← अध्यायः २०८ अग्निपुराणम्
अध्यायः २०९
वेदव्यासः
अध्यायः २१० →


दानपरिभाषाकथनं

अग्निरुवाच
दानधर्मान् प्रवक्ष्यामि भुक्तिमुक्तिदान् शृणु ।२०९.००१
दानमिष्टं तथा पूर्तं धर्मं कुर्वन् हि सर्वभाक् ॥२०९.००१
वापीकूपतडागानि देवतायतनानि च ।२०९.००२
अन्नप्रदानमारामाः पूर्तं धर्मं च मुक्तिदं ॥२०९.००२
अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनं ।२०९.००३
आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टञ्च नाकदं ॥२०९.००३
ग्रहोपरागे यद्दानं सूर्यसङ्क्रमणेषु च ।२०९.००४
द्वादश्यादौ च यद्दानं पूर्तं तदपि नाकदं ॥२०९.००४
देशे काले च पात्रे च दानं कोटिगुणं भवेत् ।२०९.००५
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥२०९.००५
युगादिषु च सङ्क्रान्तौ चतुर्दश्यष्टमीषु च ।२०९.००६
सितपञ्चदशीसर्वद्वादशीष्वष्टकासु च ॥२०९.००६
यज्ञोत्सवविवाहेषु तथा मन्वन्तरादिषु ।२०९.००७
वैधृतौ दृष्टदुःस्वप्ने द्रव्यब्राह्मणलाभतः ॥२०९.००७
श्रद्धा वा यद्दिने तत्र सदा वा दानमिष्यते ।२०९.००८
अयने द्वे विषुवे द्वे चतस्रः षडशीतयः ॥२०९.००८
चतस्रो विष्णुपद्यश्च सङ्क्रात्यो द्वादशोत्तमाः ।२०९.००९
कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ॥२०९.००९
षडशीतिमुखाः प्रोक्ताः षडशीतिगुणाः फलैः ।२०९.०१०
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने ॥२०९.०१०
त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ।२०९.०११
वर्तमाने तुलामेषे नाड्यास्तुभयतो दश ॥२०९.०११
षडशीत्यां व्यतीतायां षष्टिरुक्तास्तु नाडिकाः ।२०९.०१२
पुण्याख्या विष्णुपाद्याञ्च प्राक्पश्चादपि षोडश ॥२०९.०१२
श्रवणाश्विधनिष्ठासु नागदैवतमस्तके ।२०९.०१३
यदा स्याद्रविवारेण व्यतीपातः स उच्यते ॥२०९.०१३
नवम्यां शुक्लपक्षस्य कार्त्तिके निरगात्कृतं ।२०९.०१४
त्रेता सिततृतीयायां वैशाखे द्वापरं युगं ॥२०९.०१४
दर्शे वै माघमासस्य त्रयोदश्यां नभस्यके ।२०९.०१५
कृष्णे कलिं विजानीयाज्ज्ञेया मन्वन्तरादयः ॥२०९.०१५
अश्वयुकच्छुक्लनवमी द्वादशी कार्त्तिके तथा ।२०९.०१६
तृतीया चैव माघस्य तथा भाद्रपदस्य च ॥२०९.०१६
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।२०९.०१७
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥२०९.०१७
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ।२०९.०१८
कार्त्तिके फाल्गुने तद्वज्ज्यैष्ठे पञ्चदशी तथा ॥२०९.०१८
ऊर्ध्वे चैवाग्रहायण्या अष्टकास्तिस्र ईरिताः ।२०९.०१९
अष्टकाख्या चाष्टमी स्यादासु[१](१) दानानि चाक्ष्ययं ॥२०९.०१९
गयागङ्गाप्रयागादौ तीर्थे देवालयादिषु ।२०९.०२०
अप्रार्थितानि दानानि विद्यार्थं कन्यका न हि ॥२०९.०२०
दद्यात्पूर्वमुखो दानं गृह्णीयादुत्तरामुखः ।२०९.०२१
आयुर्विवर्धते दातुर्ग्रहीतुः क्षीयते न तत् ॥२०९.०२१
नाम गोत्रं समुच्चार्य सम्प्रदानस्य चात्मनः ।२०९.०२२
सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं ॥२०९.०२२
