प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रथमः प्रश्नःसम्पाद्यताम्

प्रथमोऽध्यायःसम्पाद्यताम्

उपनयनं व्याख्यास्यामः सप्तमे वर्षे ब्राह्मणमुपनयीतैकादशवर्षे राजन्यं द्वादशे वर्षे वैश्यम् । वसन्ते ब्राह्मणं ग्रीष्मे राजन्यं शरदि वैश्यम् । आपूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अशितस्य कुमारस्य केशान् वापयित्वा स्नातयलङ्कृतमहतं वासः परिधाप्य प्राचीनप्रवण उदीचीनप्रवने प्रागुदक्प्रवणे समे वा देशे उद्धत्यावोक्ष्य सिकताभिः स्थण्डिलं कृत्वोल्लिख्याग्निं मथित्वा लौकिकं वाहृत्य निधाप्योपसमादधाति । प्रागग्रैर्दर्भैः परिस्तृणात्यपिवोदगग्राः पश्चात् पुरस्ताच्च भवन्ति । दक्षिणानुत्तरान् करोत्युत्तरानधरान् यदि प्रागुदगग्राः । दक्षिणेनाग्निं ब्रह्मायतने दर्भान् सँस्तीर्य मयि गृह्णामि यो नो अग्निः इति द्वाभ्यामात्मानमग्निं गृहीत्वोत्तरेणाग्निं दर्भान् सँस्तीर्याथास्य द्रव्याणि प्रयुनक्ति । अश्मानमहतं वासोऽजिनं मौञ्जीमेखलां त्रिवृतां ब्राह्मणस्य ज्यां राजन्यस्य आविकं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्यैकविंशतिदारुमिध्ममस्येत्याहुतिपरिमाणं वा । एतस्मिन् शम्याः परिधीनिध्म उपसन्नह्यति । दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयं येन चान्यानि प्रोक्ष्यते तच्च सकृदेवसर्वाणि यथोपपदं वा एतस्मिन् काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निं दक्षिणातिक्रम्य ब्रह्मासनात् तृणं निरस्याप उपस्पृश्याग्निमभिमुखमुपविशति । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रे पवित्रे कृत्वा अन्येन नखाच्छित्त्वाद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पूरयित्वा उदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति । तिरःपवित्रं प्रोक्षणीः संस्कृत्य यथा पुरस्ताद् बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति । दर्वीं निष्टप्य सम्मृज्य पुनर्निष्टप्य निदधाति । समाग्रानभ्युक्ष्याग्नावादधाति । आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य अवद्योत्य दर्भतृणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वा उदगुद्वास्याङ्गारान् प्रत्यूह्य उदगग्राभ्यां पवित्राभ्यां पुनराहार माज्यं त्रिरुत्पूय पवित्रे अग्नावादधाति । शम्याभिः परिधिभिः परिदधात्यपरेणाग्निजुदीचीनकुम्भां मध्यमां निदधाति । दक्षीणेनाग्निं संस्पृष्ट्वा मध्यमया प्राचीनकुम्बाम् उत्तरेणाग्निं संस्पृष्ट्वा मध्यमया प्राचीनकुम्बाम् अपरेणाग्निं प्राङ्मुख उपविशति । दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते । अथ परिषिञ्चति । अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुयन्यस्व इति उत्तरतः प्राचीनं देव सवितः प्रसुव इति सर्वतः प्रदक्षिणं परिषिच्येध्यमाज्येनाभ्यज्याभ्यादधाति । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इति अथ दर्व्या जुहोति । उत्तरं परिधिसन्धिमन्ववहृत्य प्रजापतये यनसे स्वाहा इति मनसा ध्यायन् दक्षिणाप्राञ्चमुदञ्चमृजुं सन्ततं जुहोति । दक्षिणं परिधिसन्धिमन्ववहृत्य इन्द्राय स्वाहा इति प्राञ्चमुदञ्चमृजुम् आघारावाघार्याज्यभागौ जुहोति । अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे । सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे । तावन्तरेणेतराहुतीर्जुहोति । युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारयाग्नौ सँराधन्यै यजे स्वाहा । संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा इति । सर्वदर्वीहोमानामेष कल्पः १ मन्त्रान्ते नित्यः स्वाहाकारोऽमन्त्रास्वमुष्मै स्वाहेति । यथादैवतम् भूर्भुवस्स्वरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च । आयुर्दा अग्न इत्येषः । आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिवन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहा इति । इमं मे वरुण तत्त्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयास्ययासन्मनसा हितः अयासन् हव्यमूहिषे अयानो धेहि भेषजं स्वाहा । प्रजापतय इत्येषा । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे स्वाहा । इत्युत्तरार्धपूर्वार्धेऽसंसक्तामितराभिराहुतिभिर्जुहोति । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युयजुह्वति पुरस्तात् स्विष्टकृतः । चित्तं च स्वाहा चित्तिश्च स्वाहा । इति जयाञ्जुहोति । चित्ताय स्वाहा । चित्तये स्वाहा इति वा । अग्निर्भूतानामधिपतिस्स मावतु इत्यभ्यातानान् । अस्मिन् ब्रह्मन्नस्मिन् क्षत्र इत्यभ्यातानेष्वनुयुञ्जति । पितरः पितामहाः परेऽवरे इति प्राचीनावीती जुहोत्युपतिष्ठति । ऋताषाड् ऋतधामा इति राष्ट्रभृतः । पर्यायमनुद्रुत्य तस्मै स्वाहा इति पूर्वामाहुतीं जुहोति । ताभ्यस्स्वाहा इत्युत्तराम् । अग्रेणोत्तरं परिधिसन्धिमश्मानं निधाय दक्षिणेन पादेन कुमारमास्थापयति आतिष्ठेममश्मानमश्मेव त्वँ स्थिरो भव । प्रमृणीहि दुरस्यून् सहस्व पृतनायतः । इत्येतेन । अहतं वासः परिधापयति पूर्वं निधाय या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत् सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व इति । परिधाप्याभिमन्त्रयते परीदं वासो अधिता स्वस्तयेऽभूरापीनामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन् ॥ इत्येनं मेखलया त्रिः प्रदक्षिणं परिदधाति । द्विरित्येके । या दुरितात् परिबाधमाना शर्म वरूथं पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवानां सुभगा मेखलेयम् । इत्युत्तरतो नाभेस्त्रिवृतं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति । अथास्मा अजिनमुत्तरीयं करोति । मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधत्स्व । असावदितिस्ते कक्ष्यां वध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय इति । कृष्णाजिनं ब्राह्मणस्य रौरवं राजन्यस्य वस्ताजिनं वैश्यस्य । अथैनं परिददाति । परीयमिन्द्रं ब्रह्मणे महे श्रोत्राय दध्यसि । यथैनं जरिमाणे यो ज्योक् श्रोत्रे अधिजागरत् । इति ब्राह्मणम् । परीममिन्द्रं ब्रह्मणे महे राष्ट्राय दध्मसि । यथैनं जरिमाणे यो ज्योग्राष्ट्रे अधिजागरत् । इति राजन्यम् । परीममिन्द्रं ब्रह्मणे महे पोषाय दध्मसि । यथैनं जरिमाणे यो ज्योक् पोषे अधिजागरत् । इति वैश्यम् अप्रेणाग्निमुदञ्चम् उपवेश्याहुतोच्छेषं प्राशयति । त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु । इत्येतैः सन्नद्धैः । पृषदाज्यमेके प्राशयति । योगे योगे तवस्तरम् । इममग्न आयुषे वर्चसे कृधि इति प्राश्नन्तं समीक्षते । प्राशयत्येके । आचान्तमुपस्पर्शयित्वाभिमन्त्रयते शतमिन्नु शरदो अन्ति देवा यत्रानश्चक्रा जरसम् तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः । इति २ आगम्त्रा समगन्महि प्रसुमृत्युं युयोतन । अरिष्टास्सञ्चरेमहि स्वस्ति चरतादिह स्वस्त्या गृहेभ्यः इति प्रदक्षिनमग्निम् परिक्रामन्तमभिमन्त्रयते । अथैनमभिव्याहारयति ब्रह्मचर्यमागाम् उप मा नयस्व । ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः इति । तं पृच्छति । को नामासि इति । असौ इत्याचष्टे यथानामा भवति । स्वस्ति देव सवितरहं येनामुना ऋचमधीय इति नाम निगृह्णाति । शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः इत्यद्भिर्मार्जयते ३ अथास्य दक्षिणेन हस्तेन दक्षिणमंसमन्वारभ्य सव्येन सव्यं व्याहृतिभिः सावित्र्येति दक्षिणं बाहुमध्यास्य न्नुपनयते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो हस्ताभ्यामुपनयेऽसौ इति च । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निस्ते हस्तमग्रहीत् । सोमस्ते हस्तमग्रहीत् । सविता ते हस्तमग्रहीत् । सरस्वती ते हस्तमग्रहीत् । पूषा ते हस्तमग्रहीत् । बृहस्पतिस्ते हस्तमग्रहीत् । मित्रस्ते हस्तमग्रहीत् । वरुणस्ते हस्तमग्रहीत् । त्वष्टा ते हस्तमग्रहीत् । धाता ते हस्तमग्रहीत् । विष्णुस्ते हस्तमग्रहीत् । प्रजापतिस्ते हस्तमग्रहित् । इति मन्त्रैर्दक्षिणेन हस्तेन कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं प्रतिमन्त्रं गृह्णाति । सविता त्वाभिरक्षतु । मित्रस्त्वमसि शर्मणा । अग्निराचार्यस्तव । देवेन सवित्रा प्रसूतो बृहस्पतेर्ब्रह्मचारी भवासौ । अपोऽशान सपिध आधेहि कर्म कुरु मा दिवा स्वाप्सीः इत्येनं संशास्ति ॥ अथास्य दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपरि अन्ववमृश्य हृदयदेशमभिमृशति मम हृदयं हृदयं ते अस्तु । मम चित्तं चित्तेनान्वेहि । मम वाचमेकमना जुषस्व । बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुसंगृहस्व । मयि चित्तानि सन्तु ते । मयि सामीच्यमस्तु ते । मह्यं वाचं नियच्छतात् । इति । प्राणानां ग्रन्थिरसि । स मा विस्रस इति नाभिदेशम् । भूर्भुवःस्वःसुप्रजाः प्रजया भूयासम् । सुवीरो वीरैः सुवर्चा वर्चसा सुपोषा पोषैः सुमेधाः मेधया सुब्रह्मा ब्रह्मचारिभिः । इत्येनमभिमन्त्र्य भूरृक्षु त्वा अग्नौ पृथिव्यां वाचि ब्रह्मणि ददेऽसौ । भुवो यजुष्षु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेऽसौ । स्वस्सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेऽसौ । विष्णुतस्ते प्रियोऽसान्यसौ । अनलस्य ते प्रियोऽसान्यसौ । इदं वत्स्यावः । प्राण आयुषि वत्स्यावः । प्राण आयुषि वसासौ इति च । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । आयुष्टे विश्वतोदधाद् इति दक्षिणे कर्णे जपित्वा । आयुर्दा अग्न इत्युत्तरे । अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि याँ स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपोऽनुसञ्चरन्ति तां

स्वस्तिमनुसञ्चरासौ प्राणस्य ब्रह्मचार्य भूरसौ इत्युभयत्रानुषजति । मेधां म इन्द्रो दधातु मेधां देवी सरस्वती मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ इति तस्य मुखेन मुखं सन्निधाय जपति । अथैनं परिददाति कशकाय त्वा परिददामि । अन्तकाय त्वा परिददामि । अघोराय त्वा परिददामि । यमाय त्वा परिददामि । गदाय त्वा परिददामि । मखाय त्वा परिददामि । वशिन्यै त्वा परिददामि । पृथिव्यै त्वा सवैश्वानरायै परिददामि । अद्भ्यस्त्वा परिददामि । ओषधीभ्यस्त्वा परिददामि । वनस्पतिभ्यस्त्वा परिददामि । विश्वेभ्यस्त्वा भूतेभ्यः परिददामि । सर्वेभ्यस्त्वा देवेभ्यः परिददामि । सर्वाभ्यस्त्वा देवताभ्यः परिददामि । अत्र सावित्रीं वाचयति यदि पुरस्तादुपेतो भवति । यद्यनुपेतस्त्र्यहे पर्यपेते । सद्यः पुष्करसादिः । अप्रेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन् प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति । आदित्यायाञ्जलिं कृत्वा आचार्यम् उपसंगृह्य दक्षिणतः कुमार उपविश्य अधीहि भोः इत्युक्त्वा । अथासौ सावित्रीं भो अनुब्रूहि इति । गणानां त्वा गणपतिँ हवामह इत्येनमभिमन्त्र्य अथास्मै पच्छोऽग्रेऽन्वाहाथार्धर्चशोऽथ सन्तताम् । भूः तत् सवितुर्वरेण्यम् । भुवः भर्गो देवस्य धीमहि । स्वः धियो यो नः प्रचोदयात् । भूर्भुवः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि । स्वः धियो यो नः प्रचोदयात् । भूर्भुवः स्वः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् इति ३ अथ सप्त पालाशीः समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रा घृताक्ता अभ्याधापयति । अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इत्येकाम् । अग्नये समिधौ इति द्वे । अग्नये समिध इति चतस्रः । अथ परिषिञ्चति यथा पुरस्ताद् अन्वमंस्थाः मासावीः इति मन्त्रान्तान् सन्नमयति । अथ देवता उपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इत्यग्निं वायो व्रतपत इति वायुम् आदित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् । अत्र गुरवे वरं ददाति । उदायुषा इत्युत्थाप्य सूर्यैष ते पुत्रस्तं ते परिददामि इति परिदाय तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतम् । जीवेम शरदश्शतम् । नन्दाम शरदश्शतम् । मोदाम शरदश्शतम् । भवाम शरदश्शतम् । शृणवाम शरदश्शतम् । प्रब्रवाम शरदश्शतम् । अजीताः स्याम शरदश्शतम् । ज्योक् च सूर्यं दृशे इत्यादित्यमुपतिष्ठते । अग्निष्ट आयुः प्रतरां कृणोतु । अग्निष्टे पुष्टिं प्रतरां दधातु । इन्द्रो मरुद्भिरिह ते ददातु । आदित्यस्ते वसुभिरादधातु । इति दण्डं प्रदायामत्रं प्रयच्छति । अथाह भिक्षाचर्यं चर इति । स मातरमेवाग्रे भिक्षेत । अतोऽन्येषु रातिकुलेष्वाहृत्य भैक्षमिति प्राह । यस्य ते प्रथमवास्यं हरामस्तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुवृधो वर्धमानमनुजायन्तां बहवस्सुजातम् इति प्रथमवास्यमस्यादत्ते । उपस्थितेऽन्न ओदनस्पापूपानां सक्तूनां समवदाय सर्पिर्मिश्रस्य जुहोति । अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेऽन्नादाय स्वाहा । अग्नयेऽन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा । अग्नये स्विष्टकृते स्वाहा इति । सर्वत्रैवमनादिष्टदेवतममुष्मै स्वाहा अमुष्मै स्वाहेति । यथादैवतमादिष्टदैवतम् । एतेषामेवासां समवदाय प्रागग्रेषु दर्भेषु बलिं करोति वास्तुपतये स्वाहा इति । त्रिवृता अन्नेन ब्राह्मणान् परिविष्य पुण्याहं स्वस्त्ययनमृद्धिं वाचयित्वा त्र्यहव्रतं चरत्यक्षारलवणमशमीधान्यं भुञ्जानः अधश्शायी अमृण्मयपायी अशूद्रोच्छिष्टमधुमांसाशी अदिवास्वापी उभौ कालौ भिक्षाचर्यमुदकुम्भमित्याहरन्नहरहः काष्ठकलाम् । उभौ कालौ सायं सायं वा समिधोऽभ्यादधाति । यथाह तद्वसवो गौर्यम् इति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति । यथा पुरस्ताद्व्याहृतीभिः समिधोऽभ्यादधागि एकैकशः समस्ताभिश्च । एषा ते अग्न समित्तया वर्धस्व चाप्यायस्व वर्धिषिमहि च वयमा च प्यासिषीमहि स्वाहा । मेधां म इन्द्रो दधातु मेधां देवी सरस्वती । मेधां मे अश्विनावुधावाधत्तां पुष्करस्रजौ स्वाहा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषतां स्वाहा । आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्तां स्वाहा इति । तथैव परिमृज्य परिषिञ्चति यथा पुरस्तात् । यत्ते अग्ने तेज इत्येतैः मन्त्रैः उपतिष्ठते मयि मेधां मयि प्रजाम् इति च । त्र्यहे पर्यपेते तथैव त्रिवृतान्नेन ब्राह्मणान् परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते अग्ने व्रतपते व्रतमचारिषम् इत्येतैर्मन्त्रैः । एतद् व्रतमेवात ऊर्ध्वम् आचार्यकुलवास्य श्नात्यक्षारलवणमशमीधान्यमिति । दण्डी जटी मेखली शिखाजटो वा स्यात् । काषायमजिनं वा वस्ते न स्त्रियमुपैत्यष्टाचत्वारिंशद्वर्षाणि द्वादश यावद्ग्रहणं वा न त्वेवाव्रतः स्यात् । काण्डोपाकरणे काण्डविसर्गे च सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा इति काण्डर्षिद्वितीयम् इमं मे वरुण तत्त्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अथैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ४ उपनयनं मन्त्रान्त आगन्त्रासमगन्महि अयसप्त चत्वारि इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने प्रथमोऽध्यायः

द्वितीयोऽध्यायःसम्पाद्यताम्

श्रवणापक्षस्य ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म । अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डऋषीन् जुहोति प्रजापतये काण्डऋषये स्वाहा । सोमाय काण्डऋषये स्वाहा । अग्नये काण्डऋषये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा । स्वयम्भुवे काण्डऋषये स्वाहा इति । काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदम् अथर्ववेदं सदसस्पतिमिति हुत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति । अथातः काण्डान्युच्यन्ते पौरोडाशिकं याजमानं होतारं हौत्रं पितृमेधमिति सब्राह्मणानि सानुब्राह्मणानि प्राजापत्यानि । आध्वर्यवं ग्रहदाक्षिणानि समिष्टयजूंषि अवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि । आग्न्याधेयं पुनराधेयम् अग्निहोत्रमग्न्युपस्थानं सावित्रं नाचिकेतं चातुर्होत्रीयं वैश्वसृजमारुणकेतुकमाग्निकमिति सब्राह्मणानि सानुब्राह्मणान्याग्नेयानि । राजसूयं पशुबन्धा इष्टयो नक्षत्रेष्टयो वा दिवश्श्येनयोऽपाघाः सात्रायण उपहोमाः सूक्तान्यौपानुवाक्यायाज्याश्वमेधपुरुषमेधसौत्रामण्यच्छिद्राणि पशुहौत्रम् उपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानि । स्वायंभुवं स्वाङ्काङ्के पठितो विधिरिति स्वयंभूश्चात्र दैवतं सर्वभूतपतिरिति । अथ कारीरिव्रतं चतूरात्रमक्षारलवणमशमीधान्यं भूमौ भुञ्जीत पशुवदिति । अथ कारीरिर्णां मारुतं देवा वसव्या अग्ने मारुतमिति देवाश्शर्मण्या इत्याद्यौषध्यनुवाकमधीयानो नात्र भुञ्जीत पशुवदिति । अथ कारीराव्रतम् युञ्जानः प्रथममारभ्य औषध्यनुवाकं प्रथममधीयानो नात्र भूमौ भुञ्जीत पशुवदिति यदि वा क्रममधीयानः १ तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः । सगणाः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्रापः सुखाः सुखावगाहास्तदवगाह्याघमर्षणेन त्रीन् प्राणायामान् धारयित्वा सपवित्रैः पाणिभिः आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयन्ते । स्नात्वा दर्भानन्योन्यस्मै सम्प्रयच्छन्तो दित्सन्त इवान्योन्यम् । ततः शुचौ समे देशे प्राचीनप्रवणे प्रागग्रैर्दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मणे प्रजापतयेऽग्नये वायवे सोमाय सूर्याय चन्द्रमसे नक्षत्रेभ्य इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्यो ऋभुभ्यो भृगुभ्यो मरुद्भ्योऽथर्वभ्योऽङ्गिरोभ्य इति देवगणानाम् । विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः काश्यप इत्येते सप्त ऋषयः । निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय काश्यपाय । वसिष्ठकाश्यपयोरन्तराळे अरुन्धत्यै कल्पयन्ति । दक्षिणत एकवेद्यन्ते अगस्त्याय कल्पयन्ति । उत्तरतः कृष्णद्वैपायनाय जतुकर्णाय तरुक्षाय तृणविन्दवे वर्मिणे वरूथिने वाजिने श्रवसे सत्रश्रवसे सुश्रवसे स्तुतश्रवसे सोमशुष्मायणाय सनत्वानाय बृहदुक्थाय वामदेवाय वाजराज्ञाय हरितराज्ञाय उदमायाय गौतमाय ऋणंजयाय ऋतंजयाय कृतंजयाय धनंजयाय सत्यंजयाय वभ्रवे त्रिवर्णाय त्रिवर्षाय त्रिधातवे पराशराय विष्णवे रुद्राय स्कन्दाय काशीश्वराय जराय धर्माय अर्थाय कामाय क्रोधाय वसिष्ठाय इन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे विधात्रे मृत्यवे सवित्रे सावित्र्यै ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणेभ्य इति । दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षिणाग्रैर्दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । वैशम्पायनाय फलिङ्गवे तित्तिरायोख्याय आत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय सूत्रकारेभ्यः सत्याषाढाय प्रवचनकर्तृभ्य आचार्येभ्यो ऋषिभ्यो वानप्रस्थेभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्य इति । स्वं स्वं पितृभ्यः पितामहेभ्यः मातृभ्यः पितामहीभ्यः प्रपितामहीभ्यः मातामहेभ्यो मातुः पितामहेभ्यो मातुः प्रपितामहेभ्यो मातामहीभ्यो मातुः पितामहीभ्यो मातुः प्रपितामहीभ्यः कल्पयाम्यमुं कल्पयाम्यमुं कल्पयामीत्यासनेन अमुं तर्पयामि अमुं तर्पयामीत्युदकेन अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैः अमुष्मै स्वाहा अमुष्मै स्वाहेत्यन्नेन अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति फलोदकेनामुष्मै नमोऽमुष्मै नमोऽमुष्मै नम इत्युपस्थायापरेण वेदिं स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डऋषीन् जुहोति । काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति हुत्वा प्रथमोत्तमानुवाकावधीते काण्डादीन् वा सर्वान् । जयादि प्रतिपद्यते । स्विष्टकृदन्तं हुत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति । काण्डात्काण्डात् प्ररोहन्ती इति द्वाभ्याम् उदकान्ते दूर्वी रोपयेत् । उदधिमूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशम् आतमितोराजिं धावन्ति । प्रत्येत्यापूपैः सक्तुभिरोदनेन ब्राह्मणांश्च तर्पयन्ति । एवं पारायणसमाप्तौ काण्डादिदूर्वारोपणान्तमुदधिधावनवर्जं नित्यमेवाद्भिर्देवानृषीन् पितॄंश्च तर्पयन्ति तर्पयन्ति २ अथातोऽवान्तरदीक्षां व्याख्यास्यामः । उदगयनापूर्यमाणपक्षे पुण्ये नक्षत्रे केशान् वापयित्वा स्नात्वाशित्वा अग्निमौदुम्बरीश्चतस्रः समिधोऽहतं वासो दर्भानाज्यं च उदकुम्भमित्येतान् समादाय बहिर्ग्रामाद् उत्तरां दिशमुपनिष्क्रम्याछदिर्दर्शेऽग्निमुपसमाधाय परिस्तीर्य मदन्तीरधिश्रित्य पूर्वां शान्तिं कुत्वाथ परिषिच्याभ्यज्य समिधोऽभ्यादधाति पृथिवी समित् इत्येताभिश्चतसृभिः । अथ परिषिच्य अग्ने व्रतपते शुक्रियेभ्यो व्रतं चरिष्यामि इति देवता उपस्थाप्याहतेन वाससा शिरः समुखमभिवेष्टयति चितः स्थ परिचितः परित्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः । इन्द्रस्य स्यूरसि इन्द्रस्य ध्रुवमसि ऐन्द्रमसि इन्द्राय त्वा इत्युत्तरां शान्तिं कृत्वा वाचो यम्य ग्रामं प्रविशति । तिष्ठन्नासीनो वा जागरणम् । अथ श्वोभूते एतामेव दिशमुपनिष्क्रम्याछदिर्दर्शेऽग्निमुपसमाधाय परिस्तीर्य मदन्तीरधिश्रित्य पूर्वां शान्तिं कृत्वा वयः सुपर्णा इति विसृज्य वास आदित्यमुपतिष्ठते उदूयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्देवहितं य उदगाद् इति । एताननुवीक्षयन्त्यग्निमादित्यमश्मानमुदकुम्भं हिरण्यं गां भूमिमिति । उत्तरां शान्तिं कृत्वा संवत्सरं व्रतं चरति द्वादशरात्रमेकाहं वा । अष्टम्यां पर्वणि कालस्नानम् । अथ यद्यमेध्यं पश्येद् अबद्धं मनो दरिद्रम् इति अथ यद्यभिवर्षेयुः उन्दतीर्बलं धत्त इति जपति । अधश्शय्या गुरुशुश्रूषा । शुक्रियाण्यधीयीत । एतामेव दिशमुपनिष्क्रम्याछदिर्दर्शेऽग्निमुपसमाधाय परिस्तीर्य मदन्तीरधिश्रित्य पूर्वो शान्तिं कृत्वा द्यौः समिद् इत्येताभिश्चतसृभिः औदुम्बरीः समिध आधायाथ परिषिच्य आदित्य व्रतपते शुक्रियेभ्यो व्रतमचारिषम् इत्येताभिर्देवता उपस्थाय गुरवे गां ददाति । उत्तरां शान्तिं कृत्वा व्रतसमाप्तो भवति ३ श्रवणापक्षस्य तैषीपक्षस्य अथातोऽवान्तरदीक्षा त्रीणि इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने द्वितीयोऽध्यायः

