॥ ओं अं दाडिमी
कुसमवर्णाय स्वाहा ॥ ओं अं कलिङ्गस्थान भवाय स्वाहा ॥ ओं अं कश्यपाय स्वाहा ॥ ओं अं सहस्र
किरणाय स्वाहा ॥ ओं अं ग्रहाधिपतये स्वाहा ॥ ओं अं कमलबान्धवाय स्वाहा ॥ अं यजमानवरप्रदाय
स्वाहा ॥ पूर्णा ॥ निरोधार्घः ॥

प्. ४३)

उदयन्तु महाभानुस्तेज साचाभयङ्करः ॥ सहस्ररश्मि दीप्तश्च ह्यादित्यः प्रीयतां मम ॥

सन्निधत्स्वेति निरोधः ॥ अथ चन्द्रमसः ॥

रश्मिपुञ्ज तथा मालां धूम्रध्वजं सदावहन् । शङ्खकुन्देन्दु धवलः शिशीपायात्त्रिलोचनः ॥

शङ्खप्रभसेन प्रियं शशाङ्कमीशान मौलि स्थितमीत्यरूपम् ॥ तमीपतिमम्बुजयुग्महस्तं
ध्यायेद्धृदब्जे शशिनं ग्रहेशम् ॥

अस्य श्रीचन्द्रमन्त्रस्य ॥ ब्रह्मा ऋषिः त्रिष्टुप्छन्दः श्रीसोमो देवता । ओं बीजं । श्रीं शक्तिः ।
क्रीं कीलकम् होमे विनियोगः ।

अग्नौ पुष्पं ॥ आवाहनादि पाद्यादि ॥ निशाकराय विद्महे । शीतरश्मये धीमहि । तन्नः सोमः प्रचोदयात्
॥ ३ ॥

ओं ब्लूं वरुणराजानकाय स्वाहा ॥ ओं ह्स्रीं सः शीतांशवे स्वाहा ॥ १०८ ॥ आहुतयः पूर्ववत् ॥

ओं श्रीं क्रीं चं चन्द्राय नमः स्वाहा ॥ १०८ ॥ ओं नमः कं सोमाय स्वाहा ॥ ओं कूं
षोडशकलाधिपतये स्वाहा ॥ कं यमुना स्थान जन्मने स्वाहा । कं कुन्दवर्णाय स्वाहा ॥ कं
आत्त्रीयाय स्वाहा ॥ कं नक्षत्राधिपतये स्वाहा । ओं कं यजमानवरप्रदाय स्वाहा ॥

पूर्णा तर्पणम् ॥ द्विजराजो महापुण्यस्तारापतिर्विशेषतः ॥ ओषधीनां च यो राजा स सोमः प्रीयतां
मम ॥ सन्निधत्स्वेति निरोधार्घः ॥

अथ भौमस्य ॥

कमण्डल्वक्षस्रग्युक्तो मयूरवरवाहनः ॥ रक्तस्त्रिलोचनो स्रग्वीकुजोनोव्यान्महीसुतः ॥ प्रतप्तगाङ्गेय
निभं ग्रहेशं सिंहासनस्थं कमलासि हस्तम् ॥ सुरासुरैः पूजित पादपद्मं भौमं दयालुं हृदये
स्मरामि ॥ अस्य श्रीभौममन्त्रस्य ॥ अङ्गार ऋषिः ॥ गायत्रीच्छन्दः ॥ श्रीभौमो देवता ॥ ओं बीजं ।
श्रीं शक्तिः । कं कीलकम् ॥ होमे विनियोगः ॥ अग्नौ पुष्पं ॥ आवाहन पाद्यादि ॥

ओं ह्रीं रक्ताङ्गाय कुमाराय स्वाहा ॥ ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भामाय स्वाहा ॥ १०८
॥ आ पूर्ववत् ॥

ओं र्ह्रूं अङ्गारकाय स्वाहा ॥ १०८ ॥ ओं श्रीं सः ग्रहाधिराजमङ्गलपीडां हर २ सम्पदं देहि २ ओं
श्रीं सः फट् स्वाहा ॥ १०८ ॥ आज्येन ॥ ओं नमः चं अङ्गारकाय स्वाहा ॥ ओं चं कुमार व्रतधारिणे
स्वाहा ॥ ओं चं धरासुताय स्वाहा ॥ ओं चं अवन्ती जन्मणे स्वाहा ॥ ओं चं भारद्वाजाय स्वाहा ॥ ओं
चं लोहितवर्णाय स्वाहा ॥ ओं चं भारद्वाजाय स्वाहा ॥ ओं चं लोहितवर्णाय स्वाहा ॥ ओं चं
अष्टसहस्रकिरणाय स्वाहा ॥ ओं चं उग्रतेजसे स्वाहा ॥ ओं चं शत्रू विमर्दकाय स्वाहा ॥ ओं चं
यजमान वरप्रदाय स्वाहा ॥ पूर्णा ॥ सन्निधत्स्वेति निरोधार्घः ॥ तर्पणं ॥

येनार्जिज्ता जगत्कीर्तिभूमि पुत्रेण शाश्वती ॥ शत्रवश्च हतायेन भौमेन महितात्मना ॥

सप्रीयतां ते भौमोद्य तुष्टो भूयात्सदा मम ॥ निरोधार्घः ॥ अथ बुधस्य ॥

गरुडासनसंस्थो सौसाक्षमाला कमण्डलुः ॥

प्. ४४)

कीरीटहारभूषाढ्यो बुधोनोव्यात्त्रिलोचनः ॥ सोमात्मजं हंसगतं द्विबाहुं शङ्खेन्दु रूपमसि
पाशहस्तम् ॥ दयानिधिं भूषण भूषिताङ्गं बुधं स्मरे मानस पङ्कजेहम् ॥

अस्य श्रीबुधमन्त्रस्य ब्रह्मा ऋषिः त्रिष्टुप्छन्दः बोधो देवता । होमे विनियोगः ॥

टां इत्यादिन्यासः अग्नौ पुष्पं आवाहनादि पाद्यादि ।

ओं हूं विष्णवे स्वाहा ॥ ओं ह्रां क्रों टं ग्रहनाथाय बुधाय स्वाहा ॥ १०८ ॥ ओं स्ह्रूं बुधाय नमः
स्वाहा १०८ ॥ ओं ह्रीं बुधाय स्वाहा ।

आपूर्ववत् ॥

ओं नमो टं बुधाय स्वाहा ॥ ओं टं विष्णुचर्यधराय स्वाहा ॥ टं रूपाधि पतये स्वाहा ॥ टं
मगददेशसम्भवाय स्वाहा ॥ टं स्ववर्णवर्णाय स्वाहा । टं आत्रीयाय स्वाहा ॥ टं अष्टकिरणाय
स्वाहा ॥ टं महाबुद्धिशरीराय स्वाहा ॥ टं यजमानवरप्रदाय स्वाहा ॥ पूर्णा तर्पणम् ।

बुधो बुद्धि प्रदाता च सोमपुत्रो महाद्युतिः ॥ आदित्यस्य रथेस्तिष्ठन्सबुधः प्रीयतां मम ॥
निरोधार्घः ॥

अथ जीवस्य ॥

त्र्यक्षः कमण्डलुधरो गजस्थोक्षस्रगन्वितः ॥ विद्यायुतोथ जीवोसौ पायान्नः कुमुदच्छविः ॥

तेजो मयं शक्तित्रिशूलहस्तं सुरेन्द्र ज्येष्ठ स्तुत पादपद्मम् ॥ मेधानिधिं मत्स्यगतं द्विबाहुं गुरुं
स्मरे मानस पङ्कजेहम् ॥

अस्य श्री बृहस्पति मन्त्रस्य गृत्स-ऋषिः ॥ त्रिष्टुप्छन्दः । श्री बृहस्पतिर्देवता ॥

प्. ४४ब्)

होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि पद्यादि ॥

लूं इन्द्राय स्वाहा ॥ ओं ह्रीं श्रीं व्लु-ईं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये वीं ठः श्रीं
ठः ऐं ठः स्वाहा ॥ १०८ ॥

र्स्रूं जीवाय नमः स्वाहा ॥ १०८ ॥ ओं ह्रीं भोगासदाय स्वाहा ॥ १०८ ॥ आज्येन ॥ ओं नमः तं
बृहस्पतये स्वाहा ॥ तं ब्रह्मचर्यधराय स्वाहा ॥ तं प्रजापालपतये स्वाहा ॥ तं
सैन्धवदेशसम्भवाय स्वाहा ॥ तं आङ्गिरसाय स्वाहा ॥ तं गोरोचनाभाय स्वाहा ॥ तं
अनुपमकिरणाय स्वाहा ॥ तं यजमान वरप्रदाय स्वाहा ॥ पूर्णा तर्पणं ॥

मेरुमूर्ध्नि समाक्रान्तो देवराजपुरोहितः ॥ ज्ञातायः सर्वशास्त्राणां सगुरुः प्रीयतां मम ॥

निरोधार्घः ॥ अथ शुक्रस्य ॥

काव्योक्षकलशोपेत स्त्र्यक्षोव्यात्पीतवर्णकः ॥ निधिपुस्तकहस्तोवः क्वचिद्दृष्टो महागमे ॥

सन्तप्तकाञ्चन निभं द्विभुजं दयालुं पीताम्बरं धृतसरोरुहद्वन्द्वशूलम् ॥

क्रौञ्चासनमसुरसेवित पादयुग्मं शुक्रं स्मरे द्विनयनं हृदयाम्बुजेहम् ॥ अस्य श्रीशुक्रमन्त्रस्य ॥

क्रौञ्च अङ्गार-ऋषिः । बृहतीच्छन्दः । श्रीशुक्रो देवता । होमे विनियोगः ॥ अग्नौ पुष्पं ॥ आवाहनादि
पाद्यादि ।

ऐं क्लीं सौः वद २ वाग्वादिनि सरस्वत्यै नमः स्वाहा ॥ १०८ ॥ ओं ह्रीं भार्गवाय नमः स्वाहा ॥ १०८
॥ ओं ऐं जंगीं गृहेश्वराय शुक्राय नमः स्वाहा ॥ १०८ ॥

ओं ह्रीं असुरोत्तमाय स्वाहा ॥ आज्येन ॥ ओं नमः पं शुक्राय स्वाहा ॥ पं इन्दुचर्यधराय स्वाहा ॥
धं पं मायाधिपतये स्वाहा ॥ पं भोज कट जन्मने स्वाहा ॥

प्. ४५)

पं सप्तकिरणाय स्वाहा ॥ पं असुराधिपतये स्वाहा ॥ पं गोक्षीरवर्णाय स्वाहा ॥ पं यजमान
वरप्रदाय स्वाहा । पूर्णा ॥ तर्पणम् ॥

सोमतुल्य प्रभायस्य चासुराणां गुरुस्तथा ॥ जेतायः सर्वशत्रूणां सकाव्यः प्रीयतां मम ॥

निरोधार्घः ॥ अथशनैश्चरस्य ॥

कलशाक्षस्रगन्धति नरसंस्थस्त्रिलोचनः ॥ दण्डाक्षवलया युक्तः कृष्णः कृष्णस्रगन्वितः ॥

नीलाञ्जनाभं मिहरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिं ॥ सुरासुराणां भयदं द्विबाहुं
शनिं स्मरे मानसपङ्कजेहम् ॥

अस्य श्री शनैश्चरमन्त्रस्य ॥ कुत्स-ऋषिः ॥ गायत्री च्छन्दः ॥ श्रीशन्नैश्चरो देवता । होमे विनियोगः
॥ अग्नौ पुष्पं । आवाहनपाद्यादि ॥

ओं प्रीं प्रजापतये स्वाहा ॥

ओं ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐं सः स्वाहा ॥ १०८ ॥

क्ष्म्र्यूं शनैश्चराय नमः स्वाहा ॥ १०८ ॥

ओं ह्रीं कृष्णवर्णाय शनैश्चराय स्वाहा ॥ स्म्ल्व्यूं स्व्ल्यूं ज्म्र्यूं सर्वरोगापहारिणे शनैश्चराय
हूं फट् स्वाहा ॥ १० ॥

ओं ह्रीं मर्दिन्यै स्वाहा ॥ एषा शक्तिः ॥ ओं नमः यं? शनैश्चराय स्वाहा ॥ यं यमचर्यधराय
स्वाहा ॥ यं सौराष्ट्रजन्मने स्वाहा ॥ यं काशपाय स्वाहा ॥ यं राजवर्तवर्णाय स्वाहा ॥ यं
क्षयङ्कराय स्वाहा ॥ यं महामृत्युधिकारिणे स्वाहा ॥ यं छायासुताय स्वाहा ॥ यं
यजमानवरप्रदाय स्वाहा ॥ पूर्णा ॥ तर्पणम् ॥

प्. ४५ब्)

कृष्णवर्णः कृशाङ्गश्च कृष्णजीमूतसन्निभः । शनैश्चरः सूर्यपुत्रः ससौरः प्रीयतां मम ॥

निरोधार्घः ॥ अथ राहोः ॥

शीर्षाकृतिस्तु वै राहुः स्रग्वी कुण्डलभूषितः ॥ सिंहासन रतः पायादमृताहरण प्रियः ॥

शीतांशु मित्रान्तकमीद्यरूपं घोरं च वैडूर्य निभं द्विबाहुम् ॥ त्रैलोक्यरक्षा परमिष्टदं च
राहुं ग्रहेन्द्रं हृदये स्मरामि ॥

अस्य श्रीराहुमन्त्रस्य ॥

गौतम ऋषिः गायत्रीच्छन्दः ॥ श्रीराहुर्देवता ॥ होमे विनियोगः ॥ अग्नौ पुष्पं ॥ आवाहन पद्यादि ॥

ओं ह्रीं हुं सर्वविघ्नाधिपतये स्वाहा । ओं क्रीं क्रीं हूं हूं टं टङ्कधारिणे राहवे ईं ह्रीं
श्रीं भैं स्वाहा ॥ १०८ ॥ यूं राहवे नमः स्वाहा ॥ १०८ ॥ ओं हूं अमृत प्रियाय स्वाहा ॥ आज्येन ॥
ओं नमः शं राहवे स्वाहा । शं गणपति व्रतधारिणे स्वाहा ॥ शं गन्धर्वाधिपतये स्वाहा ॥ शं
राडिताप जन्मने स्वाहा ॥ शं पैठेन सगोत्त्राय स्वाहा ॥ शं अतसी पुष्प सदृशाय स्वाहा ॥ शं
अष्टादश सहस्रकिरणाय स्वाहा ॥ शं यजमानवरप्रदाय स्वाहा ॥ पूर्णा ॥ तर्पणम् ॥

रक्ताक्षो धूम्रवर्णाभो विजितारिर्महाबलः ॥ अबाहुश्चान्तरिक्षस्थः सराहुः प्रीयतां मम ॥
निरोधार्घः ॥ अथ केतोः ॥

भुजङ्गमैस्तु दशभिर्यतोक्षकलशान्वितः ॥ केतुस्त्र्यक्षो महाकायो वतान्नः सोतसी च्छविः ॥

प्. ४६)

लाङ्गूलयुक्तं भयदं जनानां कृष्णाम्बुभृत्सन्निभमेकवीरम् ॥ कृष्णाम्बरं शक्ति त्रिशूलहस्तं
केतुं भजे मानस पङ्कजेहम् ॥

अस्य श्री केतुमन्त्रस्य ।

अग्निरस ऋषिः ॥ गायत्रीच्छन्दः ॥ केतुर्देवता । होमे विनियोगः ॥ अग्नौपुष्पं । आवाहन पाद्यादि ॥

ओं नमो भगवते रुद्राय स्वाहा ॥ ओं ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा ॥ १०८ ॥ ह्रीं केतवे
नमः स्वाहा ॥ १०८ ॥ ओं ह्रीं ज्योतिष्केतवे स्वाहा ॥ आज्येन ॥

ओं नमः क्षं केतवे स्वाहा ॥ क्षं अग्निचर्यधराय स्वाहा ॥ क्षं धूम्रवर्णाय स्वाहा ॥ क्षं
जैमिनीयाय स्वाहा ॥ क्षं अन्तर्वेदी सम्भवाय स्वाहा ॥ क्षं महामृत्युधिकारिणे स्वाहा ॥ क्षं
यजमानवरप्रदाय स्वाहा ॥ पूर्णा । तर्पणम् ॥

अग्निपुत्रो महातेजाः केतु सर्वग्रहान्तकः ॥ क्षोभयेद्यः प्रजास्सर्वाः सकेतुः प्रीयतां मम ॥

निरोधार्घः ॥ अथ ध्रूवस्य ॥

विष्णुरूपो महापुण्यो ध्रूव उत्तानपादजः ॥ सर्वोपरिनिषण्णस्तुस्त्र्यक्षः शिव परः शिं सदा ॥

अस्य श्री ध्रूवमन्त्रस्य ॥ नारद ऋषिः जगतीच्छन्दः ध्रूवो देवता । होमे विनियोगः ॥ अग्नो पुष्पं ।
आवाहनपाद्यादि ॥

ओं ह्लां ब्रह्मणे स्वाहा ॥ ओं ह्रीं उत्तानपादात्मजाय ध्रूवाय स्वाहा ॥ १०८ ॥ ओं तत्सत्सर्वगतं परं
परतरं व्याप्तं महद्ब्रह्मयो व्याप्त्वा तिष्ठति शङ्ख सुन्दरतराकारो मुनीन्द्रैः स्तुतः ॥

प्. ४६ब्)

ताराचक्रकृतप्रदक्षिणतरः सप्तर्षवर्यार्चितो व्यान्नोः किन्नरवर्यदिक्कृत गृहो वोत्तान पादिध्रुवः ॥
ओं नमो ध्रूवाय स्वाहा ॥ ओं पक्षिरूपाय स्वाहा ॥ उत्तराशाधिपतये स्वाहा ॥ ऋषि प्रवराय स्वाहा ॥
यजमानवरप्रदाय स्वाहा ॥ पूर्णा । तर्पणम् ॥ ध्रूवराजो महापुण्य उदीच्यां दिशिसंस्थितः ॥
ऋषीणां प्रवरश्चैव सध्रूवः प्रीयतां मम ॥ निरोधार्घः ॥

अथागस्त्यस्य ॥

श्वेतः पद्मपलाश लोचन पुटः सम्पूर्ण चन्द्राननः पाणिभ्यां विधृतारविन्द युगलः पद्मासने
तत्परः ॥

यामीदिक्कृत सुन्दर स्थिरतरा वासश्च कुम्भोद्भवो व्यान्नः पीतनदीपतिः स्थिरमरतोर्वातापि शत्रुः
सदा ॥

अस्य श्री अगस्त्यमन्त्रस्य । अग्नौ । पुष्पं ॥ आवाहनपाद्यादि ॥

ओं अगस्त्याय स्वाहा ॥

ओं ह्रीं अवर्णपादात्मजायागस्त्याय स्वाहा ॥ १०८ ॥ आज्येन । ओं नमः अगस्त्याय स्वाहा ॥ ओं कुम्भयोनये
स्वाहा ॥ १०८ ॥ वातापि शत्रूवे स्वाहा ॥ ऐं पीतजलधिये स्वाहा ॥ ओं दक्षिणाशाधिपतये स्वाहा ॥
विष्णुरूपधराय स्वाहा ॥ ओं कृष्णशरीराय स्वाहा ॥ ओं यजमानवरप्रदाय स्वाहा ॥ पूर्णा ।
तर्पणम् ॥

वातापिः समहान्येन निगीर्णोजनहिंसकः ॥ समुद्रः शोषितः सोथविन्ध्यारिः प्रीयतां मम ॥

अगस्त्यः कलशो भूतो दक्षिणस्यां दिशि स्थितिः ॥

प्. ४७)

समुद्रं जीर्णतां नीतो विन्ध्यारिः प्रीयता मम ॥

निरोधार्घः ॥

अनेन विधिना यस्तु होमयेद्स्रहमण्डलम् ॥ सर्वान्कामानवाप्नोति फलं चानन्तमश्नुते ॥

ततः सप्तावरण होमः ॥

सप्तावरण देवताभ्यः स्वाहा ॥ ततः पूर्णात्रयं दद्यात् ॥

देवं पद्मासनस्थं तु हिनगिरि निभमेकवक्त्रं त्रिनेत्रं दक्षे सम्पूर्णकुम्भं वरमभयधरं
पूर्णमिन्दु च वामे ॥

देवीं शङ्खाब्जहस्तांवरमभयधरामेक वक्त्रां त्रिनेत्रां विभ्रश्चान्द्री कलङ्कं त्रिभुवननमितं
नेत्रनाथं नमामि ॥

ओं जुं सः सर्वमन्त्रचक्रतृप्तिरस्तु स्वाहा ॥ १ ॥

मुक्तापीतपयोदमौक्तिकजपावर्णैर्मुखैः ॥ पञ्चभिस्त्र्यक्षैरञ्चितमीशमिन्दुपकुटं पूर्णेन्दुकोटिप्रभम्
॥ शूलंटङ्ककृपाण वज्रदहनानागेन्द्र घण्ठाङ्कुशार्पाशं भीतिहं
रदधानममिताकल्पोज्ज्वलाङ्गं भजे ॥

ओं हूं भैरवाप्यायनमस्तु स्वाहा २ ॥

ओं बन्धुकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं हस्तैः शूलं कपालं वरमभयदं
चारुहासं नमामि ॥ वामोरुसुम्भगायाः करतल विलसश्चारुरत्नोत्पलायाहस्तेना श्लिष्ट देहं
मणिमयविलसद्भूषणायाः प्रियायाः ॥

ओं न्यूनातिरिक्तविधिं पुरयामि स्वाहा ॥

अनेन यवतिलहोमेनात्मनो वाङ्मनः कायोपार्जित पाप निवारणार्थं ममुका देवी सन्तोषणार्थं सर्वे
देवताः सन्तुष्टावरदाः सन्तु ॥

प्. ४७ब्)

ओं अथ देवीनामाज्य होम विधिर्लिख्यते ॥

तत्रादौ दुर्गा ॥

बन्धूककाञ्चन निभं रुचिराहिमालं पाशाङ्कुशौ वरमभीति समुदधानम् ॥

हस्तैश्शशाङ्कशं कलाभरणं त्रिनेत्रं श्रीनीलकण्ठमुमयाश्रितमाश्रयामि ॥

अस्य श्री नीलकण्ठमन्त्रस्य । श्रीदक्षिणामूर्ति ऋषिः अनुष्टुप्छन्दः ॥

श्रीदुर्गेश्वरो नीलकण्ठो देवता ॥ ह्रीं बीजं । ओं शक्तिः नमः कीलकम् । होमे विनियोगः ॥ ओं ह्सौः
ह्रीं इति न्यासः । अग्नौ पुष्पं ॥ आवाहनादि ॥ ओं ह्सौः ह्रीं नीलकण्ठाय नमः स्वाहा ॥ १०८ ॥

मूलान्ते वौषट् इति पूर्णा । तर्पणम् ॥ निरोधार्घः ॥

अथ दुर्गायाः ॥

सव्ये त्रिशूलकरवालमहेषु चक्राण्या शङ्खखेटक धनुः परितर्जनीया ॥ धत्ते महामहिषदानव
पृष्ठसंस्था दुर्वा निभाभवतु साभिमताप्तयेनः ॥

दूर्वानिभां त्रिनयनां विलसत्किरीटां शङ्खाब्ज खड्गाशरखेटकशूलचापान् ॥ सन्तर्जनीं च
दधतीं महिषासनस्थां दुर्गां नवारकुलपीठगतां भजामि ॥

सिंहस्था शशिशेखरामरकत प्रख्या चतुर्भिर्भुजैः शङ्खं चक्रधनुः शरांश्च दधतीं नेत्रैः
स्त्रीभिः शोभिता ॥ आमुक्ताङ्गदहारकङ्कणरजत्काञ्ची क्वन्जन्नूपुरा दुर्गादुर्गतिहारिणी
भवतुनोरत्नोल्लसत्कुण्डला ॥

अस्य श्रीदुर्गामन्त्रस्य महेश्वर ऋषिः ॥

प्. ४८)

अनुष्टुप्छन्दः श्रीदुर्गादेवता दुं बीजं ह्रीं शक्तिः ओं कीलकम् । होमे विनियोगः ॥

अग्नौ पुष्पं । आवाहन पाद्यादि ॥

सुभगायै विद्महे काममालिन्यै धीमहि तन्नो दुर्गा प्रचोदयात् ॥ ३ ॥

यदि गर्भरक्षार्थं होमः तदा तिलसर्षपाज्य होमः ॥

ओं ह्रीं दुं दुर्गायै नमः स्वाहा ॥ १०८ ॥ वा ५४ । वा २७ । वा १४ । वा ७ ।

अङ्गानां दशांशः ॥

ओं हृदयाय नमः स्वाहा ॥ ह्रीं शिरसे स्वाहा । दुं शिखायै वौषट् स्वाहा । दुः कवचाय हूं स्वाहा
। गा नेत्रेभ्यो वषट् स्वाहा । यै अस्त्राय फट् स्वाहा ॥ ततः पूर्णा ॥ अरिशङ्ख कृपाण
खेटवाणान्दुधनुः शूलकतर्जनीं दधाना ॥ भवतां महिषोत्तमाङ्गसंस्था नवपूर्वासदृशी
श्रियेस्तु दुर्गा ॥ मूलेन ॥ अथ वनदुर्गा ॥

सुरथसुरथरूपः सत्समाधिस्समाधिर्भव परिभवमुह्यन्दानसौ तुष्टवाते ॥ अभिमतपदसिद्धिं या च ते
या च धत्ते प्रभवतुं गिरिदुर्गासन्ततं श्रेयसेनः ॥

अस्य श्रीवनदुर्गामन्त्रस्य । सुरथ ऋषिः । अनुष्टुप्छन्दः । श्रीवनदुर्गादेवता । यथार्थं होमे
विनियोगः ॥ अग्नौ पुष्पं । आवाहन पाद्यादि ॥ उत्तिष्ठ पुरुषि किं स्वपिषिभयं मे सुमुपस्थितं यदि
शक्यमशक्यं वातन्मे भगवति शमय स्वाहा ॥ १०८ ॥ आपूर्वत् ॥

प्. ४८ब्)

उत्तिष्ठ पुरुषि हृदयाय नमः स्वाहा ॥

किं स्वपिषि शिरसे स्वाहा । भयं मेसमुपस्थितं शिखायै वौषट् स्वाहा । यदि शक्यमशक्यं वा
कवचाय हूं स्वाहा ॥ तन्मे भगवति नेत्रेभ्यो वषट् स्वाहा ॥ शमय स्वाहा अस्त्राय फट् स्वाहा ॥ अथ
गौरी ॥

याशातकुम्भनिभदीप्रवपुर्विभर्ती चन्द्रार्धशेखरवती ज्वलने च शङ्खम् ॥
हेमाम्बजासनगतावरदाभया तु पाणिः श्रियं दिश तु सा भवतोद्य दुर्गा ॥ अस्य श्रीगौरीमन्त्रस्य ।
सुमध्यस्थ-ऋषिः उष्णिक् छन्दः ॥ श्रीगौरी देवता । होमे विनियोगः ॥

ओं नमो भगवति दुर्गे गौरिगिरि दुहिते स्वाहा स्वधा वौषट् ह्रीं क्ष्स्वीं फट् स्वाहा ॥ वर्णा २८ ॥
आहुतयः यथा विस्तरं ॥

ओं ह्रीं श्रीं महिषासुरघातिनिदुर्गायै नमः स्वाहा ॥ ओं ह्रीं रक्तकपालिन्यै स्वाहा ॥ ओं ह्रीं
दुंदुर्मथिनि दुर्गाभगवत्यै नमः स्वाहा ॥ ओं सिंहदुर्गे सिंहस्वामिनि अष्टादशभुजे रुद्ररौद्रे
घोररूपे हुं फट् नमः स्वाहा ॥ वर्णा ३० ॥

ओं नमो भगवति दुर्गे भर्गोत्तारिणि हुं ब्लूं स्वाहा ॥ इति षट्त्रिंशद्भुजामन्त्राः ॥ हां हीं हूं
हैं हौं हः इत्यङ्गानि ॥ ततः पूर्णा ॥

आकर्णाकृष्टचापाकृतजलदरवावादयन्ती स्वघण्ठां शूलेनोरः कठोरं गलनिहितकरा निघ्नती
दानवस्य ॥ चामुण्डायास्तदङ्गौत्प्लुतरुधिरवसामर्पयन्ती ॥

प्. ४९)

सहासं दुर्गापायदपायात्सुरनुत चरणा शोणदन्तच्छदानः ॥

ओं ह्रीं दुं दुर्गायै स्वाहा वौषट् ॥ इति पूर्णा ॥ अथ तर्पणम् ॥

ओं भूतिः सन्नतिः कान्तिः क्षान्तिर्द्यौः पृथिवी धृतिः ॥

लज्जापुष्टिरुषार्याचक्ष्वमा चैव तु मेव सा ॥ ये त्वामावेति दुर्गेति वेदगर्भेम्बिकेति च ॥