स्नात्वाभ्यर्च्य व्याहृतिभिर्दद्याद्दानन्तु सोदकं ।२०९.०२३
कनकाश्वतिला नागा दासीरथमहीगृहाः ॥२०९.०२३
कन्या च कपिला धेनुर्महादानानि वै दश ।२०९.०२४
श्रुतशौर्यतपःकन्यायाज्यशिष्यादुपगतं ॥२०९.०२४
शुल्कं धनं हि सकलं शुल्कं शिल्पानुवृत्तितः ।२०९.०२५
कुशीदकृषिवाणिज्यप्राप्तं यदुपकारतः ॥२०९.०२५
पाशकद्यूतचौर्यादिप्रतिरूपकसाहसैः ।२०९.०२६
व्याजेनोपावर्जितं कृत्स्नं त्रिविधं त्रिविधं फलं ॥२०९.०२६
अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि ।२०९.०२७
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतं[२](१) ॥२०९.०२७
ब्रह्मक्षत्रविशां द्रव्यं शूद्रस्यैषामनुग्रहात् ।२०९.०२८
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्र्यियः ॥२०९.०२८
कुलानान्तु शतं हन्यादप्रयच्छन् प्रतिश्रुतं ।२०९.०२९
देवानाञ्च गुरूणाञ्च मातापित्रोस्तथैव च ॥२०९.०२९
पुण्यं देयं प्रयत्नेन यत्पुण्यञ्चार्जितं क्वचित् ।२०९.०३०
प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकं ॥२०९.०३०
श्रद्धया साध्यते धर्मो दत्तं वार्यपि चाक्षयं ।२०९.०३१
ज्ञानशीलगुणोपेतः परपीडावहिष्कृतः ॥२०९.०३१
अज्ञानां पालनात्त्राणात्तत्पात्रं परमं स्मृतं ।२०९.०३२
मातुः शतगुणं दानं सहस्रं पितुरुच्यते ॥२०९.०३२
अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयं ।२०९.०३३
अमनुष्ये समं दानं पापे ज्ञेयं महाफलं ॥२०९.०३३
वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणं ।२०९.०३४
वैश्ये चाष्टगुणं क्षत्रे षोडशत्वं द्विजव्रुवे ॥२०९.०३४
वेदाध्याये शतगुणमन्तं वेदबोधके[३](१) ।२०९.०३५
पुरोहिते याजकादौ[४](२) दानमक्षयमुच्यते ॥२०९.०३५
श्रीविहीनेषु यद्दत्तं तदनन्तं च यजवनि ।२०९.०३६
अतपस्व्यनधीयानः प्रतिग्रहरुचिर्द्विजः ॥२०९.०३६
अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ।२०९.०३७
स्नातः सम्यगुपस्पृश्य गृह्णीयात्प्रयतः शुचिः ॥२०९.०३७
प्रतिग्रहीता सावित्रीं सर्वदैव प्रकीर्तयेत्[५](३) ।२०९.०३८
ततस्तु कीर्तयेत्सार्धं द्रव्येण सह दैवतं ॥२०९.०३८
प्रतिग्राही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् ।२०९.०३९
मन्दं पठेत्क्षत्रियात्तु उपांशु च तथा विशः ॥२०९.०३९
मनसा च तथा शूद्रात्स्वस्तिवाचनकं तथा ।२०९.०४०
अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता ॥२०९.०४०
कन्या दासस्तथा दासी प्राजापत्याः प्रकीर्तिताः ।२०९.०४१
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥२०९.०४१
तथा चैकशफं सर्वं याम्यश्च महिषस्तथा ।२०९.०४२
उष्ट्रश्च नैर्ऋतो धेनू रौद्री छागोऽनलस्तथा ॥२०९.०४२
आप्यो मेषो हरिः क्रीड आरण्याः पशवोऽनिलाः ।२०९.०४३
जलाशयं वारुणं स्याद्वारिधानीघटादयः ॥२०९.०४३
समुद्रजानि रत्नानि हेमलौहानि चानलः ।२०९.०४४
प्राजापत्यानि शस्यानि पक्वान्नमपि सत्तम ॥२०९.०४४
गान्धर्वं गन्धमित्याहुर्वस्त्रं वार्हस्पतं स्मृतं ।२०९.०४५
वायव्याः पक्षिणः सर्वे विद्या ब्राह्मी तथाङ्गकं ॥२०९.०४५