तृतीयोऽध्यायःसम्पाद्यताम्

वेदमधीत्य स्नास्यन्नुपकल्पयते एरकां चोपबर्हणं च नापितं च क्षुरं च पालाशीं च समिधं दारूणि चोपस्तरणं वृकलांश्च दन्तधावनं च शीताश्चोष्णाश्चापः सर्वसुरभिपिष्टं चन्दनं चाहतं वासः सान्तरं च प्रावारं वादरमणिं स्वर्णोपहितं सूत्रम् च प्रवर्तौ चाज्यं च दर्वी च मालां चादर्शं चाञ्जनं च दण्डं च छत्रं चोपानहौ चानडुहं चर्म सर्वलोहितमित्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । स्नानस्य मीमांसा । रोहिण्यां स्नायादित्येकम् । प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्ये एव नक्षत्रे स्नातं भवति अथो सर्वान् रोहान् रोहति इति । तिष्ये स्नायादित्येकम् । बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवति अथो बृहस्पतिप्रसूतोऽसानि इति । उत्तरयोः फल्गुन्योः स्नायादित्येकम् । भगस्य वा एतन्नक्षत्रं तदस्य भग्य एव नक्षत्रे स्नार्तं भवति अथो भग्योऽसानि इति । हस्ते स्नायादित्येकम् । सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवति अथो सवितृप्रसूतोऽसानि इति । चित्रायां स्नायादित्येकम् । ऐन्द्रं वा एतन्नक्षत्रं तदस्यैन्द्र एव नक्षत्रे स्नातं भवति अथो चित्रोऽसानि इति । विशाखायोः स्नायादित्येकम् । ऐन्द्राग्नं वा एतन्नक्षत्रं तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवति अथो विशाखोऽसानीति प्रजया पशुभिः इति । एतेषाम् एकतमस्मिन् नक्षत्रे १ पुरादित्यस्योदयाद् व्रजं प्रपद्येत । नैनमेतदहरादित्योऽभितपेत् । तदहःस्नातानां मुखं वा एतत्तेजसा यशसा तपति । अन्तर्लोम्ना चर्मणा व्रजमभिनिघ्नते तम् । पूर्वार्धे व्रजस्याग्निमुपसमाधाय अथाहरेदेतान् सम्भारान् सकृदेव सर्वान् यत् सह सर्वाणि मानुषाणि इत्येततस्माद् ब्राह्मणात् । परिस्तीर्योत्तरतः पालाशीं समिधमुपसाद्य दक्षिणतो नापितस्तिष्ठति । आमध्यन्दिनं भिक्षां दद्यात् । अपीह गां पचेद् वशा चेत् स्याद् अत्रैताम् । पालाशीं समिधमाज्येनाक्त्वा मध्यन्दिनेऽभ्यादधाति इमं स्तोममर्हते जातवेदसे रधमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव स्वाहा इति अथापरेणाग्निमुदीचीप्रतिषेवणामेरकामास्तृणाति । तस्यामुदीचीनशिरा निपद्यते त्र्यायुषं कश्यपस्यागस्त्यस्य त्र्यायुषं जमदग्नेस्त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् इति । उद्यमानमनुमन्त्रयते शिवा मे भव शङ्करा इति । क्षुरमनुमन्त्रयते क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः इति उप्यमानमनुमन्त्रयते यत्क्षुरेण वृश्चयसि वप्ता वपसि केशश्मश्रु वर्चया मे मुखं मा म आयुः प्रमोषीः इति । श्मश्रूण्यग्रे वप्त्वाथोपपक्षावथ केशान् यथोपपादमङ्गानि । तद्ध्येषा जरसा पूर्वा आयुषे प्रयान्ति । पूर्वायुषेऽन्नादा भवन्ति । यस्मादेवं विद्वांसो लोमानि वपन्ते तस्मान्नु हेत्यु विद्वान् काममेव लोमानि वापयेत् । कामं नु नखानि निकृत्य लोमानि वापयेत् । स यदि लोमानि वापयिष्यमाणो भवति तानि ब्रह्मचारिणे प्रयच्छन्नाह इमानि प्राचीं हृत्वा गोष्ठे वा दर्भस्तम्बे वा निधत्ताद् इति । तानि स निदधाति २ अथापरेणाग्निं प्रागुपविश्य मेखलां विस्रंसयति इमं विष्यामि वरुनस्य पाशम् इति । स यस्तत्र रातिः स्यात् तस्मै प्रयच्छन्नाह इमां प्राचीं हृत्वा न्यग्रोधे वौदुम्बरे वा निधत्ताद् इति । तामु स तत्र निदधाति इदमहममुष्यामुष्यायणस्य पाप्मानमपगूहाम्युत्तरस्य द्विषद्भ्य इति वृकलैः प्रधाव्य दन्तान् प्रधावते । अन्नाद्याय व्यूहध्वे भगो राजा यमागमत् । स मे मुखं प्रसर्पतु आयुषे च भगाय च इति । अथोभयीरपः सन्निषिञ्चति उष्णासु शीता आनयति देवमानुषस्य व्यावृत्त्या इति तासामञ्जलिना त्रिरभिषिञ्चति आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः षोढा विहितो वै पुरुष इत्येतस्माद् ब्राह्मणात् । निधाय एतद्वासः स्वा मा तनूराविश इति सान्तरं वासः परिधत्ते । अथैतस्य सर्वसुरभिषः समुदायुत्याञ्जलिना त्रिः परिषिञ्चति नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो वा अभिग्राहिणीः इति । एवं चन्दनस्य । एवमेवात ऊर्ध्वं निधाय एतद्वासः स्वा मा तनूराविश इत्यहतं वासः परिधत्ते । एवमासङ्ग्यमेवमुष्णीषमेवमेवात ऊर्ध्वम् । अथैनं बादरमणिं सुवर्णोपहितं मूत्रे प्रोत्य दर्व्यामादाय दर्वीदण्डसूत्रेण पर्यस्य जुहोति ३ इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा पितुरिव नामाग्रहं सा मा करोतु सोमवर्चसं करोतु सूर्यवर्चसं ब्रह्मवर्चसिनमन्नादं करोतु स्वाहा इति । अथैनमुदपात्रे परिप्लावयति विश्वा उत त्वया वयम् इति । अपाशोऽसि इत्युक्त्वाक्ष्णया परिहरति । वध्यं हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै इत्येतस्माद् ब्राह्मणात् । अथैतौ प्रवर्तौ सूत्रे प्रोत्य दर्व्यायाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति आयुष्यं वर्चस्यं रायस्पोषमुद्भिदम् । इदं हिरण्यं वर्चसे जैत्र्यायाविशतादिमं रयिं स्वाहा इति । द्वितोयां जुहोति शुनमिवाहं हिरण्यस्य पितुरिव नामाग्रहम् । तं मा करोतु सोमवर्चसं करोतु सूर्यवर्चसं ब्रह्मवर्चसिनमन्नादं करोतु स्वाहा इति । तृतीयां जुहोति उच्चैर्वाजि पृतनासाहं सभासाहं धनञ्जयम् । सर्वाः समृद्धीरृद्धय हिरण्ये याः समाहिताः स्वाहा इति । चतुर्थी जुहोति विराजं च स्वराजं च अभिश्रीर्या च नो गृहे । श्री राष्ट्रस्य या मुखे तया मा संसृज स्वाहा इति । पञ्चमीं जुहोति यशो मा कुरु ब्राह्मणेषु यशो राजसु मा कुरु । यशो विश्येषु शूद्रेष्वहमस्मि यशस्तपाः स्वाहा इति । अथैनावुदपात्रे परिप्लावयति विश्वा उत त्वया वयम् इति । अपाशोऽसि इत्युक्त्वान्यतरं प्रवर्तं प्रक्षाल्य दक्षिणे कर्णे आमूहति ४ आयुष्यं वर्चस्यम् इत्येताभिः पञ्चभिः सहानुकरोति ऋतुभिस्त्वार्तवैः संवत्सरस्य धायसा तैस्त्वा सहानुकरोमि इति । एवमेवोचरम् । अपाशोऽसि इत्युक्त्वाक्ष्णयैव स्रजं परिहरति शुभिके शिर आरोह शोभयन्ती मुखं मम । मुखं हि मम शोभय भूयांसं च भगं कुरु । यां मे जहार जमदग्निः श्रद्धायै रागायान्यै । इमां तां मतिमुञ्चेऽहमायुषे च भगाय च इति । आदर्शे समवेक्षते यन्मे मनः परागतमात्मानमादर्शे परिपश्यति । इदं तत्पुनराददेऽहमायुषे च भगाय च इति । अथाञ्जनेनारुक्ते यदाञ्जनं ग्रैककुदं जातं हिमवत उपरि । तेन मां चायुष्यं वर्चस्यं मे अस्तु इति । दण्डमादत्ते सखा मे गोपाय इति । छत्रमादत्ते द्यौरसि सुपर्णोऽन्तरिक्षान्मा गोपाय इति । अथोपानहावुपमुञ्चते द्यौरसि इति दक्षिणां पृथिव्यसि इत्युत्तराम् । दिशमुपनिष्क्रम्य दिशमुपतिष्ठते देवीष्षडुर्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम् इति। मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् इति चन्द्रमसमुपस्थायैव दिशो यत्र कामयते तदेति ५ वेदमधीत्य पुरादित्यस्योदयाद् अथापरेणाग्निंप्रागुपविश्य इयमोषधे त्रायमाणा आयुष्यं वर्चस्यमित्येताभिः पञ्चभिरिति । इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने तृतीयोऽध्यायः

चतुर्थोऽध्यायःसम्पाद्यताम्

इतरत् समावर्तनम् । अथेतरत् तूष्णीमेव तीर्थे स्नात्वोदेति । अथास्मायार्योपवेशनमाहार्योदकमाहारयति । तत् प्रतीक्षते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदुपस्पृश्य प्राक् सेक्तवा इत्याह । तस्मादन्यदाहारयति । तेनास्य पादौ प्रक्षाळ्याथास्मै मध्वाहारयति । तत् प्रतीक्षते । यन्मधुनो मधव्यं प्रियं परममन्नादो रूपं तेनाहं मधुनो मधव्येन प्रियेण परेणान्नादोऽसानि इति प्रतिगृह्णाति । प्रियः प्रजानामधिपतिः पशूनाम् इति ब्राह्मणम् प्रियः पशूनामधिपतिः प्रजानाम् इति राजन्यम् । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै दध्याहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अस्मा ओदनमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै मन्थमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै गामुपाकरोति तामुद्रासृजत कुरुतेति वा । अथास्मै तदहं पुत्रो वा भ्रातरो वान्तेवासी वोपनयेतेयं वा सैव सहते । यदि वा रथं लभते रथन्तरमसि इति दक्षिणं चक्रमभिमृशति बृहदसि इत्युत्तरं वामदेव्यमसि इति मध्यमम् । आरुह्य प्रवर्तमानमनुमन्त्रयते अयं वामश्विना रथो मा दुःखे मा सुखे रिषद् इति । स यदि शब्दं कुर्यात् प्रतिबुध्य यज्ञोपवीतं कृत्वा अप आचम्य भूमिमभिमृशति मयि धृतिं मयि विधृतिं मयि स्वधृतिं मयि रन्तिं मयि रमतिं मयि पुष्टिं पुष्टिपतिर्दधातु इति १ इतरदेकम् इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने चतुर्थोऽध्यायः

पञ्चमोऽध्यायःसम्पाद्यताम्

अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेष्यम् । समर्यमा संभगो नो निनीयात् सञ्जास्पत्यं सुयममस्तु देवाः । अयं कूर्चः । मयि गृह्णाम्यग्रे अग्निं रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टाः स्याम तनुवा सुवीराः । यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्या ँ! आविवेश । तमात्मन् परिगृह्णीमहे वयं मा सो अस्माँ अवहाय परागात् । भूर्भुवःस्वः । प्रजापतिः स्त्रियां यशो मुष्कयोरदधात् सपम् । कामस्य तृप्तिमानन्दं तस्याग्ने भाजयेह मा । मोदः प्रमोद आनन्दो मुष्कयोर्निहितः सपः । सृत्वेव कामस्य तृप्याणि दक्षिणानां प्रतिग्रहे । मनसश्चित्तमाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य यशः श्रीः श्रयतां मयि । यथाहमस्या अतृपं स्त्रियै पुमान् यथा स्त्री तृप्यति पुंसि प्रिये प्रिया । एवं भगस्य तृप्याणि यज्ञस्य काम्यः प्रियाम् । ददामीत्यग्निर्वदति । तथेति वायुराह तत् । हन्तेति सत्यं चन्द्रमाः । आदित्यः सत्यमोमिति । आपस्तत् सत्यमाभरन् । यशो यज्ञस्य दक्षिणाम् । असौ मे कामः समृध्यताम् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन । या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसा संध्ययन्त्वायुष्मतीदं परिधत्स्व वासः । परिधत्त धत्त वाससैनां शतायुषीं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत् सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावती । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व । परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावती । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासु जीवती । अनया सह मया कर्माणि कर्तव्यानि । प्रजाश्चोत्पादयितव्याः । तदर्थमेनां परिणेष्ये । इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । ब्रह्मणे नमः । अद्भ्यो नमः अग्नये नमः । आत्मने नमः । अदितेऽनुमन्यस्व । अनुमतेऽनुमन्यस्व । सरस्वतेऽनुमन्यस्व । देवसवितः प्रसुव । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । प्रजापतये स्वाहा । इन्द्राय स्वाहा । अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणि स्वाहा । यानूची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया अग्नौ संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा १ युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा । विरूपाक्षाय स्वाहा । दन्तान् जये स्वाहा । विरूपाक्षमहं यजे निजङ्घं शबळोदरम् । यो मायं परिबाधते श्रियै पुष्ट्यै च तस्मै स्वाहा । परिबाध मा विबाधिष्ठा मा विबाध विबाधिथाः निरृत्यै त्वा पुत्रमाहुः स नः कर्माणि साधय स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधापयासिषं स्वाहा । यावन्तो वेदास्त्वयि जातवेदः स्त्रियं चोद्घ्नन्ति पुरुषस्य कर्म तेभ्य एतद्भूयते भागधेयं ते मा तृप्तास्तर्पयन्तु कामैः स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा । पुरो दधे अमृतत्वाय जीवसे स्वाहा । आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः स्वाहा । आकूतिं देवीं मनसः पुरो दधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा स कामः । विदेयमेनद्धृदये निविष्टं स्वाहा । इष्टेभ्यः स्वाहा । वषट्निष्टेभ्यः स्वाहा । भेषजं दुरिष्ठ्यै स्वाहा । निष्कृत्यै स्वाहा । दौराध्यै स्वाहा । देवीभ्यस्तनूभ्यः स्वाहा । ऋद्ध्यै स्वाहा । समृद्ध्यै स्वाहा । चित्ताय स्वाहा । चित्तये स्वाहा । आकूताय स्वाहा । आकूत्यै स्वाहा । विज्ञाताय स्वाहा । विज्ञानाय स्वाहा । मनसे स्वाहा । शक्वरीभ्यः स्वाहा । दर्शाय स्वाहा । पूर्णमासाय स्वाहा । बृहते स्वाहा । रथन्तराय स्वाहा । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु । तस्मै विशः सयनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहा । अग्निर्भूतानामधिपतिः स मावतु स्वाहा । पितरःपितामहाः इन्द्रो ज्येष्ठानामधिपतिः स मावतु स्वाहा । यमः पृथिव्या अधिपतिः स मावतु स्वाहा । वायुरन्तरिक्षस्याधिपतिः स मावतु स्वाहा । सूर्यो दिवोऽधिपतिः स मावतु स्वाहा । चन्द्रमा नक्षत्राणामधिपतिः स मावतु स्वाहा । बृहस्पतिर्ब्रह्मणोऽधिपतिः स मावतु स्वाहा । मित्रः सत्यानामधिपतिः स मावतु स्वाहा । वरुणोऽपामधिपतिः स मावतु स्वाहा । समुद्रः स्रोत्यानामधिपतिः स मायतु स्वाहा । अन्नँ साम्राज्यानामधिपति तन्मावतु स्वाहा । सोम ओषधीनामधिपतिः स मावतु स्वाहा । सविता प्रसवानामधिपतिः स मावतु स्वाहा । रुद्रः पशूनामधिपतिः स मावतु स्वाहा । त्वष्टा रूपाणामधिपतिः स मावतु स्वाहा । विष्णुः पर्वतानामधिपतिः स मावतु स्वाहा । मरुतो गणानामधिपतयस्ते मावन्तु स्वाहा । पितरः पितामहाः परेऽवरे ततास्ततामहा इह मावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्यां स्वाहा । ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽपसरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः स्तवा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरसो बह्वयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । अग्निरेतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयँ राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात् स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुद्ध्यतामियं स्वाहा । मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा २ स्तनन्धयतस्ते पुत्रान् सविताभिरक्षतु । आ वाससः परिधानाद् बृहस्पतिर्विश्वेदेवा अभिरक्षन्तु पश्चात् स्वाहा । अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाघम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं स्वाहा । ब्राह्मणं देवकृतं कल्पमानं तेन हन्ये निषदः पिशाचात् । क्रव्यादो मृत्युरधरान् पातयामि दीर्घमायुस्तव जीवन्तु पुत्रान् स्वाहा । शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । हस्तेन हस्तं गृभ्णामि सौभगत्वाय मया पत्या जरदष्टिर्यथासत् । भगो अर्यमा सविता पुरन्धिस्ते त्वा देवा अदुर्मह्यं पत्नीम् । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । यां पूषन् शिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफम् । सोमोऽददाद् गन्धर्वाय गन्धर्वोऽग्नयेऽददात् । पशूंश्च मह्यं पुत्रांश्च ददात्वग्निरथो त्वा असावहम् । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुर्योऽहं मनुष्यजाः । सरस्वति प्रेदमव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः । आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुरस्यून् सहस्व पृतनायतः । विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः । ३ इमान् लाजानावपामि समृद्धिकरणान्मम मम तुभ्यं च संवननं तदग्निरनुमन्यताम् । भगेन त्वा संसृजामि मासरेन सुरामिव । इयं नार्युपब्रूते अग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमं मे वरुण श्रुधी इवमद्या च मृडय । त्वामवस्युराचके स्वाहा । तत्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह वोध्युरुशंस मा न आयुः प्रमोषीः स्वाहा । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् स्वाहा । स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अवयक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि स्वाहा । त्वमग्ने अयास्ययासन्मनसा हितः । अयासन् हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा । प्रजापते न त्वदेतान्पन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां स्वाहा । यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः स्वाहा । पुनरग्निश्चक्षुरदात् पुनरिन्द्रो बृहस्पतिः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्योः स्वाहा । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मधु । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । यत्पाकत्रा मनसा दीनदक्षान यज्ञस्य मन्वते मर्त्तासः । अग्निष्टद्धीता क्रतुविद्विजानन् यजिष्ठो देवाँ क्रतुशो यजाति स्वाहा । पाहि नो अग्न एनसे स्वाहा । पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा । भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा । भूर्भुवः स्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःस्वर्महरॐ स्वाहा । ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा । यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे स्वाहा अदितेऽन्वमंस्थाः । अनुमतेऽन्वमंस्थाः । सरस्वतेऽन्वमंस्थाः । देव सवितः प्रासावीः । अग्ने व्रतपते व्रतम् चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । अमूहमस्मि सा त्वं सा त्वमस्यमूहम् ऋगहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् । मम हृदये हृदयं ते अस्तु । मम चित्ते चित्तमस्तु ते । मम वाचमेकमनाः शृणु । मामेवानुव्रता सहच्रया मया भव । चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्देवगन्धर्वो वित्तः संवननं तेन संवनिनौ स्वः । एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मायोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्धेतु षड् रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सखायौ सप्तपदावभूव सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मां योष्ठाः । सप्तऋषयः प्रथमां कृत्तिकानामरुन्धतीम् । ध्रुवतां ये ह निन्युः । षट् कृत्तिका मुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी । ध्रुवं नमस्यामि मनसा ध्रुवेण ध्रुवं नो सख्यं दीर्घमायुश्च भूयात् । अद्रुग्धावस्मिंश्च परे च लोके ध्रुवं प्रविष्टौ स्याम शरणं सुखार्तौ । शन्न एधि द्विपदे शं चतुष्पदे । इह गावो निषीदन्त्विद्दाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो अधिपूषा निषीदतु ४ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी तनूस्तामितो नाशयामसि स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि यास्यै पुत्रघ्नी तनूस्तामितो नाशयामसि स्वाहा । आदित्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पशुघ्नी तनूस्तामितो नाशयामसि स्वाहा । सर्व प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी पुत्रघ्नी पशुघ्नी निन्दिता तनूस्तामितो नाशयामसि स्वाहा । अग्ने व्रतपते व्रतमचारिषम् इत्यादि व्रतानां व्रतपते व्रतमचारिषम् इत्यन्तम् । आवाभ्यां दम्पतिभ्यां स्वस्ति भवन्तो ब्रुवन्तु । युवाभ्यां दम्पतिभ्यां स्वस्ति । तशिने त्वाभिमृशामि हस्तेनाविद्विषाणिना । यथा न विद्वषेमहि न हि ये च कदाचन । ऋषभेण स्कन्दामि व्यस्य योनिं पतिरेतो गृहाण । पुमांस्त्री जायतां गर्भो अन्तः । आ ते योनिं गर्भ एतु पुमांसं गर्भमाधत्स्व । यन्तुभ्यं शिमिवाससि पुमांस्ते पुत्रो नारितं पुमाननुजायताम् । स

संवधतां गर्भो दशमे मासि सूतवे ५
अनृक्षराऋजवःसन्तुपन्था युक्तोव
हजानवेद स्तनन्धयतस्तेपुत्रान् इमाल्लाँजानावपामि अग्रेप्रायश्चित्ते पञ्च ।
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने पञ्चमोऽध्यायः