भद्रेति भद्रकालीति क्षेमीक्षेमकरीति च ॥ प्रातश्चैवा पराह्णे च तोषन्त्यानम्रमूर्तयः ॥

तेषां हि प्रार्थितं सर्वं त्वत्प्रसादाद्भविष्यति ॥

अनेन मन्त्रहोमेन यथार्थ सिद्ध्यै अनेकदुर्गाः प्रीयन्तां अनेकदुर्गाः प्रीतास्सन्तु ॥ निरोधार्घः ॥ अथ
शारिका ॥

पूर्णेन्दुकोटिप्रभमिन्दुचूडं कपालखट्वाङ्गगदासि हस्तम् ॥ भस्मास्थि मालोञ्चितगात्र माद्यं
श्रीवामदेवं शिवमाश्रयामि ॥

अस्य श्रीवाम देवमन्त्रस्य ॥ कालाग्नि रुद्रभैरव ऋषिः त्रिष्टुप्छन्दः श्रीशारिकेश्वरो वामदेवो देवता
॥ ह्रां बीजं । वां शक्तिः । ओं कीलकम् ॥ होमे विनियोगः ॥

अग्नौ पुष्पं ।

आवाहन पाद्यादि ॥ वां इत्यादि न्यासः ॥ ओं ह्रां वां वामदेवाय नमः ॥ १०८ ॥

मूलान्ते पूर्णा । तर्पणम् ।

निरोधार्घः ॥ बीजैः सप्तभिरुज्ज्वला कृतिरसौ या सप्तसप्तिद्युतिः सप्तर्षि प्रणताङ्घ्रि पङ्कजयुगाया
सप्तलोकार्ति हृत् ॥ प्रोतप्रायमपञ्जरं कृतवती प्रद्युम्न मुन्मोचितं देवी सप्त संयुता भगवती
श्रीशारिका पातु नः ॥

प्. ४९ब्)

ओद्यद्दिनेशद्युतिमिन्दु चूडां वरासि चक्राभयबाहुमाद्याम् ॥ सिंहासनस्थां शिववामदेवलीनां भजे
चेतसि शारिकेशीम् ॥

अस्य श्रीशारिका मन्त्रस्य । श्रीमहादेव ऋषिः । त्रिष्टुप्छन्दः ॥ श्रीशारिकाभगवती देवता ॥ शां
बीजं ॥ आं शक्तिः ह्रां कीलकम् ॥ होमे विनियोगः ॥

अग्नौ पुष्पं ॥

आवाहन पाद्यादि ॥ स्वात्म न्यासः ॥

ओं ह्रीं शारिकायै विद्महे । सप्ताक्षर्यैधीमहि ॥ तन्नः शिला प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं हूं फें आं शां शारिकायै नमः ॥ १०८ ॥ श्रां इत्यादि न्यासः ॥ तथा चावरण
देवताः ॥ ओं ह्रीं अं अमायै स्वाहा ॥ ओं ह्रीं कं कामायै स्वाहा ॥ ओं ह्रीं चं चार्वाङ्ग्यै स्वाहा
॥ ओं ह्रीं टं टङ्काधारिण्यै स्वाहा ॥ ओं ह्रीं तं तारायै स्वाहा ॥ ओं ह्रीं पं पार्वत्यै स्वाहा
॥ ओं ह्रीं यं यक्षिण्यै स्वाहा ॥ ओं ह्रीं शां शारिका भवत्यै स्वाहा ॥ ततः पूर्णा ॥

शैलाग्र स्फुटितोत्थिता सुरचयातासु ब्रजा सा परा देवीभिर्वसुसम्मिताभिरभितः संवेष्टिता शान्तपा


ज्वालारूपधरी तथा वसुकरी देवी शिवाशारीकारक्तारक्तकपाल भूषित तनुः स्यान्नः सदाशारिका
॥ मूलेन वौषट् स्वाहा ॥ तर्पणम् ॥

प्रद्युम्नशिखरासीनां मातृचक्रोप शोभिताम् ॥ पीठेश्वरीं शिलार्थ पांशारिकां प्रणमाम्यहम् ॥
अनेन मन्त्रहोमेन वामदेवसहिता श्रीशारिका भगवती सपरिवारा सायुधा साङ्गा प्रीयन्तां प्रीतास्तु ॥

प्. ५०)

सन्निधत्स्वेति निरोधार्घः ॥ अथ शारदा ॥

तद्यत्सूर्यसहस्रभास्वरमुखं कर्पूरपूरप्रभं पिङ्गारक्तजटातटं फणिफणालङ्कारहारोज्जुलम् ॥

स्मेरास्यं शशिखण्डमण्डित तनुं खड्गां कपालं वरं शूलं चापधरं दधानमनिशं
दोर्भिर्भजेहं शिवम् ॥

अस्य श्रीशिवमन्त्रस्य ॥ भैरव ऋषिः । गायत्रीच्छन्दः श्रीशारदापतिश्शिवो देवता ॥ ह्रीं बीजं ।
श्रीं शक्तिः । नमः कीलकम् । होमे विनियोगः ॥

अग्नौ पुष्पं ॥

आवाहन पाद्यादि ॥ ह्रां इत्यादि न्यासः ।

सदाशिवाय विद्महे त्र्यम्बकाय धीमहि तन्नः शिवः प्रचोदयात् ॥ ३ ॥

ओं ह्रां शिवाय नमः ॥ १०८ ॥ गूं श्रीं ओं शिवाय नमः ॥ १०८ ॥ ओं ह्रीं ह्रां शिवाय नमः ॥ १०८


मूलेन पूर्णा ॥ तर्पणम् ॥ निरोधार्घः ॥ अथ शारदा ॥

श्री श्री शैले स्थिताया प्रहसितवदना पार्वती शूलहस्ता वह्निसूर्येन्दु नेत्रात्रिभुवनजननी षड्भुजा
सर्वशक्तिः ॥

शाण्डिल्येनोपनीताजयतु भगवती भक्तिगम्यानु यातासा वै सिंहासनस्था ह्यभिमतफलदा
शारदाशंकरो तु ॥ उद्यद्वालार्क बिम्बद्युति मनलशिखाकोटि तेजस्विनीं तां भास्वश्चन्द्राग्नि नेत्रां
विविधमणिलसत्किङ्किणी जालरम्याम् ॥ शूलप्रासादयुक्तान मृतसुकलश व्युहपाशान्दधानां वन्दे
सिंहासनस्थां प्रहसित वदनां शारदां षड्भुजाढ्याम् ॥ आदर्शदण्डकलशा मृत
पुस्तकाक्षसूत्रं त्रिशूलपरिपूरित साधकाशा ॥ सिंहासना त्रिनयनैक मुखी महार्घभूषा भवत्वव
तु पीतरुचिस्त्रिलोकीम् । षड्भुजां त्रिनयनां स्मिताननां शाण्डिल्यर्षि सुतपादपङ्कजाम् ॥

पर्वत स्थितवतीं धृतशूलां शारदां भगवतीं हृदि ध्याये ॥ सिंहासनां त्रिनयनां
शरशार्ङ्गकुन्तघण्ठा स्वधाकलशसन्मदवारणाख्यैः ॥

युक्तायुधैः कनकगौररुचिर्विभूत्यै भूयात् समस्तफलदाननु शारदासौ ॥

अस्य श्रीशारदा भगवती मन्त्रस्य ॥ भैरव ऋषिः अनुष्टुप्छन्दः श्रीशारदा भगवती देवता क्लीं
बीजं ह्रीं शक्तिः ॥ नमः कीलकं । होमे विनियोगः ॥

अग्नौ पुष्पं आवाहन पाद्यादि ॥

शारदायै विद्महे सप्ताक्षर्यै धीमहि तन्नः सरस्वती प्रचोदयात् ॥ ३ ॥

ओं ह्रां क्लां इत्यादि न्यासः ॥ ओं ह्रीं क्लीं सौः नमो भगवत्यै शारदायै ह्रीं स्वाहा ॥ १०८ ॥ ओं
ह्रीं नमो भगवति भैरवि वागीश्वरि महाप्रदे महाप्रभावे भगवति शारदायै ह्रीं स्वाहा ॥ १०८ ॥

ओं ह्रीं नमो भगवति हृदयाय नमः स्वाहा ॥ वागीश्वरि शिरसे स्वाहा । महाप्रदे शिखायै वौषट्
स्वाहा ॥ महाप्रभावे कवचाय हूं स्वाहा ॥ भगवत्यै शारदायै नेत्रेभ्यो वषट् । ह्रीं स्वाहा
अस्त्राय फट् स्वाहा ॥

अथ भेदाः ॥

ओं श्म्रीं शारदायै स्वाहा ॥ १०८ ॥

श्मां इत्यादि न्यासः ॥ अथवा ॥

ह्रीं ह्य झ्रें शिर झूं शिखा । हूं कव । हूं नेत्रे ओं फट् अस्त्रा मूलेन पूर्णा ॥

प्. ५१)

त्र्यक्षाव्याघ्रनिविष्टतामुपगता रक्तांशुकाशारदा सूर्या चन्द्रमसौ शरंधनुरथो प्रासंवरं
चाभयम् ॥ देवी साच्छुरिकां सदैव दधती पूर्णेन्दुरम्यानना मालाकुण्डलभूषिणावतु परं सानः
सदा शारदा ॥ मूलेन पूर्णा ॥ ततस्तर्पणम् ॥

विजये श्वरसंयुक्तां काश्मीरे वाग्विधायिनीम् ॥ विद्यां पीठेश्वरीं वन्दे शारदां बुद्धिवर्धिनीम् ॥

तां भवानीं भवानीत क्लेशनाशविशारदाम् ॥ शारदां शरदम्भोदसित सिंहासनं नमः ॥

अनेन मन्त्र होमेन शारदाभगवती सायुधा साङ्गासपरिवारा सानुचरा प्रियन्तां प्रितास्तु ॥
निरोधार्घः ॥ अथ राज्ञी ॥

कुन्देन्दु भासं शशिखण्ड चूडं कपालपाशाङ्कुश शूलहस्तम् ॥ त्रिलोचनं भूतिसितं हसन्तं
भूतेश्वरं चेतसि चिन्तयामि ॥

अस्य श्री भूतेश्वर मन्त्रस्य । शिव ऋषिः । गायत्रीच्छन्दः ॥ श्रीराज्ञीश्वरो भूतेश्वरो देवता ।
हूं बीजं ह्रीं शक्तिः ओं कीलकम् ॥

होमे विनियोगः ॥ अग्नौ पुष्पं ।

आवाहन पाद्यादि ॥ ओं ह्रीं हूं भूतेश्वराय नमः ॥ १०८ ॥

मूलेन पूर्णा । तर्पणम् ॥

याद्वादशार्कपरिमण्डितमूर्तिरेका सिंहासन स्थितवतीमुरगावृतां च ॥ देवी मनक्षगतिमीश्वरतां
प्रपन्नां तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥

शीतांशु बालार्क कृ?शाणु नेत्रां चतुर्भुजासेनत्वगासनस्थाम् ॥

शङ्खाब्जशूलासिधरां महेशीं राज्ञीं भजे हं तु हिनाचलस्थाम् ॥ अस्य श्री महाराज्ञी मन्त्रस्य
। ब्रह्मा ऋषीः । गायत्रीच्छन्दः ॥

श्रीमहाराज्ञी देवता ह्रीं बीजं सौ शक्तिः क्लीं कीलकम् ॥ होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहन
पाद्यादि ।

सूर्यकर्णाय विद्महे भानुरत्नाय धीमहि तन्नो राज्ञी प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ज्ञ्यै ह्रीं स्वाहा ॥ १०८ ॥ ओं ह्रीं श्रीं रां राज्ञी
भगवत्यै नमः स्वाहा ॥ १०८ ॥ ओं ल्ह्रूं महाराज्ञ्यै विश्वव्यापिकायै स्वाहा ॥ १०८ ॥

ततः पूर्णः तद्यद्दिवाकर सहस्ररुचिं त्रिनेत्रां सिंहासनोपरिगतामुरगो पवीताम् ॥ खड्गाम्बुजात्य
कलशामृत पात्रहस्त रं राज्ञीं भजामि विकसद्वदनारविन्दाम् ॥ मूलेन वौषट् ततस्तर्पणम् ॥ अनेन
मन्त्रहोमेन भूतेश्वर सहिता श्रीराज्ञी भगवती सायुधा स वाहना सपरिवारा सानुचरा प्रीयन्तां
प्रीतास्तु ॥

अथ ज्वाला ॥

त्रिनेत्रमिन्दुर्ध किरीटरक्तं कल्पान्त सूर्यप्रभमुग्रहासम् ॥ वृषासनं शूलकपालहस्तं वन्दे
महादेवमहं चिदौशम् ॥

अस्य श्रीमहादेव मन्त्रस्य । भैरव ऋषिः । अनुष्टुप्छन्दः । श्रीज्वालामुखीश्वरो महादेवो देवता ।
ह्रां बीजं हौं शक्तिः ओं कीलकम् होमे विनियोगः ॥

अग्नौ पुष्पं । आवाहन पाद्यादि ॥

ओं ह्रां हौं महादेवाय स्वाहा ॥ १०८ ॥

मूलेन पूर्णा ॥ ततस्तर्पणम् ॥

प्. ५२)

ज्वालापर्वतसंस्थितां त्रिनयनां पीठत्रयाधिष्ठितां ज्वालाडम्बरभूषितां सुवदनां
नित्यमदृशांजनैः ॥ षट्चक्राम्बुज मध्यगां वरगदामब्जभयान्विभ्रतीं चिद्रूपां सकलार्थ
दीपनकरीं ज्वालामुखीं नौम्यहम् ॥

अस्य श्रीज्वालामुखी मन्त्रस्य ॥ वैश्वानर ऋषिः । अनुष्टुप्छन्दः ॥ श्रीज्वाला भगवती देवता ।
ह्रीं बीजं श्रीं शक्तिः हुंकीलकं । होमे विनियोगः ॥

अग्नौ पुष्पं ॥ आवाहन पाद्यादि ।

ज्वालामुख्यै विद्महे जगद्भक्षिण्यै धीमहि तन्नो ज्वाला प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं ज्वालामुखि मम सर्वशत्रून्भक्षय २ हूं फट् स्वाहा ॥ १०८ ॥ ओं ह्रीं हृदया श्रीं
शिर ज्वालामुखि शिखा मम सर्वशत्रून्भक्षय २ कव हुं फट् नेत्रा स्वाहा अस्त्राय ॥ ओं ऐं ह्रीं
श्रीं क्ट्न्र्ल्हूं? ज्वालामुख्यम्बा पादुकाभ्यो नमः ॥ १०८ ॥ ओं ह्रीं श्रीं फुं ज्वालाभगवत्यै नमः
॥ १०८ ॥

ततः पूर्णा ज्वालापरितास्य शिरोरुहां तां सरोजशङ्खासि गदाधरां च ॥ सिंहासनस्था
पितपादयुग्मां ज्वालामुखीं सद्धृदये स्मरामि ॥

ज्वालामुखि महाज्वाले ज्वालापिङ्गल लोचने ॥

ज्वालां तेजे महातेजे ज्वालामुखि नमोस्तुते ॥ मूलेन वौषट् इति पूर्णा ततस्तर्पणम् ॥

अनेन मन्त्रहोमेन महादेव सहिता श्रीज्वालाभगवती सायुधा सवाहना सपरिवारासानुचरा प्रियन्तां
प्रीतास्तु ॥

अथ दीक्षा देवी ॥

त्रिशूलखड्गाङ्कुशमुण्डकर्तरीस्तथा कपालं सवरं च सव्ये ॥

प्. ५२ब्)

रुद्रासनस्थां वसुसङ्ख्यवक्त्रां देक्षामहेशीं प्रणमामि भक्त्या ॥

अग्नौ पुष्पं आवाहन पाद्यादि ॥ हस्तेन तिलाज्य होमः ॥

ओं हुं भुवनमालिनि ह्रीं ॥ १०८ ॥ मूलेन पूर्णा तर्पणम् ॥

अष्टाक्षरासमाख्याता विद्याभुवनमालिनी ॥ पिङ्गोत्पाटादिकं पापं स्मरणा देवनश्यति ॥

पापराशिं प्रदहति मुद्गलस्य महेशरि ॥ याताश्रोत्रपथं देवि पूजितावासुमध्यमे ॥

ध्याताथवा विश्वरूपमोक्षदाबन्धनाशिनी ॥

अनेन मन्त्र होमेन दीक्षा महेशी सायुधेति ॥ निरोधार्घः ॥

अथ पापान्तकारिणी ॥ पाशाङ्कुशाक्षकमलाङ्कितपाणि पद्मां सौम्याननां त्रिनयनां
सुकुशेशयस्थाम् ॥ रक्तां सुभक्त विनिवर्धित भूरिसौख्यां पापान्तकारणरतां जननीं नमामि ॥

अग्नौ पुष्पं ॥ आवाहन पाद्यादि ॥

ओं ह्रीं सः नमो भगवति गौरी वाग्विशुद्धे शोधय बोधय सां सां क्लीं स्वाहा ॥ वर्णाः २६ ॥
मूलेन पूर्णा । तर्पणम् ॥

हत्वा ब्रह्माण्डमखिलं ब्राह्मणैः परिपूरितम् ॥ लिप्यतेन स पापेभ्यः पद्मपत्र शिवाम्भसा ॥

अनेन मन्त्रहोमेन पापान्तकारिणी ॥

अथ कुलवागीश्वरी ॥

देवीं कदम्बवनगामरुण त्रिकोण संस्थांसितांसितवराम्बुज कर्णिकास्थाम् ॥ सत्पुस्तकाक्षवलयान्वित
पाणिपद्मां वागीश्वरीं कुलगुरुं प्रणमामि नित्यम् ॥

प्. ५३)

अस्य श्रीकुलवागीश्वरी मन्त्रस्य ॥ श्रीदक्षिणामूर्ति ऋषिः । पङ्क्तिच्छन्दः श्रीकुलवागीश्वरी देवता
। ऐं बीजं ॥ सौ शक्तिः । क्लीं कीलकम् । होमे विनियोगः ॥

अग्नौ पुष्पं । आवाहन पाद्यादि ॥

वागीशायै विद्महे कामेशाय धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ३ ॥

ऐं ह्रीं वागीशाय विद्महे क्लीं कामेश्वर्यै धीमहि सौः तन्नः शक्तिः प्रचोदयात् ॥ ३ ॥

ऐं क्लीं सौः महात्रिपुरभैरवी कुलवागीश्वर्यम्बा पादुकाभ्यो नमः ॥ १०८ ॥ ओं क्लीं ह्रौं श्रीं
हूं झं झषहस्ते कुलवागीश्वरि ऐं ठः झं ठः । ध्रीं ठः स्वाहा ॥ १०८ ॥

ऐं ह्य क्लीं शिरसौः शिखा त्रिपुरभैरवी कव । कुलवागीश्वरी नेत्रे । अम्बापादुकाभ्यो नमः स्वाहा
अस्त्रा ॥ ततः पूर्णा ॥

त्रिशूलासिधरांदोर्भ्यां रस्यां वह्निसन्निभाम् ॥ त्र्यक्षीं सिंहासनगतां कुलवागीश्वरीं भजे ॥
मूलान्ते वौषट् ।

ततस्तर्पणम् ॥

यदक्षर महासूत्त्रे प्रोतमेतज्जगत्त्रीयम् ॥ ब्रह्माण्डादि कटाहान्तं तां वन्दे सुरमातृकाम् ॥

अनेन मन्त्र होमेन कुलवागीश्वरी सपरिवारा सानुचरा प्रीयन्तां प्रीतास्तु ॥

अथ कामेश्वरः ॥

भैरवः कर्णिकारूढस्तरुणादित्यसन्निभः ॥ महोत्साहसमायुक्तो वक्त्रत्रय युतो व्ययः ॥

कपालमालाभरणो गजचर्मोत्तरीयकः ॥ त्रिशूलखड्गहस्तश्च घण्ठा डमरुनादितः ॥

गो नासैर्वृश्चिकैर्घोरैर्हारकीयुरमण्डितः ॥

सन्ध्या जीमूतसङ्काशो हास्यलास्यसमन्वितः ॥ तस्योत्सङ्गे स्थितां देवीं महात्रिपुरसुन्दरीम् ॥

सिन्दूरराशि सदृशीं पद्मराग समप्रभाम् ॥ बालार्कभास्वरां देवीं दिव्यतेजोपवृंहिताम् ॥

भाभिरात्मोद्भवाभिश्च भासयन्तीं दिशो दश ॥ चतुर्भुजामेकवक्त्रां धनुर्बाणविभूषिताम् ॥

सर्वज्ञान मये नैव पुस्तकेन विराजिताम् ॥ स्फाटिकेनाक्ष सूत्रेण करस्थेन विभूषिताम् ॥

रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम् ॥ काञ्चीनूपुरसन्नद्धां हारकीयूरमण्डिताम् ॥

द्विरष्टवत्सराकारां कुचकुम्भोपशोभिताम् ॥ स्मरचापद्विधाभिन्न भॄभङ्गैश्च विराजिताम् ॥

त्रिनेत्रां चारुवदनाममृतौघ परिप्लुताम् ॥ सम्मुखीं देवदेवस्य प्रहसन्तीं विचिन्तयेत् ॥

ईदृग् रूपधरां देवीं प्रणतार्ति निवारिणीम् ॥ चतुष्पीठसमायुक्तां पूजयेत्परमेश्वरीम् ॥

अग्नौ पुष्पं । आवाहन पाद्यादि ॥ ततो गायत्री ॥

ओं वागीशाय विद्महे कामेशाय धीमहि तन्नः शिवः प्रचोदयात् ॥ ३ ॥

हस्तेन दधिमधुक्षीरमिश्रोलाजा होमः ॥

ओं ह्रीं श्रीं अं कामेश्वर भैरवनाथ पादुकाभ्यो नमः स्वाहा ॥ १०८ ॥ ऐं क्लीं सौः
त्रिपुरभैरवी अम्बापादुकाभ्यो नमः स्वाहा ॥ १०८ ॥

अङ्गानि न सन्ति ॥ यदुक्तं ॥

प्. ५४)

इत्येषा कथिता देवी विद्यात्रिपुर भैरवी ॥ नामपादसमायुक्ता षडङ्गपरिवर्जिता ॥

ततः पूर्णा ॥

सिन्दूरपुर परिपूरितपूर्णदेहां हस्तद्वयेन शरशरचापयुतेन युक्ताम् ॥ सत्पुस्तकाक्षवलयान्वित
पाणिपद्मां कामेश्वरीं कुलगुरुं प्रणमामि नित्यम् ॥

मूलान्ते पूर्णा ॥ तर्पणम् ॥ अनेन मन्त्रहोमेन ॥ निरोधार्घः ॥

अथ वज्रेश्वरी ॥

कल्पान्त वह्नि अतसी कुसुमारुणाभां सौवस्त्रहारमणि कुण्डचित्रिताङ्गीम् ॥ वज्रेश्वरीं त्रिनयनां
सृणि पाशबाणचापादि संयुतकरां सुभगां नमामि ॥

अग्नौ पुष्पं ॥ आवाहन पाद्यादि ॥

ओं महाभागाय विद्महे नित्य क्लिन्नायै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ३ ॥

ह्रीं क्लीन्ने ऐं क्रों नित्यमदद्रवे ह्रीं ॥ १०८ ॥

ऐं ह्य ह्रीं ह्रीं क्लीन्ने शिरसे । क्लीन्ने ह्रीं ह्रीं ऐं क्रों शिखा । क्रों ऐं ह्रीं ह्रीं नित्ये कव
॥ नित्य ह्रीं ह्रीं मदनेत्रेभ्यो ॥ मद ह्रीं ह्रीं द्रवे अस्त्रायास्त्राय फट् स्वाहा ॥

कर्पूरकुङ्कुमकस्तूरिकाज्य होमः ॥ पूर्णा ॥

चापेषु पाशसृणिमभ्रकमातुलुङ्गैः संराजमानकरषट्कानि वेदभूमिः ॥ त्र्यक्षापराभगवती
कमला तु संस्थासेयं सदा वतुभवन्तमज स्रमिष्टा ॥

तर्पणं ॥ निरोधार्घः ॥

अथ महात्रिपुसुन्दरी भेदाः ॥ तत्रादौ कामेश्वरस्य ॥

चन्द्रकोटिसमानाभं चन्द्रमौलिं त्रिलोचनम् ॥ वराभय त्रिशूलास्विकरं कामेश्वरं भजे ॥

अस्य श्रीकामेश्वरमन्त्रस्य । श्रीदक्षिणामूर्ति ऋषिः ॥ पङ्क्तिच्छन्दः ॥ श्रीकामेश्वरो देवता । श्रीं
बीजं । ह्रीं शक्तिः । क्लीं कीलकम् ॥

होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहन पाद्यादि ॥

ततो मूलेन होमः ॥ मूलान्ते वौषट् इति पूर्णा ॥ ततस्तर्पणम् ॥ अनेनमन्त्रहोमेन । निरोधार्घः ॥ अथ
बाला ॥

अरुणकिरणजालैरञ्जिताशावकाशा विधृत जपवटीका पुस्तकाभीति हस्ता ॥ इतरकरवराढ्या
स्फुल्लकल्हारसंस्थानि वसतु हृदिबाला नित्यमानन्दरूपा ॥

सद्यः समुदित सहस्रदिवाकराभां विद्याक्षसूत्त्रवरदाभय चिह्नहस्ताम् ॥
नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां त्वां तारहाररुचिरां त्रिपुरां भजामि ॥ रक्ताम्भरां
चन्द्रकलावतं सां स्मुद्यदादित्य निभां त्रिनेत्राम् ॥ विद्याक्षमालाभयदानहस्तां ध्यायामि
बालामरुणाम्बुजस्थाम् ॥ पाशाङ्कुशौ पुस्तकमक्षसूत्रं करैर्दधानासकलासरार्च्या ॥ रक्ताक्षसूत्रा
शशि शेखरेयं ध्येयाखिलैर्द्ध्यै त्रिपुरा तु बाला ॥

अस्य श्री बालात्रिपुरसुन्दरी मन्त्रस्य ॥ श्रीदक्षिणा मूर्ति ऋषिः पङ्क्तिच्छन्दः ।

श्रीबालात्रिपुरसुन्दरी देवता ॥

ऐं बीजं सौः शक्तिः । क्लीं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहन पाद्यादि ॥

ऐं त्रिपुरादेव्यै विद्महे वागीश्वर्यै धीमहि तन्नो मुक्तिः प्रचोदयात् ३ ॥

प्. ५५)

मूलं १०८ ॥ ततः पूर्णा ॥

चन्द्रावतं सकलिकां शरदिन्दु शुभ्रां पञ्चाशदक्षरमयीं हृदि भावयामि ॥ त्वां पुस्तकं
जपवटीममृताढ्य कुम्भं व्याख्यां च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥

मूलेन वौषट् इति पूर्णा ॥ ततस्तर्पणम् ॥

अनेन मन्त्र होमेनेति ॥ स्थूलं रक्ताम्बुजासीनं दाडिमी कुसुमप्रभम् ॥

पाशाङ्कुशधनुर्बाण युक्तपाणि चतुष्टयम् ॥ त्रिनेत्रैकमुखं नानालङ्कार सुमनोहरम् ॥

सर्वसौभाग्यसम्पन्नं देवीरूपं तु चिन्तयेत् ॥

अस्य श्रीत्रिपुरभैरवी मन्त्रस्य । दक्षिणामूर्ति ऋषिः पङ्क्तिच्छन्दः । श्रीपञ्चदशाक्षरी
त्रिपुरभैरवी देवता । ऐं बीजं । सौः शक्तिः । क्लीं कीलकम् । होमे विनियोगः ॥

ऐं क्लीं सौः इति न्यासः ॥ अन्ग्नौ पुष्पं । आवाहन पाद्यादि । ऐं त्रिपुरादेव्यै विद्महे क्लीं
कामेश्वर्यै धीमहि सौः तन्नः शक्ति प्रचोदयात् ॥ ३ ॥

मूलं ॥ १०८ ॥

उद्यद्भानुसहस्रकान्तिमरुणक्षौमं शिरोमालिकां रक्ता लिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ॥
हस्ताब्जैर्दृधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां
वन्देरविन्दस्थिताम् ॥

मूलान्ते वौषट् इति पूर्णा ॥ ततस्तर्पणम् ॥ अनेन मन्त्र होमेनेति ॥

ततो महात्रिपुरसुन्दरी ॥

ततः पद्मनिभां देवीं बालार्ककिरणारुणाम् ॥ जपाकुसुमसङ्काशां दाडिमी कुसुमोपमाम् ॥

पद्मरागप्रतीकाशां कुङ्कुमोदकसन्निभाम् ॥ स्फुरन्मुकुटमाणिक्य किङ्किणी जालमण्डिताम् ॥