सारस्वतं पुस्तकादि विश्वकर्मा तु शिलप्के ।२०९.०४६
वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः ॥२०९.०४६
छत्रं कृष्णाजिनं शय्या रथ आसनमेव च ।२०९.०४७
उपानहौ तथा यानमुत्तानाङ्गिर ईरितं ॥२०९.०४७
रणोपकरणं शस्त्रं ध्वजाद्यं सर्वदैवतं ।२०९.०४८
गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता ॥२०९.०४८
शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतोऽस्ति हि[६](१) ।२०९.०४९
द्रव्यस्य नाम गृह्णीयाद्ददानीति तथा वदेत् ॥२०९.०४९
तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः ।२०९.०५०
विष्णुर्दाता विष्णुर्द्रव्यं प्रतिगृह्णामि वै वदेत् ॥२०९.०५०
स्वस्ति प्रतिग्रहं धर्मं भुक्तिमुक्ती फलद्वयं ।२०९.०५१
गुरून् भृत्यान्न जिहीर्षुरर्चिष्यन् देवताः पितॄन् ॥२०९.०५१
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयन्ततः ।२०९.०५२
शूद्रीयन्न तु यज्ञार्थं धनं शूद्रस्य तत्फलं ॥२०९.०५२
गुडतक्ररसाद्याश्च शूद्राद्ग्राह्या निवर्तिना ।२०९.०५३
सर्वतः प्रतिगृह्णीयादवृत्याकर्षितो द्विजः ॥२०९.०५३
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।२०९.०५४
दोषो भवति विप्राणां ज्वलनार्कसमा हि ते ॥२०९.०५४
कृते तु दीयते गत्वा त्रेतास्वानीय दीयते ।२०९.०५५
द्वापारे याचमानाय कलौ त्वनुगमान्विते ॥२०९.०५५
मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् ।२०९.०५६
विद्यते सागरस्यान्तो नान्तो दानस्य विद्यते[७](१) ॥२०९.०५६
अद्य सोमार्कग्रहणसङ्क्रान्त्यादौ च कालके ।२०९.०५७
गङ्गागयाप्रयागादौ तीर्थदेशे महागुणे ॥२०९.०५७
तथा चामुकगोत्राय तथा चामुकशर्मणे ।२०९.०५८
वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने ॥२०९.०५८
यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतं ।२०९.०५९
पुत्रपौत्रगृहैश्वर्यपत्नीधर्मार्थसद्गुणा ॥२०९.०५९
कीत्तिविद्यामहाकामसौभाग्यारोग्यवृद्धये ।२०९.०६०
सर्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये ॥२०९.०६०
एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः ।२०९.०६१
दिव्यान्तरीक्षभौमादिसमुत्पातौघघातकृत्(१) ॥२०९.०६१
धर्मार्थकाममोक्षाप्त्यै ब्रह्मलोकप्रदोऽस्तु मे ।२०९.०६२
यथानामसगोत्राय विप्रायामुकशर्मणे ॥२०९.०६२
एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे ।२०९.०६३
अनेन दानवाक्येन सर्वदानानि वै ददेत् ॥२०९.०६३

इत्याग्नेये महापुराणे दानपरिभाषा नाम नवाधिकद्विशततमोऽध्यायः ॥


  1. स्यादत्रेति ग.. , घ.. , ज.. , ञ.. च
  2. कुशोदेत्यादिः स्त्रीधनं स्मृतमित्यन्तः पाठः छ.. पुस्तके नास्ति
  3. ब्रह्मबोधके इति घ.. , ङ.. , ज.. , ञ.. , ट.. च
  4. पुरोहिते याचकादाविति ख.. , छ.. , ट.. च
  5. सर्वत्रैव प्रकीर्तयेदिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. , ट.. च
  6. यातोत्र हीति ज..
  7. न तद्दानस्य विद्यते इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ठ.. च