षष्ठोऽध्यायःसम्पाद्यताम्

अथ समावृत्ते भार्यामुपयच्छेत । प्रजानन्तुं मा व्यवच्छेत्सीः । इति गुरुशासनात् सर्वाङ्गिनीं मनोज्ञां यवीयसीं ब्रह्मचारिणीं कन्याम् असगोत्रां मातुरसपिण्डाम् अनुक्तामगर्हितां नक्षत्रनदीवृक्षाभिधानासंयुक्ताम् । अथ दूतान् प्रहिणोति अनृक्षरा ऋजव इति । वधूमन्तं याचयति अमुष्मै अमुकगोत्राय अमूममुकगोत्रीं धर्मप्रजार्थं वधूं ददातु इति । तथेत्युक्ते वधूम् । आपूर्यमाणपक्षे पुण्ये नक्षत्रे शोभनान्यगाराणि कल्पयित्वा बद्धकौतुकः कृतमङ्गलस्वस्त्ययनः पदातिर्वधूगृहं गत्वा गृहीतमधुपर्कः उद्धननाद्यसम्भारसम्भरणान् कृत्वा लाजानश्मानमहतं वासश्च संभृत्य ब्रह्मप्रवेशनाद्यापरिधानान्तं करोति । एतस्मिन् काले वधूं बद्धकौतुकां कृतपुर्ण्यानिनीं यज्ञोपवीतिनीमाचान्तामग्नेरुत्तरेण परेण च गत्वा दक्षिणतः प्राचीं तिष्ठन्तीं वरोऽग्नेरुत्तरेण पूर्वेण च गत्वा पुरस्तात् प्रत्यक् तिष्ठन् सपवित्रेन पाणिना व्याहृतिभिः प्रजापतिः स्त्रियाम् इति षड्भिरेनां दक्षिणत उदङ्मुखस्तिष्ठन् अमूम् अमुकगोत्रीम् अमुष्मै अमुकगोत्राय तुभ्यं प्रजासहत्वकर्मभ्यः प्रतिपादयामि इति वधूमताद्भिर्दत्तां प्रतिगृह्णाति स्त्रीधनं च । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा यथाप्रपन्नमपरेणाग्निमुपवेश्याथैनामहतं चासः परिधापयति पूर्वं निधाय या अकृन्तन्नवयन् इति तिसृभिः । परीदं वास इत्येतया अभिमन्त्रयते । अथैनामाचान्तां दक्षिणतः प्राचीमुपवेश्य तस्यामन्वारब्धायां गन्धादिनाग्निमलङ्कृत्य परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इति उत्तरतः प्राचीनं देव सवितः प्रसुव इति सर्वतःप्रदक्षिणं परिषिच्य ऊर्ध्वे समिधावनूयाजार्थं चादधाति । इध्मादेवोद्धृत्य दक्षिणं परिधिमग्निं चान्तरेण उत्तरं परिधिं चाग्निं चान्तरेन प्रणीताप्रणयनेऽनूयाजार्थं चादधाति । अयं त इध्मम् अक्त्वाभ्यादधाति । अप उपस्पृश्य इध्मस्य मूलमुपसंस्पृश्य दर्व्या जुहोति प्रजापतये स्वाहा इत्युदञ्चम् इन्द्राय स्वाहा इति प्राञ्चम् आघाराचाघार्य । आज्यभागौ जुहोति अग्नये स्वाहा इति उत्तरतः सोमाय स्वाहा इति दक्षिणतः । मध्ये व्याहृतिभिर्हुत्वा या तिरश्ची निपद्यसेऽहम् इति त्रयोदशहुतीर्जुहोति १ अथाष्टौ समृद्धिहोमान् जुहोति इष्टेभ्यः स्वाहा इति । अथ जयाञ्जुहोति चित्तं च चित्तिश्च इत्येवं वा जुहोति । नानास्रुवाहुतीः चित्ताय स्वाहा चित्तये स्वाहा इत्येवम् । अथाभ्यातानाञ्जुहोति अग्निर्भूतानामधिपतिः स मावतु स्वाहा इति । अथ प्राचीनावीतं कृत्वाधिवदते पितरः पितामहा इति । उपवीती भूयो भवति । स एवमेतान् सप्तदशाभ्यातानान् साधिवादान् जुहोति । अथ स्वाहाकृताः षड् राष्ट्रभृतो जुहोति । ऋताषाडृतधामा इति । अग्निरेतु प्रथम इति षट् प्रधानाहुतीर्जुहोति । शन्नो देवीरभिष्टय इत्युभौ मार्जयते । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णात्यभीवलोमानि देवस्य त्वा इति । अथोपोत्थापयति भगो अर्यमा इत्येताभिः पञ्चभिः । अत्रासौशब्दप्रथमया नाम गृह्णीयात् । उत्तरेणोत्तरार्धपरिधिसन्धिपश्यानं निधाय दक्षिणेन पादेन वधूमास्थापयति आतिष्ठेममश्मानम् इति । विश्वा उत त्वया वयम् इति प्रदक्षिणमग्निं परिक्रामतः । अथास्या अञ्जलावुपस्तीर्य द्विर्लाजानावपति । त्रिः पञ्चावत्तिनाम् । इमान् लाजानावपामि इति । अभिघार्य दर्व्या संसृजति भगेन त्वा संसृजामि इति । अथ जुहोति इयं नारी इति २ एवं द्वितीयमास्थाप्य परीत्य जुहोति । तथा तृतीयम् । यथायतनमुपवेश्य अनूयाजसमिधमादाय दर्व्या वारुण्यौ चाग्निवारुण्यौ मेषजवनस्पतिं प्राजापत्यं सौविष्टकृतं च हुत्वा पुरस्तात् स्विष्टकृतं प्रायश्चित्तं जुहोति यन्म आत्मन इति पञ्च । पाहि नो अग्न एनस इति चैषोऽनुवाकः । अत्र महाव्याहृतिभिर्हुत्वा भूरग्नये च पृथिव्यै च महते च स्वाहा इति अत्रैव प्रणवं जुहुयाद् व्याहृतिभिः समस्ताभिश्च । अथ मध्यमं परिधिमक्त्वा दक्षिणार्धे च अप उपस्पृश्य उत्तरार्धं च परिस्तरणेभ्योऽर्धमर्धमादाय दर्व्यामग्रयनक्ति मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि दर्व्यामग्रं मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि आज्यस्थाल्यां मूलं मध्यं चाग्रं च दर्व्याम् । अथैकं तृणं निधायाप उपस्पृश्य शिष्टमग्नौ प्रहरेत् । नात्यग्रं प्रहरेत् यदत्यग्रं प्रहरेद् इति ब्राह्मणम् । त्रिरुद्यत्य तृणमप्यनुप्रहरेत् । अङ्गुलिं त्रिरुद्यम्य प्राणस्थानं चक्ष्वादि संमिश्य परिधीनादाय मध्यमं प्रथमं प्रहरेत् । युगपद् दक्षिणमुत्तरं च । ऊर्ध्वे समिधौ प्रहरति । उत्तरार्धमङ्गारेषूपोहति । संस्रावेणाभिजुहुयात् । अथ परिषिञ्चति । यथा पुरस्ताद् अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान् सन्नमति । प्रणीताप्रणयनमादायाग्रेणाग्निं परिहृत्य दक्षिणेनाग्निं चापरेणाग्निं चाश्मनो देशे निधाय यथाशक्ति दक्षिणां ब्रह्मणे दत्त्वा प्रागादि प्रतिदिशं तूष्णीं मार्जयते । किञ्चिदवसिच्य हस्तेन मार्जयेत् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन कयानश्चित्र आभुवद् इति तिसृभिः प्राजापत्यं पवित्रम् इति द्वाभ्याम् । एतस्मिन् काले ब्रह्मा यथाप्रपन्नमुपनिष्क्रामणमिति । प्रायश्चित्तादि आ ब्रह्मण उपनिष्क्रामणात् सर्वदर्वीहोमानामेष समानम् । अत्र गुरवे वरं ददाति । अथ देवतामुपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इत्येतैः । अमूहमस्मि इत्यथास्या दक्षिणे कर्णे जपति । अथास्या दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपरि अवमृश्य हृदयदेशमभिमृशति मम हृदये हृदयं ते अस्तु इति द्वाभ्याम् । अथापरेणाग्निमिदंविष्णुक्रमात् प्रक्रामति एकमिषे विष्णुस्त्वान्वेतु इति । मनाग् दक्षिणं पूर्वे पादं प्रहरति । सव्येनानुनिष्क्रामति । अत्रैव सप्तमं पदं विक्रमते । नाग्निमति प्रच्यवते । सखायौ सप्तपदावभूव इति सप्तमे पदे जपति । अथापरेणाग्निमुदङ्मुखस्तिष्ठन् सप्तऋषीनुपनिष्ठते सप्त ऋषयः प्रथमां कृत्तिकानाम् इति । अथ ध्रुवमुपतिष्ठते ध्रुवं नमस्यामि इति । मुहूर्तमुपविश्य औपासनाग्निमाहवनीयाकारे कुण्डे निधायात्र सदस्या आशीर्यादं कुर्यन्ति । अथ व्रजं प्रपद्यते । अथास्या दक्षिणेन हस्तेन दक्षिणं पाणिं परिगृह्य दक्षिणां द्वारेयीमभिमृशति शन्न एधि द्विपदे शं चतुष्पद इति । एवमुत्तराम् । अगारं प्रविश्यानडुहे चर्मण्युत्तरे लोम्न्युपविशति इह गावो निषीदन्तु इति । ज्ञातिसम्भाषावासाते । ब्रह्मचारिणावलंकुर्वणौ त्र्यहं व्रतं चरेयातामक्षारलवणमशमीधान्यं भुञ्जानावधःशायिनावसंवर्तमानौ सहचर्याताम् । सायंप्रातरौपासने जुहोति व्रीहिभिर्यवैर्वा । सायं प्रथममग्निमुपसमाधाय परिस्तीर्य प्रक्षाळ्य स्थालीं निष्टप्य सम्मृज्य एकमुष्टिं व्रीहीनोप्य पर्यग्नि कृत्वा गन्धपुष्पैरग्निमलंकृत्य इन्द्रायाग्रये यमाय निरृत्यै वरुणाय वायवे सोमायेशानायेति प्रागादि प्रतिदिशं पश्चादात्मानमलंकृत्य अप उपस्पृश्य सपवित्रपाणिः अदितेऽनुमन्यस्व इति परिषिच्य समिधमभ्याधाय प्रज्वलयित्वा हस्तेन व्रीहीन् जुहुयाद् अग्नये स्वाहा प्रजापतये स्वाहा इति सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातः । अदितेऽन्वमंस्था इति परिषिच्य कनीयस्तस्य पूर्वं हुत्वोत्तरं भूयो जुहुयाद् इति ब्राह्मणम् । एवमौपासने जुहोति । अथापरं पत्नीं भोजयेत् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः । प्रायश्चित्तं जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा इति त्र्यहे पर्यपेते निश्यग्निप्रतिष्ठापनादि प्रसिद्धं दार्विहोमिकमा राष्ट्रभृद्भ्यो विवाहप्रकृतिं नयेल्लाजादिसम्भारवर्जं प्रतितद्दमार्जनवामःपरिधानवर्जम् एवमेष सर्वेषां विवाहप्रकृतिम् । आकालं प्रायश्चित्तं जुहोति अग्ने प्रायश्चित्त इति चतसृभिः । वारुण्यादि समानम् । व्रतविसर्गः । अथ व्रतं विमृजते अग्ने व्रतपते व्रतमचारिषम् इत्येतैः । अथ पुण्याहं वाचयित्वा आवाभ्यां दम्पतिभ्यां स्वस्ति भवन्तो ब्रुवन्तु इति । युवाभ्यां दम्पतिभ्यां स्वस्ति इति प्रतिवचनम् । अथास्या उपस्थमभिमृशति शिवेन त्वाभिमृशामि इति । प्रतिसंविशति ऋषभेण स्कन्दामि इति । रत्यन्तं कृत्वा जपेत् आ ते योनिं गर्भ एतु इति तिसृभिः । एवमेव मासि मास्यृतुबेललायां संतिष्ठते भार्योपयमनम् ३ अथसमावृत्तेभार्यामुपयच्छेत अथाष्टौसमृद्धिहोमाञ्जुहोति एवंद्वितीयमास्थाप्य त्रीणि इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने षष्ठोऽध्यायः

सप्तमोऽध्यायःसम्पाद्यताम्

अथातः स्थागरमलङ्कारं वक्ष्यामः । आदर्शं चाञ्जनं चाहतं वासः सर्वसुरभितं व्रीहीन् दृषदुपले इत्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । पाणिग्रहणादूर्ध्वं श्वोभूते श्वश्रूर्वा श्वशुरो वा स्यालो वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य शुचि शुक्लमनार्द्रमाच्छाद्य सुप्रक्षाळितपाणिपादावप आचम्य पवित्रपाणी स्थण्डिलस्यापरार्धे दम्पती उपविशत । पूर्वार्धे व्रीहीनवकीर्य दृषदुपले प्रतिष्ठाप्याहतेन वाससा परिवेष्टयति । गन्धपुष्पधूपदीपैः यवाक्षततण्डुलैरभ्यर्च्य पुरस्ताद् दशहोतारं सगृहं जपति चित्तिः स्रुग् इति चतुर्होतारं दक्षिणतः पृथिवी इति पञ्चहोतारं पश्चाद् अग्निर्होता इति षड्ढोतारमुत्तरतः सूर्यं ते चक्षुः इति सप्तहोतारमुपरिष्टाद् महाहविर्होता इति । एतस्मिन् काले वरस्य भगिन्यपरेण दृषदुपलाभ्यां प्राङुपविश्य सर्वसुरभितं पिष्ट्वा देवताभ्यो निवेद्याञ्जनेनाङ्क्ते । आदर्शमवेक्षत्वा शेषेण दुहितरमलङ्कृत्य मुखे अग्निर्यजुर्भिः सेनेन्द्रस्य इति पश्चाज्जामातरम् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति । सा प्रिया भवति । प्रियो हैव भवति इति ब्राह्मणम् १ अथ वैश्वदेवस्यान्नसावौपासनेऽग्नौ जुहुयात् । गृह्येऽग्नौ वा । अग्नये स्वाहा इति सायम् । सूर्याय स्वाहा इति प्रातः । सोमाय धन्वन्तरयेऽनुपतये प्रजापतये विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्योऽग्नये स्विष्टकृते स्वाहा इति । अथ बलिहरणं यथादिशं हरेत् ब्रह्मणे ब्रह्मपुरुषेभ्य इन्द्रायेन्द्रपुरुषेभ्योऽग्नये यमाय यमपुरुषेभ्यो निरृत्यै वरुणाय वरुणपुरुषेभ्यो वायवे सोमाय सोमपुरुषेभ्य ईशानाय इति । अथ गृहदेवताभ्यो बलिं हरति । उलूखलमुसलाभ्याम् इति उलूखलमुसले दृषदुपलाभ्याम् इति दृषदुपले उदधान्या इत्युदधान्याम् ओषधिवनस्पतिभ्याम् इति द्वारे अन्तरिक्षे दिवाचारिभ्य इति दिवा नक्तंचारिभ्य इति नक्तम् । दक्षिणतः प्राचीनावीती पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः स्वधा पितृभ्य इति । शेषं दक्षिणा निनयेत् २ अथातः पञ्चदश्यां प्रातर्होमं हुत्वा इध्माबर्हिश्च सम्भृत्य उक्तलक्षणेनेध्ममिध्मप्रव्रश्चनं च योक्त्रेण सन्नह्य यत्र भुक्तं मन्यते तन्निदधात्यग्निमन्वादधाति । अपरेणाग्निं प्राचीनाग्राश्चतस्रः समिध आदधाति । तावुभाभ्यां हताभ्यामादाययाग्नावादधाति । तूष्णीमुपस्थायापरे समिधावादधाति । श्वो यज्ञाय रमतां देवताभ्यो यज्ञाय त्वा गृह्णामि देवयज्याया इत्युपस्थायापकालहोमं हुत्वा अग्निं परिस्तीर्य तां रात्रिमनश्नन्नपरेणाग्निमुदक्च्छिराः संविशति । श्वोभूते यथोदितं स्नानं कृत्वा प्रातर्होमं च प्रागादिप्रतिदिशं दर्भैः परिस्तृणाति प्रागुदगग्रैः । दक्षिणानुत्तरान् करोत्युत्तरान् अधरान् । ततःप्रभृति सम्भारसम्भरणान् कृत्वा व्रीहीन् चरुस्थालीं जुहूं च मेक्षणं च सम्भृत्य ब्रह्मप्रवेशनाद्या प्रणीताभ्यः कृत्वा प्रोक्षणीं च संस्कृत्य व्रीहीन् निर्वपति अपरेणाग्निं तिरःपवित्रं जुह्वाः । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि अग्नीषोमाभ्याम् इति पौर्णमास्याम् अग्नये जुष्टं निर्वपामि इन्द्राग्निभ्याम् इत्यमाचास्यायां त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य तिरःपवित्रं स्थाल्यामावपति । तस्मिन्नग्नौ श्रपयित्वा दर्वीनिष्टपनकाले जुहूं च निष्टप्य निदधाति । आज्यं च संस्कृत्याभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृति व्याहृतिपर्यन्तं कृत्वा हविषा जुहोति । आग्नेयमग्नीषोमीयं सौविष्टकृतम् इति पौर्णमास्याम् । आग्नेयमैन्द्राग्नं सौविष्टकृतम् इत्यमावास्यायाम् । आज्येन जुहूमुपस्तीर्य द्विरवद्यति सकृदभिघारयति । त्रिः पञ्चावत्तिनाम् । सौविष्टकृतं सकृदुपस्तृणाति सकृदवद्यति । द्विः पञ्चावत्तिनाम् । द्विरभिघारयति । अवत्ते स्विष्टकृति पार्वणहोमौ जुहोति ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणं प्राणाय सुराधसे पूर्णमासाय स्वाहा पूर्णा पश्चादुत पूर्णा इति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणमपानाय सुराधसेऽमावास्यायै स्वाहा यत्ते देवा अदधुर्भागधेयम् इत्यमावास्यायाम् । उत्तरार्धपूर्वार्धेऽसंसक्तामितराभ्यामाहुतिभ्यां जुहोति । मेक्षणं चानुइप्रहृत्याप उपस्पृश्य जुहूमद्भिः पूरयित्वा प्राचीनावीत्यवाचीनपाणिः दक्षिणापवर्गं सकृदन्तरपरिधिसंक्षाळनं निनयति वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं स्वर्गे लोकेऽबिभरत् पिन्वमानं स्वाहा इति । निर्णिज्य स्रुवं च निष्टप्य बहिःपरिध्यपां पूर्णां स्रुचं जुहोत्यु त्तरापवर्गम् इमं समुद्रं शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिंसीः परमे व्योमन् स्वाहा इति । इध्मसन्नहनमप उपस्पृश्य जुहुयात् । वारुण्यादिजयप्रभृति सिद्धमा धेनुवरप्रदानात् । पुरस्तात् स्विष्टकृतमिध्मप्रव्रश्चनं प्रक्षिपेत् । सन्तिष्ठते दर्शपूर्णमासः सन्तिष्ठते दर्शपूर्णमासः ३ व्रीह्याग्रयणेन वा यक्ष्यमाणो भवति आश्वयुज्यां पौर्णमास्यां कार्त्तिक्यां शातभिषज्यां वा । अन्वाधानकाले यज्ञाय रमतां देवताभ्यो यज्ञाय त्वा गृह्णामि देवयज्याया इत्युपस्थाय सम्भारसम्भरणकाले नवधान्यं संभृत्याकूपतोयेन पोषितं निर्वपणकाल इन्द्राग्निभ्यां जुष्टं निर्वपामि विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां जुष्टं निर्वपामि इति होमकाल ऐन्द्राग्नं वैश्वदेवं द्यावापृथिव्यं सौविष्टकृतम् इति । वरप्रदानकाले प्रथमजं वत्सं दक्षिणां ददाति । शेषं प्रसिद्धं स्थालीपाकवत् । हुतशेषमन्नं प्राश्नाति भद्रान्नः श्रेयः समनैष्ट देवा इति । एवमेव संवत्सरस्यर्तुषु तदृतुफलमिश्रेणान्नेन प्रत्यृतु होतव्यम् । प्रधानकाले मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्च इषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च इति षडृतुद्वन्द्वं यजेत । स्विष्टकृत्प्रभृतिवत् शेषं च ४ अथातःस्थागरमलङ्कारं अथवैश्वदेवस्य अथातःपञ्चदश्यां व्रीह्याग्रयणेन चत्वारि इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने सप्तमोऽध्यायः प्रथमः प्रश्नः समाप्तः

द्वितीयः प्रश्नःसम्पाद्यताम्

प्रथमोऽध्यायःसम्पाद्यताम्

अथातः पुंसवनम् । तृतीयमास्यापूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिस्तीर्य व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्रो धात्रीर्जुहोति । इमं मे वरुण तत्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिम् इति वाचयित्वा स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मणसम्भाषाम् पत्नीम् अपरेणाग्निं मण्डलाकारे प्राचीमुपवेश्य वृषासि इति दक्षिणे पाणौ यवमादधाति आण्डौ स्थ इत्यभितो यवसर्षपौ धान्यमाषौ वा । श्वापृतद् इति दधिद्रप्सं तदैनां प्राशयति । आचान्ताया उद्ररमभिमृशति आभिष्ट्वाहं दशभिरभिमृशामि दशमास्याय सूतवे इति । न्यग्रोधशृङ्गं वा घृतेन कोशकारीं वा प्रैयङ्गवेण संयावेन यूपशकलं वोत्तरपूर्वस्याभिष्टेरग्निं वा निर्मथ्य मूर्मपधानाय इति तस्या दक्षिणे नासिकाच्छिद्रे प्रणयेत् । यदि गर्भः स्रवेदार्द्रेणास्याः पाणिना त्रिरूर्ध्वं नाभेरुन्मार्ष्टि । पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धने । स ऋतूनुपशेष्वा दश मासो अवीरहा इति १ अथातः सीमन्तोन्नयनम् । प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्रो धात्रीर्जुहोति । इमं मे वरुण तत्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मनसम्भाषामपरेणाग्निं मण्डलाकारे प्राङ्मुखमुपवेश्य त्रैण्या शलल्या शलालुद्रप्समुपसंगृह्य पुरस्तात् प्रत्यङ् तिष्ठन् व्याहृतिभी राकामहं यास्ते राक इति द्वाभ्यामूर्ध्वं सीमन्तमुन्नीयाभिमन्त्रयते सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः । विवृत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे । विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः इति २ विजननकाले क्षिप्रं सुवनम् । शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीम् अथास्या उदरमभिमृशति । यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणापसर्पतु इत्यद्भिर्मार्ष्टि । जाते अश्मनि परशुं निधायोपरिष्टाद्धिरण्यं तेषूपरिष्टात् कुमारं धारयति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि जीव त्वं शरदः शतम् । अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे आत्मा वै पुत्रनामासि स जीव शरदः शतम् इति । यद्यपरा न पतेत् तदञ्जलिना उदकमादाय मूर्धानमस्या विसिञ्चेत् तिलदेऽवपद्यस्व न मांसमसि नो दलमवपद्यस्व स्वस्त्या इति । उपनिर्हरन्त्यौपासनाग्निमतिहरन्ति सूतकाग्निम् । स एष उत्तपनीय एव । नास्मिन् किञ्चन कर्म क्रियतेऽन्यत्रोद्धूपनात् । अथैनं कणैः सर्षपमिश्रैर्धूपयति । शण्डो मर्क उपवीरः शाण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहा । आलिखविलिखन्ननिमिषन् किं वदन्त उपश्रुति स्वाहा । अर्यम्णः कुम्भिशत्रुं पात्रपाणिं निपुणिं स्वाहा । आन्त्रमुखं सर्षपाणिरुणो नश्यतादितः स्वाहा । केशिनी स्वलोमिनी खजापोजोपकाशिनी अपेत नश्यतादितः स्वाहा । कौवेरिका विश्ववासा रक्षोराजेन प्रेषिताः । ग्रामं सजानयो यन्तीप्सन्तोऽपरिजाकृतान् स्वाहा । एतान् घ्नतैतान् बध्नीतेत्ययं ब्रह्मणो दूतः । तानग्निः पर्यसरत् तानिन्द्रस्तान् बृहस्पतिः । तानहं वेद ब्राह्मणान् प्रमृशतः कूटदन्तान् विकेशान् लम्बनस्तनान् स्वाहा । नक्तंचारिण उरस्पेशान् शूलहस्तान कपालपान् स्वाहा ।पूर्व एषां पितेत्युच्चैःश्राव्यकर्णकः । माता जघन्या गच्छन्ती ग्रामे मिथुनमिच्छन्ती स्वाहा । नक्तंचारिणी स्वसा सन्धिना प्रेक्षते कुलम् । या स्वपत्सु जागर्ति तस्यै विजातायां मनः स्वाहा । तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्ने अक्षीणि निर्दह स्वाहा इति प्रतिमन्त्रमङ्गारेष्वावपति । ततः पाणिं प्रक्षाळ्य भूमिमालभते यत्ते सुसीमे हृदयं दिवि दन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् । वेदसे भूमि हृदयं दिवि चन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् इति ३ अथातो मेधाजननम् । अथ दर्भेण हिरण्यं प्रवध्य तदन्तर्धाय प्राञ्चं धार्यमाणं घृतं प्राशयति भूरृचस्त्वयि जुहोमि स्वाहा । भुवो यजूँषि जुहोमि स्वाहा । स्वः सामानि त्वयि जुहोमि स्वाहा । भूर्भुवःस्वः अथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा इति । अथैनमुष्णशीताभिरद्भिः स्नापयति क्षेत्रियै त्वा निरृत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षं सह वातेन ते शं ते चतस्रः प्रदिशो भवन्तु । सूर्यमृतं तमसो ग्राह्या यद् देवा अमुञ्चन्नसृजन् व्येनसः । एवमहमिमं क्षेत्रियाज्यामि शंसाद् द्रुहो मुञ्चामि वरुणस्य पाशाद् इति । अथैनं मातुरुपस्थ आदधाति या देवीश्चतस्रः प्रदिशो वातपत्नीरभि सूर्यो विचष्टे । तासां त्वा जरस आदधामि प्रयक्ष्म एतु निरृतिं पराचैः इति । आधायाभिमन्त्रयत्रे मा ते पुत्रं रक्षो हिंसीर्मा धेनुरतिधारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे इति । प्रक्षाळ्य दक्षिणं स्तनमाधापयति अयं कुमारो जरां धयति सर्वमायुरेति । यस्मै त्वँ स्तन प्रप्यायायुः कीर्तिर्वर्चो यशो बलम् इति । एवं सव्यं स्तनं च । नामयति न रुदति यत्र वयं वदामसि । यत्र चाभिमृशाम इति मातापितरौ कुमारमभिमृशतः । आपो गृहेषु जाग्रत । यथा देवेषु जाग्रत । एवमस्यै सुपुत्रायै जाग्रत इति सम्पूर्य मातुः शिरःस्थाने अपिहितमुदकुम्भं निदधाति । प्रतिदिवसं कणैरुद्धूपनं कर्तव्यम् ४ द्वादश्यां मातापुत्रयोः स्नानानन्तरं गृहमलङ्करोति । सृतकाग्निमुद्रास्यौपासनाग्निं निधाय जातस्य कुमारस्य नाम धास्यावः इति मातापितरौ सङ्कल्पं कुरुतः । अनन्तरमौपासनाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्र आहुतीः सीमन्तवद् हुत्वा अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे पयः स्वाहा । अनुमत्या इदम् । अन्विदनुमते त्वं मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्रण आयूँषि तारिषः स्वाहा । अनुमत्या इदम् । अनुमन्यतामनुमन्यमाना प्रजावन्तँ रयिमक्षीयमाणम् । तस्यै वयँ हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । यस्यामिदं प्रदिशि यद् विरोचतेऽनुमतिं प्रतिभूषन्त्यायवः । यस्या उपस्थ उर्वन्तरिक्षँ सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्क्थ्यं स्वाहा । राकाया इदम् । यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषँ सुभगा रराणा स्वाहा । राकाया इदम् । सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवी दिदिड्ढि नः स्वाहा । सिनीवाल्या इदम् । या सुपाणिः स्वङ्गुरिः सुषूमा बहुमूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन स्वाहा । सिनीवाल्या इदम् । कुहूमहँ सुभगां विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितॄणां तस्यास्ते देवि हविषा विधेम स्वाहा । कुह्वा इदम् । इति द्वादश त्रयोदश वाहुतीर्हुत्वा इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजायते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्तात् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमित्रि वाचयित्वा पुत्रस्य नाम दद्यात् । द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तम् । यत्र वा स्वित्युपसर्गः स्यात् तद्धि प्रतिष्ठितम् इति विज्ञायते । पिता मातेत्यग्नेऽभिव्याहरेयाताम् । विज्ञायते च मम नाम प्रथमं जातवेद इति । द्वे नामनी कुर्यात् । विज्ञायते च तस्माद् द्विनामा ब्राह्मणोऽर्धुक इति । नक्षत्रनाम द्वितीयं स्यात् । अन्यतरद् गुह्यं स्यात् । अन्यतरेणैनमामन्त्रयेरन् । सोमयाजी तृतीयं नाम कुर्वीत इति विज्ञायते । प्रवासादेत्य आगतं वा पुत्रमभिमृशति सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा इति । पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ । आयुषे वर्चसे हुतम् इति मूÞर्यभिघ्रायाथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । आयुष्टे विश्वतो दधद् इति दक्षिणे कर्णे जपति यथा पुरस्तात् । ५ अथातःपुंसवनम् अथातःसीमन्तोन्नयनं विजनन काले अथातो मेधाजननं द्वादश्यां पञ्च । इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने प्रथमोऽध्यायः