कलालिकुलसङ्काशवदनाम्भोजमण्डलाम् ॥ किञ्चिदर्धेन्दु कुटिलललाटमृदुपट्टिकाम् ॥

पिनाकि धनुराकार सुभ्रुवां परमीश्वरीम् ॥ आनन्दमुदितोल्लोललीलान्दोलितलोचनाम् ॥

स्फुरन्मयूखसङ्घात विततां हेमकुण्डलाम् ॥ सुगण्डमण्डलाभोगजितेन्दुमृतमण्डलाम् ॥

विश्वकर्मादिनिर्माण सूत्रसुस्पष्टनासिकाम् ॥ ताम्रविद्रूमबिम्बाभरक्तोष्टीममृतोपमाम् ॥

स्मितमाधूर्यविजितमाधुर्यरससागराम् ॥ अनौपम्य गुणोपेता चिबुकोद्देशशोभिताम् ॥

कम्बुग्रीवां महादेवीं मृणाललितैर्भुजैः ॥ रक्तोत्पलसमाकारसुकुमारकराम्बुजाम् ॥

कराम्बुजनख?द्योतवितानितनभस्तलाम् ॥ मुक्ताहारसमोपात समुन्नतपयोधराम् ॥

त्रिवलीवलनायुक्त मध्यदेशसुशोभिताम् ॥ लावण्यसरिदावर्तनिभनाभिर्विभूषिताम् ॥

अनर्घ रत्नघटितकाञ्ची युक्त नितम्बिनीम् ॥ नितम्बबिम्बद्विरदरोमराजीवराङ्कुशाम् ॥

कदलीललितस्तम्भसुकुमारोरुमीश्वरीम् ॥ लावण्य कदली तुल्यजङ्गायुगलमण्डिताम् ॥

नमद्ब्रह्मशिरोरत्न निर्घृष्टचरणाम्बुजाम् ॥

प्. ५६)

शीतांशुसतसङ्काशकान्तिसन्तापहारिणीम् ॥ लौहित्यजीतसिन्दुरजपादाडिमरागिणीम् ॥

रक्तवस्त्रपरीधानां रक्ताभरणमण्डिताम् ॥ चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् ॥

कर्पूरसकलोर्मिश्रताम्बूलपूरिताननाम् ॥ महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् ॥

सर्वशृङ्गारवेशाढ्यां सर्वालङ्कारभूषिताम् ॥ जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ॥

जगदाकर्षणकरीं जगत्कारणरूपिणीम् ॥ सर्वमन्त्रमयीं देवीं सर्वसौभाग्यसुन्दरीम् ॥

सर्वलक्ष्मीमयीं नित्यां परमानन्दसन्निभाम् ॥ महात्रिपुरमुद्रां तु स्मृत्वावाहन मुद्रया ॥

विद्यया बाह्य सुभगीं नमस्कारनियुक्तया ॥ पूर्वोक्तया साधकेन्द्रो महात्रिपुरसुन्दरीम् ॥

तन्तप्तहेमरुचिरां रविचन्द्र वह्नि नेत्रां वराभयसुपुस्तकदन्तमालाम् ॥ रस्यैर्भुजैश्च दधतीं
शिवशक्तिरूपां कामेश्वरीं हृदिभजामि धृतेन्दु लेखाम् ॥

आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशाङ्कुशमदनधनुः
सायकैः विस्फुरन्तीम् ॥ आपीनोत्तङ्गवक्षोरुहतटविलुट?त्तारहारोज्ज्वलाङ्गीं ध्यायेदम्बोरुहस्थां
मरुणिमवसनामीश्वरीमीश्वराणाम् ॥ सूर्यकोटिसमानाभां चतुर्भाहुं त्रिलोचनाम् ॥

पाशाङ्कुशधनुर्बाणान्दारयन्तीं शिवांभजे ॥ ललितां लोहितां चापबाणपाशसृणीन्करैः ॥

प्. ५६ब्)

दधानां कामराजाङ्के यन्त्रितां सस्मितांस्मरे ॥

अस्य श्रीमहात्रिपुरसुन्दरी मन्त्रराजस्य ॥

श्री दक्षिणामूर्ति ऋषिः ॥

श्रीं बीजं । ह्रीं शक्तिः । क्लीं कीलकम् होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि ॥

ऐं त्रिपुरादेव्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौः क्लीन्ने तन्नः शक्ति प्रचोदयात् ॥ ३ ॥

मूलेन होमः ॥ १०८ ॥

श्रां ऐं ठों सर्वज्ञता हृच्छक्त्यात्मने हृदयाय नमः स्वाहा ॥ श्रीं ह्रीं क्लीं ऐं २? नित्य
तृप्ताशक्त्यात्मने शिरसे स्वाहा ॥ श्रूं सौः ऐं ३? स्वतन्त्र शक्त्यात्मने शिखाअयै वौषट् स्वाहा ॥

श्रें एं १? स्वतन्त्रताशक्त्यात्मने कवचाय हूं स्वाहा ॥ श्रौं क्लीं २ नित्यमलुप्तशक्त्यात्मने नेत्रेभ्यो
वषट् स्वाहा ॥

श्रः सौः सकल ह्रीं अनन्तास्त्रतो शक्त्यात्मने अस्त्राय फट् स्वाहा । अन्यप्रकारेण मूल होमः ॥

कूटत्रयं परब्रह्मात्मके महाचक्रं वैन्दवे महात्रिपुरसुन्दरी अम्बापादुकाभ्यो नमः स्वाहा ॥

ऐं क्लीं सौः हृद ३? शिर ३? शिखा ३? कव ३? नेत्र । ३? अस्त्रा ॥

पूर्वलिखितत्रिपुरी त्रय वद्धोमः ॥ अथ पूर्णा ध्यानम् ॥

आरक्ताङ्गकुरङ्गनाभितिलकपूर्णेन्दु वच्छ्री मुखं मालाचण्पकमालती वलयितमर्धेन्दु मौलिं स्मरेत् ॥
मुक्ताहारविभूषितोन्नत कुचां रक्ताम्बरालङ्कृतां वन्दे सुन्दरीपादपद्मयुगलां माञ्जीरकोलाहलाम् ॥

प्. ५७)

त्र्यर्णात्र्यर्णनिविष्टमूर्त्तिरधिकामुद्रात्रयोद्भासिता या दत्तेङ्कुश पाशबाण निचयं चापं
चतुर्भिभुजैः ॥

देवीभिस्तिसृभिस्तथाष्टभिरथोदिग्दिङ्मनुख्याति भिर्वस्वष्टप्रमिताभिरष्टभिरथो जीयाज्जगन्मातृका


मूलान्ते वौषट् इति पूर्णा । ततस्तर्पणम् ॥

एवं जपं यथा शक्ति कृत्वादौ साधकोत्तमः ॥ होमं कुर्याद्दशांशेन ब्राह्मणो ब्रह्मवृक्षजैः ॥

स्वयम्भुकुसुमैर्वापि त्रिमध्वाक्तैर्यथा विधिः ॥ ततो भवति विद्येयं महाविघ्नौघ शान्तये ॥
सर्वकामप्रदा देवि भुक्तिमुक्तिफलप्रदा ॥

योनि कुण्डे भगाकरे वर्तुले वार्धचन्द्रके ॥ नवत्रिकोण चक्रे व चतुरस्रेष्टपत्त्रके ॥

योनिकुण्डे भवेद्वाग्मी भगोचाकृष्टिरुत्तमा ॥ वर्तुले तु भवेल्लक्ष्मीरर्धचन्द्रे त्रयं भवेत् ॥

नव त्रिकोज?कुण्डे तु खेचरत्वं प्रजायते ॥ चतुरस्रे भवेच्छान्तिर्लक्ष्मीः पुष्टिररोगता ॥

पद्माङ्के सर्वसम्पत्तिरचिरा देव जायते ॥ चक्राष्टकेन सुभगे समीहित फलं लभेत् ॥

मल्लिकामालती जाती पुष्पैराज्य मधुप्लुतैः ॥ हुतैर्भवति वागीशो मूकोपि परमेश्वरि ॥

तथा दधिमधुक्षीरमिश्रलाजा महेश्वरि ॥ हुत्वानराधते रोगैः कर्ममृत्युभयादिभिः ॥

अनेन मन्त्रहोमेन श्रीमहात्रिपुरसुन्दरी सेश्वरासपरिवारा साङ्गसासना सायुधा सानुचरा
श्रीमहात्रिपुरसुन्दरी परया सपर्यया पूजिता तृप्तास्तु ॥

अथ सरस्वती मन्त्राणां शुद्ध तिलहोमः ॥

पञ्चाशद्वर्णभेदैर्विहित वदनदोः पादयोः कुक्षिवक्षो देशां भास्वत्कपर्दा कलितशशिकलामिन्दु
कुन्दावदाताम् ॥

साक्षि स्रक्कुम्भचिन्तालिखिवरकरां त्रीक्षणां पद्मसंस्तामच्छाकल्पामतुच्छस्तन जघनभरां
भारतीं तां नमामि ॥

दोर्भिर्युक्तां चतुर्भिः स्फटिकमणि मयी मक्षमालां दधानां हस्ते नैकेन पद्मं सितमपि चषकं
पुस्तकं चापरेण ॥

यासा कुन्देन्दु शङ्खस्फटिकमणिनिभाभासमानासमन्तात्सामे वाग्देवतीयं निवस तु वदने सर्वदासु
प्रसन्ना ॥

अस्य श्रीमातृकां सरस्वती मन्त्रस्य ॥

भैरव ऋषिः । अनुष्टुप्छन्दः । श्रीमातृकासरस्वती देवता । ऐं बीजं । ह्रीं शक्तिः । ओं कीलकं
। होमे विनियोगः ॥

अग्नौ पुष्पं ॥ आवाहन पाद्यादि ॥

ह्रां इत्यादि न्यासः ॥ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं ऐं ह्रीं ओं सरस्वत्यै नमः स्वाहा ॥ १०८ ॥

पूर्णा मूलान्ते वौषट् ॥ अथवा ॥ अस्य श्रीमातृका सरस्वती मन्त्रस्य । ब्रह्मा ऋषिः । गायत्री
च्छन्दः । श्रीमातृका सरस्वती देवता । व्यञ्जनानि बीजानि स्वराः शक्तयः । ब्रह्मबीजं कीलकम् ॥
होमे विनियोगः ॥

करेण शुद्धतिल होमः ॥ आवाहन पाद्यादि ॥ ओं भुर्भुवस्स्वस्तत्सवितुः ॥ ३ ॥ ह्सौः अं आं इं ईं उं
ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं
ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं
हं क्षं ह्सौः सरस्वत्यै नमः स्वाहा ॥ १०८ ॥

प्. ५८)

अं कं ५ आं हृद । इं चं ५ ईं शिरसे । उं टं ५ ऊं शिखा । एं तं ५ ऐं कव । ओं पं ५ औं नेत्रे
। अं यं थुं? अः अस्त्राय फ ॥

अथ द्वितीया ॥

ह्स्वूं विद्याविद्येश्वर्यै नमः स्वाहा ॥ १०८ ॥ ओं र्क्ष्झ्रूं वाग्भवेश्वर्यै नमः स्वाहा ॥ १०८ ॥ ओं ह्रीं
वद २ वाग्वादिनि स्वाहा १०८ ॥

अथ वैखरी ।

ऐं क्लीं सौः वागीश्वरि वाक्प्रदे वैखर्यै नमः स्वाहा ॥ १०८ ॥

सर्वासां शुद्धतिलहोमः ॥

पूर्णाध्यानं ॥ वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरपूरप्रभां चन्द्रार्धाङ्कितमस्तकां
निजकरैः संविभ्रती सादरम् ॥

वीणामक्षगुणं स्वधाढ्यकलुशं विद्यां चतुङ्मस्तनीं दिव्यैराभरणैर्विभूषित तनुं
सहधिरूढां भजे ॥ दोर्भिर्युक्तां चतुर्भिः स्फटिकमणिमयीमक्षमालां दधानां हस्ते नैकेन
पद्मंसितमपि चषकं पुस्तकं चापरेण ॥

या सा कुन्देन्दु शङ्खस्फटिकमणि निभाभासमानासमन्त्रात्सामेवाग्देवतेयं निवसतु वदने
सर्वदासुप्रसन्ना ॥

मूलेन वौषट् इति पूर्णा । तर्पणं ॥

अनेन मन्त्रहोमेन दुरितरोराविषापमृत्यु बुद्धिजात्यदारिद्रादिदोषान स्पृशन्ति सप्तसुजन्मसु सरस्वती
सन्निहिता भवति सरस्वती सपरिवारा साङ्गा प्रीयन्तां प्रीतास्तु ॥

अथ भवानी ॥

कुन्देन्दु कोटिघनसार तुषारहारदीप्तं वराभयधनुः सरशूलहस्तम् ॥ पद्मासनं शशिकलाभरणं
चिदीशं वन्दे सदाशिवमहं शिवयाश्रिताङ्गम् ॥

अस्य श्री सदाशिवमन्त्रस्य ॥ ईश्वर ऋषिः । अनुष्टुप्छन्दः ॥

श्रीसदाशिवो देवता । हौं बीजं । ह्रीं शक्तिः । ओं कीलकम् ॥ होमे विनियोगः ॥

अग्नौ पुष्पं । आवाहन पाद्यादि । ह्रीं इत्यादि न्यासः ॥ ओं ह्रीं हौं सदाशिवाय नमः ॥ १०८ ॥

निवृत्तिः क्ष्मा पृष्ठे सकलजनयित्री पयसि च प्रतिष्ठा विद्याग्नौ मनसि च कलाशान्तिरमला ॥
अतीताग्रासान्तिर्नभसि च कलाः पञ्चकिलयाः प्रसिद्धास्तासामप्युपरिगत मेढ्र्ये परशिवम् ॥ मूलान्ते
वौषट् इति पूर्णा । तर्पणं ॥ निरोधार्घः ॥ अथ भवान्याः ॥

अर्धेन्दु मौलिममला ममराभिवन्द्यामम्बोजपाशसृणि रक्तकपालहस्ताम् ॥ रक्ताङ्गरागरशनाभरणां
त्रिनेत्रां ध्यायेच्छिवस्य वनितां सद विह्वलाङ्गीम् ॥

उद्यदिन्दुवदनां चतुर्भुजां रक्तनेत्र कमलां शुचिस्मिताम् ॥

खड्गाशक्तिवरदाभयाङ्कितां प्रेतगां हृदि भजामि भवानीम् ॥ अस्य श्रीभवानी मन्त्रस्य । सदाशिव
ऋषिः । अनुष्टुप्छन्दः ॥ श्रीभवानि देवता । श्रीं बीजं । ह्रीं शक्तिः । हूं कीलकम् ॥ होमे
विनियोगः ।

अग्नौ पुष्पं । आवाहन पाद्यादि ।

श्रां ह्रां इत्यादि न्यास ॥ हस्तेन शुद्धतिलहोमः । दुर्गायै विद्महे कार्त्यायन्यै धीमहि तन्नो भवानि
प्रचोदयात् ॥ ३ ॥

ओं श्रीं श्रीं ओं ओं ह्रीं श्रीं श्रीं भवानि हूं फट् स्वाहा ॥ १०८ ॥ ओं ह्रीं फ्रें श्रीं
चण्डयोगीश्वरी भरभवानि सर्वकामवरप्रदे सर्वसौभाग्यदायिनि ह्रीं नमः स्वाहा ॥ १०८ ॥

ततः पूर्णा ॥ बालार्कमण्डलाभासं चतुर्बाहुं त्रिलोचनाम् ॥

प्. ५९)

पाशाङ्कुशौ शरंचापं धारयन्तीं शिवांभजे ॥

मूलेन वौषट् इति पूर्णा ॥ ततस्तर्पणम् ॥ अनेन मन्त्र होमेन । निरोधार्घः ॥

अथ कुब्जिका ॥

या सा पञ्चफणात्रिकोण शिखरादुत्थाय मे भूदरात्पञ्चाकाश दशश्वरावरवणा वेगेन वागीश्वरी


नित्याश्रीकुलनायिका विदलीनी त्युक्ताक्षरैः पञ्चभिः सा पञ्चप्रणवोम्बिताखिल कुला श्रीकुब्जिका
पातुनः ॥ अग्नौ पुष्पं ।

आवाहन पाद्यादि । स्वात्म न्यासः ॥ गायत्री ॥

ऐं मित्त्रनाथायै विद्महे श्रीकण्ठाय धीमहि तन्नः सिद्धिः प्रचोदयात् ॥ ३ ॥

त्रिमधुरा सहित तिल होमः ॥

कुट्मलकैमिश्रैस्त्रिमध्वाक्तैस्तिलैर्हुतैः ॥ स्वभगत्वमवाप्नोति रूपहीनोपि यो नरः ॥
त्रिमधुक्षिरशर्कराघृतम् ॥) *************************

तथा चोक्तं प्रयोगसारे ॥ पयोमधुघृतं चेति समंत्रिमधुरं स्मृतम् ॥ अथवा त्रिमधुरं घृतं
मधुशर्करा ॥ ततो मूलं ॥

ऐं ह्रीं श्रीं । ख्फ्रें ह्स्यूं भगवति अम्बे ह्स्ख्फ्रें स्ह्ख्फ्रें श्रीकुब्जिके ह्स्रां ह्स्रीं ह्स्रूं ङ ञ
ण नमे अघोरमुखे छां छीं किणि किणि विच्छे ह्स्व्लूं ख्छ्रें श्रीं ह्रीं ऐं । ३२ स्वाहा ॥

ऐं ह्रीं श्रीं ख्छ्रें ह्म्वूं भगवति अम्बे हृदयाय नमः स्वाहा ह्स्ख्फ्रें श्रीं कुब्जिके शिरसे ।
ह्स्रां ह्स्रीं ह्स्रूं ङ ञ ण नमे शिखायै वौषट् स्वाहा ॥ अघोरमुखे कवचाय हूं स्वाहा ॥

छां छीं नेत्रेभ्यो वषट् स्वाहा । किणि किणि विच्चे अस्त्राय फट् स्वाहा ॥

अथ पूर्णा ध्यानम् ॥

शरं धनु पुस्तकमक्षसूत्रं वराभये शङ्खमथोत्पलं च ॥ खट्वाङ्ग युक्तं च कपाल मध्यात्सा
कुबिजिकाम्बो जगता वहन्ती ॥

तर्पणम् ॥

प्. ५९ब्)

ऐं परप्रकाशमानन्दमोवल्लित्रयबृंहिताम् ॥ षट्प्रकारं महास्फारं वन्दे तत्वं कुलेश्वरम् ॥

पञ्चाभ्यां नवभिर्व्याप्तं परानन्दाक्षरोज्ज्वलम् ॥ तज्जातीत कुलाधारं वन्दे तं गुरुमण्डलम् ॥

या सा परापरा विद्या निःस्वरूपात्मिका शुभा ॥ अहं सा रुद्रशक्तिर्वै द्वाविशाक्षरिका भवेत् ॥

सा परा सा भवेत् सूक्ष्मा सा रौद्रीत्व प्रकाशिका ॥ यस्याः स्मरणमात्रेण कम्पते देह पञ्जरम् ॥

न चास्य सदृशी विद्या न चास्याः सदृशं कुलम् ॥ न चास्याः सदृशी माया न चास्याः सदृशः कुलः


दध्नः सारं यथा सर्पिर्नक्षत्त्राणां यथा शशी ॥ नागानां तक्षको यद्वत् तथासौ खेचरः
प्रभुः ॥

मन्त्रः पञ्चाक्षरः प्रोक्तो विद्याद्वाविंशचक्षरा ॥ देवस्तु सप्तपिण्डाक्षो नव वा गुरुरुच्यते ॥

देवो मनुरथो विद्या यत्र तदखण्डमण्डलाकारम् ॥ श्रीधरसधाम तदहं गुरुभिः प्रोद्भासितं वन्दे


अनेन मन्त्र होमेन श्रीकुब्जिका पश्चिमाम्नाय देवता साङ्गा सपरिवारा सवक्त्रा प्रीयन्तां प्रीतास्तु ॥

अथ प्रत्यङ्गिरा चतुष्टयम् ॥ तत्रादौ सिद्धलक्ष्मी ॥

देवीं शुद्धस्फटिकधवलां पञ्चवक्त्रां त्रिनेत्रां दोर्भिर्युक्तां दशभिरभितः शोभितां
रत्नहारैः ॥ काद्यं खड्गां सृणि मम सृणं शूलमच्छाच्छधारं सारात्सारं वरमनवरं
दक्षहस्तैर्वहन्तीम् ॥ उत्खट्वाङ्गं कठिन विकटं टङ्कमूर्ज स्वटङ्कं पाशं
ज्ञानामृतरसमयं पुस्तकं चाभयं च ॥

प्. ६०)

कामं वामैः शुभकरतलैर्विभ्रतीं विम्बवन्द्यां पद्मप्रेतोपरि कृतपदां सिद्धलक्ष्मीं नमामि ॥

अस्य श्री सिद्धलक्ष्मी मन्त्रस्य । ब्रह्मा ऋषिः । गायत्री च्छन्दः श्रीसिद्धलक्ष्मी देवता । ह्रीं बीजं
। हूं शक्तिः ॥ क्रीं कीलकम् ॥

होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहन पाद्यादि ॥

स्वात्माङ्गवक्त्रन्यासः ॥ ततो गायत्री ॥ श्रूवेणाज्य गुग्गुल होमः ॥ आ २१ वा ७ वा ३ ॥ ओं नमः
सर्वसिद्धियोगिनीभ्यो नमः । सर्वसिद्धिमातृभ्यो नमो नित्योदितानन्द नन्दितायै सकल चक्र कुलनायिकायै
भगवत्यै चण्डकापालिन्यै तद्यथा ओं ह्रीं हूं हां फें क्षों क्रों नमः ओं परमहंसिनि निर्वाण
मार्गदे विषमोपप्लवप्रशमनि सकलदुरितारिष्ट क्लेशदलनि सर्वापदम्भोधितरणि सकलशत्रू प्रमथनि
देवि आगच्छ २ हस २ वल्ल २ नररुधिरान्त्रवसाभक्षिणिममस्वशत्रून्मन्द २ खाहि २ त्रिशूलेन भिन्दि २
च्छिन्दि २ खड्गाने ताडय २ च्छेदय २ तावद्यावन् मम सकल मनोरथान्साधय २ परमकारुणिके भगवति
महाभैरवरूपधारिणि त्रिदशवरनमिते सकलमन्त्रमातः प्रणतजनवत्सले देवि महाकालिकालनाशिनि हुं
३ प्रसीद मदनातुरां कुरु २ सुरासुरकन्यकां ह्रीं श्रीं हां हूं फट् ३ स्वाहा १ ॥

आ २० परमहंसिनि हृदयाय नमः स्वाहा निर्वाणमार्गदे शिरसे । विषमोपप्लवप्रशमनि शिखा ।
सकलदुरितारिष्ट क्लेशदलनि । कव । सर्वापदम्भोधि तरणि नेत्रे । सकलशत्रू प्रमथिनि अस्त्राय फट्
स्वाहा ॥ २९० ॥

अथ मन्त्रमातृका ॥

काकालिकोकिलादीनां तुल्य कान्ति निभोपमाम् ॥ चतुर्भजामेक वक्त्रां नेत्रत्रितयभास्वराम् ॥

प्. ६०ब्)

श्वेत प्रेतासमारूढां काद्यखट्वाङ्गधारिणीम् ॥ पाशमुद्गरहस्तां च वसारुधिरलम्पटाम् ॥

महोदग्रां महाभीमां नवत्यर्णां कृशोदरीम् ॥ सर्वयन्त्रप्रमथिनीं नौम्यहं मन्त्रमातृकाम् ॥ आ ३


अग्नौ पुष्पमावाहनपाद्यादि ॥ अथ मूलम् ॥

ओं ह्रीं ज्जां हुं ह्रें महामायामये शोणितान्त्रपिशिताशिनि महाप्रेतसमारूढे
खट्वाङ्गकपालपाशमुद्गरहस्ते सर्वयन्त्राणि भञ्ज २ भञ्जमथ २ चूर्णय २ कत्फ २ स्फोटय २
योस्मान्द्वेष्टियं च वयं द्विष्मस्तस्य वधाय फट् ३ स्वाहा ॥ इति मूलम् ॥

अथ मन्त्रडामरिका ॥ तृतीया ॥

गजचर्मतुम्बबीणौ त्रिशूलटङ्कोध्वजं च गृद्ध्रस्य ॥ नरमुण्ड हृत्सरोजे च्छुरिकाखड्गौ
कपालखट्वाङ्गौ ॥

द्वाभ्यां द्वाभ्यां दधतीं पाणिभ्यां कोकिलालिकुलमालाम् ॥ खरसूकरमुखरूपस्तन गतपाणि
द्वयामथ द्वाभ्याम् ॥

दधती मन्त्र त्रोटनं मध्यासितस्वसित महाप्रेतम् ॥ अष्टादशबाहुलतां कृशमूर्तिं विकृत
दंष्ट्रोग्राम् ॥

फणिभूषिणां प्रदीप्तां प्रणौम्यहं मन्त्रडामरिकाम् ॥

अग्नौ पुष्पं । आवाहन पाद्यादि ॥

ओं फः फः हा हा ख २ ख २ खा हि २ सर्वमन्त्रान्ग्रस २ परकृत्याखर्खोदवश्या कर्षण
विद्वेषमारणोच्चाटनादिकान्नाशय २ ह्रीं फ्रें फ्रें फुः फुः फुः फट् फुः फट् नमः स्वाहा ॥ आ
३ ॥

अथ सप्तकोटीश्वरी ॥

प्. ६१)

अस्या अव्यक्तं ध्यानं ॥ कुत्रापि दृष्टमाह ॥

एकाटङ्काङ्कमुद्रा कवलननिरतासप्तमुण्डासनस्था प्रोद्भोताधार चक्रात्प्रलयशिखि शिखा सप्तधा
प्रस्फुरन्ती ॥ नाचात्यन्तान्तराले ध्वनि निधन महाव्योमवागीश्वरी या सा देवी घोरचण्डा पहरतु
दूरितं सप्तकोटीश्वरी नः ॥

अग्नौ पुष्पं ॥ आवाहन पाद्यादि ॥ ततो गायत्री ॥

ओं नीरूपायै विद्महे शक्त्यातीतायै धीमहि तन्नो देवी प्रचोदयात् ३ ॥

अथ मूलं ॥

ओं कः सः चण्डिनि सः कः सप्तकोटीश्वरी अम्बापादुकाभ्यो नमः स्वाहा ॥ आ ७ ॥ आहुतयो यथा शक्ति
॥ अथ पूर्णा ध्यानं ॥

खट्वाङ्गकाद्यवरदाभयशूलटङ्क पाशाङ्कुशासिवरपुस्तकहस्तपद्माम् ॥ पञ्चाननां दशभुजां
गिरिशाधिरूढां तां ध्यायतोस्ति भुविकस्यनरस्य भीतिः ॥ अथ तर्पणम् ॥

ओं परमेशस्वधासूतिकलालङ्कृतशेखर ॥ नीलकण्ठवृषारूढ गङ्गाधर महेश्वर ॥

वद प्रत्यङ्गिरां देवीं त्रैलोक्य भयनाशिनीम् । यन्त्रमन्त्राभिचाराणि या नाशयति लीलया ॥

शान्तिपुष्टिकरी शुद्धा ग्रहापद्मारभक्षिणी ॥ भूत वेतालशमनी कृत्या खर्खोदनाशिनी ॥

सर्वसाधारणी घोरा सर्वोपप्लवनाशिनी ॥ सर्वसम्पत्प्रदाश्रेष्ठा सर्वसम्पत्प्रदायिका ॥

अस्यां विज्ञातमात्रायां विभूति संप्रवर्तते ॥ अस्याः घोरतरानान्या विद्यते भुवनोदरे ॥

तामाख्या हि महादेव प्रसादाद्विश्वनायक ॥

ईश्वर उवाच ॥

प्. ६१ब्)

उद्वृत्ता परमा विद्या सुखसौभाग्य मोक्षदा ॥ शतद्वयं च वर्णानां नवत्यधिकमुद्धृतम् ॥

एषा विद्या महाविद्या नाम्नात्रैलोक्य मोहिनी ॥ लक्ष्मीश्वरीति विख्याता बु?हुभोगभरावहा ॥

महालक्ष्मी महाकान्ता सर्वसौभाग्यदा स्मृता ॥ अस्मिन् स्रोतसि देवेशि नानया सदृशी परा ॥

अलक्ष्मी शमनी ज्ञेया दुष्टदारिद्र्यमर्दिनी ॥ कलिदुस्स्वप्न शमनी जात्योपद्रवनाशिनी ॥

राजोपसर्गशमनी दुष्टदस्यु विनाशिनी ॥ सदारण्य भये घोरे सिंहव्याघ्रा सङ्कटे ॥

विषमे गहने वह्नौ भूतापस्मारजे भये ॥ स्मरणी या सदा गौरी कृत्या सङ्क्रमने भये ॥

सकृत् स्मृता दहत्येषा पापौघं तृणराशिवत् ॥ हत्वाजगदिदं सर्वं ब्रह्मविद्भिः प्रपूरितम् ॥

गुरुहा पितृहा देवी मातृहा भ्रूणहा तथा ॥ लोङ्गोत्पाटादि पापेभ्यः सकृत्पापात्प्रमुच्यते ॥

