सेवाचक्रम्

सेवाचक्रं प्रवक्ष्यामि लाभालाभानुसूचकं(२) ।१३२.००१
पिता माता तथा भ्राता दम्पती च विशेषतः ॥१३२.००१
टिप्पणी
२ लाभालाभार्थसूचकमिति झ.. , ञ.. च

तस्मिंश्चक्रे तु विज्ञेयं यो यस्माल्लभते फलं ।१३२.००२
षडूर्ध्वाः स्थापयेद्रेखा भिन्नाश्चाष्तौ तु तिर्यगाः ॥१३२.००२
कोष्ठकाः पञ्चत्रिंशच्च तेषु वर्णान् समालिखेत् ।१३२.००३
स्वरान् पञ्च समुद्धृत्य स्पर्शान् पश्चात्समालिखेत् ॥१३२.००३
ककारादिहकारान्तान् हीनाङ्गांस्त्रीन्विवर्जयेत् ।१३२.००४
सिद्धः साध्यः सुसिद्धश्च अरिर्मृत्युश्च नामतः ॥१३२.००४
अरिर्मृत्युअश्च द्वावेतौ वर्जयेत्सर्वकर्मसु ।१३२.००५
एषां मध्ये यदा नाम लक्षयेत्तु प्रयत्नतः ॥१३२.००५
आत्मपक्षे(१) स्थिताः सत्त्वाः सर्वे ते शुभदायकाः ।१३२.००६
द्वितीयः पोषकाश्चैव तृतीयश्चार्थदायकः ॥१३२.००६
आत्मनाशश्चतुर्थस्तु(२) पञ्चमो मृत्युदायकः ।१३२.००७
स्थानमेवार्थलाभाय मित्रभृत्यादिवान्धवाः ॥१३२.००७
सिद्धः साध्यः सुसिद्धश्च सर्वे ते फलदायकाः ।१३२.००८
अरिर्भृत्यश्च द्वावेतौ वर्जयेत्सर्वकर्मसु(३) ॥१३२.००८
अकारान्तं यथा प्रोक्तं अ+इ+उ+ए+ओ विदुस्तथा ।१३२.००९
पुनश्चैवांशकान् वक्ष्ये वर्गाष्टकसुसंस्कृतान् ॥१३२.००९
देवा अकारवर्गे दैत्याः कवर्गमाश्रिताः ।१३२.०१०
नागाश्चैव चवर्गाः स्युर्गन्धवाश्च टवर्गजाः ॥१३२.०१०
टिप्पणी
१ स्वार्थपक्षे इति ख.. , घ.. , ज.. , ञ.. च । स्वात्मपक्षे इति झ..
२ स्वार्थनाशश्चतुर्थस्तु इति ख.. , घ.. , ङ.. , ज.. , ञ.. च
३ अरिर्मृत्युरित्यादिः, सर्वकर्मसु इत्यन्तः पाठः छ.. पुस्तके नास्ति

तवर्गे ऋषयः प्रोक्ताः पवर्गे राक्षसाः स्मृताः ।१३२.०११
पिशाचाश्च यवर्गे च शवर्गे मानुषाः स्मृताः ॥१३२.०११
देवेभ्यो बलिनो दैत्या दैत्येभ्यः पन्नगास्तथा(१) ।१३२.०१२
पन्नगेभ्यश्च गन्धर्वा गन्धर्वादृषयो वराः ॥१३२.०१२
ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः ।१३२.०१३
पिशाचेभ्यो मानुषाः स्युर्दुर्बलं वर्जयेद्बली ॥१३२.०१३
पुनर्मित्रविभागन्तु ताराचक्रं क्रमाच्छृणु ।१३२.०१४
नामाद्यक्षरमृक्षन्तु स्फुटं कृत्वा तु पर्वतः ॥१३२.०१४
ऋक्षे तु संस्थितास्तारा नवत्रिका यथाक्रमात् ।१३२.०१५
जन्म सम्पद्विपत्क्षेमं नामर्क्षात्तारका इमाः ॥१३२.०१५
प्रत्यरा धनदा षष्ठी नैधनामैत्रके परे ।१३२.०१६
परमैत्रान्तिमा तारा जन्मतारा त्वशोभना ॥१३२.०१६
सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला ।१३२.०१७
क्षेमतारा सर्वकार्ये प्रत्परा अर्थनाशिनी(२) ॥१३२.०१७
धनदा राज्यलाभादि नैधना कार्यनाशिनी ।१३२.०१८
मैत्रतारा च मित्राय परमित्रा हितावहा(३) ॥१३२.०१८
ताराचक्रम् ।
मात्रा वै स्वरसञ्ज्ञा स्यान्नाममध्ये क्षिपेत्प्रिये ।१३२.०१९
विंशत्या च हरेद्भागं यच्छेषं तत्फलं भवेत् ॥१३२.०१९
उभयोर्त्रासमध्ये तु लक्षयेच्च धनं ह्यृणं ।१३२.०२०
हीनमात्रा ह्यृणं ज्ञेयन्धनं मात्राधिकं पुनः ॥१३२.०२०
टिप्पणी
१ पन्नगास्तत्र इति क.. , ग.. , घ.. , ङ.. , ञ.. च । पन्नगाः स्मृता इति झ..
२ प्रत्यरा चात्मनाशिनी इति छ..
३ हिताय चेति ङ..

धनेन मित्रता नॄणां ऋणेनैव ह्युदासता ।१३२.०२१
सेवाचक्रमिदं प्रोक्तं लाभालाभादिदर्शकं ॥१३२.०२१
मेषमिथुनयोः प्रीतिर्मैत्री मिथुनसिंहयोः ।१३२.०२२
तुलासिंहौ महामैत्री एवं धनुर्घटे पुनः ॥१३२.०२२
मित्रसेवां न कुर्वीत मित्रौ मीनवृषौ मतौ ।१३२.०२३
वृषकर्कटयोर्मैत्री कुलीरघटयोस्तथा ॥१३२.०२३
कन्यावृश्चिकयोरेवन्तथा मकरकीटयोः ।१३२.०२४
मीनमकरयोर्मैत्री तृतीयैकादशे स्थिता ॥१३२.०२४
तुलामेषौ महामैत्री विद्विष्टो वृषवृश्चिकौ ।१३२.०२५
मिथुनधनुषोः प्रीतिः कर्कटमकरयोस्तथा ॥१३२.०२५
मृगकुम्भकयोः प्रीतिः कनामीनौ तथैव च ॥२६॥१३२.०२६

इत्याग्नेये महापुराणे युद्धजयार्णवे सेवाचक्रं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