द्वितीयोऽध्यायःसम्पाद्यताम्

संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु मासि मासि वा जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुव इति द्वाभ्याम् । अथ नक्षत्रदेवताभ्याम् ऋग्भ्यां जुहोति यथालिङ्गम् अनु नोऽद्यानुमतिः अन्विदनुमते इति द्वाभ्याम् । अवत्ते स्विष्टकृत्यथाज्याहुतीरुपजुहोति । नक्षत्रदेवताभ्यो हुत्वा चन्द्रमसे स्वाहा । प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यः स्वाहा । अर्धमासेभ्यः स्वाहा । मासेभ्यः स्वाहा इति मासि मासि वा ऋतुभ्यः स्वाहा इत्यृतावृतौ संवत्सराय स्वाहा इति संवत्सरे । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । आयुरसि इति प्रागन्नप्राशनादाज्यशेषं प्राशयति । आचामति जठरमभिमृशति यत इन्द्र भयामहे ततो नो अभयं कृधि स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । एतदायुष्यमायुष्यम् १ अत ऊर्ध्वं संवत्सरे संवत्सरे जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुव इति द्वाभ्याम् । अथ नक्षत्रदेवताभ्यामृग्भ्यां जुहोति यथालिङ्गं नवो नवो भवति जायमान इत्येतेनानुवाकेन । प्रत्यृचं द्वाभ्यां द्वाभ्यामाग्नेयमपोद्धृत्यानुमतीं जुहोति । अवत्ते स्विष्टकृत्स्यथाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो हुत्वा चन्द्रमा वा अकामयत इत्येतेनानुवाकेन स्वाहाकारैः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । आयुरसि इति हुतशेषमन्नं प्राशयति । आचामति जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । एतदायुष्यमायुष्यम् २ अत ऊर्ध्वं चतुर्थे मास्युपनिष्क्रामणं षष्ठेऽष्टमे वा हस्ते तिष्यपुनर्वस्वनूराधाश्विरेवत्यामेकतमस्मिन् नक्षत्रे कृतस्वस्त्ययनमपदातिं शिशुं मात्रा छत्रिणं चतुष्पथे नयेत् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति ३ अथ षष्ठे मास्यन्नप्राशनम् । आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथैनं दधि मधु घृतमिति त्रिवृत् प्राशयति भूस्त्वयि ददामि भुवस्त्वयि ददामि स्वस्त्वयि ददामि भूर्भुवःस्वस्त्वयि ददामि इति । अथैनमन्नं प्राशयति अपां त्वौषधीनां रसं प्राशयामि । शिवास्त आप ओषधयो भवन्तु । अनमीवास्त आप ओषधयो भवन्तु इति ४ तृतीये वर्षे चौळकर्म । आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अपरेणाग्निं प्राङ्मुखः कुमार उपविशति । उत्तरतो माता ब्रह्मचारी वा आनडुहं शकृत्पिण्डं धारयति येनास्य केशान् प्रतिगृह्णाति । अथोष्णाः शीताभिरपः संसृजति । शीतासूष्णा आनीय आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे इति दक्षिणं गोदानमनक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्नमोषधीरन्तर्दधाति । स्वधिते मैनँ हिंसीः इति क्षुरेणाभिनिदधाति । देवश्रूरेतानि प्रवपे इति प्रवपति । एवमितरान् प्रदक्षिणम् । येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योजेमं रय्या वर्चसा सँसृजाथ इति पश्चात् येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चापुषेऽवपत् तेनदेऽहं वपाम्यसौ इत्युत्तरतः यथा ज्योक् सुमना असाः । ज्योक् च सूर्यं दृशे इति पुरस्ताद् उप्त्वा यथोदितं चौळं कारयति । यथऋषि वा । सन्न्यस्य केशान् यत्र पूषा बहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथिवी अपः सुवः इति गोष्ठौदुम्बरे दर्भस्तम्बे वा निखनति योऽस्य रातिर्भवति । यथाश्रद्धं ब्राह्मणाय ददाति । सर्पिष्मन्तमोदनं नापिताय प्रयच्छति । इत्येवं विहितं षोडशे वर्षे गोदानकर्म सशिखं वापयते । शिखामात्रमतिशिनष्टि इत्येकेषाम् । अग्निगोदानो वा भवति । गुरवे गां ददाति ५ संवत्सरेसंवत्सरे अतऊर्ध्वं चतुर्थेमास्युपनिष्क्रामणम् अथषष्ठे मास्यन्नप्रशनं तृतीयेवर्षे पञ्च । इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने द्वितीयोऽध्यायः

तृतीयोऽध्यायःसम्पाद्यताम्

अथ शुचौ समे देशेऽग्न्यायतने शकलेन त्रिः समुद्धत्य शकलं निरस्याप उपस्पृश्याग्निमद्भिरवोक्ष्योद्धन्ति । यदेवास्यामेध्यं तदपहन्त्यपोऽवोक्षति शान्त्या इति ब्राह्मणम् । पञ्चप्रस्थं शुचि शुक्लं सिकतमनार्द्रं विविच्य स्थण्डिलं कृत्वा समचतुरश्रमरत्निमात्रम् उदक्प्राक्प्रवणं प्रादेशमात्रं व्रीहिभिर्दक्षिणतः प्राचीं लेखां लिखति एवं मध्यममेवमुत्तरतः । व्रीहिभिः पश्चादुदीचीं लेखां लिखति एवं मध्यममेवं पुरस्तात् । व्रीहीनपोह्याप उपस्पृश्याद्भिरवोक्ष्य ॐ भूर्भुवःस्वरॐ प्रतिष्ठ इत्यग्निमुपसमाधाय बर्हिररत्निमात्रं षट्त्रिंशदङ्गुलं तिस्रः शम्याः परिधयो मध्यमाङ्गुल्यानामिकया कनिष्ठिकयेति स्थविष्ठो मध्यमोऽणीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरतः समिद्द्वादशाङ्गुष्ठमष्टादश याज्ञिकं काष्ठं प्रोक्षणीमाज्यस्थालीं प्राजापत्यभाजनं प्रस्थचतुर्भागं पूर्णप्रस्थद्विभागं प्रणीताप्रणयनं प्रस्थचरुस्थालीं वदानप्रमाणमङ्गुष्ठपर्वोक्तम् आहुतिप्रमाणं चतुरङ्गुलं दर्वीप्रभाणमेकविंशतिमङ्गुष्ठं तस्याश्चतुर्दशाङ्गुष्ठं पूर्वभागं तस्य द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवं स्रुक् प्रादेशमात्रं पवित्रमेवमुपवेषणमिति होमप्रमाणनिर्देशो व्याख्यातः १ अथातो नान्दीमुखेभ्यः पितृभ्यः पूर्वेद्युः कर्म व्याख्यास्यामः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्वः करिष्यामीति श्वो भूते वान्नं संस्कृत्य शुचीन् श्रोत्रियान् ब्राह्मणानामन्त्रयते । शुचि शुक्लमनार्द्रमाच्छाद्य यज्ञोपवीत्यप आचम्य चतुर्वारं शुक्लान् वलीन् हरति दधितण्डुलसुरभिशुक्लाः सुमनस इति अग्न्यायतने प्रागग्रान् दर्भान् संस्तीर्य तेष्वष्टौ बलीन् ददाति अग्नये सोमाय प्रजापतये विश्वेभ्यो देवेभ्यः ऋषिभ्यो भूतेभ्यः पितृभ्यः सर्वाभ्यो देवताभ्यो नमः इति । हविष्यमन्नं ब्राह्मणेभ्यः प्रदापयति । दध्ना माषमत्स्यमांसभक्ष्याशनमित्यपरम् । अथ चतुष्टयमादाय व्रीहियवपुष्यसर्षपाणीति सह तैरेवोदकुम्भमादाय ॐ मनः समाधीयतां प्रसीदन् भवन्तः इत्युक्त्वा सप्रणवनान्दीमुखाः पितरः प्रीयन्ताम् इत्येवं यथार्थयितरे प्रतिब्रूयुः । अस्य कर्मणः पुण्याहं वक्ष्यामः । स्थण्डिलाद्युपनान्दिं कृत्वापआदिशिखान्तिकं करोति । पुनःकल्पनाद्यानमस्कारं कृत्वान्वाहार्यादिप्रणवादिकं करोति । अन्यत्र जातकर्मनामकरणयोः पूर्वेद्युः सन्तिष्ठते नान्दीश्राद्धः सन्तिष्ठते नान्दीश्राद्धः २

तत्र तत्र विनिर्दिष्टं पुण्याहादिविवाचनम्
कर्माङ्गं च विशुद्ध्यर्थं विस्तरेण मयोच्यते
पुण्याहं वाचयिष्यन् हि शुक्लाम्बरधरः शुचिः
पवित्रपाणिराचान्तः ततः कर्म समारभेत्
श्रोत्रियान् क्षाळितपदानाचान्तांश्च द्विजोत्तमान्
दर्भोपकॢप्तासनेषु शुचीन् युग्मान् प्रवेशयेत्
उपविश्य नवं कुम्भमद्भिः प्रक्षाळय पूरयेत्
शुभाननमकल्माषमाढकापूरितं ततः
अर्चयेद् गन्धपुष्पाद्यैरक्षतैश्च फलान्वितैः
सादयित्वाथ दर्भेषु सकूर्चं पिहिताननम्
अर्चयेत्तु ततः सम्यगुपविष्टान् द्विजोत्तमान्
आपो गन्धाः सुमनस इति दद्याज्जलादिकम्
शिवा आपः सन्त्विति च सुमन्धाः पान्त्वितीति च
सौमनस्यमिति ब्रूयुरस्त्वन्तमितरे द्विजाः
शिवं कर्मेति चेत्युक्त्वा ब्राह्मणानां ददौ जलम्
आपः स्वस्ति शिवं कर्मेत्यस्त्वन्तमितरे द्विजाः
भोज्यं दद्यात् ततस्तेभ्यो अन्वाहार्य इति द्विजः
ओदनं तण्डुलं वापि स्वन्वाहार्योऽस्त्वितीतरे
गृह्णीयुर्दक्षिणां दद्याद् दक्षिणा इति च द्विजाः
स्वस्त्यादि दक्षिणाः पान्तु बहु देयमितीतरे
अस्त्वन्तं प्रतिगृह्णीयुर्दद्यादक्षतमक्षतम्
इत्यक्षतं चारिष्टं चेत्यस्त्वन्तं ब्रूयुरर्चिताः
वाचयेत्तु करस्थाना नामे भुक्तवतः श्रिते
उत्तिष्ठेयुस्ततः पश्चान्मनः समाधीयतामिति
समाहितमनसः स्मः प्रसीदन्तु भवन्त्विति
प्रसन्नाः स्म इति ब्रूयुः शान्तिपुष्टीति चोच्यते
तुष्टिऋद्धी अविघ्नमस्त्विति आयुष्यमिति चोच्यते आरोग्यं शिवं कर्मास्तु

इत्यूचुर्ब्राह्मणा निशम् । सप्रणवम् अस्तु इति ब्रूयुः । प्रजापतिः प्रीयताम् । प्रीयतां भगवान् प्रजापतिः । एवं तत्तत्कर्मणि विहिता वाच्याः । पुण्याहं भवन्तो ब्रुवन्तु । ॐ पुण्याहम् इति ॐ पुरमस्वामिनाम्निः स्वस्तिं भवन्तो ब्रुवन्तु । ॐ स्वस्ति । ॐ ऋद्धिं भवन्तो ब्रुवन्तु । ॐ ऋद्ध्यताम् । ॐ त्रिः । पुण्याहसमृद्धिरस्तु शिवं कर्मास्तु । एवं प्रतिवचनम् । नान्दीमुखाः पितरः प्रीयन्ताम् । भगवन्तो नान्दीमुखाः पितरः इति प्रतिवचनम् । आपोहिष्ठादिभिर्मन्त्रैः प्रणीताप्रोक्षणवद् आत्मानं प्रोक्षयेत् । पुण्याहं समाप्तम् ४

अथ कौतुकं व्याख्यास्यामः परमस्वामिशर्मणः कुमारस्य कौतुकबन्धं करिष्य इति सङ्कल्प्य तण्डुलमुदकुम्भं वराहविषाणं च कण्टकिनं च शङ्खमादर्शमञ्जनं कौतुकतन्तुं चादाय एकत्र निधाय निशायां गृहं सभाच्छादनविधा नाद्यैरलङ्कृत्य गोमयेनोपलिप्य व्रीहिभिः स्थणि!डिलं कृत्वा स्थण्डिलोत्तरे कुम्भं निधाय कुम्भस्य दक्षिणतः सम्भारान् निधाय सुप्रक्षाळितपाणिपादान् चतुरो ब्राह्मणान प्रतिदिशमुपवेश्य दर्भेष्वासीनः कर्मोपक्रमं करोति । संस्कार्यं कुमारमात्मनो दक्षिणत उपवेश्य आपो हि ष्ठा मयोभुव इति तिसृभिः स्वहृदयं प्रोक्ष्य ब्राह्मणैः सहैताननुवाकान् जपति कृणुष्व पाजः प्रसितिं न पृथ्वीम् इन्द्रं वो विश्वतस्परि हवामहे आशुःशिशान इति । ममाग्ने वर्चो विहवेष्वस्तु अग्नेर्मन्वे प्रथमस्य प्रचेतसः इन्द्रो दधीचो अस्थभिः चक्षुषो हेते मनसो हेते भ्रातृव्यं पातयामसि इत्यन्तम् । एताननुवाकान् जपित्वा मातुलः कुमारस्य समीप उपविश्य त्रीणि शलल्यादिशङ्खपर्यन्तान्यादाय कुमारस्य दक्षिणं बाहुमन्ववहृत्य त्रिः प्रदक्षिणमावर्तयते । अथाञ्जनमादाय दक्षिणेनाङ्क्ते । आदर्शमादाय मुखं दर्शयति । तन्तुमादाय रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रयिष्ठमुपयामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् विश्वेत्ताते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते । पारावतं यत्पुरुसंभृतं वस्वपावृणोः शरभाय ऋषिबन्धवे इति तन्तुं प्रबध्य बृहत्साम क्षत्रभृद् वृद्धवृष्णियं त्रिष्टुभौजः शुभितमुग्रवीरम् । इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष इति रक्षां करोति । अथ तण्डुलमादाय वसवस्त्वा रुद्रैः पुरस्तात् पान्तु सर्पिर्ग्रीवी पीवर्यस्य जाया आशिषमेवैतामाशास्ते पूर्णपात्रे नवो नवो भवति जायमानः त्रियम्बकं यजामहे विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इत्येवमादिऋग्यजुर्भिः रक्षां करोति । एवं स्त्र्यापः सव्यं बाहुमनु पर्यावृत्य प्रदक्षिणमावर्तयते । यत्र नान्दीश्राद्धं तत्र कौतुकमित्याह भगवानाग्निवेश्यः ५ अथशुचौसमेदेशे अथातोनान्दीमुखेभ्यः तत्रतत्र अथवैभवतिश्रद्धया अथकौतुकं पञ्च । इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः

चतुर्थोऽध्यायःसम्पाद्यताम्

शालां करिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोरेतेषु स्नायात् । यत्रापस्तद् गत्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाहतं वासः परिधायाप उपस्पृश्य देवस्य त्वा इत्यग्निमादाय परिलिखितम् इति त्रिः प्रदक्षिणं परिलिख्य यथार्थम् अवटान् खात्वाभ्यन्तरे पांसून् करोति । हैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणाम् । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा अनुसञ्चरेम इति दक्षिणां द्वारस्थूणामुच्छ्रयति । हैव ध्रुवा प्रतितिष्ठ शालेऽश्ववती गोमती सूनृतावती । ऊर्जस्वती पयसा पिन्वमानोच्छ्रयस्व महते सौभगाय इत्युत्तराम् । आ त्वा कुमारस्तरुण आवत्सो जगतः सह । आ त्वा हिरण्मयः कुम्भ आदध्नः कलशीरयन् इति सम्मितेऽभिमृशति । एवमेव स्थूणावुच्छ्रयति । एवमभिमृशति । ऋतेन स्थूणावधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथास्मभ्यं सहवीरां रयिं दा इति पृष्ठवंशणरोपयति । मा नः सपत्नी शरणा स्योना देवीर्देवेभिर्विमितास्यग्रे । तृणं वसाना सुमना स्त्वं शन्न एधि द्विपदे शं चतुष्पदे इति छन्नामभिमृशति । ततो रुराळे वास्तुशमं निशायामन्तरागारेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति वास्तोष्पते वास्तोष्पते इति द्वे १ वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व स्वाहा । अपैतु मृत्युरमृतं न आगन् वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभिः नः श्रीयताँ रयिः सचतां नः शचीपतिः स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्म्ते शृष्वते ते ब्रवीमि मा नः प्रजाँ रीरिषो मोत वीरान् स्वाहा । इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति इत्याह भगवानाग्निवेश्यः २ अथ तटाककल्पं व्याख्यास्यामः नाभ्यर्च्य यूपमुपतिष्ठते । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् इति । अथ प्रदक्षिणमावृत्य प्रत्यगधिश्रित्य जघनेन यूपं स्थण्डिलं कृत्वाग्निमुपसमाधाय संपरिस्तीर्याग्निमुखात् कृत्वा जुहोति इमं मे वरुण तत्त्वा यामि इति द्वाभ्याम् । ओषधिवनस्पतिभ्यां पक्वाज्जुहोति या जाता ओषधय इति द्वाभ्याम् । अथ प्रासादात् पक्वाज्जुहोति वास्तोष्पते वास्तोष्पत इति द्वाभ्याम् । अथाज्याहुतीरुपजुहोति । ब्रह्मणे स्वाहा । रुद्राय स्वाहा । यमाय स्वाहा । वरुणाय स्वाहा । निरृत्यै स्वाहा । श्रियै स्वाहा । यशस्कराय स्वाहा । अह्ने स्वाहा । रात्र्यै स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । नक्षत्रेभ्यः स्वाहा इति द्वादशाहुतीर्जुहोति । कूप्याभ्यः स्वाहा अद्भ्यः स्वाहा इत्येतमभ्यनुवाकम् । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । पायसतिलचूर्णं पयोमिश्रं सलक्षणं सम्पूर्णं बलिं कृत्वा बलीन् संप्रकीर्य यमसूक्तं पुरुषसूक्तं वाचयित्वोर्मिमन्तम् उदधिं कृत्वा स्नात्वाचम्याहतं वासः परिधाय दक्षिणां ददाति । हिरण्यं धान्यं ब्राह्मणेभ्यो ददाति । नृत्तगीतवाद्यादीनि घोषयित्वा सर्वलोकमलङ्कृत्य विष्णुलोकं गच्छतीत्याह भगवानाग्निवेश्यः ३ अथ कूश्माण्डैर्जुहुयाद् याऽपूत इव मन्येत यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चति । अत्र स्वप्नान्तरे रेतः पतेदपिवा स्त्रीकामो वा । अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा स्नातः शुद्धवासा ब्रह्मचारिकल्पेन व्रतमुपैति वत्सरं मासं चतुर्विं शतिमहोरात्रं द्वादशरात्रं षड्रात्रं त्रिरात्रं वा । न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेतानृतात् । पयोभक्ष इति प्रथमः कल्पः । यावकं वोपयुञ्जानः कृच्छ्रं द्वादशराशं चरेत् । भिक्षेद्वा । यवागूं राजन्यो वैश्य आमिक्षाम् । पूर्वाह्णे पाकयज्ञिधर्मेणाग्निं प्रणीयोपसमाधाय यद्देवा देवद्देळनं यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इत्येतैस्त्रिभिरनुवाकैः प्रत्यृचमाज्येन हुत्वा सिंहे व्याघ्र उत या पृदाकौ इति चतस्र आहुतीः अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति चतस्र आहुतीर्हुत्वा समित्पाणिः यजमान आयतनेऽवस्थाय वैश्वानराय प्रतिवेदयाम इति द्वादशर्चेन सूक्तेनोपस्थाय यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मात् तस्मान्मेळितो मोग्धि त्वँ हि वेत्थ यथातथं स्वाहा इति समिधमाधाय वरं ददाति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । एकस्मिन्नेवाग्नौ परिचर्य अथाग्न्याधेये यद्देवा देवहेळनम् यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इति पूर्णाहुतिं हुत्वाग्निहोत्रमारप्स्यमानो दशहोतारं हुत्वा दर्शपूर्णमासावारप्स्यमानश्चतुर्होतारं हुत्वा चातुर्मास्यमारप्स्यमानः पञ्चहोतारं हुत्वा पशुबन्धं षड्ढोतारं सोमे सप्तहोतारम् । कर्मादिष्वेतैर्जुहुयादिति विज्ञायत इति हि ब्राह्मणम् इति ब्राह्मणम् ४ अथातः पूतकामोऽग्नीनाधास्यमानो वान्यत्तु महत् कर्म समारभेद्वा । पूर्वपक्षे पुण्ये नक्षत्रे पूर्वकालमुपोष्योपव्युषसि ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य कृतशौचः कृताचमनो यथोदितं स्नानं कृत्वा नदीषु वा शुद्धजलाशये वा गृहं प्रत्येत्य शुचिः शुक्लमनार्द्रमाच्छाद्याग्निमुपसमाधाय दर्शवत् कृत्वा निर्वपणकाले देवस्य त्वा इत्यनुद्रुत्य गणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । आज्येन श्रपयति । आ अग्निमुखात् कृत्वा घृतान्नेन जुहुयात् । क्ष्मापवित्रः सहस्राक्षो मृगारांहोमुचौ गणौ । पावमान्यं च कूश्माण्ड्यो वैश्वानर्य ऋचश्चायः प्रत्यृचं जुहुयात् । इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इत्याहुतीर्जुहुयात् । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अत्र गुरवे मां दत्त्वा पत्नीभिः सह कृतमङ्गळश्चतुष्पथं गत्वा गोमयेन गोचर्यमात्रं चतुरश्रं स्थण्डिलमुपलिप्य पात्रं निधाय परिस्तीर्याद्भिः पूरयस्यवेक्षमाणः पाप्मानो विधत्वायति सिंहे मे मन्युः इत्यान्तादनुवाकम् । अथ पात्रमादाय प्राङ्मुखस्तिष्ठन् अपेहि पाप्मन् पुनरपनाशिनो भवा नः पाप्मन् सुकृतस्य लोके पाप्मन् धेह्यविहृतो यो नः पाप्मन्न जहाति तमु त्वा जहि नो वयम् । अन्यत्रास्मिन्निविशतात् सहस्राक्षो अमर्त्यः । यो नो द्वेष्टि स ऋष्यन्ति यमु द्विष्मस्तमु जहि इति पृष्ठतो निधायाप उपस्पृश्य प्रदक्षिणमावर्तयेत् । एवमेव सप्ताहं सवनत्रयम्

 
कुर्यान्मौनी हविष्याशी निगृहीतेन्द्रियक्रियः
मुच्यते सर्वपापेभ्यो महतः पातकादपि
वृद्धत्वे यौवने बाल्ये वा कृतः पापसञ्चयः
पूर्वजन्मसु वा जातस्तस्मादपि विमुच्यते
भोजानान्ते द्विजातीनां पायसान्नेन सर्पिषा
गोभूतिलहिरण्यानि भुक्तवद्भ्यः प्रदापयेत्
एवं कृत्वा सर्वान् लोकान् जयतीत्याह भगवानाग्निवेश्यः ५

अथ शताभिषेकं व्याख्यास्यामः । सहस्रमासं पर्यवसितमिति चेच्छतसंवत्सर उदगयनापूर्यमाणे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनम् ऋद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं प्रतिदिशं व्रीहितण्डुलैः सर्वासु दिक्षु चतुरश्रं स्थण्डिलं कृत्वा फलैः पुष्पैस्तण्डुलैरक्षतैर्यवैस्तिलैः संप्रकीर्य प्रादेशमात्रे समे प्राचीनाग्रे कूर्चे कृत्वा प्रागग्रैः कूर्चैः स्थण्डिलं निधायाथ स्वर्णं रजतं ताम्रं मृण्मयं वा पञ्चविंशतिं कलशान् सूत्रेण परिवेष्टयित्वा स्थण्डिलेषु निधाय संपरिस्तीर्य जलपवित्रं निधाय सर्वगन्धैः फलैः पुष्पैस्तिलैः संयुक्ते जलपवित्र उदकमानयति । कूर्चं निधायाक्षतगन्धपुष्पधूपदीपाद्यैः कलशानलङ्कृत्य सर्वासां दिशां कलशेष्वावाहयति । अथास्य मध्ये ब्रह्माणमावाहयामि । प्रजापतिमावाहयामि । परमेष्ठिनमावाहयामि । हिरण्यगर्भमावाहयामि । स्वयंभुवमावाहयामि । इति आवाह्य पुरस्तादनुक्रमेण इन्द्रादीन् कलशेष्वावाहयामीत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा अर्ध्यपाद्यादिभिराराध्य यथाविध्ययैनं स्नापयति । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वैतैरेव नामधेयैः अमुष्मै नमोऽमुष्मै नम इति तर्पयति । गन्धपुष्पाक्षतधूपान् दद्याद् अहतेन वाससा प्रच्छाद्य । द्वदशकलशं वरुणसूक्तं शेषतादन्तः शापधेत्रिकोदकेन यदिवा परेपरेतीतः इति चतसृभिरनुच्छन्दसम् अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । अथैतैः अभिषेचनं करोति । अथ प्रक्षाळितपाणिपाद आचम्य अहतेन वाससा परिधत्ते । एवमेवोर्ध्वं सर्वगन्धैः चन्दनागरुसंयुतं सर्वाननुलेप्य अथादित्या मुदीक्षयति आ सत्येन इति । अथैनम् उपतिष्ठते उदूयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्देवहितं य उदगात् इति । एरकामास्तीर्य तस्यां प्राङ्मुख उपविश्याथाज्याहुतीरुपजुहोति ब्रह्म जज्ञानम् इति षड्भिः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दर्भस्तम्बे हुतशेषं निधाय आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः आयुर्दा अग्ने इति द्वाभ्याम् अथाज्यशेषे हिरण्यं निधाय इन्द्राय त्वा तेजस्वते तेजस्वन्तम् इति चतसृभिः अनुच्छन्दसैश्चार्धर्चैः आज्यशेषे प्रतिच्छायां दर्शयति । ममाग्न आयुषे वर्चसे कृधि इत्यनेन ब्राह्मणाय ददाति । आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । यतो वासो मनोजवाः इत्यन्तैश्चतसृभिरनुच्छन्दसैरनुब्राह्मणैराशीर्वाचनमाह । त्रिवृतान्नेन ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा ब्राह्मणेन प्रीयताम् इति । अथाशामायुष ग्रामं प्रदक्षिणं करोति । अथाच्छादनविशेषैरुपसर्जनैश्चामरैस्तालवृन्तैर्वहति। अथ शङ्खैर्गेयादिनिर्घोषयुक्तैश्च रयवाहनमारोप्य स्वस्तिसूक्तं जपेत् स्वस्ति नोऽमिमीत इत्यादि स्वस्ति सम्बाधेष्वभयं नो अस्तु इति समानम् । अथ द्वारबलिं करोति । अथ गेहान्तरं गत्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वाथ बालानामाहुः । सहस्रमायुः सहस्रमासस्तरुणेन्दुं दर्शयित्वाथ पुत्रपौत्रैः ब्राह्मणः सायुज्यं सलोकतां