पापै महापातकैश्च तथा चैवोपपातकैः ॥ तथा पातकराजैश्च सकृन्मोचयते स्मृता ॥

लक्ष्मी युक्तो भवेश्श्रीमान्सदामत्तराजेन्द्रवात् ॥ सकृदा वृत्य विद्येशीं देवि सर्वोत्तमोत्तमाम् ॥

सप्तसागर पर्यन्तं तीर्थस्नानं कृतं भवेत् ॥ त्रिरावृत्य सुरेशानि दिव्यभूम्यन्तरिक्षजैः ॥

तीर्थैस्नातो भवेद् देवि नात्रकार्या विचारणा ॥ सप्ता वर्तात्सुरेशानि दीक्षितः सर्वमण्डले ॥

दशावर्तेन सुभगे सुत्रको भवते सदा ॥ सप्तविंशति जापेन जायते मातृमण्डले ॥

प्. ६२)

साधको वीरराजेशो यथा भैरव नायकः । शताष्टोत्तर जापेन भवेद्भैरववत्स्वयम् ॥

तन्नास्तियत्न कुरुते नास्ति तद्यत्न साधयेत् ॥ निभाडाशनि पत्त्रांणि नाशयेल्लीलया सदा ॥

त्रिसन्ध्यवर्तनाद्देवि सप्ताहान्नात्रसंशयः ॥ बन्धान्मुच्यते जन्तुर्यदिकालेन भाषितः ॥

धनधान्यान्तराभुमीस्साधकस्य यदा भवेत् ॥ यथा नारायणो देवो लक्ष्मीकान्तः सदा स्थितः ॥

तथा साधकराजश्च स्मरणान्नित्यमेव हि ॥ अनेन मन्त्र होमेन सिद्धलक्ष्मी प्रीतास्तु ॥

अथ मन्त्रमातृकातर्पणम् ॥

अस्याः काल्या महेशानि सप्त सप्तति कोटयः ॥ मन्त्राणां देहजा सर्वास्तेनेयं मन्त्रमातृका ॥

अनेन मन्त्रहोमेन मन्त्रमातृका प्रीतास्तु ॥ उच्चाटनादि कादीनि मन्त्राण्यन्ये कृतान्यपि ॥

निहन्ति स्मृतमात्रैव मन्त्रडामरिका ततः ॥ अनेन मन्त्रहोमेन मन्त्र डामरिका प्रीतास्तु ॥

अथातः संप्रवक्ष्यामि कुहकानां विनाशिनीम् ॥ यस्याः पूजनमात्रेण सर्वदुःखाद्विमुच्यते ॥

पूजयन्यां जनो याति एकान्ते सुरवेश्मनि ॥ सर्वभौगास्पदत्वं हि सुरेन्द्राणां तथास्पदम् ॥

यद्यत्कामयते किञ्चित्तत्तदाप्नोत्यसंशयम् ॥ न सद्वेष्यो भवेल्लोके नारीनामपि वल्लभः ॥

न तं रोघाजिघां सन्ति दुर्भिक्षाद्या न वा परे ॥ यः स्मरेत् सर्वदा देवीं सप्तकोटीश्वरीं पराम् ॥

प्. ६२ब्)

सप्ताक्षरां महाघोरां चण्डकालीं महाबलाम् ॥ सप्तमुण्डासनरतां तत्सङ्ख्या भुवनाध्वगाम् ॥

काव्यं दैवज्ञतां चैव महाव्याकरणानि च ॥ देवी पूजन मात्रेण लभते नात्र संशयः ॥

यत्किञ्चिद्भुवने वस्तु विद्यतेर्घ्यं सुरेश्वरि ॥ तश्चेत्कामयते साक्षाल्लभते नात्र संशयः ॥

अनेन मन्त्र होमेन सप्तकोटीश्वरी प्रीयन्तां प्रीतास्तु ॥

एवं प्रत्यङ्गिराः सपरिवारास्सङ्गास्सवक्त्रास्सशिवाः प्रीयन्तां प्रीता सन्तु ॥

अथ चण्डिका ॥

चण्डीशूलकपालखड्गच्छुरिका खट्वाङ्गमुण्डाङ्कितैरावैर्भूषित वामदक्षिण करा
वर्णैर्नवैर्भास्वरा ॥ कल्पान्ताग्नि समप्रभैक वदना प्रेतोपरिस्थायिनी देवी दूतिभिरावृता भगवती
कुर्यात्स्वधाम्नि स्थितिम् ॥

अग्नौ पुष्पं ॥ आवाहनादि ॥ यमान्तकायै विद्महे कालरात्र्यै धीमहि तन्नश्चण्डी प्रचोदयात् ॥ ३ ॥

ओं ह्रीं चण्डी कापालिन्यै स्वाहा ॥ १०८ ॥ महालक्ष्मी अम्बा पादुकाभ्यो नमस्स्वाहा ॥ १०८ ॥

ह्रीं हृ । चण्डि शिर । कापालिन्यै शिखा । मालिनि कव । स्वा नेत्रे । हा अस्त्राय ॥ द्राक्षाऽज्य होमः ॥

अथ पूर्वाषाये मालिनी मन्त्रपूजनम् ॥

आत्मेन्दुधामनि युगेश नरेश पुत्र चित्त्रां त्रिशूलविलधाम निसृष्ट शक्तिम् ॥ नैसर्गिकेथ चितिधामनि
पुण्डरीकां कां चित्परां त्रिकपुरां प्रणमामि शक्तिम् ॥ अग्नौ पुष्पं । आवाहनादि ॥ ततो मूलम् ॥

प्. ६३)

ओं ह्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं
छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं
लं वं शं षं सं हं क्षं ह्रीं मातृकायै नमः ॥

ओं न ऋ ॠ ऌ ॡ थ च धं रं ण उ ऊ ब क ख ग घ ङ इ अव भय दु ढ ठ झ ञ ज र ट प कल
आस आः हष क्षम श अं उ ए ऐ ओ औ द फ ह्री मालिन्यै नमः स्वाहा ॥

इति मालिनी मूलमन्त्रः ॥

अथ लक्ष्म्याः ॥

शिञ्जन्मञ्जीरसंशोभिपादाम्भोज विराजिताम् ॥ नवरत्न गणाकीर्ण काञ्चीधामविभूषिताम् ॥

मुक्तामाणिक्य वैडूर्य संबद्धोदरबन्धनाम् ॥

विभ्राजमानां मध्येन बलित्रितय शोभिना ॥ जाह्नवी सरिदावर्त शोभिनाभि विभूषिताम् ॥

पटीरपङ्ककर्पूर कुङ्कुमालङ्कृतस्तनीम् ॥ वारिवाह विनिर्मुक्त मुक्ताहारगरीयसीम् ॥

बिभ्रतीमुत्तमासङ्गं दुगूलपरिकल्पितम् ॥ तप्तकाञ्चन सन्नद्ध वैडूर्याङ्गदभूषणाम् ॥

पद्मराग स्फुरत्स्वर्ण कङ्कणाढ्य कराम्बुजाम् ॥ माणिक्य शकलां बद्ध मुद्रिकाभिरलङ्कृताम् ॥

तप्त हाटकसङ्ख्या?प्तमालाग्रैवेय शोभिताम् ॥ विचित्रविविधाकल्पकम्बु सङ्काशकन्धराम् ॥

उद्यद्दिनकराकारमणिताटङ्कमण्डिताम् ॥ रत्नाङ्कित लसत् स्वर्ण कर्णपूरोपशोभिताम् ॥

जपाविद्रूमलांवण्य ललिताधर पल्लवाम् ॥ दाडिमी फलबीजाभ दन्तपङ्क्तिविभूषिताम् ॥

प्. ६३ब्)

कलङ्काकार्ष्य निर्मुक्त शरश्चन्द्रनिभाननाम् । भ्रूलताजीत कन्दर्प करकार्मुक विभ्रमाम् ॥

विकसत्तिलपुष्प श्रीविजयोद्द्योतनासिकाम् ॥ ललाटकान्ति विभवविजिता वसुधाकराम् ॥

सार्स्रसौरभसम्पन्न कस्तूरीतिलकाङ्किताम् ॥ मत्तालिमाला विलसदलकाढ्य मुखाम्बुजाम् ॥

पारिजात प्रसून श्रीवहद्धस्मिल्लबन्धनाम् ॥ अनर्घरत्न घटित मुकुटाङ्कितमस्तकाम् ॥

सर्वलावण्य वसतिं भवनं विभ्रमश्रियाः ॥ तेजसां जन्मभूषितां महालक्ष्मीं मनोहराम् ॥

एवं सञ्चिन्तयेद् देवीं हविष्याशी जितीद्द्रियः ॥ उद्यद्भास्कर सन्निभां स्मितमुखीं रक्ताम्बरा
लेपनां ॥

सत्कुम्भेष्वनुभाजनं सृणिमथोपासं करैर्विभ्रती ॥

पद्मस्था कमले क्षणादृढ कुचासौ दर्यवारां निधिर्व्यातव्या सकालाभिलाष फलदा
श्रीज्येष्टलक्ष्मीरियम् ॥

अस्य श्रीमहालक्ष्मी मन्त्रस्य श्यवन-ऋषिः । अनुष्टुप्छन्दः । श्रीमहालक्ष्मीर्देवता ॥ श्रीं बीजं ।
ह्रीं शक्तिः ॥ ओं कीलकम् ॥ होमे विनियोगः । अग्नौ पुष्पं । आवाहन पाद्यादि ॥

ओं ह्रीं श्रीं लक्ष्मिमहालक्ष्मी सर्वकामप्रदे सर्वसौभाग्य दायिनि अभिमतं प्रयच्छ २ सर्वे सर्वगते
अरूपे सर्वदुःख विमोहनि ह्रीं सः स्वाहा ॥ १०८ ॥

ओं ह्रीं श्रीं लक्ष्मि महालक्ष्मी हृदयाय नमः स्वाहा । ओं सर्वकामप्रदे सर्वसौभाग्य दायिनी शिरसे
स्वाहा ॥

प्. ६४)

ओं अभिमतं प्रयच्छ २ शिखायै वौषट् स्वाहा ॥ ओं सर्वे सर्वगते अरूपे कवचाय हूं स्वाहा ॥ ओं
सर्वदुःख विमोहनि नेत्राभ्यां वषट् स्वाहा ॥ ओं ह्रीं सः स्वाहा अस्त्राय फट् स्वाहा ॥ ओं ह्रीं
श्रीं क्लीं ऐं सौः महालक्ष्मी प्रसीद २ श्रीं ठः ठः स्वाहा ॥ १०८ ॥

श्रीं ओं ह्रीं श्रीं क्लीं ऐं सौः महालक्ष्मि प्रसीद २ श्रीं ठः ठः ठः स्वाहा ॥ १०८ ॥

अथ वित्तलक्ष्मी ॥

रक्ताननां राजकपालकरां त्रिनेत्रां लीलापरां भगवतीं करिराजगम्याम् ॥ ब्रह्मेन्द्र रुद्रनमितां
सुरसिद्ध सेव्यां लक्ष्मीं नमामि सततं परयापि भक्त्या ॥

ओं हूं सर्वेषां हस्तान्मम धनं देहि हूं वित्तलक्ष्मि नमः ॥ १०८ ॥

ततो लक्ष्मी ॥

लक्ष्मी पद्मासनगतकटिं सूर्यशीतांस्त नेत्रामुद्यद्भास्वत्कर च य रुचिं शङ्खपद्मासि पाणिम् ॥

नानामुक्तामणि स्वकशकला भूषिताङ्गीं द्विबाहुं नित्यं लोकत्रय फलदां नौम्यहं भक्ति पूर्वम् ॥
ओं ह्रीं श्रीं कमलवासिन्यै श्रीयै स्वाहा ॥ १०८ ॥

अथ राज्यलक्ष्मीः ॥

श्री पद्मकर्णिकासीनां पद्मपत्त्रायते क्षणाम् ॥ प्रफुल्तपद्मवदनां चन्द्रभास्करलोचनाम् ॥

अनर्घमणि मालाभिर्विराजित कुच द्वयम् ॥ नाना लङ्कारशौभाढ्यामष्टबाहु लताञ्चिताम् ॥

सङ्खचक्रगदापद्मखड्गकुन्तवरायुधान् ॥ दधतीं मूलविद्यार्णविभूषितवपुर्लताम् ॥

लक्ष्मीं नारायणाङ्कस्थां विमोहित जगत्त्रियीम् ॥ सर्वसौभाग्य सम्पन्नामैश्वर्य पददायिनीम् ॥

राज्यलक्ष्मीं महाविद्यां चिन्तयेत् कुलदेवताम् ॥ अस्य श्रीराज्यलक्ष्मी मन्त्रस्य शिव ऋषिः
त्रिष्टुप्छन्दः ॥ श्रीराज्यलक्ष्मी देवता ॥ श्रीं बीजं । सौः शक्तिः । ऐं कीलकम् । होमे विनियोगः
॥ अग्नौ पुष्पं ॥ आवाहन पाद्यादि ॥ ह्रां श्रां इत्यादि न्यासः ॥

ओं श्रीं श्रीं ह्रीं श्रीं ऐं क्लीं सौः राज्यलक्ष्मी अभिमतं प्रयच्छ स्वाहा ॥ १०८ ॥

ततः सर्वासां पूर्णा ॥

करयुगल गृहीतं पूर्णकुम्भं दधानां क्वचिदमलगजस्तां शङ्खचक्राब्ज पाणिम् ॥ क्वचिदपि
दयिताङ्गं चामरैर्व्यग्रहस्तां क्वचिदपि सृणि पाशौ विभ्रतीं नौमि लक्ष्मीम् ॥ मूलान्ते वौषट् इति
पूर्णा ॥ ततस्तर्पणम् ॥ अनेन मन्त्र होमेन ॥ नोरोधार्घः ॥

अथ भाग्याधिरोहिणी ॥

पाशाङ्कुशौ हृदयमार्तमाहाकपालं त्र्यक्षा चतुर्भुजधरा परिपालयन्ती ॥ पद्मासना निहितपादयुगा
महेशी भाग्याधिरोहण कृताभिधगावतान्नः ॥ अग्नौ पुष्पं । आवाहनादि ॥

श्रीं ह्रीं ह्रीं शोभावति भाग्यभूते हूं फट् स्वाहा ॥ व १४ ॥ मूलेन पूर्णा । तर्पणं ॥

अस्यास्तु स्मरणाद्देवि सर्वदुष्कृतकृन्नरः ॥ अपिदासकुले जातो राज्यं दत्तेन संशयः ॥

प्. ६५)

अनेन मन्त्रहोमेन ॥ निरोधार्घः ॥ अथ भगमालिनी ॥

पाशाङ्कुशाक्ष गुण पुस्तकशस्त्रहस्ताप्युच्छावप?न्त्य निशमद्भुतवीर्य शक्तिम् ॥ त्र्यक्षीं
शशाङ्करुचिराश्रित वामकोणा देव्याच्छ्रियं भगवती भगमालिनी मे ॥ अग्नौ पुष्पं । आवाहन पाद्यादि


ह्स्र्ल्ह्रीं पूर्णगिरिगह्वरे भगमालिन्यम्बा पादुकाभ्यो नम स्वाहा ॥ ह्स्र्ल्ह्रीं ह्य । पूर्णगिरिगह्वरे शिरसे
। भगमालिनी शिखा अम्बा कव । पादु नेत्रे । केभ्यस्स्वाहा अस्त्रा ॥ मूलेन पूर्णा । तर्पणं ।
निरोधार्घः ॥ अथ तारा ॥

बालार्कमण्डलाभासं खड्गेन्दीवरधारिणीम् ॥ त्रिनेत्रं चन्द्रमुकुटं सद्योजातं शिवं भजे ॥

अस्य श्रीसद्योजातमन्त्रस्य । महेश्वर ऋषिः । अनुष्टुप्छन्दः । श्रीतारेश्वरो सद्योजातो देवता । ह्सौ
बीजं । ह्रीं शक्तिः । ओं कीलकम् । होमे विनियोगः ॥

ह्सौ इत्यादि न्यासः ॥

ओं ह्रीं ह्सौः ह्रीं सद्योजाताय नमः स्वाहा ॥ १०८ ॥

मूलेन पूर्णादि ॥

देवीं पन्नगभूषिणां हिमरुचिंशीतांशु शङ्खा प्रभां मुक्तारत्न परीतकण्ठवलयां
रक्ताम्बरं विभ्रतीम् ॥ शूलाब्जासि गदाधरां सुरगणैर्वैकुण्ठ मुख्यैस्तु तां नित्यं
लोकत्रयैकरक्षण परां तारां त्रिनेत्रां भजे ॥ अस्य श्री ताराभगवती मन्त्रस्य । अक्षोभ्य ऋषिः ।
बृहतीच्छन्दः ॥ श्रीमदेकजटा देवता । हूं बीजं । फट् शक्तिः । स्त्री कीलकं । होमे विनियोगः ॥

प्. ६५ब्)

ओं ह्रीं स्त्रीं क्रीं हूं उग्रतारे सौः क्लीं ह्रीं श्रीं स्वाहा ॥ १०८ ॥

पूर्णा । उत्तानशववक्षःस्थां चतुर्बाहुं त्रिलोचनम् ॥ घोराट्टहासमुखरां हुङ्कारोग्रमुखाम्बुजाम्


खड्गानीलोत्पलकुन्तान्धारयन्तीं खर्परम् ॥ खर्वाकारां श्याममुखीं पिङ्गलैकजजातजाम् ॥

उग्रनागैः परिवृतामुग्रतारां नमाम्यहम् ॥ मूलान्ते वौषट् इति पूर्णा ॥

अनेन मन्त्र होमेनेत्यादि तर्पणम् ॥ निरोधार्घः ॥ अथ भुवनेश्वरी ॥

उद्यद्भानु सहस्रसन्निभमुखीं पीनस्तनीं पद्मगां दोर्भिरङ्कुशपाशपुस्तक जयान् सविभ्रतीं सादरम्


ब्रह्माविष्णु महेश्वरीन्द्रमुनिभिर्नित्यं स्तुतां वन्दनैः स्त्रोत्राद्यां भुवनेश्वरीं त्रिनयनां
हृत्पङ्कजेहं भजे ॥ अस्य श्रीभुवनीश्वरी मन्त्रस्य । शक्तृ ऋषिः । गायत्रीच्छन्दः ।
श्रीभुवनेश्वरी देवता ॥ ह्रीं बीजं । श्रीं शक्तिः । क्लीं कीलकम् ॥ होमे विनियोगः । अग्नौ पुष्पं ।
आवाहनादि ॥

ओं ह्रीं भुवनेश्वर्यै नमः स्वाहा ॥ १०८ ॥ ओं ह्रीं श्रीं क्लीं भुवनेश्वर्यै नमः स्वाहा ॥ १०८ ॥

ह्रां ह्य । ततः पूर्णा । उद्यद्दिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्र युक्ताम् ॥ स्मेरमुखीं
वरदाङ्कुशपाशाभीति करां स्मरे भुवनेशीम् ॥ मूलान्ते वौषट् इति पूर्णा अनेनेति तर्पणं
निरोधार्घः ॥

प्. ६६)

अथ मातङ्गी ॥

माणिक्याभरणान्वितां स्मितमुखीं नीलोत्पलाभास्वरां रम्यालक्तकलिप्तपादकमलां नेत्रत्रयोल्लासिनीम्
॥ वीणावादनतत्परां सुरनुतां वीरच्छदश्यामलां मातङ्गीं शशीशेखरामनुभजे
ताम्बुलपूर्णाननाम् ॥

चन्द्रार्धाङ्कितशेखरां त्रिनयनां कोटीन्दुसूर्यप्रभां ॥ नानारत्नसहस्रबद्धरशनां प्रेतासने
संस्थिताम् ॥

शङ्खं तोमरपट्टिसाब्ज युगलां दोर्भिर्वहन्तीं सदाध्याये हं हृदये सदा भगवतीं मातङ्गिनीं
हारिणीम् ॥

अस्य श्री उच्छिष्टमातङ्गी मन्त्रस्य । मतङ्ग ऋषिः । अनुष्टुप्छन्दः । श्री उच्छिष्टमातङ्गीसुमुखी
देवता ।

ऐं बीजं ह्रीं शक्तिः । क्लीं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि ॥

ऐं क्लीं उच्छिष्टचण्डालिनि सुमुखी देवि महापिशाचिनि ह्रीं ठः ठः ठः स्वाहा ॥ १०८ ॥

ओं क्रीं श्रीं प्रीं प्रीं च्छ्रिं उच्छिष्ट चण्डालिनि मातङ्गि देवि क्रीं ठः ह्रीं ठः ऐं ठः
स्वाहा ॥ १०८ ॥

देवीं षोडश वार्षिकीं शवगतां मध्वीरसाघूर्णितां श्यामाङ्गी मरुणाम्बगं पृथ्वकुचां
गुञ्जावली शोभिताम् ॥

हस्ताभ्यां दधतीं कपाल समलं तीक्ष्णां तथा कर्तृकां ध्याये मानसपङ्कजे
भगवतीमुच्छिष्टचण्डालिनीम् ॥

मूलान्ते वौषट् इति पूर्णा । अनेनेति तर्पणम् ॥ निरोधार्घः ॥ अथभीडा ॥

प्. ६६ब्)

उद्यछीतांशुरश्मि द्युति चयसदृशीं फुल्लपद्मोपविष्टां वीणानगीन्द्रशङ्खयुधपरशुधरां
दोर्भिरीढ्यैश्चतुर्भिः ॥

मुक्ताहारांशुरत्वामणि युतहृदयांशीध्वपात्रं वहन्तीं वन्दे भीडाभवानीं प्रहसितवदनां
साधकेष्टप्रदात्रीम् ॥

पूर्णेन्दु बिम्बां सुमुखीं त्रिनेत्रां सिताम्बरां चन्द्रकलावतंसाम् ॥ शिवासनां खड्गकपालहस्तां
भीं भां भजे चेतसि मुक्तकेशीम् ॥

अस्य श्री भीडाभगवती मन्त्रस्य । सदाशिव ऋषिः विराट् च्छन्दः । श्री भीडा भगवती देवता
ह्रीं बीजं श्रीं शक्तिः । ओं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि ॥ ओं ह्रीं श्रीं
ह्स्रैं ऐं क्लीं सौः भीडाभगवति हंसरूपिणि स्वाहा ॥ १०८ ॥

ह्रां इत्यादि न्यासः ॥ अस्य भैरव त्रिष्टुप् भीडाभगवती दे । ऐं बी । सौः शक्तिः । क्लीं की । होमे
विनियोगः । अग्नौ पुष्पं । आवाहनादि ॥

ओं ह्रीं श्रीं भैं भीडा भगवत्यै नमः स्वाहा ॥ १०८ ॥

सौः भीडा भगवति हंसरूपिणि स्वाहा ॥ १०८ ॥

ह्स्रां इत्यादि न्यासः ॥ पूर्णा ॥ अनेनेति तर्पणं ॥ निरोधार्घः ॥

अथ दक्षिण कालिकादि ॥

श्रीमच्चन्द्रकलावतंसिमुकुटां ज्वालापरीताननं शङ्खाब्जासि गदाधरं त्रिनयनं ब्रह्मादि देवैः
स्तुतम् ॥

देवीं तुर्यदले स्थितां भगवतीं स्यामां स्मरन्तं हृदाध्यायेद्भैरवनाथमग्नि सदृशं देवीं
महाकालकम् ॥

बालार्ककोटि द्युतिमिन्दुवक्त्रां किरीटहारैरुपशोभितं प्रभुम् ॥

कालं प्रियं भक्तजनैकमित्त्रं हृदि स्मरे भैरवनायकं तम् ॥

प्. ६७)

श्यामवर्णं महाकायं महाकालं त्रिलोचनम् ॥ नीलकण्ठं सुतेजस्कं नेत्रत्रय विभूषितम् ॥

खड्गचर्मधरं देवं वरदाभयपाणिकम् ॥ शूलहस्तं च खट्वाङ्गधारिणं मन्त्रनायकम् ॥

पिनाकहस्तं देवेशं तोमरं विभ्रतं विभुम् ॥ प्रासपट्टि सहस्तं च भैरवं तु सदा स्मरेत् ॥

एवं विधेन ध्यानेन मनसा चिन्तयेद्विभुम् ॥ श्मशानस्तो महारुद्रो महाकालो दिगम्बरः ॥

कपालकर्तृके वामे शूलखट्वाङ्ग दक्षिणे ॥ भुजङ्गभूषिताङ्गोपि भस्मास्थि मणिमण्डितः ॥

ज्वलत्पावक मध्यस्थो भस्मशय्याव्यवस्थितः ॥ विपरेतरतां तत्र कालिकां हृदयोपरि ॥

पेयं च खाद्यं चोष्यं च तौ कृत्वा परस्परम् ॥ एवं भक्त्या यजेद् देवि सर्वसिद्धि प्रजायते ॥

अस्य श्री महाकाल भैरवमन्त्रस्य ॥

भैरव ऋषिः । विराट् च्छन्दः । श्री महाकालो देवता । हूं बीजं । ह्रीं शक्तिः । स्वाहा कीलकम् ।
होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि ॥

हूं हूं महाकाल प्रसीद २ ह्रीं ह्रीं स्वाहा ॥ १०८ ॥

ओं ह्रीं श्रीं ऐं जुं सः महाकालभैरवाय नमः ॥ १०८ ॥

ओं इति षडङ्गः ॥ ओं ह्रीं श्रीं क्लीं वैश्वानर्यै स्वाहा ॥ ओं क्लीं ऐं सौः यमघण्टायै स्वाहा
॥ मूलान्ते वौषट् । इति पूर्णा ॥ अनेनेति तर्पणम् ॥

अथ नित्याकाली ॥

पाशाङ्कुशधरां रौद्रां शरचापकरोद्यताम् ॥

प्. ६७ब्)

मोहनं शोषणं चैव द्रावणं क्लेदनं तथा ॥ मारणं पञ्च इत्येताञ्चरान्करेत्रविभ्रतीम् ॥

त्रिकोणमध्यगां लाक्ष्यारुणां देवीं नमाम्यहम् ॥ अग्नौ पुष्पं । आवाहन पाद्यादि ॥

द्रां द्रीं क्लीं ब्लं स्हूः स्वाहा ॥ १०८ ॥

वप । मूलान्ते वौषट् । इति पूर्णा । तर्पणं ।

एवं ध्यात्वा प्रपूज्यैव कामदेवसमो भवेत् ॥ क्षोभयेदखिलं विश्वं दर्शनादेव साधकः ॥

अनेनेति तर्पणम् ॥ अथ भद्रकाली ॥

प्रसन्नवदनाम्भोजां लीलालोचनधूमिताम् ॥ नीलांशुकपरीधानां मुक्ताकिङ्किणि घण्टिकाम् ॥

पल्लवारुण बिम्बोष्टीं शोभितांसित कञ्चुकीम् ॥ अनर्घ्य रत्नसंयुक्तां दिव्य चन्द्रार्धधारिणीम् ॥

नानादिकज्योतिः सिरापुष्पैरलङ्कृताम् ॥ शरन्नीरदमालाभां काञ्ची युक्तनितम्बिनीम् ॥

मुक्तावीणीलतारस्या मुदयादित्य सन्निभाम् ॥ साधकश्चेत साध्यात्वा देवतां भद्रकालिकाम् ॥

क्षुत्क्षामाकोटराक्षीमषिमलिनमुखी मुक्तकेशी न दन्ती नाहं तृप्तावदन्ती जगदखिलमिदं ग्रासमेकं
करोमि ॥ हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं पाशमुग्रं दन्तैर्जम्बूनदभैः परिदहतु
भयं पातुमां भद्रकाली ॥

मुण्डं विश्वस्यकर्तुः करकमलतले धारयन्तिं हसन्तीं नाहं तृप्तावदन्ती सकलजन च यं
भक्षयन्तीं सदैव ॥

श्यामं विष्णांगिरीशमरिकुलमथनं दोर्भिरीढ्यैर्वृताशिं ध्याये हं भद्रकालीं नवजलविषदां
प्रेतमध्यासनस्थाम् ॥

प्. ६८)

अस्य श्री भद्रकाली मन्त्रस्य । ब्रह्मा ऋषिः । च्यवन ऋषिः । अनुष्टुप्छन्दः । श्रीभद्रकाली देवता ।
भैं बीजं । हूं शक्तिः । स्वाहा कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि ॥

क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं भैं भद्रकाल्यै विद्महे ॥ क्रीं हूं ह्रीं भैं
भद्रकालपत्त्यै धीमहि । भैं ह्रीं २ हूं २ क्रीं २ स्वाहा तन्नः भद्रकाली प्रचोदयात् ॥ ३ ॥