प्राप्नोति इत्याह भगवानाग्निवेश्यः ६
अथ ब्राह्मणस्य महापातकादिपतितकर्माणि भवन्ति चेदत्र सपिण्डः किं कुर्यादिति ।
निन्दितेऽह्नि सायाह्ने सपिण्डाः सह तिष्ठन्ति
चतुष्पथे तथा कार्यं गोमयेनोपलेपनम्
निन्दितं चैव शीतोष्णमुदकुम्भं प्रतिष्ठिपेत्
अस्यदासी ततः पश्चादद्भिः कुम्भं प्रपूरयेत्
उत्तिष्ठन्तः सपिण्डास्तमिदं वचनमब्रुवन्
सम्भाषणं च संयानं सभाशयनमेव च
अशनं च तथा तेन न च कुर्यादितः परम्
इति वाचं विसृज्यैव कुर्यात् कुम्भं प्रदक्षिणम्
ताडयेद् वामपादस्य पार्ष्ण्या तत् तस्य सन्निधौ
अनवेक्षमाणास्ते सर्वे गत्वा पश्चाद् यथोदितम्
प्रायश्चित्तं यथाशास्त्रं विविधं चाथ चेत् कृतम्
एवं पूतस्ततः पश्चात् स्नात्वा शुद्धे जलाशये
पुण्याहं वाचयित्वा तु प्रविशेच्च चतुष्पथम्
गोमयेनोपलिप्याथ नवकुम्भं प्रतिष्ठिपेत्
दासेराद्भिः प्रपूर्याथ सपिण्डान् पर्युपासयेत्
स्वस्तिवाक्यं ततः कृत्वा कुम्भं कुर्यात् प्रदक्षिणम्
उदं पीत्वाथ कुम्भस्थं स्वगेहं तु प्रवेक्षयेत्
ब्राह्मणान् भोजयित्वाथ सपिण्डैः सह भोजयेत्

एवं हि शुद्धात्मानं पितृपितामहप्रपितामहा अस्य कुलवृद्धाश्चाशिषो वाचयित्वा अत ऊर्ध्वं सर्वान् कामान् स हि कुर्यादिति कुर्यादिति ७ अथ शुभाशुभनिमित्तानां वायसानां बलिविधिं व्याख्यास्यामः । ग्रामात् प्राचीमुदीचीं दिशमुपनिष्क्रम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरवोक्ष्य प्रदक्षिणं वायसानामासनं कल्पयति । अङ्कतेभ्यः कल्पयामि । कङ्कतेभ्यः कल्पयामि । कद्रुपुत्रेभ्यः कल्पयामि । वासेभ्यः कल्पयामि । ब्रह्मपुत्रेभ्यः कल्प्लयामि । अथैतानावाहयति । न कपिलान् न कोकिलान् नारिष्टान् न महारिष्टान् वायसमात्रकान् । आयान्तु शकुनाः शीघ्रं वायसा बलिभोजिनः । अङ्कतानामाहयामि । कङ्कतानावाहयामि । कद्रुपुत्रानावाहयामि । वायसानावाहयामि । ब्रह्मपुत्रानावाहयामि इत्यावाह्य आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्यधूपदीपैरभ्यर्च्य अमुष्मै स्वाहामुष्मै स्वाहा इति पायसोदनेन पिण्डं प्रदक्षिणं दद्यात् । अमुष्मै

नमोऽमुष्मै नम इत्युपस्थाय
सत्याः स्थ सत्यं वदत सत्ये रमत वायसाः
तत्सत्यमिह नो ब्रूयान्न मिथ्याबलिमश्नीयात्
इत्याह
अथैनं मातृघातेन पितृघातेन वा पुनः
तद् दुष्कृतं प्रतिगृह्णीयाद् यो मिथ्याबलिमश्नीयात्
कपिलानां शतं हुत्वा ब्राह्मणानां विशेषतः
दुष्कृतं प्रतिगृह्णीयाद् यो मिथ्याबलिमश्नीयात्
इति ब्रूयात्
भावाय पूर्वं गृह्णीयादभावाय तु दक्षीणम्
नास्तीत्यपरं चैव भविष्यत्यपि वोत्तरम्

मध्ये सर्वार्थलाभाय इत्याह । एवं ज्ञात्वा सर्वकर्माण्यारभेत् सर्वकर्माण्यारभेदिति ८

अथ यज्ञोपवीतविधिं व्याख्यास्यामः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे ब्राह्मणकन्या ब्राह्मणविधवा वा सुप्रक्षाळितपाणिपादा शुचिः शुक्लमनार्द्रमाच्छाद्य यत्र कार्पासस्तिष्ठति तत्र गत्वा पकफलं परिगृह्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य तन्मध्ये यन्त्रं प्रतिष्ठाप्य प्राङ्मुखी उदङ्मुखी वा उपविश्य उपर्युपरि तन्तुं तत्य न कदाचन नीचं करोति । ब्राह्मणाय ददाति । अथ ब्राह्मणो हिरण्येन परिक्रीय वा धान्येन वा धनेन वा सुप्रक्षाळितपाणिपाद अप आचम्य पवित्रपाणिः प्राङ्मुख उदङ्मुखो वोपविश्य दक्षिणहस्ताङ्गुलीभिः श्लिष्टाभिः षडधिकेन नवत्या परिगण्य त्रिगुणीकृतमथाद्भिर्मार्जयति आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन । ब्राह्मणानाहूय प्रागेकः स्थित्वा प्रत्यग् द्वौ स्थित्वा दक्षिणहस्तं परिव्राजेन भूर्भुवःस्वः इति सूत्रं कृत्वा त्रिगुणीकृत्य याज्ञिके वृक्षे विसृजति । तृणेन ताडयति । हस्तेन हस्तं सूत्रमादाय जानुभ्यां परिवेष्टयति भूरग्निं च पृथिवीं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ द्वितीयं भुवो वायुं चान्तरिक्षं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ तृतीयं स्वरादित्यं च दिवं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ ग्रन्थिं कृत्वा भूर्भुवःस्वश्चन्द्रमसं च दिशश्च मां च । त्रींश्च लोकान् संवत्सरं च प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति । अथ यज्ञोपवीती भवति यज्ञस्योपवीतेन उपव्ययामि दीर्घायुष्ट्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसाय इति । आचान्तः

सर्वकर्मार्हो भवति सर्वकर्मार्हो भवति ९
अथ देवताराधनं व्याख्यास्यामः । शुचि शुक्लमनार्द्रमाच्छाद्य पवित्रपाणिराचान्तः सन्ध्यामुपास्याथ कृताग्निकार्यो देवमावाहयेत्
मण्डले स्थण्डिले वाप्सु हृदि दीप्ते च पावके
तथैव प्रतिमायां वा हरिमावाह्य पूजयेत्
हृदयाभ्यन्तरे पद्मं मनसा चिन्तयेद् बुधः
पद्मस्य कर्णिकामध्ये तस्य ज्योतिर्व्यवस्थितम्
ज्योतिर्मध्ये महाविष्णुः शङ्खचक्रगदाधरः
एवं द्वादशनामभिरावाह्य केशवायेति
चन्दनादि प्रदीपान्तैः पूजयेच्च ततः परम्
मण्डळे च तथा सर्वं स्थण्डिले च तथैव च
तथैव पावके दीप्ते हरिमावाह्य पूजयेत्
अथ चेत् प्रतिमां कुर्वन् स्वर्णमयेन वा लोहमयेन वा अशक्तौ शिलामयेन वा

शङ्खचक्रगदाधरं चतुर्भुजं कृत्वा अगारे वा विमाने वा प्रतिष्ठाप्य आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनाभिषेकं करोति । अथ देवमावाहयामि इति केशवादिनामभिरावाह्य अथ वस्त्रं प्रदाय युवं वस्त्राणि इति अथ गन्धं प्रदाय गन्धद्वाराम् इति अथ पुष्पं प्रदाय योऽपां पुष्पं वेद इति अथ धूपं प्रदाय धूरसि इति अथ दीपं प्रदाय उद्दीप्यस्व इति तच्छेषेणानुलेपनं करोति । अर्हणीयमुदकम् इत्यथार्घ्यं पाद्यमुदकम् इति पाद्यं दद्याद् आचमनीयमुदकम् इत्याचमनीयम् । अथ चरुं श्रपयति । आढकेन आढकार्धेन वा प्रस्थेन वाज्येन वा पयसि श्रपयति । अथान्नं भवति । प्रदाय सत्यं त्वर्त्तेन परिषिञ्चामि इति ऋतं त्वा सत्येन परिषिञ्चामि इति परिषेचनं करोति । अथान्नमभिमृश्य अहमस्मि प्रथमजा ऋतस्य इति दशर्चेन सूक्तेन अमृतोपस्तरणमसि इति उपस्तरणं करोति । अथ प्राणाहुतिः । प्राणे निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा इति प्राणाय अपाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा इत्यपानाय व्याने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । व्यानाय स्वाहा इति व्यानाय उदाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । उदानाय स्वाहा इत्युदानाय समाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय समानाय स्वाहा इति समानाय एवं पञ्चविधां प्राणाहुतिं करोति । अथ देवमुपस्थाय केशवादिद्वादशनामभिः विष्णोर्नुकं वीर्याणि प्रवोचम् इति जपति । अथावरणं करोति अमृतापिधानमसि इत्यप आनीय पिधाय योऽपामायतनं वेद । आयतनवान् भवति इत्याचमनीयं करोति । अथ ताम्बूलं प्रदाय देवमुद्रासयति । क्षीरार्णवे वा मेरौ वा आदित्यमण्डले वा केशवमुद्वास्य नैवेद्यमप्सु निधाय चतुर्थाशं ब्राह्मणाय ददाति इत्याह भगवानाग्निवेश्यः १० अथातो रविकल्पं व्याख्यास्यामः । आयुष्कामस्य वा तेजस्कामस्य वा यशस्कामस्य वा भूतिकामस्य वा पुत्रकामस्य वा रूपकामस्य वा भवति । न नक्तमश्नीयात् मृच्छयश्च मैथुनवर्जम् । शुचि शुक्लमनार्द्रमाच्छाद्य प्रयतः शुचिर्भवति । अथ श्वोभूते आदित्यवारे आदित्येऽभ्युदितमात्रे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य मध्ये स्वर्णमथवा रजतं वा पद्मं निधाय अथवा भूमौ

विलिखेदष्टपत्रं सकर्णिकम्
पूर्वपत्रे न्यसेत् सूर्यमाग्नेय्यां च दिवाकरम्
न्यस्य याम्ये विवस्वन्तं नैरृत्यां तु भगं न्यसेत्
वरुणं पश्चिमे पत्रे वायव्ये चेन्द्रमेव च
सवितारमथैशान्यामादित्यं चोत्तरे न्यसेत्
सकर्णिकापूर्वपत्रे न्यसेदर्कं सवाजिनम्
सहस्रांशुं दक्षिणे च मार्ताण्डं पश्चिमे दिशि
उत्तरे तु रविं देवं तन्मध्ये भास्करं न्यसेत्

एवं द्वादशादित्यान् यथाक्रमं विन्यस्य मध्ये सर्वादित्यरूपं विन्यस्याथाद्भिर्मार्जयते आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन । अथ रक्तचन्दनेन रक्तपुष्पेण रक्तवर्ण आचार्यः अमुष्मै नमोऽमुष्मै नमः इति गन्धपुष्पधूपदीपैरभ्यर्च्य पाद्ममुदकं नमस्कारं कृत्वा अमुष्मै नमोऽमुष्मै नम इति अथ दैवतानुद्वासयति । द्वादशनामभिर्यथा पूर्वमावाहनं करोति तथोद्वासनम् । गुरवे यथाशक्ति दक्षिणां दद्यात् । एवं संवत्सरस्यार्कवारेषु पूजां कृत्वा ब्राह्मणान् भोजयित्वा आयुष्कामी दीर्घमायुरवाप्नुयात् । तेजस्कामी तेजस्वी यशस्कामी यशस्वी भूतिकामी भूतिमान् भवति पुत्रकामी पुत्रं लभते । सर्वकामी सर्वं लभते । इत्याह भगवानाग्निवेश्यः ११

प्रणवं चाग्निदैवत्यं परब्रह्मस्वरूपिणम्
छन्दस्तु देवी गायत्री ऋषिर्ब्रह्मेति कीर्तितः
प्रणवं नमस्करोमि सर्वदेवतामयं शृणु विष्णुमब्रवीदिति प्रणवं त्र्यक्षरेण

अकारोकारमकाराक्षरेण । अकारोऽग्निः उकारः सूर्यः मकारश्चन्द्रः । अकारो ब्रह्मा उकारो विष्णुः मकार ईश्वरः । अकारो नपुंसकः उकारः पुल्लिँङ्गः मकारः स्त्रीलिङ्गः । अकारो मिश्रवर्णः उकारो रक्तवर्णः मकारः श्वेतवर्णः । उपमारहिताः औमकारात्मकाः कालत्रयात्मकाः लोकत्रयात्मकाः ऋग्यजुस्सामात्मकाः अवस्थात्रयात्मकाः प्रणवोच्चारणेन महदैश्वर्यदायकाः मूलाधारानाहतभ्रूमध्ये स्थिताः अकारोकारमकाराः उदात्तानुदात्तस्वरिताः वक्ष्याम्य् तिरहस्यमिति । ऋग्वेदे प्रणवं यजुर्वेदे प्रणवं सामवेदे प्रणवं त्रिः ब्रूयात् । तस्योत्तरा भूयसे निर्वचनाय १२ अथशालांकरिष्यन् वास्तोष्पते अथतटाककल्पंव्याख्यास्यामः अथकूश्माण्डैर्जुहुयाद् अथातःपूतकामः अथशताभिषेकम् अथब्राह्मणस्यमहापातकादि अथशुभाशुभनिमित्तानाम् अथयज्ञोपवीतविधिम् अथदेवताराधनम् अथातोरविकल्पंव्याख्यास्यामः प्रणवंचाग्निदैवत्यं द्वादश इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने चतुर्थोऽध्यायः

पञ्चमोऽध्यायःसम्पाद्यताम्

अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्यामः
अश्रद्दधानमहुतमजपं त्यक्तमङ्गलम्
ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम्
ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम्
उपहारान् प्रवक्ष्यामि शान्त्यर्थं तु यथाविधि
मासि मास्यृतावृतावयने चन्द्रग्रहे सूर्यग्रहे जन्मनक्षत्रे विषुवे शुभाशुभे वा
तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानः सर्वान् कामानवामोतीति । उक्तमेकाग्निविधानं कृत्वा
भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ
सोमपुत्रगुरू चैव तावुभौ पीतकौ स्मृतौ
कृष्णं शनैश्चरं विद्याद् राहुकेतू तथैव च
ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत्
बलिं चैवोपहारं च गन्धमाल्यं तथैव च
यथाक्रमेणोपहरेत् सर्वेषामनुपूर्वशः । इति

अर्कसमिधमादित्याय पालाशं सोमाय स्वादिरमङ्गारकाय अपामार्गं बुधाय अश्वत्थं बृहस्पतये औदुम्बरं शुक्राय शमीं शनैश्चराय राहोः दूर्वां केतोः कुशमिति । मध्ये वृत्तमादित्याय आग्नेय्यां चतुरश्रं सोमाय दक्षिणे त्रिकोणमङ्गारकाय ईशान्यां वाणाकारं बुधाय उत्तरे दीर्घचतुरश्रं बृहस्पतये प्राक् पञ्चकोणं शुक्राय पश्चिमे धनुराकारं शनैश्चराय निरृत्यां शूर्पाकारं राहवे वायव्यां ध्वजाकारं केतुभ्यः । परिधानप्रभृत्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति । आ सत्येन अग्निं दूतं वृणीमहे एषामीशे इत्यादित्याय । आप्यायस्व अप्सु मे सोमो अब्रवीत् गौरी मिमाय इति सोमाय । अग्निर्मूर्धा स्योना पृथिवि क्षेत्रस्य पतिना इत्यङ्गारकाय । उद्बुध्यस्व इदं विष्णुः विष्णो रराटमसि इति बुधाय । बृहस्पते अति इन्द्र मरुत्वः ब्रह्म जज्ञानम् इति बृहस्पतये । प्र वः शुक्राय इन्द्राणीम् इन्द्रम् वो विश्वतस्परि इति शुक्राय । शन्नो देवीः प्रजापते न त्वत् इमं यम प्रस्तरमा हि सीद इति शनैश्चराय । कया नश्चित्र आभुवत् आ यं गौः यत्ते देवी निरृतिरावबन्ध इति राहवे । केतुं कृण्वन् ब्रह्मा देवानां सचित्र चित्रं चितयन्तमस्मै इति केतवे । घृतान्वक्तानां समिधामष्टसहस्रमष्टशतमष्टाविंशतिं वा प्रत्यृचं हविषा जुहुयात् । प्रत्यृचमाज्येन जुहुयात् । हविष्यान्नमादित्याय घृतपायसं सोमाय गुळौदनमङ्गारकाय क्षीरौदनं बुधाय दध्योदनं बृहस्पतये घृतौदनं शुक्राय तिलमिश्रपिष्टमाषौदनं शनैश्चराय राहोर्मासौदनं केतोश्चित्रौदनम् इत्युपहारः सर्वेषामलाभे हविष्यम् । अर्यमणं सोमं राजानम् इति स्विष्टकृतं जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अग्रेणाग्निं ग्रहानभ्यर्चयति । आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य नमस्कृत्य प्रवाह्य जघनेनाग्निं प्राङ्मुख उपविश्य अद्भिर्मार्जयते आपो हि ष्ठा मयो भुव इत्यादिभिः । अथ दक्षिणां ददाति । कपिलां धेनुमादित्याय शङ्खं सोमाय रक्तमनड्वाहमङ्गारकाय काञ्चनं बुधाय वासो बृहस्पतये रजतं शुक्राय कृष्णां गां शनैश्चराय राहोश्छागं केतोः कुञ्जरमिति । सर्वेषामलाभे हिरण्यं

वा येन वा तुष्यत्याचार्यः
यथा समुत्थितं यन्त्रं यन्त्रेण प्रतिहन्यते
एवं समुत्थितं घोरं शीघ्रं शान्तिं नयेत् सदा
यथा शस्त्रप्रहाराणां कवचं भवति वारणम्
एवं दैवोपघातानां शान्तिर्भवति वारणम्
अहिंसकास्य दान्तस्य धर्मार्जितधनस्य च
नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः
देवता ग्रहरूपेण दर्शयन्ति शुभाशुभम्
दर्शयन्ति शुभाशुभमिति १
अथ यद्यकाले स्थूणा विरोहेत् व कपोतो

वागारमध्येऽधिपतेद् गौर्वा गां धयेत् गौरात्मानं प्रत्यङ् धयेत् अनड्वान्वा समुल्लिखेत् अनग्नौ वा धूमो जायेत अनग्नौ वा दीप्येत मधु वा जायेत निर्यासं वोपजायेत छत्राकं वोपजायेत मण्डूको वा भूमौ ददृशे श्वानः प्रसूते वा गृहपतिं जायां वोपतपति अन्येषु चाद्भुतोत्पातेषु । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा जुहोति वास्तोष्पते इति द्वे । वास्तोष्पते शं नः इन्द्राग्नी कया नश्चित्र आ भुवत् को अद्य युङ्क्ते भवतं नः समनसौ इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अपरेणाग्निं शमीपर्णेषु हुतशेषं निदधाति शं नो देवीरभिष्टय इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानीयैतेषूत्पातेषु निनयेत् । प्रोक्षयेद्वा तच्छंयोरा वृणीमहे इति । अन्नं संस्कृत्य ब्राह्मणान् सम्पूज्याशिषो वाचयति शिवं शिवम् इति । अद्भुतो व्याख्यातः २ आहुतानुकृतिरायुष्यहोमचरुः संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु मासेषु मासि मासि वा जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा व्रीहीन् निर्वपति अग्नय आयुष्मते वो जुष्टं निर्वपामि इति । तूष्णीं वा । अथ धान्यान् निर्वपति प्राणाय वो जुष्टं निर्वपामि इति । तूष्णीं वा । तानभ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य निदधाति । अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुलानावपति । अथाज्यमधिश्रित्योभयं पर्यग्नि कृत्वा मेक्षणं च स्रुवं च संमार्ष्टि। अथैतं चरुं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । स एष एव सर्वेषां स्थालीपाकानां चरुकल्पः । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति आयुष्टे विश्वतो दधद् इति पुरोनुवाक्यामनूच्य आयुर्दा अग्ने हविषो जुषाणः इति याज्यया जुहोति । आज्याहुतीरुपजुहोति । अथान्तरेणाग्निं चाज्यस्थालीं चरुस्थालीं निदधाति । सहस्रसंपाताभिहुतं करोति । यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा । विभ्राजमानः सरिरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् । स मृत्युपाशादपनुद्य घोरादिहायुषे नो घृतमत्तु देवः स्वाहा । ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात् पुरुरूपं जयन्तम् । सुवर्णरम्भग्रहमर्कमर्चं तमायुषे वर्धयामो घृतेन स्वाहा । श्रियं लक्ष्मीमौपलामम्बिकां गां षष्ठीं जयामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन स्वाहा । दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः । ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्तां स्वाहा । दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमन्थन्तु वीरान् । तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाँ रीरिषो मोत वीरान् स्वाहा । एकःपुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनँ सांपराये स नो हविर्घृतमिहायुषेऽत्तु देवः स्वाहा । वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाश्चँ पितॄंश्च विश्वान् । भृगून् सर्पाँश्चाङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्या महयाम शश्वत् स्वाहा । इति षड्विंशतिशतं कृत्वा तदाहुतीनामष्टसहस्रं संपद्यते । इतरस्मात् पक्वात् सौविष्टकृतं जुहोति । हव्यवाहमभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दूर्वास्तम्बे हुतशेषं निदधाति मा नो महान्तं मा नस्तोक इति द्वाभ्याम् । अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः स्थालीपाकं सगणः प्राश्नाति आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात् सर्वमायुर्गेषम् इति । प्राश्याचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । कुमाराणां ग्रहगृहीतानामायुष्येण घृतसूक्तेनाहरहः स्वस्त्ययनार्थं स्वाध्यायमधीयीत । एतैरेव मन्त्रैराहुतीर्जुहुयात् । एतैरेव मन्त्रैर्बलिं हरेत् । अगतो हैव भवति । तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः पञ्चशोडाय सर्पाहुतिर्गन्धर्वाहुतिरिति । अगतो हैव भवति । तदेतदृद्धमयनं हुताहुतानुकृतयोऽन्ये होमा आश्रमानुकृतयः संश्रया इति ३

अथातोऽपमृत्युञ्जयकल्पं व्याख्यास्यामः । पुण्ये नक्षत्रे जन्मनक्षत्रे जन्मवारे वा कृष्णाष्टम्यां चतुर्दश्यां वा देवालये नदीतीरे गोष्ठे पुण्यतमे स्थले वा स्वगृहे वा गोमयेनोपलिप्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा ॐ भूर्भुवःस्वः स्वाहा इति प्रायश्चित्तं हुत्वा श्वेतदूर्वाः पालाशसमिधोऽष्टसहस्रमष्टशतमष्टाविंशतिं वा दधिमधुघृतपयांसि समुदायुत्य त्रियम्बकं यजामहे इति मन्त्रेण हुत्वाथ अपैतु मृत्युः परं मृत्यो मा नो महान्तं मा नस्तोके त्रियम्बकम् ये ते सहस्रम् इति हुत्वा स्विष्टकृतमवदायाथाज्याहुतीश्चोपजुहोति नक्षत्रे राशौ जातस्य शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भूः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भुवः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां स्वः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवःस्वः स्वाहा इति । अथ स्विष्टकृतं हव्यवाहमभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाभ्यातानान् राष्ट्रभृतः इति हुत्वा तन्त्रशेषं समाप्य दर्भस्तम्बे हुतशेषं निदधाति तच्छंयोरा वृणीमहे इति । अथ दक्षिणां दद्यात् । यथाचार्यस्तुष्टः प्रसन्नहृदयो भवेत् तथा दद्यात् । शेषेभ्योऽपि यथाशक्ति दत्त्वा ब्राह्मणान् भोजयेत् ४ अथ जयानामेव होमो जयाहे नाष्ट्यं तु कल्पयते । वाधःस्रुवं च स्रुचश्च वाधक एवैनं वैभीतकमिध्ममभ्यज्याबाधकेन स्रुवेणोपसृज्य बाधकायां स्रुचि चतुर्गृहीतेन जुहोति । चतुष्पादः पशवः । पशूनेवावरुन्धे । चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञानं च विज्ञातं च मनश्च शक्वरीश्च दर्शश्च पूर्णमासश्च बृहच्च रथन्तरं च प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहा इति । अथ वैभीतकमिध्ममिति । देवासुराः संयत्ता आसन् स इन्द्रः प्रजापतिमुपाघावत् तस्मा एताञ्जयान् प्रायच्छत् तानजुहोत् ततो वै देवा असुरानजयन् यदजयन् तज्जयानां जयत्वं स्पर्धमानेनैते होतव्या जयत्येव तां पृतनाम् इति । ब्राह्मणमह्नैव भवति येन कर्मणेर्त्सेत् तत्र होतव्या इति स यत्कर्मेर्त्सेदिदं मे समृद्ध्यत इति ५

प्रजार्थिहोमं व्याख्यास्यामः । नदीतीरेऽश्वत्थच्छायायां वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्राच्यां दिशि ब्रह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं विधातारं च दक्षिणतो धातारं वामतो विधातारं कृष्णवर्णं धातारं श्वेतवर्णं विधातारं चतुर्मुखं चित्रवर्णं ततस्तानर्चयेत् । पूर्वं ब्रह्माणमावाहयेत् । परमेष्टिनमावाहयेत् । हिरण्यगर्भमावाहयेत् इत्यावाह्य प्रनवेन आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा शुद्धान्नं ब्रह्मणे मुद्गान्नं धात्रे पीतान्नं विधात्रे । यजमानस्यथैनां स्त्रियमाहूय तत्त्वमसि ज्योतिरसि विश्वेशानं गता नामदा इति अमावास्यायां पौर्णमास्यामयनद्वये च व्यतीपाते विषुवे तिष्यरोहिण्यां श्रवणायां तस्या जन्मनि ऋतुस्नातायाम् अहतं वासः परिधाप्य हिरण्यमाचार्याय दत्त्वाक्लिष्टानि वासांसि परिधायाचम्य गन्धशुक्लपुष्पैरलङ्कृत्य अथ देवयजनोल्लेखनप्रभृत्यग्निमुपसमाधाय संपरिस्तीर्य सप्त ते अग्ने समिधः सप्त जिह्वा सप्तऋषयः सप्त धाम प्रियाणि इति स्त्रीषु दक्षिणोपविश्य परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वात् पुरुषसूक्तेन जुहुयात् । जुहोति याज्यां पुरोनुवाक्यामिति द्वौ द्वौ । प्रत्यृचमथाज्याहुतीरुपजुहोति । सावित्र्याष्टोत्तरसहस्रं जुहुयात् । अप उपस्पृश्य सुदर्शनेनाष्टसहस्रम् अग्निबीजेनाष्टसहस्रं सप्रणवं जुहोति । अष्टसहस्रं सप्रणवमष्टशतमष्टाविंशतिं वा । मध्यमं जुहोत्यष्टशतमिति कीर्तितम् । स्विष्टकृतात् प्रभृति सिद्धमा धेनुवरप्रदानात् । अथैनं सम्पातं मूर्ध्नि जुहोति । प्रणवेन नमस्कारान्तं यज्ञवास्तु कुर्वीत । तदस्य गर्भिणी भवति । एवमुत्पादितपुत्रा न लुप्यन्ते कदाचन न लुप्यन्ते कदाचनेति । अथ विष्णुं द्वादश्यां भगवन्तमर्चयित्वा सुदर्शनेनाष्टसहस्रं जप्त्वा त्रिः पर्यायम् आवश्यकः पुत्रो भवतीत्याह पुत्रो भवतीत्याह । शैवोक्तेषु कालेषु नदीषु वा शुद्धजलाशये वा मध्यमेन च पलाशपर्णेन वाष्टसहस्रेणाष्टशतेन वाष्टाविंशत्या वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनाभिषेचनं कृत्वा गायत्र्याष्टसहस्रेणाभिषेचनं करोति । पुरुषसूक्तेन च सहस्रशीर्षा पुरुष इत्येतेनानुवाकेन । पुत्रो भवतीत्याह भगवानाग्निवेश्यः ६

अथ विष्णुबलिः । अष्टमे मासि पूर्वपक्षे पुण्ये नक्षत्रे द्वादश्यां सप्तम्यां रोहिण्यां श्रवणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावाहयामि ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ स्वः पुरुषमावाहयामि ॐ भूर्भुवःस्वः पुरुषमावाहयामि इत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वाथाद्भिस्तर्पयते केशवं नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति । एतैरेव नामभिः गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नम इति । अथ वैष्णवाहुतीर्जुहोति विष्णोर्नुकं तदस्य प्रियं प्र तद्विष्णुः परो मात्रया विचक्रमे त्रिर्देव इति । जयाप्रभृति सिद्धमाधेनुवरप्रदानात् । गुळपायसं घृतमिश्रमथान्नस्य बलि मुपहरति अमुष्मै स्वाहामुष्मै स्वाहा इति द्वादशभिर्यथालिङ्गम् । वैष्णवीभिः ऋग्यजुःसामाथर्वभिः स्तुतिभिः स्तुवन्ति । व्याहृतीभिः पुरुषमुद्वासयति पुरुषमुद्वासयामि इति । अन्नशेषं पत्नीं प्राशयति पुमांसं जनयतीति विज्ञायते ७ अथ शूलगवः संवत्सरे संवत्सरे मार्गशीर्षपौर्णमास्यां क्रियेत । अपि वार्द्रायाम् अरण्येऽग्निमुपसमाधाय संपरिस्तीर्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति ईशानाय त्वा जुष्टमुपाकरोमि इति । तूष्णीमित्येके । तामत्रैव प्रतीचीनशिरसीम् उदीचीनपदीं सज्ञपयति । तस्यै संज्ञप्ताया अद्भिरभिषेकम् । प्राणानाप्याय्य तूष्णीं वपामुत्खिद्य हृदयमुद्धारयति । प्रज्ञातानि चावदानानि । तान्ये तेष्वेव शूलेषूपनीक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति । अथैतानि शूलेभ्योऽपरिक्षिप्य पुनः कुम्भ्यां निश्रपयन्ति । अथैतानि अभिघारितान्युद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमावाहयति आ त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजितैर्मघवद्भिर्मनोजवैरायाहि शीध्रं मम हव्याय शर्वोम् इति । अथ स्रुवेणोषस्तीर्णाभिघारितां जुहोति । सहस्राणि सहस्रश इति पुरोनुवाक्यामनूच्य ईशानं त्वा भुवनानामभिश्रियम् इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति । अत्रैतान्यवदानानीडासूने प्रच्छिद्यौदनं मांसं यूषमित्याज्येन समुदायुत्य मेक्षणेनोपघातं पूर्वार्धे जुहोति । भवाय देवाय स्वाहा शर्वाय देवाय स्वाहा ईशानाय देवाय स्वाहा पशुपतये देवाय स्वाहा रुद्राय देवाय स्वाहा उग्राय देवाय स्वाहा भीमाय देवाय स्वाहा महते देवाय स्वाहा इति । अथ मध्ये भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहा ईशानस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा उग्रस्य देवस्य पत्न्यै स्वाहा भीमस्य देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहा इति । अथापरार्धे जुहोति । भवस्य देवस्य सुताय स्वाहा शर्वस्य देवस्य सुताय स्वाहा ईशानस्य देवस्य सुताय स्वाहा पशुपतेर्देवस्य सुताय स्वाहा रुद्रस्य देवस्य सुताय स्वाहा उग्रस्य देवस्य सुताय स्वाहा भीमस्य देवस्य सुताय स्वाहा महतो देवस्य सुताय स्वाहा इति । अथाज्याहुतीर्जुहोति । नमस्ते रुद्र मन्यव इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथापरेणाग्निमर्कपर्णेषु हुतशेषं निदधाति यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानीय वेतसशाखयावोक्ष्य त्रिः प्रदक्षिणं गाः पर्येति आ गावो अग्मन्नुत भद्रमक्रन् इत्येतेन सूक्तेन । महत् स्वस्त्ययनमाचक्षते । अथ यदि गां न लभते मेषमजं वालभते । ईशानस्थालीपाकं वा श्रपयति यद् गवा कार्यम् । स शूलगवो व्याख्यातः । एवमेवाष्टम्यां प्रदोषे क्रियेतैतावदेव नाना । नात्रोपाकरणं पशोः ८

अथातो गृहकर्मणो गृहवृद्धिमिच्छन् मासि मासि ऋतावृतौ संवत्सरे संवत्सरे पूर्वपक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेत । अपामार्गपालाशशिरीषौदुम्बरसदाभद्रा अमृततृणमिन्द्रवल्लीभिर्बद्ध्वा गृहान् परिसंमार्ष्टि । परिसमूह्यापोऽभ्युक्ष्य पञ्चगव्येन दर्भमुष्टिना सम्प्रोक्ष्य सर्षपान् संप्रकीर्याग्निमुखात् कृत्वा मध्ये वास्तोष्पते वास्तोष्पते इति द्वे आहुती हुत्वा सावित्र्या सहस्रं जुहुयात् । ततो दक्षिणपुरस्तात् ततो दक्षिणपश्चात् तत उत्तरपश्चात् मध्ये वा । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गां वासो हिरण्यं दक्षिणां ददाति ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा । एवं प्रयुञ्जान आन्तं महान्तं पोषं पुष्यति । बहवः पुत्रा अस्य भवन्ति । न च बालाः प्रमीयन्ते । नाग्निर्दहति । न दंष्ट्रिणः खादयेयुः । न तस्कराः सपत्ना रक्षांसि पिशाचा अपि बाधन्ते । यदि गावः प्रतप्येरन् गवां मध्ये आहुतिसहस्रं जुहुयात् । एतेनैव कल्पेनाश्वोष्ट्रखराजाविकमहिषहस्तिकुलमन्यतरद् द्विपदां चतुष्पदां च व्याख्यातम् ९ वृष्टिकामस्य सम्भारान् । कृष्णं वासः कृष्णाश्वः कृष्णतूषं कृष्णोरभ्रः कृष्णाजिनं च कृष्णव्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवः करीरसक्तवश्च वर्षाभूणां स्रजस्नीणि च पुष्करपर्णानि दशसहस्रं वैतससमिधामित्येतेऽस्य संभारा उपकॢप्ता भवन्ति । अग्निमुपसमाधाय यस्मिन् काले पश्चाद्वातो वाति तस्मिन् काले कृष्णं वासः कृष्णतूषम् परिधत्ते मारुतमसि मरुताम् ओजोऽपां धारां भिन्धि रमयत मरुतः श्येनमायिनं मनोजवसं वृषणँ सुवृक्तिम् । येन शर्ध उग्रमवसृष्टमेति तदश्विना परिधत्तं स्वस्ति । अग्रेणाग्निं कृष्णमश्वं कृष्णमभ्रं पुरस्तात् प्रत्यञ्चं धारयन्तो दक्षिणत आमां कुम्भीं निमिञ्चन्ति वर्षाभूणां स्रजः पश्चात् स्थापयन्ति । संपरिस्तीर्य निर्वपान् कृत्वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां वरुणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाल्य तिरःपवित्रं स्थाल्याम् अप आनीयाधिश्रित्य पर्यग्नि कृत्वाभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा तस्मिन् खर्जूरसक्तूंश्च करीरसक्तूंश्च कृष्णमधुषा संयौति मान्दा वाशाश्शुन्ध्यूरजिरा ज्योतिष्मतीस्तमस्वरीरुन्दतीः सुफेनाः इति । त्रीन् पिण्डान् कृत्वैतेषु पुष्करपर्णेषूपनिनह्य कृष्णमुरभ्रमनुलेपनं करोति । यच्चिद्धि ते यत् किञ्चेदं कितवासः इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि अव ते हेड उदुत्तमं त्रियम्बकं यजामहे इत्येतैर्दशभिर्मन्त्रैः शतशोऽभ्यस्य प्रतिमन्त्रं समिधो जुहुयात् । एतैर्मन्त्रैरेवमभ्यस्य हविषो जुहुयात् । तथैवाभ्यस्याज्यस्य जुहुयात् । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । कृष्णमश्वमद्भिरभ्युक्षति दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद्व्युन्दन्ति आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । विपर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः इति । सयति कृष्णोऽश्वोद्भिरभ्युक्ष्य उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनुरथा अवृत्सत इति । सयेति कृष्णोरभ्री रद्भिरभ्युक्ष्य आधूनुते वर्षति यदि शकृत्करोति वा वर्षति यदि पलायते वोपविशति वा न वर्षति इति । आमां कुम्भीमद्भिः संपूरयति । सृजा वृष्टिं दिव आद्भिः समुद्रं पृण । अब्जा असि प्रथमजा बलमसि समुद्रियम् अन्नम्भय पृथिवीं भिन्धि दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् । स यद्यामां कुम्भीमद्भिः सम्पूर्णां भिद्यते वर्षति यदि धारयते न वर्षति । अपां पूर्णां स्रुचं वर्षाह्वया जुहोति उन्नम्भय पृथिवीम् इति । अथ यदि न वर्षेदेतेषामेव कृष्णव्रीहीणां स्थालीपाकं श्रपयित्वा सप्ताहं सवनत्रयहोमं कुर्यात् । सन्तिष्ठते वृष्टिकामः सन्तिष्ठते वृष्टिकामः १०

अथ भूतबलिं व्याख्यास्यामः । वृष्टिकामोऽधिकारी कृष्णं वासः कृष्णा गौः कृष्णयोरभ्री कृष्णा व्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवश्च सर्पिश्च त्रीणि पुष्करपर्णानीत्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । यद् भूतेभ्यो बलिं हरति तद् भूतयज्ञः सन्तिष्ठते इति ब्राह्मणम् । संवत्सरे संवत्सरे षट्सु षट्सु मासेषु यदामावास्यां शुष्यो भवति यदा वृष्टेरुदघातं विन्देदथ भूतबलिं दद्यात् । तटाकं गत्वा शुचौ देशे उद्धत्यमानम् इत्युद्धत्य शन्नो देवीः इत्यवोक्ष्य देवयजनं परिगृह्य परिलिखितम् इति परिलिखति । यस्मिन् काले पश्चाद् वातो वाति तस्मिन् काले ब्राह्मणो मारुतमसि मरुतामोज इति कृष्णं वासः परिधाय अप उपस्पृश्य यज्ञोपवीतं धृत्वाप आचम्य उदपात्रमादाय पश्चाद् भूतं प्रतिष्ठाप्यार्चयति । व्याहृतिपर्यन्तं कृत्वाष्टौ वातनामानि जुहोति पुरो वातो वर्षञ्जिन्वरावृत् स्वाहा इति । अथ कृष्णव्रीहीणां चरूणां जुहोति मित्रावरुणाभ्यां स्वाहा अग्नये धामच्छदे स्वाहा मरुद्भ्यः स्वाहा सूर्याय स्वाहा अग्नये स्विष्टकृते स्वाहा इति । वारुण्यादिस्विष्टकृदन्तं हुत्वाथ कंसे वा शरावे वान्नशेषं खर्जूरसक्तुं समवदाय सर्पिषा मधुना वा संयौति । मान्दा वाशा इति द्वाभ्याम् । अपरेणाग्निं त्रिषु पुष्करपर्णेषु निर्वपेद् देवा वसव्या इति । तिसृभिरन्नशेषस्यार्धं निवेदयति देवस्य त्वा इति । तत उदकं गत्वावशिष्टस्य त्रीन् पिण्डान् श्रप्सु जुहोति । उद्नो दत्तोदधिं भिन्त इति त्रिभिः स्वाहाकारान्तैः । अथाञ्जलिनाप उपहत्योत्क्षिपेत् उदीरयथा मरुत इति द्वाभ्याम् । अथ वास्तुदेवं गत्वा । ये वास्तुदैवताः क्रूररक्षोभूतगणाश्च ये । तेभ्यो बलिं वृष्टिकामो हरामि शान्ताः शान्तिं कुर्वन्तु । नमः सर्वेभ्यो नमो भूतेभ्यो नमो इत्यामां कुम्भीं चाद्भिः पूरयित्वा उन्नम्भय पृथिवीम् इति कृष्णां गां च । ये देवा दिवि भागा इत्यथ देवता उपतिष्ठते । यन्तु नदयो वर्षन्तु पर्जन्या इति पर्जन्यान् उपतिष्ठते पुण्याहं वाचयित्वा ब्राह्मणान् भोजयित्वा । यदि वर्षेत् तावत्येव होतव्यं यदि न वर्षेत् श्वोभूते हविर्निर्वपेत् इति ब्राह्मणम् ११

अथ बीजनिवापनं व्याख्यास्यामः । रोहिण्यां तिष्यमूयोः विशाखयोर्मघासु श्रवणायां रेवत्यां मित्रावरुणयोर्मरुत उत्तरास्वेकस्मिन् नक्षत्रे बीजानादाय दत्वाधिवासं करोति । एषु नक्षत्रेषु एकस्मिन् नक्षत्रे क्षेत्रं गत्वा पूर्वायां दिशि गन्धादिभिराराध्य शिरीषपर्णैरवकीर्य गन्धशेषैरात्मानमुपलिप्य कर्षकाय गन्धादि दत्त्वा बीजानि वपेद् या जाता ओषधय इत्येतेनानुवाकेन । अथालह्वानात् पूर्वं चरूर्जं श्रपयित्वाथ पुण्याहं वाचयित्वा अद्भिर्मार्जयित्वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनाथ पिण्डं ददाति क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु अथ दक्षिणापुरस्तात् ततो दक्षिणापश्चात् ततः पुरस्तादुत्तरतः पश्चाद् अथ मध्ये यथोदितं लवनं करोति । तेन धान्येन पश्चादाग्रयणं करोति । १२

अथातोग्रहातिथ्यबलिकर्मोपहारान् अथयद्यगारेस्थूणाविरोहेद् आहुतानुकृतिः अथातोऽपमृत्युञ्जयकल्पं व्याख्यास्यामः अथ जयानामेव प्रजार्थिहोमम् अथविष्णुबलिः अथशूलगवः अथातोगृहकर्मणो

वृष्टिकामस्य अथभूतबलिम् अथबीजनिवापनं द्वादश ।
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः

षष्ठोऽध्यायःसम्पाद्यताम्

अथात आचमनविधिं व्याख्यास्यामः । प्राङ्मुख उदङ्मुखो वा द्वौ पाणी प्रक्षाळ्य बद्धशिखो यज्ञोपवीती जले वाथ स्थले वान्तर्जानु नविवराङ्गुळीभिः गोकर्णाकृतिवत् करं कृत्वा तिष्ठन् न प्रणतो न हसन्न जल्पन् न व्रजन् नोष्णाभिर्न विवर्णाभिर्न बुद्बुदाभिः न चलो जलं माषमग्नमात्रं पिबेत् । ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि पञ्च दैवतानि भवन्ति । अङ्गुलीमध्ये दैवं तीर्थं अङ्गुल्यग्रे आर्षं तीर्थम् अङ्गुष्ठतर्जन्योर्मध्ये पैतृकं तीर्थम् अङ्गुष्ठमूलस्योत्तरतो रेखासु ब्राह्मं तीर्थम् मध्ये अग्नितीर्थम् । अङ्गुष्ठे अग्निः प्रदेशिन्यां वायुः मध्ये प्रजापतिः अनामिकायां ब्रह्मा कनिष्ठिकायामिन्द्रः । अथ त्रिराचामेत् प्रणवेन । प्रथमं यत् पिबति तेन ऋग्वेदं प्रीणाति । द्वितीयं यत् पिबति तेन यजुर्वेदं प्रीणाति । तृतीयं यत् पिबति तेन सामवेदं प्रीणाति । प्रथमं यत् परिमृजति तेनाथर्ववेदं प्रीणाति । द्वितीयं यत् परिमृजति तेन इतिहासं प्रीणाति । यद् उपस्पृशति तेनाग्निं यत् पादावभ्युक्षते तेन विष्णुं सह्यं पितॄन् चिरस्या ऋषीन् तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छ्रोत्रं तेन दिशो यद्बाहू तेन इन्द्रं यन्नाभिं तेन पृथिवीं यद् हृदयं तेन रुद्रं यच्छिरस्तेन सप्तर्षीन् प्रीणाति । अङ्गुष्ठानामिकाभ्यां तु चक्षुषी समुपस्पृशेत् प्रदेशिन्यङ्गुष्ठाभ्यां तु नासिके अङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे मध्यमाङ्गुष्ठाभ्यां बाह्वोः अङ्गुष्ठेन नाभौ अङ्गुल्यग्रेण हृदि सर्वेषामङ्गुलीतलानां तु शिरसि इति सर्वान् कामान् समर्धयन्तु इति । अथ

ऊर्ध्वं स्नानविधिं व्याख्यास्यामः । स्नानार्थं मृदमुत्खनति
मृत्तिके हन मे पापं यन्मया दुष्कृतं कृतम्
त्वया हतेन पापेन जिवामि शरदः शतम्
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् । इति
अप आनयति
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम्
इति पिण्डीकरोति १
अथ हस्तपादौ प्रक्षाळ्य कमण्डलुं मृत्पिण्डं च संगृह्य
तीर्थं च गत्वा त्रिः पादौ प्रक्षाळयते । त्रिरात्मानम् । अथ हैके ब्रुवते श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणाः नप्रक्षाळ्य पादौ तत्र न प्रवेष्टव्यम् इति । अथापोऽभिप्रपद्यते हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।
यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः
यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम्
तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः । इति
अथाञ्जलिना अप उपहरति सुमित्रा न आप ओषधयः सन्तु इति । तां दिशं

निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः इति । अथाप उपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तते यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् इति । अप्सु निमज्ज्योन्मज्ज्य नाप्सुमतः प्रयमणं विद्यते । न वाससः पत्पूलनं नोपस्पर्शनं यद्यवरुद्धाः स्युस्तेन तेनोपतिष्ठते । नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः इत्युत्तीर्याचम्य आचान्तः पुनराचामेत् आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिः ब्रह्म पूता पुनातु माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा इति । पवित्रे कृत्वाद्भिर्मार्जयते । आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वान्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि वासांसि परिधायाप आचम्य दर्भेष्वासीनो दर्भान् धारयमाणः सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशावरमिति । अथादित्यमुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्द्देवहितं य उदकात् इति । अथाप्युदाहरन्ति प्रणवो व्याहृतयः सावित्री चेत्येते पञ्च ब्रह्मयज्ञा अहरहः ब्राह्मणं किल्बिषात् पावयन्ति । पूतः पञ्चभिर्ब्रह्मयज्ञैरथोत्तरं देवतास्तर्पयतीति २

अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । वसून् तर्पयामि । पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । रुद्रान् तर्पयामि । मित्र इन्द्रो महापितर आपो विश्वेदेवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । आदित्यान् तर्पयामि । वसवो वरुणोऽज एकपाद् अहिर्बुध्न्यः पूषा अश्विनौ यम इत्येतानि उदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । विश्वान् देवान् तर्पयामि । साध्यान् तर्पयामि । ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । परमेष्ठिनं तर्पयामि । ॐ भूर्भुवःस्वः पुरुषं तर्पयामि । ॐ भूस्तर्पयामि । ॐ भुवस्तर्पयामि । ॐ स्वस्तर्पयामि । ॐ महस्तर्पयामि । ॐ जनस्तर्पयामि । ॐ तपस्तर्पयामि । ॐ सत्यं तर्पयामि । ॐ भवं देवं तर्पयामि । शर्वं देवं तर्पयामि । ईशानं देवं तर्पयामि । पशुपतिं देवं तर्पयामि । रुद्रं देवं तर्पयामि । उग्रं देवं तर्पयामि । भीमं देवं तर्पयामि । महान्तं देवं तर्पयामि । भवस्य देवस्य पत्नीं तर्पयामि । शर्वस्य देवस्य पत्नीं तर्पयामि । ईशानस्य देवस्य पत्नीं तर्पयामि । पशुपतेर्देवस्य पत्नीं तर्पयामि । रुद्रस्य देवस्य पत्नीं तर्पयामि । उग्रस्य देवस्य पत्नीं तर्पयामि । भीमस्य देवस्य पत्नीं तर्पयामि । महतो देवस्य पत्नीं तर्पयामि । भवस्य देवस्य सुतं तर्पयामि । शर्वस्य देवस्य सुतं तर्पयामि । ईशानस्य देवस्य सुतं तर्पयामि । पशुपतेर्देवस्य सुतं तर्पयामि रुद्रस्य देवस्य सुतं तर्पयामि । उग्रस्य देवस्य सुतं तर्पयामि । भीमस्य देवस्य सुतं तर्पयामि । महतो देवस्य सुतं तर्पयामि । रुद्रांश्च तर्पयामि । रुद्रपार्षदांश्च तर्पयामि । रुद्रपार्षदीश्च तर्पयामि । सनत्कुमारं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । षष्ठीं तर्पयामि । विशाखं तर्पयामि । स्कन्दपार्षदांश्च तर्पयामि । स्कन्दपार्षदीश्च तर्पयामि । विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । गणपतिं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । विघ्नपार्षदांश्च तर्पयामि । विघ्नपार्षदीश्च तर्पयामि । वैवस्वतं तर्पयामि । यमं तर्पयामि । सृत्युं तर्पयामि । वैवस्वतपार्षदान् तर्पयामि । वैवस्वतपार्षदीस्तर्पयामि । विष्णुं तर्पयामि । श्रियं देवीं तर्पयामि । पुष्टिं तर्पयामि । सरस्वतीं तर्पयामि । विष्णुपार्षदांस्तर्पयामि । विष्णुपार्षदीस्तर्पयामि । विद्यां तर्पयामि । मित्रं तर्पयामि । धन्वन्तरं तर्पयामि । धन्वन्तरपार्षदांस्तर्पयामि । अथ निवीती । ऋषींस्तर्पयामि । परमऋषींस्तर्पयामि । ब्रह्मर्षींस्तर्पयामि । राजऋषींस्तर्पयामि । देवऋषींस्तर्पयामि । श्रुतऋषींस्तर्पयामि । तपर्षींस्तर्पयामि । सप्तर्षींस्तर्पयामि । काण्डर्षींस्तर्पयामि । ऋषिकांस्तर्पयामि । ऋषिपुत्रीस्तर्पयामि । ऋषिपुत्रांस्तर्पयामि । बोधायनं तर्पयामि । आपस्तम्बं तर्पयामि । सूत्रकारं तर्पयामि । सत्याषाढं तर्पयामि । हिरण्यकेशिनं तर्पयामि । व्यासं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस्तर्पयामि । सावित्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । इतिहासपुराणांस्तर्पयामि । सर्वदेवजनांस्तर्पयामि । सर्वभूतानि तर्पयामि । अथर्वाणं तर्पयामि । प्राचीनावीती । पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि । मातॄः स्वधा नमस्तर्पयामि । पितामहीः स्वधा नमस्तर्पयामि । प्रपितामहीः स्वधा नमस्तर्पयामि । मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुः प्रपितामहान् स्वधा नमस्तर्पयामि । मातामहीः स्वधा नमस्तर्पयामि । मातुः पितामहीः स्वधा नमस्तर्पयामि । मातुः प्रपितामहीः स्वधा नमस्तर्पयामि । आचार्यान् स्वधा नमस्तर्पयामि । आचार्यपत्नीः स्वधा नमस्तर्पयामि । गुरून् स्वधा नमस्तर्पयामि । गुरुपत्नीः स्वधा नमस्तर्पयामि । सखीन् स्वधा नमस्तर्पयामि । सखिपत्नीः स्वधा नमस्तर्पयामि । ज्ञातीन् स्वधा नमस्तर्पयामि । ज्ञातपत्नीः स्वधा नमस्तर्पयामि । अमात्यान् स्वधा नमस्तर्पयामि । अमात्यपत्नीः स्वधा नमस्तर्पयामि । सर्वान् स्वधा नमस्तर्पयामि । अनुतीर्थम् अप उत्सिञ्चन्ति ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन् तृप्यत तृप्यत इति ॥ नार्द्रवासा नैकवस्त्रो दैवतानि कर्माण्यनुसंचरेत् । पितृसंयुक्तानि चेत्येकेषामेकेषाम् ३ अथातः स्वाध्यायविधिं व्याख्यास्यामः । प्राङ्मुखो वा उदङ्मुखो वा ग्रामान्निष्क्रम्य अप आप्लुत्य यज्ञोपवीत्याचान्तोऽक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्योपस्थानं कृत्वा दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा एष ओषधीनां रसो यद् दर्भाः सरसमेव ब्रह्म करोति द्यावापृथिव्योः सन्धिमीक्षमाणः सम्मील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम् । ॐपूर्वा व्याहृतयः । सावित्रीमन्वाह पच्छोऽर्धर्चशः सर्वामिति तृतीयम् । अथ स्वाध्यायमधीयीत ऋचो यजूँषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीति । यदृचोऽधीते पयसः कूल्या अस्य पितॄन् स्वधा उपक्षरन्ति यद्यजूँषि घृतस्य कूल्या यत्सामानि मध्वः कूल्या यदथर्वाङ्गिरसः सोमस्य कूल्या यद् ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृतस्य कूल्याः । स यावन्मन्येत तावदधीत्यैतया परिदधाति नमो ब्रह्मणे नमो अस्त्वग्रये नमः पृथिव्यै नम ओषधीभ्यो नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि इति । अत ऊर्ध्वं देवयज्ञः सर्वेषामुपदिश्यते । यत्रात्माविरोधेन प्रतिनियतानामोषधीनां कोद्रवचीनराजमाषममूरकुलत्थवरकवर्जं निर्वपाणि यवानां तण्डुलानां प्रातः पत्नीं दद्यात् । स्वयं वाथ श्रपयेत् । सुसंमृष्टगृहद्वारोपलेपनः प्रतिनियतः सायंप्रातः अन्यदावश्यकान् कुर्यात् अग्नये जातवेदसे स्वाहा इत्यग्नौ तूष्णीं द्वितीयम् । उदुत्यं जातवेदसम् इत्यादित्यमुपतिष्ठते । ब्रह्मणे नम इति ब्रह्मस्थले बलिं हरेत् । सोमाय इत्युदकुम्भे वायव इति वास्तुगृहे गृहपतय इति गृहद्वारि प्रजापतय इति गर्गगृहे विश्वेभ्यो देवेभ्यः इति देवगृहे शन्नो देवीः इत्यभ्रिण्यादिक्षु तत्पुरुषेभ्य इति प्रतिदिशं गृहेभ्य इत्यन्तरिक्षे सर्वतः पशूनां पतये नमो देवेभ्य इति प्रागुदीच्यां ब्रह्मस्थले वा स्वधा पितृभ्य इति दक्षिणे निदधाति । अनेन वा पूर्वोक्तेन वासबलिहरणेन वा बलिम् ४