क्रीं ३ हूं २ ह्रीं २ भैं भद्रकालि भैं ह्रीं ३ हूं २ क्रीं ३ स्वाहा ॥ १०८ ॥

क्रीं ३ हृ । हीं २ हूं २ शिर । भैं भद्रकालि शिखा ॥

ह्रीं ह्रीं भैं क । हूं हूं नेत्रे । क्रीं ३ अस्त्राय । अथ पूर्णा ॥

श्यामां श्याममुखीं विलोलवपुषीं सत्कोटराक्षीं शिवां विंशत्युत्तररूपिणीं मधुमन्दोन्मत्तां
च रक्ताम्बराम् ॥ ब्रह्मामुण्डशिवाभिविष्णुरशनाहस्तामनङ्गोज्ज्वलां प्रेतस्थां हृदयाम्बुजे
भगवतीं भैं भद्रकालीं भजे ॥

मूलेन वौषट् । इति पूर्णा ॥ अनेनेति तर्पणम् ॥ निरोधार्घः ॥

अथ दक्षिणकाली ॥

ऊर्ध्वं वामे कृपाणं करकमलतले च्छिन्नमुण्डं ततोधः सव्ये भीतिं वरं च त्रिजगदघहरे
दक्षिणे कालिकेति ॥

जप्त्वै तन्नामवर्णं तवमनुविभवं भावयन्त्ये तदम्बतेषामष्टौ करस्थाः प्रकटितवदने
सिद्धयस्त्र्यम्बकस्य ॥

भिन्नाञ्जन च य प्रख्यां प्रमेतशवसंस्थिताम् ॥ गलच्छोणितधाराभिः स्मेरानन सरोरुहाम् ॥

पीनोन्नत कुच द्वन्द्वां पीनोन्नत नितम्बिनीम् ॥

प्. ६८)

दक्षिणां मुक्तकेशाङ्गीं दिगम्बरविनोदिनीम् ॥ महाकालशवाविष्टां स्मरानन्दोपरिस्थिताम् ॥

स्वाधसान्द्रस्मिता मोदमोदिनीमदविह्वलाम् ॥ आरक्तमुक्तनेत्राभिर्योगिनीभिर्विराजिताम् ॥

शवद्वय कृतोत्तं सांसिन्धूरतिलकोज्ज्वलाम् ॥ पञ्चासन्मुण्डघटितमणिताटङ्कशोभिताम् ॥

नानामणि विशेषाढ्यां नानालङ्कारभूषिताम् ॥ शिवास्थि कृतकीयूरशङ्खदक्षिणमण्डिताम् ॥

शिववक्षस्थलारूढां लेलिहानां शिवं क्वचित् ॥ शवमांसकृतग्रासां साटहासां मुहुर्मुहुः ॥

खड्गमुण्डधरां वामे दक्षे भयवरप्रदाम् ॥ दन्तुरां च महारौद्रीं चण्डनादार्तिभीषणाम् ॥

शिवाभिर्घोररूपाभिर्वेष्टितां भयनाशिनीम् ॥ माभैर्माभैः सुभक्तेषु जल्पन्तीं घोरनिस्स्वनैः ॥

यूयं किं ब्रूथ किं ब्रूथ दधानीति प्रभाषिणीम् ॥ अस्य श्री दक्षिणकालिकामन्त्रस्य । भैरव
ऋषिः । उष्णिक्छन्दः । श्रीदक्षिणकालिकादेवता ॥

ह्रीं बीजं । हूं शक्तिः । क्लीं कीलकम् ॥ होमे विनियोगः ॥ अग्नौ पुष्पं आवाहनादि । कालिकायै
विद्महे श्मशानवासिन्यै धीमहि तन्नो घोरी प्रचोदयात् ॥ ३ ॥

क्रीं ३ हूं २ ह्रीं २ दक्षिणे कालिके क्रीं ३ हूं २ ह्रीं २ स्वाहा ॥ १०८ ॥

घोररूपे महारावे सर्वशत्रू क्षयङ्करि ॥ भक्तेभ्यो वरदे देवि त्राहिमां शरणागतम् ॥

सुरासुरार्चिते देवि सिद्ध गन्धर्व सेविते ।

प्. ६९)

जाड्यपापहरेदेवित्रा ॥ २ ॥

जटाजूटसमायुक्ते लोलजिह्वानुकारिणि ॥

द्रूतबुद्धिकरीदेवित्रा ॥ ३ ॥

सौम्यरूपे क्रोधरूपे चण्डरूपे नमोस्तुते ॥ सृष्टिरूपे नमस्तुभ्यं त्रा ॥ ४ ॥

जडानां जडतां हंसि भक्तानां भक्तवत्सले ॥ मूढतां हर मे देवि त्रा ॥ ५ ॥

हूं हूंकारमये देवि बलि होम प्रिये नमः ॥ उग्रतारे नमो नित्यं त्रा ॥ ६ ॥

बुद्धिं देहि यशो देहि कवित्वं देहि मे सदा ॥ मूढत्वं हर मे देवि त्रा ॥ ७ ॥

इन्द्रादि दिविषड्वृन्दै वन्दिते करुणा मये ॥ तारे ताराधिनाथास्ये त्रा ॥ ८ ॥

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ॥ षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा
॥ ९ ॥

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ॥ । विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥ १०


इदं स्तोत्रं पठेद्यस्तु सततं लभते नरः ॥ तस्य शत्रुः क्षयं याति महाप्राज्ञां च जायते ॥ ११


पीडायां वापि सङ्ग्रामे महोत्पाते महाभये ॥ य इदं पठते स्तोत्रं सुखं तस्य संशयः ॥

मूलेन वौषट् । इति पूर्णा ॥ ततस्तर्पणम् ॥ अनेनेत्यादि निरोधार्घः ॥

अथ श्यामा ॥

त्रैलोक्य पूजित पदाम्बुरुहद्वयीं तां कृष्णामुभ्यत्सदृशरूपधरां त्रिनेत्राम् ॥ शूलासि शाङ्गो
महतीं स्वभुजैर्वहन्तीं श्यामां स्मरे शवशरीर कृतासनस्थाम् ॥ अग्नौ पुष्पं ॥

श्रीं ह्रीं क्रां क्रीं क्रं क्रैं क्रौं क्रः सुधारसे श्यामे कृष्णशापं विमोचय अमृतं स्रावय २
स्वाहा ॥ १०८ ॥

मूलान्ते वौषट् ॥ इति पूर्णा । तर्पणं ॥

प्. ६९)

अथ तुरी ॥

नानारत्ननिबद्धचन्द्रशकलां मौलौजटां बिभ्रतीं पाशाम्बोजधरां हिमांशुधवलां दोर्भ्यां
द्विबाहुं शिवाम् ॥ सूर्येन्दुग्नि विलोचनां स्मितमुखीं प्रेतासने संस्थिता ब्रह्माविष्णुमहेश्वरैश्च
नमितां देवीं भजेहं तुरीम् ॥

अग्नौ पुष्पादि ॥

ओं द्रूं त्रां त्रों महातुर्यै नमः ॥ १०८ ॥

त्रां ह्य । मूलान्ते वौषट् इति पूर्णा । तर्पणादि । अथ च्छिन्नमस्ता ॥ एणाङ्कां शुपरीतबाल
फलकां बालार्क कोटिप्रभां ज्वालाबद्ध महार्घरत्न निचयां कन्दर्पदर्पोज्ज्वलाम् ।
शूलस्यङ्कुशपाशवेणु मुसुलाम्बोजाभवान्विभ्रतीं भक्तेष्टां च्छिन्नमस्तिकां भगवतीं ध्याये
हृदब्जे सदा ॥

अस्य श्री च्छीन्नमस्ता मन्त्रस्य । भैरव ऋषिः । सम्राट्छन्दः ॥ श्री च्छिन्नमस्ता देवता ॥ होमे
विनियोगः ॥ अग्नौ पुष्पादि ।

वैरोचनीये विद्महे च्छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् ॥ ३ ॥

ओं च्छिन्नशीर्षाय नमः ॥ १०८ ॥ ओं ह्रीं श्रीं च्छ्रीं च्छिन्नमस्ति चलच्छ्रीं फट् स्वाहा ॥ १०८ ॥
वामे च्छिन्नशिरोधरां तदितरे पाणौ वृहत्कर्तृकां प्रत्यालीडपदां दिगन्तवसनां सन्दुक्त केश
वृजाम् ॥ च्छिन्नात्मीय शिरः समुच्छलदसृग्धारां पिवन्तीं परां बालादित्य
समप्रकाशविलसन्नेत्रत्रयोल्लासिनीम् ॥

मूलान्ते वौषट् इति पूर्णा तर्पणादि ॥ अथ कालरात्री ॥

शूलाब्ज पाशाङ्कुशशूलपद्मा

प्. ७०)

चतुर्भुजां धूम्रनिभां त्रिनेत्राम् ॥

सिंहासनस्थां धृत पीतवस्त्रां ध्याये महेशीं धृतकालरात्रीम् ॥

अस्य श्री कालरात्री मन्त्रस्य । दक्ष ऋषिः जगती च्छन्दः । अलर्कपुरवासिनी मायाराज्ञी देवता ।
ह्रीं बीजं । नमः शक्तिः ॥ क्लीं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

ओं ऐं ह्रीं श्रीं द्रूं कामेश्वरि सर्वजनमनोहरि सर्वमुखस्तम्बिनि सर्वराजवशङ्करि
सर्वदुष्टनिर्दलनिसर्वस्त्री पुरुषाकर्षिणि बन्धे शृङ्खलां त्रोटय २ सर्वशत्रुन्भक्ष २ द्वेष्यान् ।
निर्दलय २ सर्वन् स्तम्भय २ मोहनास्त्रेण द्वेषिणमुश्चाटय २ सर्वं वशं कुरु २ स्वाहा देहि २ सर्वं
कालरात्रिकामिनि गणेश्वर्यै नमः ॥ १०८ ॥

मूलान्ते वौषट् इति पूर्णा तर्पणादि ॥ ततो बगलामुखी ॥

मध्ये सुधाब्धिमणिमण्डपवेदि मध्यां सिंहासनोपरि गतां परिपीतवर्णाम् ॥ पीताम्बरा
भरणमालविभूषिताङ्गीं देवीं स्मरामि धृतमुद्गरवैरि जिह्वाम् ॥ जिह्वाग्रमादाय करेण देवीं
वामेन शत्रुन्परिपीडयन्तीम् ॥ गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां स्मरामि ॥

अस्य श्री बगलामुखी मन्त्रस्य ॥

ब्रह्मा ऋषिः । उष्णिक्छन्दः । श्रीबगलामुखी देवता । ह्लीं बीजं । स्वाहा शक्तिः । ओं कीलकम् ॥ होमे
विनियोगः ॥ अग्नौ पुष्पादि ॥

ओं ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं स्तम्भय २ जिह्वां कीलय २ बुद्धिं विनाशय २ ह्लीं ओं
स्वाहा ॥ १०८ ॥

अस्य नारद ऋषिः । पङ्क्तिच्छन्दः । श्रीबगलामुखी देवता । क्लीं बीजं । स्वाहा शक्तिः ॥
समस्तशत्रूमुख स्तम्भने होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

ओं ह्लीं ह्रीं श्रीं बगलामुखि वाचं मुखं स्तम्भय जिह्वां कीलय बुद्धिं नाशय क्लीं ओं स्वाहा ॥
१०८ ॥

ओं ह्लीं ह्रीं ह्य । श्री बगलामुखी शिर । वाचं मुखं स्तम्भय शिखा । जिह्वां कीलय कव । बुद्धिं
नाशय नेत्रे । क्लीं ओं स्वाहा अस्त्राय ॥ पूर्णा ॥

नानाबन्द्ध निबद्धरत्नरशनां पीताम्बरां भाग्यदां घर्मां श्वग्नि शशाङ्करश्मिनयनां
सिंहासनस्थां शिवाम् ॥

स्याद्गाङ्गेय निभां महार्घमणिभिरुद्भासिताङ्गीं सदा देवेशीं बगलामुखीं हृदि भजे सर्वेष्टदा
भक्तिदाम् ॥ मूलान्ते वौषट् इति पूर्णा तर्पणादि ॥ अथ वज्र योगिनी ॥

इन्द्वग्नि सूर्यनयनां पाशाङ्कुशधरां शिवाम् ॥ द्विभुजां सिंहमध्यस्थां भजेहं वज्र योगिनीम् ॥

अग्नौ पुष्पादि ॥

ओं ह्रीं वज्र योगिन्यै स्वाहा ॥ १०८ ॥

श्रीं ह्रीं हूं ऐं वज्र वैरोचनीये हुं हुं फट् स्वाहा ॥ १०८ ॥

मूलान्ते वौषट् इति पूर्णा तर्पणादि ॥ अथाऽन्न पूर्णा ॥

रक्तां विचित्रवसनां नवचन्द्रचूडामन्न प्रदाननिरतांस्तनभारनम्राम् ॥ नृत्यन्तमिन्दुशकला
भरणां विलोक हृष्टां भजे भगवतीं भव दुःख हर्त्रीम् ॥

प्. ७१)

अरुण किरणभासं रत्नकीयूरहारां स्फुरित सुतनुपार्ष्णि पात्रदर्वी कराब्जाम् ॥

मुकुटमणिमरीचि स्फीतमालां त्रिनेत्रां मधुरमधुपिवन्तीमन्नपूर्णां नमामि ॥

चन्द्रार्ध मौलिं द्विभुजां त्रिनेत्रां शूलाक्षमाले द्विभुजैर्वहन्तीम् ॥ एणासनस्थां भुजगोपवीतां
तामन्नपूर्णां हृदये स्मरामि ॥

अस्य श्री अन्नपूर्णा मन्त्रस्य । ब्रह्मा ऋषिः । विराट्छन्दः । श्री अन्नपूर्णाभगवती देवता ॥ ह्रीं
बीजं । स्वाहा शक्तिः । नमः कीलकम् ॥ अन्नसन्निधानार्थं होमे विनियोगः ॥ स्वयमन्नं च विद्महे ।
स्वयं भुञ्जीत धीमहि स्वयं धाता प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं क्लीं नमो भगवति महेश्वरि अन्नपूर्णे स्वाहा ॥ १०८ ॥ ओं नमो भगवति महेश्वरि
अन्नपूर्णे स्वाहा ॥ १०८ ॥ ओं नमो भगवति महेश्वरि अन्नपूर्णे स्वाहा ॥ १०८ ॥ ओं नमो भगवति महेश्वरि
ममाभीप्सितमन्नं देहि २ आनपूर्णे स्वाहा ॥ १०८ ॥ ओं ह्रां ह्रीं अन्नप्रधान माहेश्वर्यै स्वाहा ॥ १०८


तारं हृद्भगवत्यन्ते माहेश्वरि पदं ततः ॥ अन्नपूर्णे ठ युगलं मन्त्रः सप्तदशाक्षरः ॥ ततः
पूर्णा ॥

मन्दारकल्पहरिचन्दनपारिजात मध्ये शशाङ्कमणिमण्डपवेदि मध्ये ॥ अर्धेन्दु
मौलिसुललाटषडुर्धनेत्रे भिक्षां प्रदे हि गिरिजे क्षुदिताय मह्यम् ॥ मूलान्ते वौषट् इति पूर्णा
ततस्तर्पणं निरोधार्घः ॥

अथ शिवा ॥

देवीं सृगालवन्दनामरुणां त्रिनेत्रामेकाननां वसुभूजां शसिशूलहस्ताम् ॥ रावाङ्कुशां
धृतकपाल स किङ्किणी कां खट्वाङ्गपुस्तकधरां शिवगां नमामि ॥ अग्नौ पुष्पादि ॥

तत्पुरुषाय विद्महे शिवारूपाय धीमहि ॥ तन्नो देवी प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं शिवा भगवत्यै नमः स्वाहा ॥ १०८ ॥

मूलेन वौषट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथ चामुण्डा ॥

खड्गां चक्रगदेषु चापपरिघाञ्शूलं भुसुण्डीं शिरः शङ्खं संदधतीं करैस्त्रिनयनां
सर्वाङ्गभूषावृताम् ॥

यामस्तौत् स्वपिते हरौ कमलजों हन्तु मधुकैटभं नीलाश्मद्युतिमास्य पाददशकां सेवे महाकालिकाम् ॥

अक्षस्रक्परशूगदेषु कुलिशं पद्मं धनुः कुण्ठिकां दण्डं शक्तिमशिं च चर्मजलजं घण्टां
सुराभाजनम् ॥ शूलं पाशस्वदर्शने च दधतीं हस्तैः प्रवाला प्रभां सेवेसैरिभमर्दिनीमिह
महालक्ष्मीं सरोजस्थिताम् ॥ घण्टाशूलहलानि शङ्खमुसुले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं
घनार्द्रविल्लसच्छितां शुतुल्य प्रभाम् ॥

गौरी देहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वामत्र सरस्वती मनुभजे सुम्भादि दैत्यार्दिनीम् ॥

अस्य श्रीनवार्णवमन्त्रस्य । ब्रह्मविष्णुमहेश्वराः ऋषयः गायत्री उष्णिक् अनुष्टुप्छन्दांसि ।

महाकाली महालक्ष्मी महासरस्वती देवता ॥ नन्दाशाकम्बरीभीमा शक्तयः ॥

प्. ७२)

रक्तदन्तिका दुर्गाभ्रामर्यो बीजानि ॥ अग्निवायुस्सूर्यस्तत्वानि ॥

होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहन पाद्यादि ॥

ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ १०८ ॥

ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ इत्यङ्गानि ॥ मूलान्ते वौषट् ॥ इति पूर्णा ॥ तर्पणं ॥
निरोधार्घः ॥ ततःश्चतुष्षष्ठियोगिन्याः सर्वा अपिरुधिरामिषक्षीरसुरा प्रियाः कलिकोलाहल
गीतनृत्त प्रियाः लघ्वी तरुणी प्रौढा वृद्धा भ्रमरा अग्निवर्णा शशिवर्णा विकटाक्षी विकटदन्ता
मुक्तकेशा कराल जिह्वा अतिसूक्ष्ममधुरघुर्घुरोत् कृष्टनिनदाः स्थिर चपलाः शान्ता रौद्रा
शान्तरौद्रच्छलबलघातप्रभविष्णुवश्चतुर्भुजान् दिव्यवस्त्राभरणा अङ्कुशकपालकरबाल
शङ्खचक्रगदा कुन्तधनुर्वज्राद्यायुधभूषिताः विष्कम्भादि सप्तविंशति योग अश्विन्यादि अष्टाविंशति
नक्षत्त्रमेषादि द्वादशराशि सूर्यादि नवग्रह नारसिंह वीरक्षेत्त्रपालमणि भद्रसाहिल्यादि
यक्षपरिवृतार्ध्यायेत् ॥ अग्नौ पुष्पं । आवाहनादि ॥

ओं ऐं ह्रीं क्लीं श्रीं ह्सौः नमः स्वाहा ॥ १०८ ॥

ब्रह्माण्यै ॥ १ ॥ कौमार्यै २ वाराह्यै ३ शाङ्कर्यै ४ इन्द्राण्यै ५ कङ्काल्यै ६ कराल्यै ७ काल्यै ८
महाकाल्यै ९ चामुण्डायै १० ज्वालामुख्यै ११ कामाख्यायै १२ कपालिन्यै १३ भद्रकाल्यै १४ दुर्गायै १५

प्. ७२ब्)

अम्बिकायै १६ ललितायै १७ गौर्यै १८ सुमङ्गलायै १९ रौहिण्यै २० कपिलायै २१ शूलकरायै २२ कुण्डलिन्यै २३
त्रिपुरायै २४ कुरुकुल्यायै २५ भैरव्यै २६ भद्रायै २७ चन्द्रावल्यै २८ नारसिंह्यै २९ निरञ्जनायै ३०
हेमकान्त्यै ३१ प्रेतासनायै ३२ ऐशान्यै ३३ वैश्वानर्यै ३४ वैष्णव्यै ३५ विनायक्यै ३६ यमघण्टायै ३७
हरिसिद्ध्यै ३८ सरस्वत्यै ३९ तोत्तलायै ४० वन्द्यै ४१ शङ्खिन्यै ४२ पद्मिन्यै ४३ चित्त्रिण्यै ४४ वारुण्यै ४५
नारायण्यै ४६ वनदेव्यै ४७ यमभगिन्यै ४८ सूर्यपुत्र्यै ४९ शीतलायै ५० कृष्णायै ५१ वाराह्यै ५२
रक्ताक्ष्यै ५३ कालारात्र्यै ५४ आकाश्यै ५५ श्रेष्ठिन्यै ५६ जयायै ५७ विजयायै ५८ धूम्रावत्यै ५९
वागीश्वर्यै ६० कात्यायन्यै ६१ अग्निहोत्र्यै ६२ वज्रेश्वर्यै ६३ महाविद्यायै ६४ रैश्वर्यै ६५ ॥

मूलान्ते वौषट् । इति पूर्णा । ततस्तर्पणम् ॥

चतुरष्षष्टिसमाख्याता योगिन्यः कामरूपिकाः ॥ पूजिता प्रतिपूज्यन्ते भवेयुर्धरदाः सदा ॥

अनेनन मन्त्रहोमेनेति ॥ ततो भैरवी ॥

कान्तादिभूतपदगं गदतार्धचन्द्रं दन्तान्तपूर्वजलधि स्थिरवर्ण युक्तम् ॥ एतज्जपन्नरवरो
भुविवाग्भवाख्यं वाचां स्वधारससुचां लभते ससिद्धिम् ॥

कान्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्तदण्डान्वितं कामाख्यं गदितं जपन्मनुरयं
साक्षाज्जगत्क्षोभकृत् ॥

प्. ७३)

दन्ती तेन युतं तु दण्डि सकलं सङ्क्षोभनाख्यं कुलं सिद्ध्यत्यस्य गुणाष्टकं खचरतां सिद्धिश्च
नित्यं जपात् ॥ अग्नौ पुष्पं आवाहनादि ॥

ह्सैं ह्स्क्लीं ह्सौः महाभैरव्यै नमः ॥ १०८ ॥

मूलान्ते वौषट् इति पूर्णा ॥ भैरवीयमुदिताकुलपूर्वादैशिकैर्यदि भवेत् कुलपूर्वा ॥
सैवशीघ्रफलदाभुवि विद्येत्युच्यते पशुजनेष्वतिरौप्या ॥ इति तर्पणं ॥ अथ नवदुर्गा ॥

तस्य दिनेशा युत सन्निभाभां शशाङ्क लेखामुकुटां चतुर्भुजाम् ॥ रक्ताम्बरामग्निरवेन्दुलोचनां तां
शैलपुत्रीं वरदां स्मरा?म्यहम् ॥ अस्य श्री शैलपुत्रीमन्त्रस्य । महाकालभैरव-ऋषिः ।
त्रिष्टुप्छन्दः श्री शैलपुत्री देवता ॥ ह्रीं बीजं सौः शक्तिः । नमो दिग्बन्धः ।

ओं मितिकीलकम् होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि । कामधात्र्यै विद्महे शैलपुत्र्यै धीमहि तन्नः
शैला प्रचोदयात् ॥ ३ ॥

ओं ह्रीं सौः शैलपुत्रि श्रीं स्वाहा ॥ १०८ ॥ ओं ह्रीं श्रीं ऐं सौः सौः एं श्रीं ह्रीं
शैलपुत्र्यै नमः स्वाहा ॥ १०८ ॥ ओं ह्रीं इति न्यासः ॥ मूलान्ते वौषट् इति पूर्णा । अनेन मन्त्र होमेनेति
तर्पणं निरोधार्घः ॥ अथ ब्रह्मचारिणी ॥

कमलाशिवराभया युधां शशिवक्त्रां शशिशेखरां शिवाम् ॥ अरुणा भरणां त्रिलोचनां हृदये
तां भज ब्रह्मचारिणीम् ॥

अस्य श्रीब्रह्मचारिणी मन्त्रस्य । भैरव ऋषिः । अनुष्टुप्छन्दः । श्रीब्रह्मचारिणी देवता । श्रीं
बीजं । ह्रीं शक्तिः । क्लीं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि ।

ओं श्रीं ह्रीं क्लीं सः ब्रह्मचारिणी ऐ& फट् स्वाहा ॥ १०८ ॥

मूलान्ते वौषट् ॥ इति पूर्णा । अनेनेति तर्पणम् ॥ निरोधार्घः ॥

अथ चण्डघण्ठा ॥

बालां शशाङ्कयुतपूर्णवक्त्रां त्रिलोचनां स्मेरमुखीं प्रसन्नाम् ॥ शङ्खाब्ज चापामृतकुम्भहस्तां
श्री चण्डघण्ठां हृदये भजामि ॥

अस्य श्री चण्डघण्ठा मन्त्रस्य । भैरव ऋषिः । अनुष्टुप्छन्दः । श्री चण्डघण्टा देवता । क्लीं
बीजं सौः शक्तिः श्रीं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पं । आवाहनादि ॥

ओं क्लीं सौः श्रीं ह्रीं ऐं सौः चण्डघण्टायै नमः स्वाहा ॥ १०८ ॥

क्लां इत्यादिन्यासः ॥ मूलान्ते वौषट् इति पूर्णा अनेनेति तर्पणं निरोधार्घः ॥

ततः कुष्माण्डी ॥

अस्या ध्यानं नास्ति ॥ अस्य श्रीकुष्माण्डी मन्त्रस्य । ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीकूष्माण्डी
देवता । क्रीं बीजं ह्रीं शक्तिः ओं कीलकम् होमे विनियोगः । अग्नौ पुष्पं । आवाहनादि ॥

ओं श्रीं ह्रीं क्रीं कूष्माण्ड्यै नमः स्वाहा ॥ १०८ ॥

क्रां इत्यादि न्यासः ॥ मूलेन वौषट् इति पूर्णा ॥ अनेनेति तर्पणं । निरोधार्घः ॥ अथ स्कन्दमाता ॥

प्. ७४)

शीतांशुकोटि स्फुरदास्य शोभां त्रिलोचनां कुङ्कुमपीतवस्त्राम् ॥ सिंहासनां नागमुखादि युक्तां
भजे हृदिच्छन्द युतां भवानीम् ॥

अस्य श्री स्कन्दमाता मन्त्रस्य ॥ भैरव ऋषिः । त्रिष्टुप्छन्दः । श्री स्कन्दमाता देवता ह्रीं बीजं ।
हौः शक्तिः हः कीलकम् ॥ होमे विनियोगः । अग्नौ पुष्पं । आवाहनादि ॥

ओं ह्रीं श्रीं हौः स्कन्दमात्रे हः हः फट् स्वाहा ॥ १०८ ॥

ह्रां इत्यादि न्यासः । मूलान्ते वौषट् इति पूर्णा ॥ अनेनेति तर्पणं ॥ न्रोधार्घः ॥ अथ कात्यायनी ॥

सहस्रकरदीप्ताङ्गीं त्र्यक्षीं रक्ताम्बरोज्ज्वलाम् ॥ चतुर्भुजां शिवगतां नौमिकात्यायनीं शुभाम् ॥

अस्य श्री कात्यायनी मन्त्रस्य । सदाशिव ऋषिः । अनुष्टुप्छन्दः । श्रीकात्यायनी देवता । ह्रीं बीजं
॥ ओं शक्तिः स्वाहा कीलकम् ॥ होमे विनियोगः ॥ अग्नौ पुष्पं आवाहनादि ॥

ओं ह्रीं कात्यायन्यै नमः स्वाहा ॥ १०८ ॥ ह्रां इत्यादिन्यासः ॥ मूलान्ते वौषट् इति पूर्णा । अनेनेति
तर्पणं निरोधार्घः ॥ अथ कालरात्री ॥

नवाम्बुद द्युति मिनेन्दु वह्निनेत्रां गदाम्बोज करां हसन्तीम् ॥ पीताम्बरां मुक्त कचोज्ज्वलाङ्गीं
श्रीकालरात्रीं मनसा स्मरामि ॥

अस्य श्रीकालरात्री मन्त्रस्य । भैरव ऋषिः । अनुष्टुप्छन्दः श्रीकालरात्री देवता । श्रीं बीजं
ह्रीं शक्तिः ओं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

ओं श्रीं ह्रीं ह्रीं श्रीं ओं कालरात्रि क्लीं ऐं सः फट् स्वाहा ॥ १०८ ॥

स्रां ह्रां इत्यादि न्यासः ॥ मूलान्ते वौषट् इति पूर्णा ॥ अनेनेति तर्पणं । निरोधार्घः ॥ अथ
महागौरी ॥ उद्यदर्कसमानाभांसितांशुमुकुटां शिवाम् ॥ चतुर्भुजां त्रिनयनां महागौरीं
भजाम्यहम् ॥

अस्य श्री महागौरी मन्त्रस्य । कराल भैरव ऋषिः ॥ अनुष्टुप्छन्दः श्री महागौरी देवता ।

ओं ऐं बीजं ओं सौः शक्तिः ओं ओं कीलकम् ॥ होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

श्रीं ओं सौः गीं गूं महागौर्यै नमः स्वाहा ॥ १०८ ॥

गां इत्यादि न्यासः ॥ मूलेन वौषट् इति पूर्णा । अनेनेति तर्पणम् ॥ निरोधार्घः ॥ अथ देवदूती ॥

शशाङ्क बिम्बद्युतिमुत्पलाक्षीं प्रतप्तचामीकरगात्रयष्टिम् ॥ सिताम्बरां प्रेतगतां त्रिनेत्रां श्री
देवदूतीं द्विभुजां नमामि ॥

अस्य श्री देवदूती मन्त्रस्य । भैरव ऋषिः । अनुष्टुप्छन्दः । श्री देवदूती देवता ॥ क्लीं बीजं
सौः शक्तिः श्रीं कीलकम् ॥ होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

ओं ऐं क्लीं सौः श्रीं ह्रीं देवदूति श्रीं फट् ठः ठः ठः स्वाहा ॥ १०८ ॥

मूलेन वौषट् इति पूर्णा । अनेनेति तर्पणं निरोधार्घः ॥

अनेन मन्त्र होमेन नवदुर्गा भगवती सायुधा सवाहना सपरिवारासानुचराः प्रीयन्तां प्रीतास्तु ॥

प्. ७५)

अथ गङ्गा ॥

सनालाब्जकरां पाणिद्वये कमलधारिणीम् ॥ वरहस्तां स्वश्वेतां चराङ्गां मकरवाहिणीम् ॥

अस्य श्रीगङ्गा मन्त्रस्य । महेश्वर ऋषिः गायत्रीच्छन्दः ॥

श्री गङ्गाभगवती देवता । होमे विनियोगः ॥

ओं नमः शिवायै नारायण्यै दशहारायै स्वाहा ॥ १०८ ॥

मूलान्ते वौषट् इति पूर्णा । अनेनेति तर्पणम् ॥

अथ वितस्ता ॥

अक्षसूत्राम्बुज करामादर्शकलशान्विताम् ॥ मीनपद्मासनासीनां वितस्तां सरणं श्रये ॥

अग्नौ पुष्पादि ॥

सां सीं सः वितस्ता भगवत्यै नमः स्वाहा ॥ १०८ ॥

मूलेन वौष्ट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथ दशलोकपालहोमः ॥

तत्रादौ इन्द्रस्य ॥ उद्यत्सूर्यायुतरुचिनिभं मौलिरत्नांशुदीप्तं देवं पद्माशनिकरमजं नेत्र
साहस्ररम्यम् ॥

हारानर्घ्यस्फुरदुरुमणि व्याप्तवक्षस्थलं तं ध्यायेद् देवं प्रणमित पदं पूर्वदिक्पालमिन्द्रम् ॥ अस्य
श्री इन्द्रमन्त्रस्य ॥ सदाशिव ऋषिः । जगतीच्छन्दः । श्री इन्द्रो देवता । ह्रीं बीजं ॥ श्रीं शक्तिः
। क्लीं कीलकम् ॥ होमे विनियोगः ॥

ओं ह्रीं श्रीं क्लीं इति दिग्बन्धः ॥ अग्नौ पुष्पादि ।

देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नः शक्रः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं क्लीं ब्लूं इन्द्राय वज्रहस्ताय नमः स्वाहा ॥ १०८ ॥

प्. ७५ब्)

ह्रां श्रां क्लां इत्यादिन्यासः ॥ मूलान्ते वौषट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथाग्नेः ॥

इष्टां शक्तिं पुस्तकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं जपाभम् ॥ हेमाकल्पं पद्मसंस्थं
त्रिनेत्रं ध्याये वह्निं बंद्धमौलिं जटाभिः ॥

अस्य श्री वैश्वानरमन्त्रस्य । सदाशिव ऋषिः । जगतीच्छन्दः । श्री वैश्वानरो देवता । रं बीजं
त्रों शक्तिः ह्रीं कीलकं होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

रुद्रहस्ताय विद्महे शक्तिहस्ताय धीमहि तन्नो वह्निः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं त्रों रां वैश्वानरजटाभारभास्वरसिद्धिं देहि २ स्वाहा ॥ १०८ ॥

द्रां द्रीं इत्यादि ॥ मूलेन वौषट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथ धर्मराजस्य ॥

कल्पान्त सूर्यानलदीप्तिदीप्तं दण्डाभयाम्भोज वरान्दधानम् । दोर्भिश्चतुर्भिः कमलासनस्थं भजामि
देवं हृदये धर्मराजम् ॥

अस्य श्रीधराजमन्त्रस्य ॥ श्रीकालाग्नि भैरव ऋषिः । त्रिष्टुप्छन्दः । धर्मराजो देवता ॥ ऐं बीजं
जूं शक्तिः ह्रां कीलकम् ॥ होमे विनियोगः ॥ वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः
प्रचोदयात् ॥ ३ ॥

ओं ह्रां जूं ऐं सः धर्मराजाय दण्डहस्ताय नमः स्वाहा ॥ १०८ ॥

ह्रां इत्यादि न्यासः । मूलान्ते वौषट् इति पूर्णा ॥ तर्पणं । निरोधार्घः ॥

अथ नैर्-ऋतेः ॥

प्. ७६)

वीरोत्तमं शक्तिगदाङ्कुशाब्जान्दोर्भिर्दधन्तं शरदम्बुदाभम् ॥ रक्ताम्बरं लोहित लोचनं तं
ध्यायामि नित्यं निर्-ऋतिं हृदब्जे ॥

अस्य श्री निर्-ऋति मन्त्रस्य । ब्रह्मा ऋषिः । विराट् छन्दः ॥ श्री निर्-ऋतिर्देवता । ह्रां बीजं । ह्रैं
शक्तिः ह्रः कीलकम् ॥ होमे विनियोगः । अग्नौ पुष्पादि ।

निशाचराय विद्महे खड्गहस्ताय धीमहि ॥ तन्नो निर्-ऋतिः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं फ्रें निर्-ऋतये खड्गहस्ताय नमः ॥ १०८ ॥

ह्रां इत्यादि न्यासः ॥ मूलेन वौषट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथ वरुणस्य ॥

संवर्तवायुगतिमर्क सहस्रदीप्तं पाशाङ्कुशाभय वरान्स्वभुजैर्दधानम् ॥ त्र्यक्षं
महोग्रमकरध्वजग्राहमीनवन्द्यं भजे वरुणमादि स्वरैकनुत्यम् ॥

अस्य श्रीवरुण मन्त्रस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीवरुणो देवता ॥ श्रूं बीजं । श्रैं
शक्तिः । श्रः कीलकम् ॥ होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् ॥ ३ ॥

श्रीं श्रूं जुं सः पाशहस्ताय नमः स्वाहा ॥ १०८ ॥

श्रां इत्यादि न्यासः ॥ मूलेन पूर्णा तर्पणं निरोधार्घः ॥

अथ वायोः ॥

अमलवपुषमुद्यत्सूर्यभासं जटाभं कनककलशहस्तं पद्मयुग्मायुधाङ्कम् ॥ सकलभुवन प्राण
श्वेतवस्त्रादिभूषं हृदि सकल सुरेशं वायुमाद्यं भजेहम् ॥

अस्य श्री वायुमन्त्रस्य । भगवान्पुलस्त्य ऋषिः । त्रिष्टुप्छन्दः श्रीवायुर्देवता क्लीं बीजं हूं
शक्तिः स्वाहा कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

सर्वप्राणाय विद्महे सृष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् ॥ ३ ॥

ओं यं क्लीं हूं वायवे कलशहस्ताय नमः ॥ १०८ ॥

क्लां इत्यादि न्यासः ॥ मूलान्ते वौषट् इति पूर्णा । तर्पणं निरोधार्घः ॥

अथ कुबेरस्य ॥

रक्तोत्पलाभं रविकोटि रूपं शक्त्यक्षसूत्त्राङ्कित हस्तपद्मम् ॥ भद्रासनं स्मेरमुखं त्रिनेत्रं
ध्यायामि देवं हृदये कुबेरम् ॥

अस्य श्री कुबेरमन्त्रस्य महारुद्र ऋषिः । पङ्क्तिच्छन्दः । श्री यक्षाधिपतिः कुबेरो देवता । क्लीं
बीजं म्लूं शक्तिः ह्सौः कीलकम् ॥ होमे विनियोगः ॥

यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नः कुबेरः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं क्लीं म्लूं ह्सौः शक्ति हस्ताय कुबेराय नमः ॥ १०८ ॥

क्लां इत्यादि न्यासः ॥ मूलान्ते वौसट् ॥ इति पूर्णा तर्पणं निरोधार्घः ॥

अथेशानस्य ॥

कपालखट्वाङ्गधरं त्रिनेत्रं भस्मोज्ज्वलाङ्गं शशिखण्ड चूडम् ॥ गङ्गाधरं बद्धजटाकलापं
ध्याये शिवं गोपति वाहसेशम् ॥

अस्य श्री ईशानमन्त्रस्य । ब्रह्मा ऋषिः अनुष्टुप्छन्दः । श्रीमहारुद्रो देवता । रां बीजं हरशक्तिः
ओं कीलकम् होमे विनियोगः । अग्नौ पुष्पादि ॥

प्. ७७)

सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ ३ ॥

ओं गां हौं शिवाय नमः स्वाहा ॥ १०८ ॥

गां इत्यादि न्यासः ॥ मूलान्ते वौषट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथ ब्रह्मणः ॥

ब्रह्मा चतुर्मुखः प्रोक्तश्चतुर्बाहु विभूषितः ॥ कृष्णाजिनो तुरीयश्चराजीवासनसंस्थितः ॥

कमण्डलु दण्डधरोक्षमालाब्जकरस्तथा ॥ ध्यात्वा पत्त्रेषु विन्यसेत् सर्व किल्विष नाशनम् ॥

अस्य श्री ब्रह्मा मन्त्रस्य । सदाशिव ऋषिः । अनुष्टुप्छन्दः । श्री ब्रह्मा देवता । ह्रां बीजं । हूं
शक्तिः । ओं कीलकम् । होमे विनियोगः ॥ अग्नौ पुष्पादि ॥

पद्मोद्भवाय विद्महे वेदवक्त्राय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ ३ ॥

ओं ह्रां ह्सौः च्चतुर्मुख सिद्धिं देहि २ स्वाहा ॥ १०८ ॥

ह्रां इत्यादि न्यासः ॥ मूलान्ते वौषट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथ नारायणस्य ॥

आपादं जानुदेशाद्वर कनकनिभं नाभिदेशादधस्तान्मुक्ताभं कण्ठदेशात्तरुणरविनिभं
मस्तकान्नीलबालम् ॥

वन्देहस्तैर्धानं रथचरणदरौखड्गखेटौ गदाख्यं शक्तिदानाभये च क्षिति धरण
लसद्दंष्ट्रमाद्यं वराहम् ॥

अस्य श्री नारायण मन्त्रस्य । शिव ऋषिः ।

त्रिष्टुप्छन्दः श्रीनारायणो देवता श्रीं बीजं ह्रीं शक्तिः ओं कीलकं होमे विनियोगः ॥ अग्नौ
पुष्पादि ॥

नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं ह्सौः श्रीं ह्रीं नारायणाय नमः स्वाहा ॥ १०८ ॥

श्रां ह्रां इत्यादि न्यासः ॥ मूलान्ते वौषट् इति पूर्णा । तर्पणं निरोधार्घः ॥

अनेन मन्त्रहोमेन दशदिक्पालाः प्रीयन्तां प्रीताः सन्तु ॥ ततो नवग्रहमन्त्राणि पूर्वं यवतिलहोमान्तरे
लिखितानि ॥

ततोष्टभैरव होमः ॥

दिगम्बरं भैरवेशं चतुर्बाहुं त्रिलोचनम् ॥ कपालखड्गपरशुं शक्तिं च दधतं करैः ॥

भुजङ्गसैर्भूषिताङ्गं भस्मास्थि फणि मण्डितम् ॥ शवासनयुतं देवं ध्यायेद्भैरवनायकम् ॥

अस्य श्री अष्टभैरवमन्त्रस्य ॥ श्री सदाशिव ऋषिः ॥ अनुष्टुप्छन्दः । श्री अष्टभैरवो देवता ॥

ह्रीं बीजं ओं शक्तिः क्रीं कीलकम् होमे विनियोगः ॥ ह्रीं ह्रीं ह्रीं देवदत्त ह्रीं ह्रीं स्वाहा ॥
१०८ ॥

ह्रां इत्यादि ॥ ओं क्ष्म्र्यूं कपालेश भैरवाय नमः ॥ १०८ ॥

ओं ह्रूं शिखिवाहनभैरवाय नमः ॥ १०८ ॥ ओं क्षूं क्रोधराजभैरवाय नमः ॥ १०८ ॥ ओं झ्रूं
विकरालभैरवाय नमः ॥ १०८ ॥ ओं ह्वू-आं मन्मथभैरवाय नमः ॥ १०८ ॥ ओं ह्र्यूं मेघनादभैरवाय
नमः ॥ १०८ ॥ ओं हुं सोमराजभैरवाय नमः ॥ १०८ ॥ ओं ह्र्क्ष्म्ल्व्यूं विद्याराजभैरवाय नमः ॥ १०८ ॥

मूलान्ते वौषट् इति पूर्णा । तर्पणम् ॥ निरोधार्घः ॥

अथ महागणपते ॥

बीजापुरगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्पल ब्रीह्यग्र स्वविषाण रत्नकलशोस्योवृत्कराम्भोरुहः ॥
ध्येयो वल्लभयासपद्मकरया श्लिष्टो जगद्भुषया विश्वोत्पत्ति विनाश संस्थित करो विघ्नो
विशिष्टार्थदः ॥ अग्नौ पुष्पादि ॥

तत्पुरुषाय विद्महे वक्त्र तुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ ३ ॥

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वं जनं मे वशमानय स्वाहा ॥ १०८ ॥

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपति वल्लभायै वरवरदे सर्वजनस्य हृदयं मात्मवशं कुरु २
स्वाहा ॥ १०८ ॥

गां इत्यादि ॥ मूलेन वौषट् इति पूर्णा तर्पणं निरोधार्घः ॥

अथा नन्देश्वरस्य ॥

सुसुरूपं सुमालस्थं स्वसंवेद्यं स्वतेजसम् ॥ स्वानन्दं सुसुशक्तिस्थं भैरवं तं नमाम्यहम् ॥

सूर्य कोटि सहस्राभं चन्द्रकोटि सुशीतलम् ॥ अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् ॥

अमृतार्णवमध्यस्थं ब्रह्मपद्मपरि स्थितम् ॥ वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् ॥

सिन्दूरराशि सदृशं पद्मरागसमप्रभम् ॥ जाती हिङ्गुलसङ्काशं दाडिमी कुसुमप्रभम् ॥

कपालखट्वाङ्गधरं घण्टा डमरुनादितम् ॥ पाशाङ्कुशधरं देवं गदामुसुलपाणिनम् ॥

खड्गखेटकहस्तं च कुमुदोच्छूल पाणिनम् ॥ रक्तकुन्तधरं देवं मुण्डस्फेटकभूषितम् ॥

वराभयकरं चैव सर्वव्याधि विनाशनम् । रुद्रारूढं महादेवं सर्वालङ्कारभूषितम् ॥

लोहितं देवदेवस्य ध्यानं तु ध्यानं तु परिकीर्तितम् ॥ तत्सङ्गे तु सुरा देवी चन्द्रकोटि समप्रभा ॥

हिमकुन्देन्दुधवला पञ्चवक्त्रा त्रिलोचना ॥ भुजाष्टादशसंयुक्ता सर्वायुधकरोद्यता ॥

प्रहसन्ती विशालाक्षी देवदेवस्य सम्मुखी ॥ अथवा देवदेवेशमर्धनारीश्वरं विभुम् ॥

लोहिताङ्गं स देवीकं ब्रह्माच्युत नमस्कृतम् ॥ आनन्दभैरवं ध्यायेद्भोगमोक्षैककारणम् ॥

अस्य श्री आनन्देश्वर भैरवमन्त्रस्य कालाग्नि रुद्रभैरव ऋषिः । सम्राट्छन्दः । आनन्देश्वरभैरवो
देवता । श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकम् ॥

होमे विनियोगः ॥ अग्नौ पुष्पादि ।

ओं ह्रीं श्रीं क्लीं आनन्देश्वर भैरवाय वौषट् स्वाहा ॥ १०८ ॥ ओं जुं सः ह्स्र्क्ष्म्ल्व्यूं मूलेन
वौषट् इति प्रतिपूर्णा तर्पणं निरोधार्घः ॥

अथ वटुभैरवस्य ॥

करकलितकपालः कुण्डली दण्डपाणिः सघनतिमिर वर्णो व्यालयज्ञो पवीतः ॥ क्रतु समय
सपर्याविघ्न विच्छेद हेतु जयति वटुकनाथो सिद्धिदः साधकानाम् ॥

अस्य श्री वटुकभैरवमन्त्रस्य । वृहदारण्यक ऋषिः ।

प्. ७९)

अनुष्टुप्छन्दः श्री वटुक भैरवो देवता । ह्रीं बीजं वटुकायेति शक्तिः ओं कीलकम् ॥ होमे विनियोगः
॥ अग्नौ पुष्पादि ॥

ओं ह्रीं वटुकाय आपदुद्धारणाय कुरु २ वटुकाय ह्रीं स्वाहा ॥ १०८ ॥

ह्रां वां इत्यादि ॥

पाशाङ्कुशौ डमरुकाद्ययुतं वहन्तं शुक्लं तथैक वदनं परिनृत्यमानम् ॥ दक्षाननं त्रिनयनं
शशिखण्डचूडं ध्यात्वार्चयेद्वटुकमुत्तर पीठसंस्थम् ॥

मूलान्ते वौषट् इति पूर्णा । तर्पणं निरोधार्घः ॥

अथ वेताल भैरवस्य ॥

ज्वालाकेशं त्रिनेत्रं भुजगपति महाभीषणं मुण्डमालं कर्त्रीं कपालं डमरुमथ
महानीलशूलं दधानम् ॥

वीणां वाद्य प्रवीणामुरसि विनिहितां वादयन्तं भुजाभ्यां वन्दे वेतालमुद्यद्दिनकर सदृशं नाट्य
लग्नं हसन्तम् ॥

अस्य श्रीवेताल मन्त्रस्य । रुद्र ऋषिः अनुष्टप्छन्दः । श्रीवेताल भैरवो देवता । ह्रीं बीजं श्रीं
शक्तिः ओं कीलकम् होमे विनियोगः । अग्नौ पुष्पादि ॥

तत्पुरुषाय विद्महे । घोररूपाय धीमहि तन्नो वेतालः प्रचोदयात् ॥ ३ ॥

ओं ह्रीं श्रीं हं हं ह्स्र्क्ष्म्ल्व्यूं सर्वसिद्धिं कुरु २ ओं ह्रीं श्रीं वां वेताल भैरवाय नमः
स्वाहा ॥ १०८ ॥

ह्रां इत्यादि ॥

ज्वालाकचं भुजगभूषिणमुग्ररूपं त्र्यक्षं भयापहममित्त्र भयप्रदं च ॥

वीणान्भवं भुजयुगेन च कारयन्तं वेताल राजमहमेव सदा नमामि ॥

मूलेनग्नौ षट् इति पूर्णा ततस्तर्पणम् ॥ निरोधार्घः ।

प्. ७९ब्)

ततः स्वच्छन्दं सपरिवारं हुत्वा । एकैक या हुत्याऽवरणानि होमयेत् ॥

क्षं ईशान वक्त्राय स्वाहा ॥ यं तत्पुरुषवक्त्राय स्वाहा ॥ रं अघोरवक्त्राय स्वाहा ॥ वं
वामदेववक्त्राय स्वाहा ॥ लं सद्योजात वक्त्राय स्वाहा ॥

ततो भैरवावरणम् ॥ पूर्वं लिखितम् ॥

अथायुधावरणम् ॥ खड्गाय ॥ खेटकाय ॥ पाशाय ॥ अङ्कुशाय ॥ शराय ॥ पिनाकाय ॥ वराय ॥
अभयाय ॥ मुण्डाय ॥ खट्वाङ्गाय ॥ वीणायै ॥ डमरवे ॥ घण्टायै ॥ त्रिशूलाय ॥ वज्राय ॥
दण्डाय ॥ परशवे ॥ मुड्नराय ॥

अथ शक्त्या वरणं ॥

वामायै । ज्येष्ठायै । रौद्र्यै ॥ काल्यै । कलविकरण्यै ॥ बलविकरण्यै ॥ बलप्रमथिन्यै ॥
सर्वभूतदमन्यै ॥ मनोन्मन्यै ॥

अथ सप्तावरण होमः ॥

विद्येश्वराः गणेशाद्यार्लोकेशामातरो ग्रहाः ॥ नागावरणवज्राद्याः सप्तावरणमुच्यते ॥

तत्रादौ विद्येश्वराः ॥

ओं ह्रीं अनन्ताय स्वाहा । ओं झ्रूं सुक्ष्माय स्वाहा ॥ ओं मूं शिवोत्तमाय स्वाहा ॥ ओं ह्रूं एकनेत्राय
स्वाहा ॥ ओं क्ष्यां एकरुद्राय स्वाहा ॥ ओं ब्लूं त्रिमूर्तये स्वाहा ॥ ओं ह्जूं श्री कण्ठाय स्वाहा ॥ ओं
श्रीं शिखण्डिने स्वाहा ॥

अथ गणेशाः ॥

ओं रां रीं न्लूं नन्दिने स्वाहा ॥

मां मीं म्लूं ह्स्रौं महाकालाय स्वाहा ॥

ह्स्रां भृङ्गिरुद्राय स्वाहा ॥

प्. ८०)

ओं गू-आं गां गणपतये स्वाहा ॥ ओं व्रां वृषभाय स्वाहा ॥ ओं ह्स्रौं कुंकुमाराय स्वाहा ॥ ओं
ह्रीं सः अम्बिकायै स्वाहा ॥ ओं ह्सूं चण्डेश्वराय स्वाहा ॥

अथ लोकेशाः ॥

ओं लूं इन्द्राय वज्रहस्ताय स्वाहा ॥ ओं तूं अग्नये शक्ति हस्ताय । टूं यमाय दण्डहस्ताय ॥ क्षूं
नैर्-ऋते खड्गहस्ताय । ओं बूं वरुणाय पशहस्ताय ॥ ओं यूं वायवे ध्वजहस्ताय ॥ ओं कुंकुबेराय
गदाहस्ताय ॥ ओं मूं ईशानाय त्रिशूलहस्ताय ॥ ओं आं ब्रां ब्रं ब्रह्मणे पद्महस्ताय ॥ ओं ह्लां
विष्णवे चक्रहस्ताय स्वाहा ॥

अथ मात्रावरणम् ॥

ओं ज्म्र्यूं जयायै नमः स्वाहा ॥ भ्म्र्यूं विजयायै नमः स्वाहा ॥ ओं गं स्वभगायै नमः स्वाहा ॥ ओं
यं दुर्भगायै नमः स्वाहा ॥ म्स्र्यूं जयन्त्यै नमः स्वाहा ॥ पं ऊहिन्यै नमः स्वाहा ॥ ह्स्र्यूं
अपराजिताय नमः स्वाहा ॥ ओं रां कराल्यै नमः स्वाहा ॥

अथ ग्रहावरणम् ॥

ओं ह्रां ह्रीं सः सूर्याय स्वाहा ॥

स्रूं चन्द्रमसे ॥ र्ह्रूं अङ्कारकाय ॥ स्ह्रूं बुधाय ॥ न्स्रूं जीवाय ॥ ह्रीं भार्गवाय । क्ष्म्र्यूं
शनैश्चराय ॥ यूं राहवे । ह्रीं केतवे स्वाहा ॥

अथ नागावरणम् ।

ओं अनन्तनागराजाय स्वाहा ॥ ओं वासुकिना ॥ ओं पद्मना । ओं महापद्मनागर ॥ ओं तक्षकना ॥ ओं
कार्कोटनागराजाय ॥ ओं सङ्खपाल ॥ ओं कुलिकनागराजाय स्वाहा ॥

अथ वज्रोद्याः ॥

वज्राय फट् स्वाहा । शक्तये । दण्डाय । खड्गाय । पाशाय । ध्वजाय । गदायै । त्रिशूलाय । पद्माय
। हलाय फट् स्वाहा ॥

प्. ८०ब्)

ओं ह्रीं श्रीं ब्राह्म्यै स्वाहा ॥ एवं माहेश्वर्यै ॥ कौमार्यै ॥ वाराह्यै ॥ वैष्णव्यै ॥ ऐन्द्र्यै ॥
चामुण्डायै ॥ अपराजितायै ॥ नारसिंह्यै ॥ महालक्ष्म्यै । जयायै ॥ विजयायै ॥ जयन्त्यै ॥

ततः क्षेत्रेशावरणम् ॥

ओं ह्रीं श्रीं वटुकाय ॥ योगिनीभ्यः ॥ स्थान चराय ॥ भूतेभ्यः ॥ राजराजेश्वराय ॥
वेतालराजानकाय ॥ बहुखातकाय ॥ रुद्रराजानकाय ॥ विश्वक्सेनाय ॥ सङ्खराजानकाय ॥
मङ्गल्यराजानकाय । आनन्देश्वराय ॥ सातीराजानकाय ॥ धान्यराजानकाय रुद्रराजानकाय ॥
पञ्चालराजानकाय ॥ शीतलनाथाय ॥

ओं ह्रां क्षं क्षूं हेरुकाय ॥ ओं ऐं ह्रीं लां क्षं त्रिपुरान्तकाय ॥ ओं ह्रीं हूं क्षीं
अग्निवेतालाय ॥ ओं ह्रीं क्षूं हूं अग्निजिह्वाय ॥ ओं ह्रीं ह्रीं हूं कुर्पराय ॥ कालाय ॥ ओं क्षां
यूं क्षीं करालिने ॥

आं यू क्षीं एकपादाय ॥ क्षूं यूक्षां भीमरूपाय ॥ डामराय ॥ हाटकेश्वराय ॥ ह्रीं ह्रीं
हूं राजराजेश्वराय । इति क्षेत्रेशा वरणं ॥ सप्तावरण देवताभ्यः स्वाहा ॥

ततः पूर्णात्रयम् ॥ द्वारेशेति ॥

वन्दे सिन्दूरवर्णं मणि मुकुटलसश्चारुचन्द्रावतं संकालोद्यानेतमीशं स्मितमुखकमलं
दिव्यभूषाङ्गरागम् ॥ वामोरुन्यस्तपाणेररुण कुवलयं सन्दधत्याः प्रियाया वृत्तो तुङ्गस्तनाग्रे निहित
करतलं वेदटङ्केष्टहस्तम् ॥

ओं जुं सः सर्वमन्त्र चक्र तॄप्तिरस्तु स्वाहा ॥ १ ॥

प्. ८१)

मध्यप्राण ॥ ध्यायेन्नित्यं महेशमिति ॥ ओं हूं भैरवाप्यायनमस्तु स्वाहा ॥ २ ॥

वामे खेटकेति । बालार्कारुण तेजसं धृतजटाजूटेन्दु ख्ड्गौज्ज्वलं नागेन्द्रैः कृतशेखरं
जपवटीं शूलं कपालं करैः ॥ खट्वाङ्गं दधतं त्रिनेत्र विलसत् पञ्चाननं सुन्दरं
व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥

ओं हूं न्यूनातिरिक्त विधिं पूरयामि स्वाहा वौषट् ॥ ततो दधि भक्त होमः ॥

ओं जुं सः अमृतेश्वरभैरवं तोषयामि नमः स्वाहा ॥ ३ ॥

ओं जुं सः अमृत लक्ष्मीं तोषयामि नमः स्वाहा ॥ ३ ।

ततः पूर्णा ॥

स्फटिकरजतवर्णं मौक्तिकीमक्षमलाममृतकलश विद्या ज्ञानमुद्राः कराब्जैः ॥ दधतमुरगकक्षं
चन्द्रचूडं त्रिनेत्रं विधृत विविधभूषं दक्षिणामूर्तिमीडे ॥

ओं जुं सः अमृतेश्वर भैरव ओं जुं सः अमृतलक्ष्मी यजमानस्य वाममगुरोर्भुक्तिमुक्तिफलं
सम्पूर्णमस्तु स्वाहा वौषट् ॥ इति दधिभक्ते नैव *? पूर्णा ॥

ततो रक्षामन्त्रः ॥

क्षीराज्यतिलसर्षपा सर्वौषधीभिर्होमः ॥ प्राग्लिखित ज्वरशान्तिवत् ॥ ओं जुं सः अमृतेश्वरभैरव
अमुकं शिष्यं सर्वोपद्रवेभ्यो रक्ष २ ओं जुं सः स्वाहा वौषट् ॥ १० ॥

ओं जुं सः अमृतलक्ष्मी अमुकं शिष्यं आधिव्याधिभयाद्रक्ष २ ओं जुं सः स्वाहा वौषट् ॥ १० ॥

ततः पूर्णा ॥

अमृतेश्वरे भैरवं स देवीकं सावरणं तोषयामि स्वाहा ॥

इति पूर्णा ॥

तत आज्येन ॥ ओं हां ब्रह्मणे स्वाहा ॥ ३ ॥ ओं वास्तु पुरुषाय स्वाहा ॥ ३ ॥

तत ऋतु तिथि नक्षत्र देवताश्च यजेत ॥

तत्रादौ ऋतवः ॥ अग्नये स्वाहा । वसन्ताय । इन्द्राय । ग्रीष्माय । मरुभ्यः । वर्षाभ्यः । विश्वेभ्यो
देवेभ्यः शरदे । मित्त्राय हेमन्ताय । मित्त्रावरुणाभ्यां हेमन्त शिशिराभ्यां ॥