वैश्वदेवं हुत्वा आगोर्दोहमात्रक्षणमाकाङ्क्षे
दतिथीन् । श्रोत्रियो वेदव्रती यतिर्धर्मनैष्ठिकः समानवृत्तिः
मनस्वत्याहुतिस्तस्य प्रायश्चित्तं विधीयते
द्व्यहं त्र्यहं वा विच्छिन्ने प्रमादादकृतेषु च
तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्यजेत्
दशाहं द्वादशाहं वा विच्छिन्नेषु तु सर्वशः
चतस्रोऽभ्यावर्तनीर्हुत्वा कार्यस्तान्तुमतश्चरुः
यस्य स्त्री वानुपेतो वा गृहेष्वग्निबलिं हरेत्
कूश्माण्ड्यस्तत्र होतव्यो हुत्वा यज्ञसमृद्धये
प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते
पञ्चानां महतामेषां स यज्ञैः सह गच्छति
प्रवासे कुरुते चैनान् यदन्नमुपपद्यते
न चेदुत्पद्यते चान्नमद्भिरेना समाविशेत्
अद्भिरेव व्रतं कुर्याद्यथालाभमनुव्रतम्
देवानां देवयज्ञेन द्विजो गच्छति साम्यताम्
पितॄणां पितृयज्ञेन भूतानां यज्ञभूतिकैः
मनोर्मनुष्ययज्ञेन ब्रह्मणो ब्रह्मयज्ञतः
एतेषां साम्यतां गत्वा दैवतानां शतं समाः
आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययम् । इति

अथास्यातिथिर्भवति गुरोः समानवृत्तिर्वैखानसो यदि स्नातको वा राजा वा धर्मयुक्तः । तेषामभ्युत्थायासनं पाद्यमर्हणमर्ध्यं प्रयच्छति । यास्तत्र ओषधयः सन्ति ता देयाः । अन्यां वा प्रक्रियां प्रकुर्वीत । ओषधिविभागस्तु विभववता कार्यः । अभावे भूमिरुदकं तृणानि कल्या वागिति एतानि वै सतोऽगारे न क्षीयन्ते कदाचन इति । तानेतान् परं ब्रह्मेत्याचक्षते । तेषां ग्रहणे द्वादशरात्रं व्रतं चरेद् अक्षारलवणभोजनम् अधश्शयनं ब्रह्मचर्यम् । त्रिरात्रोपोचित्तः उत्क्षेपणौ परौ गृह्णीयात् । बलिहरणं व्याख्यातम् ५ अथ मधुपर्कं व्याख्यास्यामः । चत्वारि पात्राणि कांस्यतुर्याणि दधि मधु घृतं कूर्चत्रयं च वाससी कुण्डलयुग्मं च दर्भेषु सादयित्वा दर्भैरपिदधाति । तिरःपवित्रं प्रोक्षणीः संस्कृत्येमानि प्रोक्ष्य पवित्रान्तर्हिते पात्रेऽप आनीयोत्पूय अर्हणीयार्थान्नधायैवमेव पाद्यमेवमेवाचमनीयकं कंसे तिरःपवित्रं दधि मधु घृतमानीय पुनराहारं त्रिरुत्पूय मधुपर्कार्थान्निधायाचार्यश्वशुरपितृव्यमातुलस्नातकातिथिराजभ्यो दद्यात् । विवाहे वराय । अथाद्भ्यः कर्मणि च दद्याद् अयं कूर्च इति कूर्चम् । तस्मिन् प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति । अथास्मै कूर्चाभ्यां परिगृह्यार्हणीयं दद्याद् अर्हणीयमुदकम् इति । तदभिमन्त्रयते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदञ्जलिनोऽअसंगृह्य प्राक् सेक्तवा इत्युक्त्वा प्राञ्चं विसृजति । एवमेव पाद्यं दद्यात् पाद्यमुदकम् इति । तदभिमन्त्रयते यशोऽसि यशो मयि धेहि राष्ट्रमसि राष्ट्रं मयि धेहि इति । तेनास्य पादावन्यः प्रक्षाळयति । अवनेक्तुः पाणिं संमृशति मयि महो मयि भर्गो मयि यशः इति । उपस्पृश्य मयीन्द्रियं वीर्यम् इत्यात्मानं प्रत्यभिमृशति । आचमनीयमुदकम् इति । तेनाचामति अमृतोपस्तरणमसि इति । आचम्य अथास्मै मधुपर्कं दद्याद् अयं मधुपर्क इति । तदभिमन्त्रयते स मावतु स मा पातु स मा जुषताम् इति । वाससी कुण्डले च दद्यात् । स्वामा तनूराविश इत्यहतं वासः परिधायैवमासंग्यं कुण्डले च गृह्य यज्ञोपवीतं कृत्वाप आचम्य मधुपर्कं गृह्णाति श्रीरस्येहि मयि श्रयस्व इति । तदङ्गुष्ठेन महानाम्श्य्राचोपसंगृह्यावजिघ्रति ग्राणेमं ते बलिं हरामि श्रैष्ठ्यं म आधिपत्यं गमय इति । अप उपस्पृश्य अङ्गुळीभिः समुदायुत्याचामति प्रियतमो नामासि देवयादुर्मह्यं त्वा श्रियै यशसे गृह्णामि इति । सोमोऽसि सोमपं मा कुरु इति द्वितीयम् । अन्नमस्यन्नादं मा कुरु इति तृतीयम् । पीत्वोच्छिष्टं निधाय अमृतापिधानमसि इत्याचमनीयेनाचम्य उपवीतं गामभिमन्त्रयते जहि मे पाप्मानमुपवेत्तुश्च इति । तामुद्वा सृजत कुरुतेति वा ब्रूयात् । यद्युत्सृजति तामभिमन्त्रयते गौर्धेनुर्भव्या इति द्वाभ्याम् । तस्यामुत्सृष्टायां मेषमजं वालभते । आरण्येन वा मांसेन । न त्वेवामांसोऽर्घ्यः स्यात् । अशक्तौ वा

यवसक्तुमिश्रमोदनं यथालाभं दद्यात् ६
पञ्च यज्ञान् ततः कृत्वा ब्रह्मयज्ञाद्यनुक्रमात्
देवयज्ञं ततः कृत्वा पितृयज्ञं ततः परम्
भूतयज्ञं च कृत्वा तु यज्ञं मानुष्यमेव च
कृत्वैवं पञ्चधा यज्ञान् यथाशास्त्रानुसारतः
गोमयं मण्डलं कृत्वा गृहद्वारे तु देशतः
पतिताय शुनादिभ्यः पिण्डान् सम्यङ् निवेदयेत्
देवविहितां पूजां कृत्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य
क्षत्रियस्य त्रिकोणमुपलिप्य वैश्यस्य वृत्तमुपलिप्य भोजनं कुरुते ।
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशन एव च
मण्डलेनोपजीवन्ति तस्मात् कुर्वीत मण्डलम्
यातुधानाः पिशाचाश्च यक्षराक्षसकिन्नराः
घ्नन्ति वै बलमन्नस्य मण्डलेन विवर्जितम् । इति
वचनात् प्रयत्नतो मण्डलं कृत्वार्द्रपादः प्राङ्मुख उपविश्य भूमौ सव्यं पादं

प्रतिष्ठाप्याधोमुखो वाग्यतः पर्णमयं वा कांस्यमयं वा पात्रं सव्येन हस्तेन संस्पृष्ट्वा स्नेहलवणव्यञ्जनाद्यन्नेनाज्येनाकूरो दातव्यः । ततो भोक्तव्यमित्याहुः । उदक्यादिभिर्न दर्शितमन्नम् । दर्शनमात्रे आ मस्तकादा हृदयाद्वा दक्षिणं पाणिमुद्धरेत् । आज्येनाभिघारयति । अथोदकेन प्रदक्षिणं परिषिञ्चति । ऋतं त्वा सत्येन परिषिञ्चामि इति सायम् । सत्यं त्वर्त्तेन परिषिञ्चामि इति प्रातः । पाणिं प्रक्षाळ्यान्नसूक्तेनान्नमभिमृशति अहमस्मि प्रथमजा ऋतस्य इति दशर्चेन सूक्तेन । अथ अप आचामयति अमृतोपस्तरणमसि इति । अथ प्राणाहुतीर्जुहोति प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा इति प्राणाय । अपाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय अपानाय स्वाहा इत्यपानाय । व्याने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय व्यानाय स्वाहा इति व्यानाय । उदाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय उदानाय स्वाहा इत्युदानाय । समाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय समानाय स्वाहा इति समानाय । प्राणाय स्वाहा अपानाय स्वाहा व्यानाय स्वाहा उदानाय स्वाहा समानाय स्वाहा इति वा । एता आहुतीर्हुत्वा यथाकामं भुङ्क्ते मूलफलादिव्यञ्जनानि न दन्तेन खादेत् पादोद्धृतानि सर्वाणि स्नेहद्रव्याणि व्यञ्जनानि । पुनः पुनः पानेनास्ति दोषः । दध्ना हविर्मिश्रेन त्रिवृतान्नेन यथाकर्म हुत्वाथाप आचम्य अमृतापिधानमसि इत्याचान्तः पुनराचम्य प्राणानां ग्रन्थिरसि स मा विस्रस इति नाभिदेशमभिमृशति । एवं भोजने भोजने कुर्वन् अहोरात्रोपवासफलमश्नुते । यदि शयनमिच्छेन्नोदक्च्छिरा न वंशवशो न द्वाराय पादाभ्यां न पर्वणे नोत्सवेषु न भसि च न ग्रहायतनभूतायतनाग्न्यायतनेषु न नग्नो नाशुचिः न सन्ध्ययोर्न विशीर्नखट्वायां न श्मशानायतनमहावृक्षच्छायासु नान्यत् प्रमादमस्तीति मन्यते । प्राक्च्छिरा दक्षिणशिरा वा संविशेदिति ७

अथापराह्णे ताम्रमयं वा मृण्मयं वा कमण्डलुमादाय ग्रामात् प्राचीमुदिचीं वा दिशमुपनिष्क्रम्य तीर्थे गत्वोदकं गृहीत्वा शुचौ देशे शौचार्थे मृदं परिगृह्य नसिक्तं नपुरीषं नोषरं नवल्मीकं नशर्करामिश्रं नशाड्वलमिश्रं कर्णस्थब्रह्ममूत्रः पवित्रमसि इति तृणैरवकीर्य तेषु मूत्रपुरीषं विसृजति । न चित्यां न नद्यां न शाड्वलोपवनदिव्यच्छायासु न पथि न भस्मनि न क्षेत्रमध्ये कृष्णे न गोमये न श्मशानमहावृक्षवल्मीकच्छायासु । दिवासन्ध्ययोरुदङ्मुखः रात्रौ चेद् दक्षिणामुखः । शिश्नं गृहीत्वोत्थाय यथा गन्धलेपक्षयकरं तथातन्द्रितः शौचं कुर्यात् । एकया च कमण्डलुमुपस्पृश्य प्रक्षाळ्य पाणिपादौ चाचम्य ॐकारं मनसा ध्यात्वा शुचिर्भवेत् । अथास्तंगतेऽर्के अद्भिर्मार्जयते दधिक्राविष्णोऽकारिपम् इति । अथापोऽश्नाति अग्निश्च मा मन्युश्च इत्येतेनानुवाकेन । अप आचम्याद्भिर्मार्जयते आपो हि ष्ठा मयोभुव इति तिसृभिः । तूष्णीं प्रदक्षिणमुदकेन प्रवर्तयेत् । अथाञ्जलिनोदकमादायोत्थायादित्याभिमुखस्तिष्टन् प्रणवेन व्याहृतीभिः सह गायत्र्याभिमन्त्र्य त्रिरूर्ध्वं प्रक्षिपेत् । ततः प्रदक्षिणं कुर्यात् । अथोपविश्याद्भिस्तर्पयते धातारं तर्पयामि । अर्यम्णं तर्पयामि । मित्रं तर्पयामि । वरुणं तर्पयामि । अंशुमन्तं तर्पयामि । भगं तर्पयामि । इन्द्रं तर्पयामि । विवस्वन्तं तर्पयामि । पूषणं तर्पयामि । पर्जन्यं तर्पयामि । त्वष्टारं तर्पयामि । विष्णुं तर्पयामि इति । अथोदकसमीपे दर्भैरवकीर्योपविश्य पवित्रपाणिः प्रत्यङ्मुख उपविश्य गायत्रीं मनसावाहयेत् । आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरॐ गायत्रीमावाहयामि । सावित्रीमावाहयामि । सरस्वतीमावाहयामि । इत्यावाह्य ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इत्येतमनुवाकं त्रिरभ्यस्य त्रीन् प्राणायामान् धारयित्वा नक्षत्राणामुदयात् पूर्वं प्रणवेन व्याहृतीभिः सह सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वो वा दशावरं वा । अथ देवीमुद्वासयेत् उत्तमे शिखरे इति । अथोत्थाय वारुणीं दिशमुपतिष्ठते यच्चिद्धि ते विशो यथा इति तिसृभिः इमं मे वरुण श्रुधी हवम् इति द्वाभ्याम् । दक्षिणं बाहुमनुपर्यावृत्य दक्षिणां दिशमुपतिष्ठते यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । इति । एवमेव उत्तरां दिशमुपतिष्ठते ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः । इति । एवमेव पर्यावृत्य प्रत्यङ्मुखः स्थित्वा यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति इति मुखमभिमृशति । पिशङ्गभृष्टिमंभृणं पिशाचमिन्द्र संवृणु । सर्वं रक्षो निबर्हय इति स्कन्धमभिमृशति । त्रीणि प्रदक्षिणानि कृत्वाभिवादनं करोति । एवं प्रातःसन्ध्यामुपास्यापोशनकाले सूर्यश्च मामन्युश्च इत्येतेनानुवाकेनाभिमन्त्र्य प्राश्नाति । प्राङ्मुखस्तिष्ठन् सावित्रीं जपेत् । प्राचीं दिशमुपतिष्ठते मित्रस्य चर्षणीधृत इति तिसृभिः । प्रसिद्धं स्नानं कृत्वा मध्याह्ने सन्ध्यामुपास्य आपः पुनन्तु पृथिवीम् इत्यपोऽश्नाति । अथोदकमादाय आ सत्येन इत्यभिमन्त्र्योर्ध्वं प्रक्षिप्यादित्यमुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रम् इति तिसृभिः तच्चक्षुर्देवहितं य उदगात् इति द्वाभ्यां च । दिशोपस्थानमेव । स्नानविधियुक्तेन वा सन्तिष्ठते सन्ध्योपासनः सन्तिष्ठते इति ८

अथातआचमनविधिंव्याख्यास्यामः अथहस्तपादौप्रक्षाळ्य अग्निः प्रजापतिः अथातःस्वाध्यायविधिं वैश्वदेवंहुत्वा अथमधुपर्कंव्याख्यास्यामः पञ्चयज्ञान् अथापराह्णे अष्टौ इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने षष्ठोऽध्यायः

सप्तमोऽध्यायःसम्पाद्यताम्

पुनरुपनयनं व्याख्यास्यामः । अगुरोरुच्छिष्टभक्षी मधुमांसभक्षी भवति । सन्ध्याकार्य उदकुम्भेऽग्निकार्ये चिरलोपी भवति । अगुरोः स्प्रेतमनुगच्छेद् दहेद्वा । उभयत्र दशाहानि कुलान्यन्नवेजञ्च ब्रह्मचर्यक्षतिर्भवति । एतैश्चान्यैश्च निमित्तानि भवन्ति चेत् पूर्वपक्षे पुण्ये नक्षत्रे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य यमनियमयन्त्रैः व्रतोपवासैश्च प्रायश्चित्तं कृत्वा अग्निमुपसमाधाय सम्परिस्तीर्या दण्डप्रदानात् पूर्ववदुपनयनं कृत्वा सावित्रीं वाचयति

 
भिक्षां न कुर्वन्नश्नाति न च श्मश्रूणि वापनम्
शिरोमुण्डं न कुर्वन्न वाससः परिधापनम्
नालङ्कारं ततः कुर्वन् ब्रह्मसूत्रस्य धारणम्
मेखलाधारणं चैव न चैवाम्बरधारणम्
न चाभिमन्त्रणं कुर्वन् नाजिनस्य च धारणम्
न प्रदानं च दण्डस्य न भैक्षाचरणं तथा
वाससो ग्रहणं नास्ति व्रतोपनयनं तथा
एवं हि विधिवत् कृत्वा पूतो भवति मानवः
पुनःसंस्कारं कृत्वा पूतो भवति । तदहरेव सावित्रीव्रतं कृत्वा तदहरेव
विसृजेद् इत्याह १

यः पाणिग्रहादिरग्निस्तमौपासन इत्याचक्षते । तस्मिन् गृह्णाणि कर्माणि क्रियन्ते । तस्यौपासनेनाग्निहोत्रित्वं यथा पार्वणेन चरूणां दर्शपूर्णमासयाजित्वम् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः । उपवासश्चानुगते भार्यायाः पत्युर्वा । एताश्चाहुतीर्जुहुयात् मित्राय स्वाहा वरुणाय स्वाहा सोमाय स्वाहा सूर्याय स्वाहा अग्नये स्वाहा अग्नये तपस्वते जनद्वते पावकवते स्वाहा अग्नये शुचये स्वाहा अग्नये ज्योतिष्मते स्वाहा अग्नये व्रतपतये स्वाहा इति व्याहृतीभिर्विहृताभिः समस्ताभिश्च । अथ यदि द्व्यहं त्र्यहं वा सायंप्रातर्विच्छिन्नो भवति अग्नये तन्तुमते जुहुयात् । यदि स्थालीपाकस्यातिपातनं भवति अग्नये पथिकृते अग्नये वैश्वानराय वा जुहुयात् । अस्यापि व्याख्यातावाग्रयणपिण्डपितृयज्ञौ । द्वादशाहानि विच्छिन्नः पुनराधेयः प्रतिसंख्याय वा होमान् जुहुयात् । पुनराधानं वक्ष्यामः । परिश्रिते उद्धत्यावोक्ष्य सिकतोपोप्त उदुम्बरशाखाभिः प्लक्षशाखाभिः पालाशशाखाभिर्वा प्रच्छाद्य याज्ञिकात् काष्ठादग्निं मथित्वा श्रोत्रियागाराद्वाहृत्य सते कृत्वा प्रज्वलयित्वा शाखाम् अपोह्य ॐ भूर्भुवःस्वरॐ प्रतिष्ठ इति न्युप्योपसमादधाति । व्याहृतिपर्यन्तं कृत्वा तिस्रस्तन्तुमतीर्जुहोति तन्तुं तन्वन् उद्बुध्यस्वाग्ने त्रयस्त्रिँशत्तन्तवः इति । अथ चतस्रोऽभ्यावर्तनीर्जुहोति अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति । एतां प्राजापत्यां मनस्वतीं साप्तपतीं च हुत्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इति । प्रायश्चित्तीयां जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा घृतोऽयसा हव्यमूहिषे अयानो धेहि भेषजं स्वाहा इति । दशहोतारं मनसानुद्रुत्य सगृहं हुत्वा इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा प्रसिद्ध आग्नेयः स्थालीपाकः । अत्र गुरवे वरं ददाति वाससी धेनुमनड्वाहं वा । यदि प्रवसेद् ॐ भूर्भुवःस्वः इति उपस्थाय प्रवसेत् । यदि प्रयायाद् व्याख्यातमात्मन्यरण्योः समारोपणमुपावरोहणं च । समिधि वा समारोपनमुपावरोहणं च । समिधि वा समारोपयेदरणीकल्पेन । यत्र वासस्तस्मिन् श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य यस्यां समारूढतामादधाति । व्याख्यातो होमकल्पः । २ अथ गृहस्थस्य द्वे भार्ये । अग्निमुपसमाधाय संपरिस्तीर्याज्यं बिलाप्य उत्पूय स्रुक्स्रुवौ निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वान्वारब्धायां पत्न्यां यजमानो जुहोति नमस्तर्षे गद । अव्यवायै त्वा स्वधायै त्वा । मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवा ब्रह्मन् तवेदस्तु स्वाहा इति । अथैनमग्निं समारोपयते अयं ते योनिरृत्विय इति । समारोप्य पूर्वाग्नौ समिधमाधाय आजुह्वानः उद्बुध्यस्व इति द्वाभ्यां संपरिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवौ निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वान्वारब्धयोः पत्न्योः यजमानो जुहोति यो ब्रह्मा ब्रह्मण उज्जहार इत्येतेन सूक्तेनैकैकशश्चतुर्गृहीतं गृहीत्वा । आ प्रणीताभ्यः कृत्वा चतुश्शरावमोदनं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति । समितं संकल्पेथाम् इति पुरोनुवाक्यामनूच्य अग्ने पुरीष्याधिपा भवा त्वन्न इति याज्यया जुहोति । अधाज्याहुतीरुपजुहोति पुरीष्यस्त्वमग्ने इत्यान्तादनुवाकस्य । स्विष्टकृत् प्रभृति सिद्धमा धेनुवरप्रदानात् । सन्तिष्ठते औपासनतन्त्रः सन्तिष्ठते औपासनतन्त्रः ३

अथ गृह्यप्रायश्चित्तानि जुहोति अनुगतेऽग्नौ कालातिक्रमे होमयोः दर्शपूर्णमासयोश्च आग्रयणमकृत्वा नवान्नप्राशनेऽकृतसीमन्तायां प्रसूतायां भार्यायां स्त्रीषु गोषु च यमळजनने परागमने रजस्वलागमने दिवामैथुने कुमारस्याजातसंस्कारे मन्त्रविपर्यासे कर्मविपर्यासे ब्रह्मचारिणो व्रतविपर्यासे मेखलाच्छेदने दण्डभिन्ने यज्ञोपवीतस्याधारणे सन्ध्यालोपे अग्निकार्यलोपे उदकुम्भलोपे इत्येतैश्चान्यैश्च कल्पदृष्टमग्निमुपसमाधाय संपरिस्तीर्य घृतं चतुर्गृहीतं गृहीत्वा पाहि नो अग्न एनसे स्वाहा इति । पुरस्ताच्चोपरिष्टाच्च महाव्याहृतीभिर्हुत्वा एतदेवास्य प्रायश्चित्तमविच्छिन्नकरणं सन्ततं भवतीति । उपनयनाग्निर्विवाहाग्निः सूतकाग्निः श्मशानाग्निरा चतुरहादा दशाहादा सञ्चयनादुद्वातः स्यात् अपहता असुरा रक्षाँसि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः इत्यद्भिरवोक्ष्य क्षिप्रं भस्मसमारोपणम् । अयं ते योनिरृत्विय इति श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य परिषिच्य प्रायश्चित्तं जुहोति अयाश्चाग्नेः पञ्चहोतारं ब्राह्मण एकहोतारं मनस्वतीमिन्दाहुतीव्याहृतीभिः । अथापिवा चतुरहःसद्यस्कालं ब्रह्मचर्यं विच्छिनत्ति सारस्वतेन होमेन मनस्वतीमिन्दाहुतीमहाव्याहृतीनां सप्रणवं जुहुयात् ४