ततस्तिथयः ॥ ब्रह्मणे प्रतिपदे । त्वाष्ट्रे द्वितीयायै ॥ जनान्दनाय तृतीयायै ॥ यमाय चतुर्थ्यै ॥
सोमाय पञ्चम्यै ॥ कुमाराय षष्ठ्यै मुनिभ्यः सप्तम्यै ॥ वसुभ्यः अष्टम्यै ॥ पिशाचेभ्यः नवम्यै ॥
धर्माय दशम्यै रुद्रेभ्यः एकादश्यै ॥ रविभ्यः द्वादश्यै ॥ कामाय त्रयोदश्यै ॥ भूतेभ्यः
चतुर्दश्यै ॥ विश्वभ्यो देवेभ्यः पूर्णपञ्चदश्यै ॥ पितृभ्यः अमावस्यायै ॥

अथ नक्षत्राणि ॥

अश्विन्यै श्विनीभ्यां ॥ यमायभरणीभ्यः ॥ अग्नये कृत्तिकायै ॥ प्रजापतिरोहिण्यै ॥ सोमायै
मृगशिरसे ॥ रुद्राय आर्द्रायै ॥ आदितये पुनर्वसुवे ॥ बृहस्पतये तिष्याय ॥ सर्पेभ्यः अश्लेषायै ॥
पितृभ्यः मघायै ॥ भगाय पूर्वफल्गुण्यै ॥ अर्यम्णे उत्तरफल्गुण्य । सवित्रे हस्ताय त्वाष्ट्रे
चित्त्रायै ॥ वायवे स्वात्यै ॥ इन्द्राग्नीभ्यां विशाखायै ॥ मित्त्राय अनूराधायै ॥ इन्द्राय ज्येष्ठायै
॥ नैर्-ऋतये मूलाय ॥ अद्भ्यः पूर्वषाढायै ॥ विश्वैभ्यो देवेभ्यः उत्तरषाढायै ॥ ब्रह्मणे
अभिजिते ॥ विष्णवे श्रवणाय ॥ वसुभ्यः धनिष्ठायै ॥ वरुणाय शतभिषजे ॥ अजैकपदे
पूर्वभद्रपदायै ॥

प्. ८२)

अहिर्बध्न्यायै उत्तरभद्रपादायै ॥ पूष्ण्यैरेवत्यै ॥

ओं श्रीं ३ हूं ३ ह्रीं ३ विलोमशान्तिरस्तु स्वाहा ॥

एवं व्युत्क्रमशान्तिन्यूनातिरिक्त दोषशान्तिरोकृतदुष्कृतशान्तिरस्तु स्वाहा ॥

तत अन्यतोग्निमानीय वैश्व देवं कृत्वा नैवेद्यं निवेद्य गुरवे शिवाय समालभनादि कृत्वा
बृहत्पूर्णां दद्यात् ॥ हारमनोहरवक्षसमाय चक्षुषमहीश कृतभूषं पञ्चवदनं सितरुचिरुचिरं
शशिखण्डमण्डित शिखण्डम् ॥

उद्यमपाशविशिखासनवरखट्वाङ्गवल्लकी घण्टा । दण्डद्रूघनाभ्यां सहवहन्तमिव?
वामबाहुनवकेन ॥

खड्गाङ्कुश विशिखा भयकपाल डमरु त्रिशूलपविपरशून् ॥ दक्षैर्दोर्भिर्नवभिः कलयन्तं
चिन्तयेश्च भगवन्तम् ॥

सितमुपरितनुं वदनं पुरतः पीतं चमेचकं वृक्षम् ॥ वाममरुणं सितरुचिरुचिरं देवस्य पश्चिमं
वक्त्रम् ॥ ४ ॥

एवमुद्भासिता शेष भगवद्वेशशालिनीम् ॥ चिन्तयेदस्य चोत्सङ्गगामघोरेश्वरीमपि ॥

ओं जुं सः अमृते अमृतोद्भवे सर्वार्थ साधके सर्वासत्वयशी कर्त्रिभोगमोक्षप्रदे सर्वदुःखनाशनोद्यते
सर्वसमय लोपघातिनि क्लीं विच्चे अनुलोमविलोमव्युत्क्रमन्यूनातिरिक्त दोषाकृत दुष्कृतशान्तिरस्तु यथा
कृत कर्मप्रायश्चित्त निवृत्ति विधि पूरणं चास्तु स्वाहा वौषट् ॥

इति वृहत्पूर्णा ॥ पूर्णान्तेग्निं नमस्कुर्यात् ॥ सर्वतः पाणि पादोसि सर्वतोक्षशिरो मुखः ॥


(ततः पूर्णाकाले । अग्ने त्वं मृदुनामासि । मृदुनाम्ने अग्नये नमः । इति पाद्यादिभिः संपूज्य पूर्णां
दद्यात् ॥ यथाग्नि पुराणम् ॥ मूधानन्देन मन्त्रेण संस्रवेण च धारया । मूर्धानं दिवोरत्नं
पृथिव्या वै श्वानरमृतमाजातमग्निम् कवि गूं सम्राजमतिथिं जनानासा सन्नापात्रं जयन्तु देवाः ।
दद्यादुत्थाय पूर्णां तु नोपविश्य कदाचनेति मूर्ध्वानन्दि वेति यजुषां पूर्ण होमं * * * * * * * * * ज?
वस्त्रनारि केल * * * * * * * * * * * * ग्नौ दश? ।)


प्. ८४ब्)

विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु ॥ आयुरारोग्यमैश्वर्यं धृति सत्वं बलं यसः ॥

तेजोवर्चः पशून्बीजं शौर्यसाम्राज्यमेव च ॥ सौभाग्यं कर्मसिद्धिं कुल ज्येष्ठं सुकतृताम् ॥

सर्वमेतत् सर्वसाक्षिन् प्रविणो दोरिरीहिनः ॥ अग्निं प्रज्वालितं वन्दे जातवेदं हुताशनम् ॥

सुवर्णवर्णममलं सुसिद्धं सर्वतो मुखम् ॥

इति पठित्वा नमस्कुर्यात् ॥ ततः कृताञ्जलिः प्रार्थयेदनेन ॥

आब्रह्मन्ब्रह्मणो ब्रह्मवर्चसीति कृताञ्जलिरग्निं विसृजेत् ॥

ओं यज्ञ यज्ञङ्गच्छयज्ञपतिं गच्छस्वां योनिं गच्छ स्वाहा ॥ एष ते यज्ञो यज्ञोपते
महासूक्तवाक्सर्व वीरत्वं जुषस्व स्वाहा ॥ इति विसर्जनम् ॥

भगवन्भगवन्वह्नेत्वं सुराणां मुखं परम् ॥ प्रत्यक्ष देवो भूलोके सर्वकर्म प्रतारकः ॥

अन्तर्बहिश्चलोकानां त्वमेव कृत सन्निधिः ॥ त्वयि तुष्टे सुरा तुष्टा इत्याहुस्मनकादयः ॥

खेदितोसि मयावह्ने दीक्षाकर्मणि साम्प्रतम् ॥ धर्मंदारसुतांश्चैव दत्वाया हि स्वकं पदम् ॥ इति
नमस्कुर्यात् ॥

ततस्तर्पणम् ॥

जन्मकोटिकृतं पापं परोक्षं प्रकटं च यत् । तत्सर्वं नाशमाया तु तमः सूर्योदये यथा ॥

अनेन मृत्युजीद्भट्टारकोश्चारजेन सर्वसाधारणत्वेनानन्तेशादि परम शिवान्तास्सर्वे भुवनेशाः
सपरिवारास्सानुचरा सन्तृप्तास्सन्तुष्टा वरदाः सन्तु ॥ इति तर्पणम् ॥

प्. ८३)

अथ होम निवेदनम् गुह्यातिगुह्यगोप्तात्वं ग्रहाणास्मत् कृतं जपम् ॥ सिद्धिर्भवतु मे देव त्वत् प्रसादान्
महेश्वर ॥

शिवमस्तु यजमानस्य च्छिद्रं माभूत्कदाचन ॥ देव देव्यो प्रसादेन रक्षरक्षास्तु मे भ्यशम् ॥

अग्निरिति भस्म । वायुरिति भस्म । व्योमेति भस्म । सूलमिति भस्म । जलमिति भस्म । सर्वं हवामेति भस्मना
एतानि चक्षूंषि भस्मनि । इति भस्मना ललाटमनुलिप्य ।

सपशुपाश विमुक्तो भवति सर्वतीर्थ स्नानफलं भवति । सर्वकर्माच्छिद्रं भवति ॥

अथास्नाअसमया पूज्या यथा ॥

ओं जुं सः अमृत रूपायाऽमृताभायाऽमृतोद्भवायाऽमृत द्रवायाऽमृतोघायाऽमृत
नेत्रेऽमृताहारायाऽमृतवपुषेऽमृतोद्गारायाऽमृतनिधानायामृत मूर्तयेऽमृतेशाय सर्वामृतपराय
सर्व समयलोपनिवारणाय सर्वमन्त्र शरीरायाऽमृत लक्ष्म्यै ह्रीं स्वाहा वौषट् सः जुं ओं ॥

सर्वेषां मन्त्राणां मेलापन विद्यां पठेत् ॥

विद्येशावरणं चक्रे । तं पद्मे । तं त्रिशूले । तं गदायां । तं ध्वजे । तं पाशे । तं खड्गे ।
तं दण्डे । तं शक्तौ । तां वज्रे । तमनन्ते । तं ब्रह्मणि । तं मीशाने ॥ तं कुबेरे । तं वायौ ।
तं वरुणे । तं नैर्-ऋत्ये । तं यमे । तमग्नौ । तमिन्द्रे । तं विद्याराजे । तं सोमराजे ।


(वसिष्ठः ॥ ऐशान्यामाहरेद्भस्म स्रूवेणाथ स्रूचापि वा बन्धुनां कारयेत्तेन शिरः कण्ठं
सकेष च ॥ कस्य पस्येति मन्त्रेण यथानु क्रमयोगतः ॥ कश्य पस्य ज्य? युषुं ललाटे । जमदग्नोस्त्र्या
युषं कण्ठे । यद्देवानांन्त? त्र्यायुषं अंसयोः । तत्ते त्र्यायुषं हृदये दद्यात् ॥)


प्. ८३ब्)

तं मेघनादे । तं मन्मथे । तं विकराले । तं क्रोधराजे । तं शिखिवाहने । तं कपालेशे । तं
शक्तौ । तामस्त्रे । तं नेत्रे । तं कवचे । तं शिखायां । तां शिरसि । तत् हृदि । तं मूलमन्त्रे । तं
वह्नौ । तमर्घ्यपात्रे । अर्घपात्राज्ज्योतिः स्वात्मनिलीनं भावयेत् ॥

ओं ह्रीं श्रीं सः सः सुखसौभाग्यदायिनि हंसवागीश्वरि एह्ये हि हस २ सन्निधानं कुरु २
सर्वसम्पत्प्रदायिनि सर्वदुष्टनिवारिणि सर्वजगद्वऽसीकर्त्रि विभक्तानां मन्त्राणां मेलापं कुरु प्रसादो
भवतु प्रसन्नो भव मे ह्रीं श्रीं सः सः हूं हूं ॥ ततः शान्ति कलशजलेन चतुर्दिक्षुधारापातं
कुर्यात् ॥

ओं फट् शिवाग्नि विमुञ्चामि फट् । नयामि ॥ धर्मं देहि धनं देहि पुत्रपौत्रांश्च देहि मे ॥

आयुरारओग्यं मे देहि देहि मे हविवाहन ॥ हव्यं वहसि वह्नेत्वं कविं वहसि पावक ॥

मह्यं धनायुरारोग्यं दत्वा गच्छ हुताशन ॥ हुताशन मुखे देवाधारयन्त्यखिलं जगत् ॥

हव्यं प्रथमतो यस्मै तस्मै ते जात्मुने नमः ॥ भक्तिं देहि श्रियं देहि सुखं देहि सुतन्त्रतः ॥

देहि भोगं च मोक्षं च मनोभिलषितं मम ॥ तर्पितोसि विभो भक्त्या होमेना नलमध्यतः ॥

होमद्रव्येषु यद्वीर्यं तत्सर्वमात्मसात्कुरु ॥ संसारेस्मिन्विभो मोहात्प्रायश्चित्तं तु यद्गतम् ॥

तत्सर्वं नाशमाया तु होमादस्मान्महेश्वर ॥ क्षमस्वमन्त्रनाथाय नित्यानन्दधराय च ॥

धर्मार्थ काममोक्षाय पुनरागनाय च ॥

प्. ८४)

क्षमस्वन्यूनाधिक भावयुक्तं मयाकृतं दर्शय विश्वमूर्ते ॥ प्रसीद देवेश नमोस्तुत्वभ्यं प्रया हि
तुष्टः पुनरागमाय ॥

संवत्सरस्य मध्ये तु प्रायश्चित्तं तु यद्गतम् ॥ तत्सर्वं नाशमाया तु होमादस्मान्महेश्वर ॥

तेजोसि तेजो मे देही त्यात्मानम् ततः कलशप्रच्छासम्पादयेत् ॥

गायत्र्यै नमः ओं भूर्भुवस्स्वस्तत्सवितु इत्यादि ॥ ३ ॥

अच्छिद्रमस्तु सम्पूर्णै एवमस्तु ॥ गन्धोदकं संगृह्य गुह्येति तर्पणं कृत्वायवोदकं नमः
उदकतर्पणं नमः ॥

ततो नैवेद्यं प्रार्थयेत् ॥

आज्ञां मे दीयतां नाथ नैवेद्यस्यास्य भक्षणे ॥

शरीरयात्रा सिद्ध्यर्थं भगवत्कर्तु मर्हसि ॥

ततः कलशे पुष्पाणि क्षिपेत् ॥

आपन्नोस्मिशरण्योसि सर्वावस्थोस्मि सर्वदा ॥

भगवं स्त्वां प्रपन्नोस्मि रक्षमां शरणागतम् ॥ ब्रह्महत्यादि पापानि ह्यगम्यगनानि च ॥

सुरापस्तेय कारी च भ्रूणहागुरुतल्पगः ॥ सुवर्णभूमिहर्ता च रौघ्नश्च पितृघातकः ॥

मातृहा स्त्री गुरुघ्नश्च पापान्यन्यानि सर्वसः ॥ अन्या कृतानिघोराणि त्रिविधानि सहस्रशः ॥

स्मरणादमृतेशस्य भस्मसाद्यान्त्य संशयम् ॥ नश्यन्ति शतजापाश्च यदिस्यात्केन ब्रह्महा ॥

शतजापाश्च मन्त्राणां सप्तकोट्याश्चयाः शिवे ॥ जप्ताभवन्ति सर्वास्तामन्त्रस्यास्य प्रभावतः ॥

चतुर्वेदेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ सर्वतीर्थेषु माहात्म्यं शतजापाश्च तद्भवेत् ॥

प्. ८४ब्)

शतजापाश्च देवेशि शिवस्याग्रे प्रपूजिते ॥ निर्वाण फलभुङ्मर्त्यो जन्मनैकेन तद्भवेत् ॥

जपे नैकेन तन्वङ्गि नित्ययुक्तस्तु शुद्धधीः ॥ अष्टोत्तरशतान्मन्त्री सत्समो नात्र संशयः ॥

यस्यायं हृदि सन्तिष्ठेन्नित्य युक्तस्य भामिनि ॥ कुलान्युद्धरते सोपि दश पूर्वान्दशा परान् ॥

न तस्य बाधते मृत्युः कालग्रस्तस्य सुव्रते ॥ त्रिसन्ध्यं यः स्मरेन्नित्यं यत्र तत्र स्थितोपि वा ।

न मृत्योर्वशमायाति न रोगो न च तस्करः ॥ सकृत्पूजितमात्रेण नश्यन्ते हिंसकादयः ॥

नष्टादशदिशो यान्ति सिंहस्येव यथामृगाः ॥ सतां ताभ्यासयोगेन दारिद्र्यं नश्यते कुलात् ॥

यस्मिन् देशे च काले च निवसेन्मन्त्रवित्सदा ॥ ईतयो व्याधयश्चैवायार्खोदातस्करा ग्रहाः ॥

शाकिन्यो विविधा यक्षापिशाचाराक्षसाग्रहाः ॥ बालग्रहाश्च विस्फोटा व्यन्तराश्चान्तराचये ॥

सर्वाणि विषजातानि दुर्भिक्षपरिपीडनम् ॥ सर्वं न प्रभवत्येव मन्त्रं वित्सन्निधानतः ॥

सम्पूज्य सर्वजन्तूनां भूपतीनां च सर्वदा ॥ दान पूजन समाने रसमै पूजिते यदि ॥

तेन पूजितमात्रेण सर्वे मन्त्रास्तु पूजिताः ॥ भवन्ति सुखदा तत्र तन्मुखांस्तांस्तु पूजयेत् ॥

सर्वत्रच्छेदकर्तारो ग्रहा हिंसन्ति साधकम् ॥ तस्माद्ग्रहाणां दातव्यं सदैवोदक मोचनम् ॥

इष्टाग्रहाः प्रतृप्यन्ति तृप्ता न प्रभवन्ति हि ॥ अलंविस्तरेण क्षमा पुष्पाणि ॥

अथ भैरव समया ॥

अस्य मन्त्रस्य कहाल ऋषिः ॥ गायत्रं च्छन्दः मृत्युञ्जयो देवता ।

प्. ५५)

ओं जुं सः अमृत मूर्तये व्योमव्यापिने व्योमशरीराय सर्वसमयलोपान्निवारय २ समयं पूरय २
सर्वसाधारणमन्त्रशरीराय

१ं२ं३ं?

अमृते परामृते नित्ये ह्रीं स्वाहा ॥ कपालेशनमस्तुभ्यं नित्यं देवेन्द्र पूजित ॥

शिवभक्त गृहाणार्चां रक्षमां भैरवोत्तम ॥ १ ॥

भैरवेन्द्र नमस्तुभ्यं हुताशन प्रपूजित शिवभक्त ॥ २ ॥

क्रोधराज नमस्तुभ्यं वैवस्वत प्रपूजित ॥ शिवभक्त ॥ ३ ॥

विकराल नमस्तुभ्यं नित्यं नैर्-ऋत पूजित ॥ शिवभक्त ॥ ४ ॥ मन्मथाय नमस्तुभ्यं वरुणेन प्रपूजित
॥ शिवभ ॥ ५ ॥ मेघनाद नमस्तुभ्यं प्रभञ्जन प्रपूजित ॥ शिवभक्त ॥ ६ ॥ सोमराज नमस्तुभ्यं
नित्यं यक्षेन्द्र पूजित ॥ शिवभक्त ॥ ७ ॥ विद्याराजनमस्तुभ्यं नित्यं रुद्र प्रपूजित ॥ शिवभक्त ॥ ८


विश्वैकरूपविश्वात्मन्विश्वसर्गादिकारणम् ॥ पुरप्रकाश वपुषं स्तुमः स्वच्छन्द भैरवम् ॥

विश्वातीतं विश्वमयं भैरवाष्टकसंयुतम् ॥ सकलं निष्कलं शान्तं स्तुमः स्वच्छन्दभैरवम् ॥
नमस्तस्मै ह्यघोराय घोरघोरतरात्मने ॥

उत्पत्ति स्थिति संहारलयानुग्रह हेतवे ॥ पञ्चब्रह्मात्मकं देवं साङ्गं सानु चरं परम् ॥

सावृत्तिं च स शक्तीकं क्षामये हं महेश्वरम् ॥ द्वादशात्मन्नमस्तुभ्यं मार्ताण्डाय नमो नमः ॥

व्याधिपन्नगदष्टस्य त्राणं कुरु दिवाकर ॥ १ ॥

रात्री श्वरकलङ्काङ्क नमस्ते रोहिणी पते ॥ संसार विषदग्धस्य त्राणं कुरु निशाकर ॥ २ ॥

अङ्गाररक नमस्तेस्तु सर्वदुःखनिवारक ॥ कृपणणदरिद्रस्य त्राणं कुरु धरासुत ॥ ३ ॥

सोमात्मज नमस्तुभ्यं ग्रहराजायते नमः ॥

प्. ८५ब्)

भव पङ्कनिमग्नस्य देहि शं रोहिणी सुत ॥ ४ ॥

वाचस्पते सुराचार्य नमस्ते त्वा मया पह ॥ पापस्य बुद्धिहीनस्य सदा सानुग्रहो भव ॥ ५ ॥

विबुधारिगुरोकाव्य नमस्ते करुणा पर ॥ दशान्तर्ग्रहपीडादीन्युत्वा पाहिभ्यगोस्सुत ॥ ६ ॥

नमः कृष्णशरीराय सूर्यात्मज नमोस्तुते ॥ संसरभयभीतस्य त्राणं कुरु शनैश्चर ॥ ७ ॥

सैंहिकेय नमस्तुभ्यं ग्रहपीडां निवारय ॥ दुःख पावक दग्धस्य त्राणं कुरु विधुन्तुद ॥ ८ ॥

सूर्यादयः केतु युताः शिवभक्ति परायणाः ॥ रक्षन्तु यजमानस्य धर्ममायुस्सुहृत्सुतान् ॥ ९ ॥

अथ लोकपालक्षमा ॥

भगवन्देवराजत्वं मयासंखेदितो मखे ॥ पूजां गृहाण देवेश क्षम्यतां क्षम्यतां प्रभो ॥ १ ॥

भगवन्भगवन्वह्नेत्वं मया खेदितो मखे ॥ पूजां गृहाण देवेश क्षम्यतां क्षम्यतां प्रभोः ॥ २ ॥

भगबन्ध पराजत्वं मयासंखेदितो मखे ॥ शिवपूजां गृहाणत्वं क्षम्यतां क्षम्यतां प्रभो ॥ ३ ॥

भगवन्निर्-ऋतेरक्षः घोरात्संसारसागरात् ॥ संखेदितोसिममये याहि धामस्वकं प्रभो ॥ ४ ॥

भगवन्वरुणाद्यत्वं यज्ञे श्री शिवपूजिते ॥ खेदितोशि मया देव यामि स्वधाम पावनम् ॥ ५ ॥

भगवन्भवगन्वायो खेदितः शाम्भवे मखे ॥ त्वं मयार्चां गृहीत्वे मां याहि धाम स्वके च्छया ॥ ६ ॥

भगबन्ध न दाद्यत्वं खेदितः शाङ्करे क्रतौ ॥ गृहीत्वार्चां मया दत्तां क्षम्यतां क्षम्यतां
प्रभो ॥ ७ ॥

भगवन्देवदेवेत्वं मीशानार्चां स्वके मखे ॥

प्. ८६)

गृहीत्वा देहि मे सर्व पुरुषार्थं प्रयाहि च ॥ ८ ॥

भगवंस्त्रिजगत्पूज्य सर्वलोकपितामह ॥ सैवे ध्वरे कृता रक्षा त्वयातत् क्षम्यतां प्रभो ॥ ९ ॥

भगवन्भगवन्विष्णो कृत दानव नाशन ॥ शैवे ध्वरे कृतारक्षा त्वया तत्क्षम्यतां प्रभो ॥ १० ॥

भगवन्तो ग्रहास्सर्वे येन्ये चोपग्रहा मताः ॥ गृह्णन्तु पूजां मद्धत्तां तुष्टा यान्तु स्वकं पदम् ॥ ११


कपालेशाद्य भगवन्खेदितः चक्र पूजितः ॥ शैवे ध्वरे मयात्यर्थं भैरवेन्द्र नमोस्तुते ॥ १ ॥

शाङ्करेद्या मया यज्ञे भगवाञ्शिखिवाहन ॥ पूजितः खेदितो सित्वं तुष्टो या हि स्वकं पदम् ॥ २ ॥

भगवन्क्रोधराजत्वं धर्मा यजन पूजित ॥ कृतारक्षामखे शैवे या हि स्वं विमलं पदम् ॥ ३ ॥

भगवन्विकरालत्वं सदानिर्-ऋति पूजित ॥ शैवीं पूजां गृहाणत्वं या हि स्वं विमलं पदम् ॥ ४ ॥

भगवन्मन्मथेशत्वं वरुणेन कृतार्चन ॥ खेदितः शिवयज्ञेद्यक्षस्यतां क्षम्यतां प्रभो ॥ ५ ॥

भगवन्मेघनादत्वं वायुना पूजितानघ ॥ शैवे यज्ञे खेदितस्त्वं क्षम्यतां क्षम्यतां प्रभो ॥ ६ ॥

भगवन्सोमराजाच्य खेदिधनदार्चित ॥ शैवे ध्वरे कृतारक्षा क्षम्यतां क्षम्यतां प्रभो ॥ ७ ॥

विद्याराजाद्य भगवञ्शैवेस्मिन्मख कर्मणि ॥ आयासितोसि देवत्वं क्षम्यतां क्षम्यतां प्रभो ॥ ८ ॥

सप्तावरणके मुष्मिन्ननन्ताद्याः स्थिताश्चये ॥ ते सर्वे पूजिता तुष्टा यान्तु शैवं परं पदम् ॥

शम्भो शिवजगन्नाथ भगवन्खेदितो मया ॥

प्. ८६)

त्वं देवो देवदेवानां त्वमेवपरमागतिः ॥

त्वं भुक्तिमुक्तिके दाता कारणानां च कारणम् ॥ त्वयि तुष्ठे सुरा तुष्टाः सकलाः सन्तु नित्यशः ॥

ऐरावण समारूढो हेमवर्णो महाद्युतिः ॥ देवेन्द्रः सततं तुंष्टः परमे शार्चने रतः ॥

शिव ध्यानैक निरतः शिवसद्भावभावितः ॥ शिवप्रणामपरमः करो तु मम शान्तिकम् ॥ १ ॥

भूतिकृद्देहिनां देवो ज्वलनः पापनाशनः ॥ शिवपूजाजपोद्युक्तः शिवसद्भावभावितः ॥

शान्तिं करोतु मे देवस्तथा पापपरिक्षयम् ॥ २ ॥

अन्तकोथ महातेजाश्शिवध्यानपरायणः ॥ शिवपूजा समायुक्तः क्षेमारोग्यं करो तु मे ॥ ३ ॥

रक्षेन्द्रो निर्-ऋतिन्नित्यं शिव पूजा परायणः ॥ करो मे महाशान्तिं शिवभक्ति समुत्सुकः ॥ ४ ॥

वरुणः परयाभक्त्या शिवैकगतमानसः ॥ रोगशोकाग्नि सन्तापं निर्नाशय तु मे सदा ॥ ५ ॥

पवनः परमो देवः परमेश्वर भावितः ॥ क्षेमारोग्यबलिं शान्तिं करो तु सततं मम ॥ ६ ॥

कुवेरो वरदः श्रीमान्हरपादार्चने रतः ॥ शान्तिं करो तु मे प्रीतः शान्तः शान्ते न तेजसा ॥ ७ ॥

ईशानः परमो देवः सर्वदेवोत्तमोत्तमः ॥ सोपि सर्वात्म भावेन शान्तिमाशुकरोतु मे ॥ ८ ॥

भुलोकेथ भुवोलोके स्वर्लोके विवसन्ति ये ॥ देवादिव्य प्रभा युक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ९ ॥

महोलोके जनोलोके तपोलोके वसन्ति ये ॥ तेपि प्रमुदिता देवाः शान्तिं कुर्वन्तु मे सदा ॥ १० ॥

प्. ८७)

सत्यलोके च ये देवाः स्वप्रभोज्ज्वलविग्रहाः ॥ शिवभक्ताः सुमनसो भयं निर्नाशयन्तु मे ॥ ११ ॥

करचरण कृतं वाकायजं कर्णजं वा श्रवण नयनजंवामा न संवापराधम् ॥

विधितमविधितं वा सर्वमेतत्क्ष्मस्व जयजय करुणाब्धे श्रीमहादेवशम्भो ॥

क्षमस्वमन्त्रनाथाय नित्यानन्दमयाय च ॥ धर्मार्थ काममोक्षाय पुनरागमनाय च ॥

क्षमस्वन्यूनाधिक भावयुक्तं मयाकृतं दर्शय विश्वमूर्ते ॥ प्रसीद देवेश नमोस्तु तुभ्यं प्रयाहि
तुष्टः पुनरागमाय ॥

य एकः सर्वविद्देवः साक्षी विश्वस्य कर्मणः ॥ ब्रह्माद्यैरप्यगम्योयः समया पूजितो मखे ॥

सकलो निष्कलो देवो द्वादशान्त पदस्थितः ॥ स देवो भगवाञ्शम्भुः खेदितोस्मिन्क्रिया विधौ ॥

य एव सृष्टि संरक्षासंहारकरणक्षमः ॥ त्रिरूपस्त्रिगुणः शम्भुः समया पूजितो श्वखे ॥

अनेन देवदेवेन निर्गुणेनात्सूरूपिणा ॥ सा शक्तिस्त्रिविधोपान्ता समया पूजितो ध्वरे ॥

अद्य मे सफलं जन्म अद्य मे सफलाः क्रियाः ॥ एवं प्रभावो यच्छम्भुः खेदितोस्मिञ्शिवाध्वरे ॥

अनाथ मध्यमां देवरक्षास्मात्पाप सङ्कटाम् ॥ सिद्धिमृद्धिं तथा बुद्धिं शुद्धिं मानसि कीं मयि ॥

देहि भोगं च मोक्षं च मनोभिलषितं मम ॥ सर्वत्राथ महेशान देहि सिद्धिं च शश्वतीम् ॥

अनामयं पदं शम्भो देहि मे परमेश्वर ॥ इदानीं परमीशान क्षम्यतां क्षम्यतां प्रभो ॥

आयासितोसि यज्ञेस्मिंस्तुष्टो या हि स्वकं पदम् ॥ गणेशाद्याः स्मृता येत्र द्वारपालनकर्मणि ॥

इन्द्राद्यालोकपालाश्च ह्यादित्याद्यास्तथा ग्रहाः ॥ कपाले शादयो येत्र भैरवा भैरव्याश्रिताः ॥

सप्तावरणमन्त्राश्च तथा वस्त्रादि देवताः ॥ तथा षडध्वसन्दोहो गायत्र्याद्याश्च देवताः ॥

वास्तोष्पति प्रभृतयो ग्रहदेवादि देवताः ॥ वटुका हेरुकाद्याश्च क्षेत्त्रपालाश्च शाश्वताः ॥

ते सर्वे विविधान्कमान्दत्वायान्तु स्वकं पदम् ॥ आह्वानं नैव जानामि नैव जानामि पूजनम् ॥

विसर्जनं न जानामि क्षम्यतां परमेश्वर ॥

उभाभ्यां जानुभ्यां पाणिभ्यां शिरसा चोरसा नमस्कारं करोमि नमः ॥ नमो ब्रह्मणेत्यादि ॥

यत्प्राङ्निवेशितं तेजस्तस्मिंस्तेजसि नानाविधा मन्त्राः स्फुलिङ्गा इव मन्त्रकलशान्तः प्रविष्टा
ध्यातव्याः ॥ तत्कलशगतं तेजः पुञ्जं संहारिण्य सकलभैरव भट्टारक रूपं निष्कलनाथे
सोप्युश्चार क्रमेण बिन्दौ बिन्दुश्च नादे नादं च शक्तौ साप्यर्धचन्द्र निरोधिन्यां प्रशम युक्त्या व्यापक
स्वरूपे लीनेति मन्त्रलय क्रमेण विभाव्यतं व्यापक चिद्रूपं ओं जुं सः परमं मन्त्र तेजः सः जुं ओं
स्वात्मन्यत्पयामि नमः ॥

इति भोगद्वादशान्तेन गृहीत्वा पूरकेन हृत्स्थं कृत्वा यथा वन्दन सा तत्र पूजयेदिति गुरवः ॥

अथ मेलाप विद्यां त्रिः पठेत् ॥

ओं ह्रीं श्रीं सः सः सुखसौभाग्यदायिनि हंस वागीश्वरि

प्. ८८)

एह्ये हि हम २ सन्निधानं कुरु २ सर्वसम्पत्प्रदायिनि सर्वदुष्ट निवारणि सर्वजगद्वसीकर्त्रि विभक्तानां
मन्त्राणां मेलापं कुरु २ प्रसादो भवतु मे ह्रीं श्रीं सः सः हूं हूं ॥

अथ क्षमामन्त्रः ॥

ओं ह्रीं श्रीं श्रीं स्त्रीं प्रीं ज्यं परमेश्वरषड्रसाधिपते सर्व समयशुद्धामृतवेशन
प्रविष्टां वहसन्निधानं कुरु २ कायिक वाचिक मानसपापं शोषय २ हृदय स्फीतिमुत्पादय २ हृदय
शुद्धिं भेदय २ सुरार्चावलेपं निवारय २ मद्देहे तिष्ठ २ स्थूलसूक्ष्मवहन सप्तपाताल नागवासिने
हूं हूं फट् स्वाहा ॥

उत्तिष्ठोत्तिष्ठ देवेशत्वं मण्डलसुरैः सह ॥ रक्षास्मान् पूर्वतो नित्यं धृतास्तत्पुरुषाभिधाः ॥

तथा दक्षिणतो रक्ष देवदेवोसि शङ्करः ॥ वरुणाशागतो नित्यं सद्यो जातो सिरक्षमाम् ॥

ऊर्ध्वं रक्ष महेशानत्वमीशानोसि देवता ॥ सर्वथा सर्वदा देव सर्वत्रास्मिन् भवाध्वनि ॥

पाहिमां या हि देवेश नित्यानन्दमयं पदम् ॥

ब्रह्मादि स्तोत्रं पठित्वा मन्त्रकलशोदकेन वाऽर्घ्य पात्रोदकेन यजमानं सपरिवारं स्नपयेत् ॥

सुरास्त्वाभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥ वासुदेवो जगन्नाथस्तथा सङ्कर्षणः प्रभुः ॥

प्रद्युम्नश्चानिरुद्धश्च भवन्तु जयायते ॥ आखण्डलोग्निर्भगवान्यमो वै नैर्-ऋतस्तथा ॥

वरुणः पवनश्च वधनाधिक्षस्तथा शिवः ॥

प्. ८८ब्)

ब्रह्मणा सहितश्शेषो दिक्पालाः सन्तुते सदा ॥

कीर्तिर्लक्ष्मीर्वृतिर्मेधा पुष्टिः श्रद्धाक्षमामतिः । बुद्धिर्लजावपुः शान्तिः स्तुतिः कान्तिश्च
मातरः ॥

एतास्त्वामभिषिञ्चन्तु धर्मपत्न्याः समागताः ॥ आदित्यश्चन्द्रभोमाभौमो बुधजीवसितार्कजाः ॥

ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पितः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥

ऋषयो मुनयोगावो देवमातर एव च ॥ देव पत्न्यो ध्रूवानागा दैत्याश्चाप्सरसां गणाः ॥

अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥ औषधानि च रत्नानि कैलासः वायवाश्चये ॥

सरितः शागराः शैलास्तीर्थानि जलदानि च ॥ एतास्त्वामभिषिञ्चन्तु सर्वकामार्थ सिद्धये ॥

मन्त्रार्थाः सफलास्सन्तु पूर्णास्सन्तु मनोरथाः ॥ शत्रूणां बुद्धि नाशोस्तु मित्त्राणामुदस्भुयो स्तुमे


इति लघुपरिपाट्या अग्निकार्या समप्ता ॥ सवत् १६ श्राशुति द्वितीयस्यां गुरौ ॥

ओं अथातः संप्रवक्ष्यामि पशुलक्षणमुत्तमम् । उत्तमौ सितकृष्णौ च मध्यमौ चित्रपाण्डुरौ ॥

लोहितः कपिलश्चैव कनिष्ठः परिकीर्तितः । कृष्णवर्णो बलिः पुच्छः श्वेतवर्णो यदा भवेत् ॥

तादृशं च्छागलं दृष्ट्वा दूरतः परिवर्जयेत् । एवं सितं कृष्णपुच्छं मतिमान्वर्जयेत् सदा ॥

जलाभिलाषी नृपतिर्नृपशुं परिकल्पयेत् । सर्वलक्षणसंपूर्णं सुन्दरं पशुमर्पयेत् ॥

वयोवृद्धं वृहत्कर्णं सर्वाङ्गपरिपूरितम् । पुष्ट्यर्थं छागलं देयं शान्त्यर्थं मेषमेव च ॥

हीनाङ्गमधिकाङ्गं च कृषं बालं विवर्जयेत् । अङ्गहीने च दारिद्र्यमधिके शत्रूवर्धनम् ॥

कृषे च व्याधिपीडा स्याद्बाले बलौ बलं हरेत् । श्वेतपुच्छो हरेद्द्रव्यं कृष्णपुच्छो हरेत् प्रजाः ॥

शृङ्गहीनोहरेद्बन्धुं कर्णहीनो श्रियं हरेत् । नेत्र हीनो हरेदायुर्व्याधितो दुःखदौर्बलात् ॥

तस्माद्विचार्य यत्नेन पशुर्ग्राह्यः सुरेश्वरि । ब्राह्मी मन्त्रं न्यसेत् पूर्वं कर्णमूले च दक्षिणे ॥

पञ्चोपचारपूजां तु मण्डलाग्रे तु कारयेत् ।

ईश्वरः ॥

अजा विकैर्बलिगणैरर्चयेद्वीरमुत्तमम् । बलिं दत्वा तु विधिवत्प्राप्यते सिद्धिमुत्तमाम् ॥

अर्घैः कुसुमसिन्धुरैरर्चयेद्बलिमुत्तमाम् । प्राणं च दापयेद् देवि बलिमजमविं तथा ॥

न स्त्री शण्ठैर्बलिर्देयो दत्वा विघ्नमवाप्नुयात् । सिद्धिमाप्नोति मनुजः सद्योधूननतो बलेः ॥

भूमौ तिष्ठन्विघ्न चयं शिरोधूननतोपि च । तस्मात् सर्वप्रयत्नेन विधिना बलिमर्चयेत् ॥

मन्त्रयेत् पशुमन्त्रेण वेद तन्त्रोद्भवेन च । रुद्रः खुन्तेति मन्त्रेण यः पशुं चार्पयेत् सदा ॥

सः पशुः स्वर्गमाप्नोति यः पशुं चार्पयेत् सदा ॥

सपशुः स्वर्गमाप्नोति

प्. ८९ब्)

ओं कलशमण्डलस्थं भगवन्तं क्षमापयेत् । य एकः सर्वविद्देवः साक्षी विश्वस्य कर्मणः ॥

ब्रह्माद्यैरप्य गम्योयस्ममया पूजितो ध्वरे । सकलो निष्कलो देवो द्वादशान्त पदं स्थितः ॥

स देवो भगवाञ्शम्भुः खेदितोस्मिन् क्रिया विधौ । य एव सृष्टि संरक्षा संहारकरण क्षमः ॥

त्रिरूपस्त्रिगुणश्शम्भुस्समया पूजितो ध्वरे । ये नेव देवदेवेन निर्गुणेनात्मरूपिणा ॥

साशक्तिस्त्रीविधो पात्ता समया पूजितो ध्वरे । अस्य मे सफलं जन्म अद्य मे सफलाः क्रियाः ॥

एवं प्रभावो यच्छम्भुः पूजितोस्मिन्मया ध्वरे । त्वमेवभगवान्साक्षादेकः संसारतारकः ॥

भुक्तिमुक्ति प्रदश्चैक एक एवाखिलाश्रयः । अनाथमद्यमां देवरक्षास्मात्पापसङ्कटात् ॥

सिद्धिमृद्धिं तथा बुद्धिं शुद्धिं मानसिकीं मयि । देहि भोगं च मोक्षं च मनोभिलषितं ध्रूवम् ॥

सर्वथात्र महेशान देहि सिद्धिं च शाश्वतीम् । अनामय पदं शम्भो देहि मे परमेश्वर ॥

इदानीं परमेशान क्षम्यतां क्षम्यतां प्रभो । आयासितोसि यज्ञेस्मिंस्तुष्टो या हि स्वकं पदम् ॥

सर्वदा सर्वथा शम्भो सर्वस्मिञ्जन्मकर्मणि । यस्यास्ति शाश्वती भक्तिः स नरो मुक्तिभाग्भवेत् ॥

यत्पूर्वजन्मनि मयावर्त माने च जन्मनि । पापं कृतं करोम्यत्र तस्मात्ताः यमे प्रभो ॥

संसारसागरान्तस्थं कोमामुद्धर्तु मर्हति । नृते मद्वचनस्यास्य कर्णधाराच्छिवात्प्रभो ॥

अघोरघोरसंसार *?रापहरणोद्यतः । परमानन्ददातासौ भूयाज्जन्मनि जन्मनि ॥

अथवा जन्मशङ्कापि न मे शिव प्रसादतः । दीक्षानिर्दग्ध पाशस्य बन्धनं मे कुतः प्रभो ॥

स्च् ९२)

संसारयन्त्र परतन्त्रितवासनोहं मन्त्रं स्रयेतवविभो शरणं स तन्त्रम् । बुद्धिर्न मे विविध
शास्त्रविबोधसारा तत्तत्सुकर्मकरणेन मनः प्रसादि । इति देवं क्षमाप्य । गणेश्वरादींश्च विसर्जयेत्


यथा । गणेशाद्या स्मृतायेत्र द्वारपालन कर्मणि । इन्द्राद्या लोकपालाश्च ह्यादित्याद्वा नवग्रहाः ।
कपालेशादयो ये च भैरवा भैरव्याश्रिताः ॥

सप्तावरण मन्त्राश्च तथा वक्त्रादि देवताः । वटुकाद्या हेरुकाद्याः क्षेत्रपालाश्च शास्वताः ॥

ते सर्वे विविधान्भोगान्दत्वायान्तु स्वकं पदम् । गणेश्वर महाचण्ड विघ्नौघ ध्वंस कारक ॥

पूजां गृहाण मे देव गणवक्त्र नमोस्तुते । षडाननस्य सर्वस्य प्रिय मुद्रामरार्चित ॥

पूजां गृहाण मे देव कार्तिकेय नमोस्तुते । मातर्लक्ष्मी त्रिलोकेशि ख्यातामल स्वरूपिणि ॥

पूजां गृहाण मे देवि सिद्धिं देहि सनातनम् । भगवन्देव राजत्वं मयासं खेदितो मखे ॥

पूजां गृहाण देवेश क्षम्यतां क्षम्यतां प्रभो १ । भगवन्भगवन्वह्ने त्वं मया खेदितो मखे ॥

पूजां गृहाण देवेश क्षम्यतां २ प्रभो २ भगवन्धर्मराजत्वं मया संखेदितो मखे ॥ शिव पूजां
गृहाणत्वं क्षम्यतां २ प्रभो ३ भगवन्निर्-ऋते रक्ष घोरात्संसारसागरात् ॥ संखेदितोसि समये या हि
धामस्वकं प्रभो ४ भगवन्वरुणाद्यत्वं यज्ञे श्री शिवदैवते ॥

खेदितोसि मयादेव या हि स्वधाम पावनम् ५ । भगवन्भगवन्वायो खेदितः शाम्भवे मखे ॥

त्वं मयार्चां गृहीत्वे माया

स्च् ९२)

ओं श्री गुरुभ्यो नमः । ओं नमामि सत्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् । शिरसायोगपीठस्थं
मुक्तिकामार्थ सिद्धये ॥

श्रीगुरुं परमानन्दं वन्दाम्यानन्दविग्रहम् ॥ यस्य सान्निधिमात्रेण चिदानन्दायते परम् । अज्ञान
तिमिरान्धस्य ज्ञानाञ्जनशलाकया ॥

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ॥

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ गुरुरेव परोमन्त्रो गुरुरेव परागतिः ॥

गुरुरेव परां विद्यां नास्तिकिञ्चिद्गुरुं विना । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः ॥

गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः । अज्ञान दुःखशमनं नरकार्ण शोषणम् ॥

मुक्तिद्वारस्य सोपानं तस्मै श्री ।

गुरुर्देवि परो मन्त्रो गुरुरेव परागतिः । गुरुमभ्यर्चयेन्नित्यं येन देवि प्रसीदति ॥

नमस्ते नाथ भगवञ्छिवाय गुरुरूपिणे । विद्यावतारसंसिद्ध्यै स्वीकृतानेक विग्रह ॥

नवाय नवरूपाय परमार्थैक रूपिणे । सर्वाञान तमो भेद भाववेचिद्घनायते ॥

स्वतन्त्राय दयात्कॢप्तविग्रहाय परात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥

ज्ञानिनां ज्ञानरूपाय प्रकाशाय प्रकाशिनाम् । विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥

पुरस्थात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः । सदा सश्चित्तरूपेण विधे हि भवदासनम् ॥

ओं श्री देव्युवाच ॥

प्रायश्चित्त विहीनस्य फलं भोगाय केवलम् । सर्वसाक्षी महादेवो नरकानरका न सृजत्पुरा ।

स्च् ९३)

तस्मात्सर्वप्रयत्नेन प्रायश्चित्तमिहैव तु कृतस्य कर्मणः कुर्यादनुलोपो भवेद्यदि ।

प्रमादादि महादोष प्रविलापन कारणम् । प्रायश्चित्तं परं सत्यं श्री गुरोः पादुका स्मृतिः ॥

त्वयैवोक्तं महेशान कथं स्मर्तव्यमीश्वर । वदमे कृपया देव श्रीगुरोः पादुका स्मृतिः ॥

ओं श्री भैरव उवाच ॥

शृणु देवि प्रवक्ष्यामि श्रीगुरोः पादुकास्तुतिम् । प्रायश्चित्त विहीनानां सर्वपापहरं कलौ ॥

ओं यस्य श्रीपादरज सारञ्जते मस्तके शिवः । रमते सह पार्वत्या तस्य श्रीपादुका स्तुतिः ॥

होमोहतमसाक्रान्तमुद्धरत्यन्ध कूपतः ।

केवलं कृपया नाथ तस्य श्री० ।

यस्य त्रैलोक्यमखिलं सश्चिदानन्द लक्षणम् ॥ पूर्यते स्वगुणैः शक्त्या तस्य श्री०

यस्य त्रैलोक्यमखिलं वशीतिष्ठत्य शेषत ।

स्वदृष्टिपातमात्रेण तस्य श्री० ।

यस्मै सर्वस्व मात्मानमेकी कृत्यापि भक्तितः ।

समर्पयति तच्छिष्यः तस्य श्री० ।

यमाश्रत्यात्म विज्ञानं सविदे मृगया महे ।

हैतुकैर्मूषितं दोषैस्तस्य श्री० ।

यस्मिन् सृष्टि स्थिति ध्वंस पिधानानुग्रहात्मकम् ।

प्रकाशते पञ्चकृत्यं तस्य श्री० ।

हृदि मूले ललाटे च द्वादशान्ते परा शिवः ।

यस्याज्ञां पालयन्नास्ते तस्य श्री० ।

आद्यन्ते दृढभेदस्य पशोः पाशविमोचनम् ।

यमाहुः शाम्भवी वाचस्तस्य श्री० ॥

यस्य पादतले सिन्धुः पादाग्रे कुलप हि धाम स्वके च्छया ६ ।

स्च् ९३)

भगबन्धनदाद्यत्वं खेदितः शाङ्करे कृतौ । गृहीत्वार्चां मयादत्तां क्षम्यतां २ प्रभो ७ ॥

भगवन्देवदेवत्वमीशानार्चां स्वके मखे । गृहीत्वा देहि मे सर्व पुरुषार्थं प्रथा हि च ८ ॥

भगवंस्त्रि जगत्पूज्य सर्वलोक पितामह । शैवे ध्वरे कृतारक्षा त्वया तत्क्षम्यतां प्रभो ९ ॥

भगवन्भगवन्विष्णो कृतदानवनाशन । शैवे ध्वरे कृतारक्षा त्वया तत् क्षम्यतां प्रभो १० ॥

भगवन्तो ग्रहाः सर्वे येन्ये चोपग्रहा मताः । ग्रह्णीत पूजां मद्दत्तां तुष्टायात स्वकं पदम् ॥

कपालेशाद्य भगवन्खेदितः शक्र पूजित । शैवे ध्वरे मया त्यर्थं भैरवेन्द्र नमोस्तुते ॥ १ ॥

शाङ्करेद्य मया यज्ञे भगवञ्शिखि वाहन पूजितः । खेदितोसि त्वां तुष्टो या हि स्वकं पदम् ॥ २ ॥

भगवन्क्रोधराजत्वं धर्मराजप्रपूजित । कृतारक्षा मखे शैवे या हि स्वं विमलं पदम् ॥ ३ ॥

भगवन्विकरालत्वं सदानिर्-ऋत पूजित । शैवीं पूजां गृहाणत्वं या हि स्वं विमलं पदम् ॥ ४ ॥

भगवन्मन्मथे सत्वं वरुणेन कृतार्चन । खेदितः शिवयज्ञेस्य क्षम्यतां २ प्रभो ॥ ५ ॥

भगवन्मेघनादत्वं वायुना पूजितानघ । शैवे यज्ञे खेदितस्त्वं क्षम्यतां २ प्रभो ॥ ६ ॥

भगवन्सोमराजाद्य खेदितोदनदार्चित । शैवे ध्वरे कृतारक्षाक्षम्यतां २ प्रभो ॥ ७ ॥

विद्याराजाद्य भगवञ्शैवेस्मिन् मख कर्मणि । आयासितोसि देवत्वं क्षम्यतां क्षम्यतां प्रभो ॥ ८ ॥

सप्तावरणके मुष्मिन्ननन्ताद्याः स्थिताश्चये । ते सर्वे पूजितास्तुष्टा यान्तु शैवं परं पदम् ॥

इत्यावरणक्षमा पुष्पाणि ।

शम्भो शिव जगन्नाथ भगवन् खेदितो मया । त्वं देवो देवदेवानां त्वमेव परमागतिः ॥

त्वं भुक्तिमुक्तिकोदाता कारणानां च कारणम् । त्वयि तुष्टे सुरा तुष्टाः सकलाः सन्ति नित्यशः ॥

भवत्प्रसादतो देव यज्ञोयं शिव दैवतः । षदुध्वदीक्षा संज्ञाश्च सम्पन्नः शिष्य हेतुकः ॥

इदानीं नोपरोद्धव्यं गच्छ देव स्वविष्टपम् ।

अग्नेरपि क्षमा पुष्पाणि ।

भगवन्भगवन्वह्नेत्वं सुराणां मुखं परम् । प्रत्यक्ष देवो भूलोके सर्वकर्म प्रतारकः ॥

अन्तर्बहिश्च लोकानां त्वमेव कृत सन्निधिः । त्वयि तुष्टे सुरास्तुष्टा इत्याहुस्सनकादयः । खेदितोसि मया
यज्ञे दीक्षाकर्मणि साम्प्रतम् ॥

धर्मं दानं सुतांश्चैव दत्वाया हि स्वकं पदम् ।

इति वह्नेः क्षमापनम् ॥

अथ कलशद्वयोत्थापन मन्त्रः ।

उत्तिष्ठ देवदेवश त्वं मण्डल सुरैः सह । रक्षास्मान्पूर्वतो नित्यं धृत तत्पुरुषाभिधः ॥

तथा दक्षिणतो रक्ष धृताघोरात्म भैरवः । तथैवोत्तरतो रक्ष वामदेवोसि शङ्कर ॥

वरुणाशागतो नित्यं सद्यो जातासिरक्षमाम् । ऊर्ध्वं रक्षमहेशान त्वमीशानोसि देवता ॥

सर्वतः सर्वथा देव सर्वत्रास्मिन् भवाध्वनि । पाहिमां या हि देवेश नित्यानन्दमयं परम् ॥

इति मन्त्रकशास्त्र कलजलैः स्वात्मानं शिष्यंश्चाभिषिञ्चेत् ।

ततः श्री परमशिवशक्ति पातसु कृतो पलब्ध श्रीमदघोरमन्त्र सा समांसः शाक उच्यते ।

स्च् ९४ब्)

साधकोर्चन सा दद्यात् सुप्रसन्नेन चेतसा । बलिं सङ्कल्प्य मनसा यो वर्षान्तं न दास्यति ॥

तस्य विघ्नकरा देवाः पशुन्पुत्रान्हरन्तिते । तस्मात्सङ्कल्पितं दद्याद् देवेभ्यो बलिमुत्तमाम् ॥

शीघ्रमेव न दद्याद्वै विघ्नैरन्तरितो यदि । बलिदानादवाप्नोति सिद्धिमिष्टां च सत्वरम् ॥

तस्मात् सर्व प्रयत्नेन न विलम्बं हि कारयेत् । सङ्कल्पित विलम्बाद्धि प्राप्यते विघ्न सञ्चयम् ॥

जयं सिद्धिं च ऋद्धिं च शीघ्रं पूर्वमुखो बलिः । धूननं चेन्महादेवि तदा सर्वं विनिर्दिशेत् ॥

ऐशान्यां मन्त्रसिद्धिस्यादाग्नेयां विजयस्तथा । धूननाश्च बलेर्यास्यां मृत्युमन्तकमादिशेत् ॥

नैर्-ऋत्यां तु समं ज्ञेयं वारुण्यां विघ्ननाशनम् । वायव्यां धनवृद्धिः स्यादुत्तरस्यां ध्रूवो
जयः ॥

अन्यत्रापि तुष्टास्तु देवताः पूर्वे ह्याग्ने ये बहुमङ्गलम् । दक्षिणे मृत्युमाप्नोति वायावुश्चाटनं भवेत्


कौवीर्यां तु श्रियो नित्यमैशान्यां ज्ञानमेव च । नैर्-ऋत्ये ज्ञातिमरणं वारुणे तु महाफलम् ॥

एवं लक्षणमालक्ष्य पशुच्छेदं समारभेत् । यावन्न कम्पते देहं तावन्नैवोप घातयेत् ॥

पशुश्च स्वर्गतिं याति घातीपापं न विन्दति । रक्तं च क्षेत्रपालेभ्यः सव्यहस्तयुतं शिरः ॥

इष्टाय कल्पयेद्देवि यद्धृत्खण्डं तु चक्रके । हृत्पद्मं योगिनीभ्यश्च दत्वा प्रीतिमवाप्नुयात् ॥

बलिं दत्वा तु देवीशि यो विधिं न समाचरेत् । पशुहत्यामवाप्नोति चेति सत्येन तेशपे ॥

अदत्वा विघ्नसङ्घाश्च प्राप्नुयाश्च पदे पदे । पशुहत्यामपीशानि सिद्धिन्धानिं च सुन्दरि ॥

स्वार्थे पशुबधो हिंसा यज्ञे पशुं वधो बलिः । इत्थं पशुबधः प्रोक्तो वेद तन्त्रानु शासनम् ॥

स्च् ९५)

यज्ञार्थं पशवः सृष्टा यज्ञार्थं पशुघातनम् । अतस्त्वां घातयिष्यामि तस्माद्यज्ञ विधो वधः


हस्ता देव समुच्छिद्य यस्य तद्योगिनी हरेत् । तस्य सर्वत्र सिद्धिस्याज्जयश्चैव न संशयः ॥

अवशिष्टबलिं कुर्युर्योगिन्यो वासा अपि । साधकस्य महेशानि विघ्नसङ्घाः पदे पदे ॥

वायसा अपि देवेशि शीघ्रं यद्बलिमाहरेत् । तस्यापि साधकस्याशुजय एव न संशयः ॥

असन्तर्प्य तु क्षेत्त्रेशान्योगिन्यभ्योय आददेत् । बलिं महानिमाप्नोति साधकः शुभलक्षणे ॥

तस्मात्सर्व प्रयत्नेन भैरवमर्चयेत् सदा ।

अथ पशुपहारलक्ष्ऽनम् ।

उपहारं प्रवक्ष्यामि वाक्येन सुरसुन्दरि । यज्ञे विवाह कालेषु देव्यर्चायां सुरार्चने ॥

अजाविकमहिषश्च वपुः संपूरितो भवेत् । कर्णं सुपर्ण शृङ्गीनां हीनाङ्गादि तुष्टौ?दिम् ॥

गायत्र्या चाभिमन्त्रेण पठेत् कर्णे तु दक्षिणे । देवताग्रे पशुं प्राप्यास्नापयेत् परितो जलैः ॥

अनेन तु विधानेन मुच्यते जन्मनः पशुः । शुभं वात्र? शुभं वापि लक्षणं तु परीक्षयेत् ॥

शिरश्चाले स्वामि भयं प्रारम्भे तु यदा भवेत् । निषद्धे तु भयं विन्द्याद् देव दोषो भविष्यति ॥

मूर्ध्नि व्याधिसु? बाहुल्यं कम्पिते च ह्युपद्ध्रूवम् । मूत्रेण त्वग्नि दाहः स्याद्विष्टिपाते धनक्षयः ॥

पश्चाद्राज कुलाद्धानिजयस्तमग्रतो भवेत् । वाहने नित्यदुःखानि भ्रामणे चः कुलक्षय । एवं चिह्नं
परीक्ष्यं सुलक्षणे लक्षणं महत् ॥

न हीनंते न जात्वैवं देवताग्रे नियोजयेत् । दातको घातको भोगी त्रिभिर्वद्यं प्रकल्पयेत् ॥

अनैवेद्यं न भोक्तव्यं मनर्पितं न घातयेत् । देयं सर्वत्र मांसादि असुरासुर क्षेत्रपान् ॥

शिरस्तु सर्वदेवानामादी भैरव तर्पणे । त्वक्षेव गणनाथस्य महाकालगण्डरम् ॥

अन्त्रैवैक्षेत्रपालानां काल मांसं तुक्षे चरीम् विष्टिर्य

"https://sa.wikisource.org/w/index.php?title=अग्निकार्यपद्धतिः&oldid=210761" इत्यस्माद् प्रतिप्राप्तम्