अथ ब्रह्मचार्यवकीर्णी भवति योऽयोनौ रेतःपातेन वा सन्ध्यालोपेन वोदकुम्भलोपेनाग्निकार्यलोपेन वा । अन्यानि निमित्तानि भवन्ति चेच्छुक्लमनार्द्रमाच्छाद्य कृतोपवासः कृतनियमयन्त्रोऽमावास्यायां रात्र्यामग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा द्विराज्यस्योपघातं जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहा इति । पुनर्मामैत्विन्द्रियम् इत्येतमनुवाकमष्टशतमाज्यस्य जुहुयात् । यद्देवा देवहेळनम् इत्येतमनुवाकं प्रत्यृचमाज्यस्य जुहुयात् । वारुण्यादिजयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । अथ स्वप्ने शुक्लं पतेद् वासांसि विसृज्यान्यत् परिदधाति । उपव्युषसि ग्रामात् प्राचीमुदीचीं दिशमुपनिष्क्रम्य

नदीषु स्नायात् ।
समुद्रगानदीस्नानात् त्रिरात्रं फलमश्नुते
समुद्रगानदीस्नानात् पक्षोपोषणमेव च
सरित्पतेस्त्वमावास्यामनन्तमयने विषौ
इत्येवं स्नानं यथाविधि तथा करोति । पुनर्मामैत्विन्द्रियम् इत्येतेनानुवा
केन जप्त्वा पूतो भवतीत्याह भगवानाग्निवेश्यः ५
अथर्तुस्नानाद् भर्तुर्मुखे नान्वीक्षमाणा प्रयत्नाद्वाहर्मुखं दर्शयेत् न तदहः संवेशनं कुर्यात् । यदि
संवेशयेत्
तदहर्जायते पुत्रः सोऽल्पायुर्धनवर्जितः
पञ्चम्यां तु श्रमेद्या वा वन्ध्यां नारीं प्रसूयते
षष्ठ्यां तु या श्रमेत् साध्वी पुत्रपौत्रवती भवेत्
सप्तम्यां तु तथा नारी अष्टम्यां षण्मुखोपमः
परिप्रिया नवम्यां तु दशम्यामुत्तमः सुतः
एकादश्यां तु दुष्टात्मा द्वादश्यां तु धनेश्वरः
त्रयोदश्यां तु दौर्भाग्या चतुर्दश्यघवान् सुतः
लभेत् पतिव्रतां नारीं पञ्चदश्यां तथैव च
षोडश्यां लभते पुत्रं ब्रह्मकीर्त्तिं नतादृशम्
तदूर्ध्वोपयमं नास्ति कामभोगैव केवलम्
तस्मात् सर्वप्रयत्नेन षोडश्यन्तं प्रतिश्रमेत्
शुक्लोत्कर्षे लभेत् पुत्रं शोणितस्य स्रियं लभेत्
निन्दितेऽहनि संवेशं न कुर्यात्तु प्रयत्नतः
यदि प्रमादात् कुर्याच्चेज्जपेत् तां वैष्णवीमृचम्
केशवादीनि नामानि जपेत्तु विविधानि च
अग्न्यगारे ततो गत्वा हुत्वा पूर्णाहुतिं ततः
एवं जन्मत्रयं वापि श्रवणं च न संविशेत्
पर्वद्वये च तत्कुर्यात् श्राद्धं दत्त्वा न वाहनि
सोमवारेऽर्कवारे च भौमवारे शनैश्चरे
विषुवे अयने चैव व्यतीपाते च सङ्क्रमे
एतान्यन्यानि निन्द्यानि दिवसानि न संविशेत्
विष्टिरष्टम्यथान्ये च पक्षच्छिद्रास्तथैव च
षोडशे द्वादशे वापि पञ्चदश्यां तथैव च
चतुर्दश्यां नवम्यां च षष्ठ्यामष्टम एव च
एतान्यन्यतमं वीक्ष्य शौचं कुर्याद्यथोदितम्
अभिवीक्ष्य सुनक्षत्रं पुण्यं चैव ग्रहोदयम्
प्रक्षाळ्य पाणिपादौ द्वावाचम्य मनसा हरिम्
ध्यात्वा नारायणं देवं शङ्खचक्रगदाधरम्
अस्या दक्षिणहस्तेन भगं चैव प्रदर्शयेत्
शिवेन त्वाभिमृशामीति शिश्नं योनौ प्रवेशयेत्
एकया ऋषभेणेति ऋचा सम्यगनीक्षणः
यथा रत्यन्तं कृत्वा तथा शौचं कृत्वा पश्चाज्जपेदृचः सम्यक् आते योनिम्
इति । य एवं ज्ञात्वाभिमृशति स सत्पुत्रं लभते बुधः । एवमेव मासि मासि ऋतुवेळायां कृत्वा पुत्रं चारुबुद्धिमन्तं बलिष्टं लभते बलिष्ठं लभत इत्याह
भगवानाग्निवेश्यः ६
ब्रह्मकूर्चं प्रवक्ष्यामि कायशोधनमुत्तमम्
वेदादिजयहोमं च मन्त्रहीनमसंस्कृतम्
शुद्रान्नभोजने चैव वेदानां विक्रयेषु च
काकश्वानावलीढे चोत्कण्ठके मृगपक्षिणाम्
पञ्चमम्लेच्छसंस्पर्शे पञ्चगव्यं विशोधनम्
नीलवर्ण्यास्तु गोमूत्रं कृष्णागोमयमुद्धरेत्
ताम्रवर्णीपयश्चैव श्वेताया दधिरेव च
कपिलाया घृतं ग्राह्यं महापातकनाशनम्
अलाभे सर्ववर्णानां कपिलादेकात्तु ग्राह्यकम्
गोमूत्रैकपलं दद्यादङ्गुष्ठार्धं तु गोमयम्
क्षीरं सप्तपलं दद्याद् दधि त्रिपलमेव च
घृतमेकपलं दद्यात् तथैव च कुशोदकम्
सावित्र्या ग्राह्य गोमूत्रं गन्धद्वारेति गोमयम्
आप्यायस्वेति च क्षीरं दधिक्राव्ण्ण इति वै दधि
आज्यं शुक्रमसीत्येवं देवस्य त्वा कुशोदकम्
आपो हि ष्ठा मयोभुव इत्यालोड्य मा नस्तोके
इत्यभिमन्त्र्य प्रणवेनोद्धृत्य प्रणवेन निर्मथ्य प्रणवेनैव पिबेत् । अग्नये सोमाय
इरावती इदं विष्णुर्विचक्रमे मा नस्तोके प्रजापते गायत्रीं च हुत्वा मध्यमेन
पलाशपर्णेन पद्मपत्रेण तत् पिबेत्
यत् त्वगस्थिगतं पापं देहे निष्ठति मामके
ब्रह्मकूर्चोदकात् सर्वे दहत्यग्निरिवेन्धनम् । इति ७

अथातो नैमित्तिकानि प्रायश्चित्तानि व्याख्यास्यामः । सर्वत्र वैष्णवर्चं जपेत् विष्णोर्नुकं वीर्याणि प्रवोचम् इति । अथ कर्मान्तरे यदि क्षुधेद्वा निष्ठीवेद्वा सहस्रशीर्षा पुरुष इति जपति । अप उपस्पृश्याङ्गुष्ठानामिकाभ्यां दक्षिणकर्णमुपस्पृशेत् यदि मूत्रं कुर्यात् पादौ प्रक्षाळ्याचम्य ॐकारं मनसा ध्यात्वा शुचिर्भूत्वा पुरुष एवेदँ सर्वम् इति द्वे ऋचौ जपेत् । यदि मेहेत् पूर्ववच्छौचं कृत्वा त्रिपादूर्ध्व उदैत्पुरुष इति तिस्र ऋचो जपेत् । यद्यशुचिस्पर्शे शुद्धजलाशये स्नात्वाम आचम्य तस्माद्यज्ञात्सर्वहुत इति चतस्र ऋचो जपेत् । यदि चण्डालपतितादिदर्शे अप आचम्य आदित्यमभिवीक्ष्य ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याँ शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत इति तिस्र ऋचो जपेत् । यदि होमो मध्ये विच्छिन्नः स्याद् वेदाहमेतं पुरुषं महान्तम् इति तिस्र ऋचो जपेत् । द्वे मिन्दाहुती हुत्वा पुनः शेषं समापयेत् । यदि पात्राणि शुनाद्यवलीढे दारुमयान्यग्नौ प्रक्षिपेत् मृण्मयानि चाप्सु प्रक्षिपेत् लोहमयानि भस्मना शुध्यन्ति । अन्यानि नवानि पात्राणि संगृह्य विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इति द्वे ऋचौ जपेत् । यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने इति षडाहुतीर्जुहुयात् । यद्यग्निमुदक्याद्यवलीढे अग्निमुद्वास्य पूर्ववत् शौचं कृत्वा अग्निं मथित्वा लौकिकं वाहृत्य स्रुक्स्रुवौ निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुतिं हुत्वा पूर्ववत् संस्कारं करोति । यद्यरण्यशुचिर्भवेद् अन्यामाहृत्यैव चतुर्गृहीतं गृहीत्वा पुरुषसूक्तेन मनसानुद्रुत्य जुहोति । यदि सूतको मृतको भवेत् तन्मध्ये होमं न करोति स्थालीपाकं च तान्याहानि । व्यतीपाते तद्द्रव्यं ब्राह्मणाय ददातीत्याह भगवानाग्निवेश्यः ८

अथातो गृह्याणि प्रायश्चित्तानि स्मर्यन्ते तानि वक्ष्यामः । शेषाणि वैतानिकानि । य आहिताग्नेर्धर्मस्स धर्मो य आहिताग्नेः लोकस्स औषासनिकस्य इति शाट्यायनीयं ब्राह्मणं भवति । तत्र ये पुरोडाशास्त इह चरवः । पयोदधिपृषदाज्यानाम् आज्यवत् संस्कारो न दध्नोऽधिश्रयणं प्रत्यसनं प्रतिवेषणम् अग्नि रौद्रराक्षसपैतृकनैरृतच्छेदनभेदननिरसनात्माभिमर्शनानि च कृत्वा अप उपस्पृशेत् । सर्वत्र स्कन्ने भिन्ने क्षामे दग्धे विपर्यासेऽन्तरिते च द्वे मिन्दाहुती जुहुयात् यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदाद् इति । स्कन्ने सन्त्वा सिञ्चामि इति स्कन्नमभिमन्त्र्यापोह्यावसिच्य भूः इत्युपस्थाय अस्कान्द्यौः पृथिवीम् इति द्वे आहुती जुहुयात् । आज्यं चेद् देवाञ्जनवनस्पतिमंहस इति चानुमन्त्र्य किञ्चिच्च दद्यात् । अथ भिन्ने भूमिर्भूम्ना इति भिन्नमभिमन्त्र्य उन्नम्भय पृथिवीम् इत्यपोह्यावसिच्य त्रयस्त्रिंशत्तन्तव इत्येतया जुहुयात् । अग्नौ प्रक्षिपेद् दारुमयाणि । अथ क्षामे निरृत्यै त्वा इति दग्धमभिमन्त्र्य किञ्चित् त्वं पराची त्वमवाची त्वं रक्षाँसि गच्छ इति दक्षिणापरमुत्तरापरं वा दिशं प्रतिनिरस्य अग्नी रक्षाँसि सेधति इति तिस्र आज्याहुतीर्जुहुयात् । हविषामभिगमनस्यैकदेशं चेदुद्धृत्य तत्कृत्वैतया जुहुयात् । एतेनाशृतदुःशृतौ व्याख्यातौ । अपोऽभ्यवहरेत् । रुद्राय त्वा इत्यश्रृतमभिमन्त्र्य यमाय त्वा इति दुःशृतमथ परिस्तरणदाहे अग्नये क्षामवते नमो नमः क्षामवन्मा मा हिंसीः मा मे गृहं मा मे धनं मा मे पशून् इत्यभिमन्त्र्य अग्नये क्षामवते स्वाहा इति जुहुयात् । इन्द्रं वो विश्वतस्परि इति पुनः परिस्तिर्य इन्द्राय स्वाहा इति जुहुयात् । अथ परिधिदाहे प्रदाव्यायाग्नये नमो नमः प्रदाव्याय इति । समानमत ऊर्ध्वम् अग्नेः समिदसि इति पश्चार्धं यमस्य समिदसि इति दक्षिणार्धम् सोमस्य समिदसि इत्युत्तरार्धम् । इन्धानास्त्वा शतं हि मा इति द्वे आहुती जुहुयात् । जुष्टेऽन्यं परिदध्यात् गन्धर्वोऽसि इति प्रतिमन्त्रम् । अथ विपर्यासे त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते इति चतस्र आहुतीर्जुहुयात् । एता एवान्तरिते मनो ज्योतिः पञ्चमीमन्तरितं च कुर्यात् । संस्थिते चेत् किञ्चिच्च दद्यात् । उत्तरस्मिन् काल आगते होमश्चेद् अनिवृत्तः पूर्वस्य सेयं कालातिपत्तिस्तस्यां प्रायश्चित्तं मनो ज्योतिः इति पूर्वस्य जुहुयात् । तथापरस्य जुहुयात् । एवं प्रतिहोमम् आ दशरात्रात् प्राणायामः । एकादशीप्रभृत्या विंशतिरात्रादुपवासस्त्रिंशद्रात्रादत ऊर्ध्वं प्राजापत्यं विहितम् । एकादशीप्रभृति तिस्रस्तन्तुमतीर्द्वादशाहानि विच्छिन्नः पुनराधेय इत्युक्तमेवं वा । अथ पर्वण्यतीते मनो ज्योतिः अयाश्चाग्ने यदस्मिन् स्वस्ति न इन्द्र इति चतस्र आहुतीर्हुत्वाग्नये पथिकृते स्थालीपाकं कुर्यात् प्रागष्टमात् । अत ऊर्ध्वं सोपवासः कार्यः द्वे त्रिषु च तिस्र इत्येवमतीतेषु प्रायश्चित्तं पार्वणवद्धोमः पितृयज्ञेऽतीते पक्षद्वये चोपवासः कार्य इति सिद्धम् । अथ महायज्ञानाम् एकस्मिन्नहनि मनो ज्योतिः इति द्वयोस्त्रिषु चतुर्षु पञ्चसु वा षट्सु प्रभृतीति तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेत् इमं मे वरुण तत्त्वा यामि यत्किञ्च अव ते हेड इत्या नवरात्रात् । अत ऊर्ध्वमा दशरात्राच्चतस्रोऽभ्यावर्तिनीर्जुहुयात् । सर्वेषामन्ततो व्याहृतीभिरिति सिद्धम् ९

अत ऊर्ध्वं वानप्रस्थविधिं व्याख्यास्यामः । अनवद्यं गृहधर्मं चरित्वा यज्ञान् यजति । पुत्रमुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विधाय गुणवति पुत्रे कुडुम्बभारं नियोज्य उत्तरायणे पूर्वपक्षे पुण्ये नक्षत्रे कुशचीरचर्मवल्कलवासा जटी कृष्णाजिनोत्तरीयः कृतप्रस्थानलिङ्गोऽग्निमात्मसमारोपणं कृत्वा सपत्नीको वाप्यपत्नीको वा वनमाश्रयेत् । श्रमणमग्निमाधाय वेणुश्यामाकनीवारादिभिरारण्यमूलफलैरोषधीभिः सायंप्रातरग्निं परिचरेत् । फालाकृष्टाभिः देवब्राह्मणपितृभूतमनुष्ययज्ञानहरहर्हुत्वारण्योर्वा काले शक्तितः शरीरं परिशोषयेद् यमनियममन्त्रोपवासादिभिः । जीर्णपर्णाहारः दन्तोलूखलिकः शैलकुट्टो ये काल आगच्छेयुस्तेभ्योऽपि दद्यात् । स्थण्डिलशायी ऊर्ध्वरेताः अतिथिप्रियः अमत्सरी विवादपैशुन्यमृषावादवजीं सदाशुचिः ग्रामस्य छदिं न दर्शेदरण्यवासग्नियोऽभयदायी सर्वभूतानां परैरभिमृष्टान्याश्रमान्तरहितानि नाभ्यवहरेदेकाग्निपरायणः अप्रमादी सबीजां प्रोषितां भूमिं नाक्रमेत् । तपोधिकाय यज्ञाधिकाय वयोधिकाय फलोदकं दद्यात् । एवं मृगैः सह चरित्वापरिस्पन्द्यसहवासी स्वकालं व्यपोह्य स्वर्गलोकं गमिष्यतीति । अथवा तृतीयमायुर्भागं वानप्रस्थव्रतं चरित्वा चतुर्थमायुर्भागं परिव्रजेद्वा १०

अथातः संन्यासविधिं व्याख्यास्यामः । उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पूर्वकालमुपोष्य संभारानुपकल्पयते । कापायवाससी प्लक्षपवित्रपादुकासनवैणवदण्डशिक्यकमण्डल्वलावुपात्रं कुशबन्धमित्येवमादिसंभारानुपकल्पयते । अग्निमारोप्य वनाद् ग्रामं प्रविश्य केशश्मश्रूणि वापयित्वा नदीषु स्नायात् शुद्धे जलाशये वा । अप आचम्य नदीतीरे देवगृहे वा ब्राह्मणानभिगम्याक्रोधनोऽद्वेषणः सर्वकर्माणि संन्यसेत् । न वेद संन्यसेत् । वेदसंन्यासाच्छूद्रो भवति । तस्माद् वेदं न संन्यसेत् । ब्राह्मणसन्निधौ मन्त्रमुक्त्वापः पिबेत् संन्यस्तं मया इति । गृहस्थेनोपनीतान् वैणवान्तान् संभारान् परिगृह्य सवितृमण्डलमुद्वीक्षमाणः संन्यस्तं मया इति त्रिरुचैः प्रब्रूयात् । अथ ब्राह्मणं निवीतं बहुयाजिनमभिगम्य दण्डान्दातवा इत्युक्त्वा दण्डान् परिगृह्य कृतनामानिकृतोऽनुज्ञातो यतेर्धर्मान् सम्यक् परिचरेत् नित्यशिखी नित्ययज्ञोपवीती नित्यसन्ध्योपासी नित्यप्रातःस्नायी नित्यं भैक्षाशी नित्यं यमनियमयन्त्रव्रतोपवासी नित्यमीश्ररोपासी नित्यं गोदेवगृहवासी अपगतभयकामक्रोधलोभमोहमदमात्सर्यः इति । एवमादिधर्मं चरित्वा स्वर्गलोकं गमिष्यति । अथवा ब्राह्मणेषु क्षीयमाणेषु पूर्ववच्छौचं कृत्वा सर्वकर्माणि संन्यस्य प्रैषणमपोऽश्नाति । ईश्वरमेवोपास्य पूतो भवतीत्याह भगवानाग्निवेश्यः ११ पुनरुपनयनंव्याख्यास्यामः यःपाणिग्रहादिरग्निः अथगृहस्थस्यद्वेभार्ये अथगृह्यप्रायश्चित्तानिजुहोति अथब्रह्मचार्यवकीर्णी भवति अथर्तुस्नानात् ब्रह्मकूर्चं प्रवक्ष्यामि अथातोनैमित्तिकानि अथातोगृह्याणिप्रायश्चित्तानि अतऊर्ध्वंवानप्रस्थविधिम् अथातःसंन्यासविधिम् एकादश । इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने सप्तमोऽध्यायः द्वितीयः प्रश्नः समाप्तः

तृतीयः प्रश्नःसम्पाद्यताम्

प्रथमोऽध्यायःसम्पाद्यताम्

अमावास्यायामपराह्णे मासिकम् अपरपक्षस्य वायुक्ष्वहस्सु पितृभ्योऽन्नं संस्कृत्य दक्षिणाग्रान् दर्भानासनानि कल्पयित्वा ब्राह्मणान् शुचीन् मन्त्रवतः समाङ्गानयुग्मानामन्त्रयते । योनिगोत्रमन्त्रसम्बन्धान् अर्थापेक्षो न भोजयेत् । अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य एकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य संस्कृत्य ततः अपसव्यं परिषिञ्चति । औदुम्बरमिध्ममभ्याधाय औदुम्बर्या दर्व्या जुहोति । आज्यभागान्तं कृत्वा प्राचीनावीती पितॄनावाहयति आयात पितरः सौम्या गम्भीरैः पथिभिः पूर्व्यैः प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च इति । एतामेव दिशमभ्यपः प्रसिञ्चति आपो देवीः प्रहिणुताग्निमेते यज्ञं पितरो नो जुषन्ताम् । आसीनामूर्जमुत ये भजन्ते ते नो रयिं सर्ववीरान् नियच्छतात् इति । व्याहृतिपर्यन्तं कृत्वा प्राचीनावीती जुहोति सोमाय पितृमते स्वधा नमः स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । याः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य भर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः स्वाहा । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः स्वाहा । अन्तर्दध ऋतुभिः सर्वैरहोरात्रैः ससन्धिभिः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमः स्वाहा । अथ नामधेयैर्जुहोति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इति । यन्मे माता प्रलुलोभ चरत्यननुव्रता तन्मे रेतः पिता वृङ्क्तामाभुरन्योऽवपद्यतां स्वधा नमः स्वाहा । एवं द्वितीयम् । तथा तृतीयम् । यन्मे पितामही यन्मे प्रपितामही इति मन्त्रं सन्नमति १ ये चेह पितरो ये च नेह याँश्च विद्म याँ उच न प्रविद्य । अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रत्तं स्वधया मदन्ति कामैः स्वधा नमः स्वाहा । यद्वः क्रव्यादङ्गमदहल्लोकाननयन् प्रणयन् जातवेदाः । तद्वोऽहं पुनरावेदयाम्यरिष्टाः सर्वैरङ्गैः संभवन्तु पितरः स्वधा नमः स्वाहा । वहाज्यं जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । आज्यमस्य कूल्या उप तां क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः स्वाहा । एवं द्वितीयं तथा तृतीयम् । पितामहेभ्यः प्रपितामहेभ्य इति मन्त्रं सन्नमति । एवमन्नस्य जुहोति । वहान्नम् इति मन्त्रं सन्नमति । अथ सौविष्टकृतीं जुहोति अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति । दक्षिणार्धपूर्वार्धे हुत्वानुप्रहृत्य दर्वीमथान्नमभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिन् लोके पृथिवीं समन्तस्समेऽग्निरुपद्रष्टा दत्तस्याप्रमादाय ऋचस्ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोकेऽन्तरिक्षं समन्तस्समे वायुरुपश्रोता दत्तस्याप्रमादाय यजूँषि ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके द्यौः समन्तस्समे आदित्योऽनुख्याता दत्तस्याप्रमादाय सामानि ते महिमा इति । ब्राह्मणानुपस्पर्शयति । भुक्तवतोऽनुवृत्त्या शेषम् अनुज्ञाप्य २ उदकुम्भं दर्भमुष्टिं चादाय दक्षिणाग्रान् दर्भान् परिस्तीर्य तेष्ववाचीनपाणिर्दक्षिणापवर्गांस्त्रीनुदपात्रानुपरि निनयति मार्जयन्तां पितरः सौम्यासः मार्जयन्तां पितामहाः सौम्यासः मार्जयन्तां प्रपितामहाः सौम्यासः इति । असाववनेनिङ्क्ष्व असाववनेनिङ्क्ष्व इति वा तेष्ववाचीनपाणिर्दक्षिणापवर्गान् त्रीन् पिण्डान् ददाति । एतत्ते तत असौ इति पित्रे पिण्डं ददाति एतत्ते पितामह असौ इति पितामहाय एतत्ते प्रपितामह असौ इति प्रपितामहाय । तूष्णीं चतुर्थम् । स कृताकृतो वा । यदि नामधेयानि न विद्यात् स्वधा पितृभ्यः पृथिवीषद्भ्य इति पित्रे पिण्डं ददाति । स्वधा पितामहेभ्योऽन्तरिक्षसद्भ्य इति पितामहाय । स्वधा प्रपितामहेभ्यो दिविषद्भ्य इति प्रपितामहाय । अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति । आङ्क्ष्वासावाङ्क्ष्वासौ इति त्रिराञ्जनम् । अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासौ इति त्रिरभ्यञ्जनम् । एतानि वः पितरो वासांस्यतो नोऽन्यत् पितरो मा योढुम् एतानि वः पितामहा वासांस्यतो नोऽन्यत् पितामहा मा योढुम् एतानि वः प्रपितामहा वासांस्यतो नोऽन्यत् प्रपितामहा मा योढुम् इति दशामूर्णास्तुकां वा छित्त्वा न्यस्यति पूर्वे वयसि स्वं लोम छित्त्वा उत्तरे । अथ पात्रं संक्षिप्य निनयति पुत्रान् पौत्रानभितर्पयन्तीरापो मधुमतीरिमाः । स्वधां पितृभ्योऽमृतं दुहाना आपो देवीरुभयाँस्तर्पयन्तु इति । न्युब्जपात्रं पाणी व्यत्यस्य नमो वः पितरो रसाय इति षड्भिर्नमस्कारैरुपतिष्ठते । उदकान्तं गत्वा त्रिरुदकाञ्जलिदानेनोदकाञ्जलीन् ददाति एष ते तत पितुर्मधुमाँ ऊर्मिः सरस्वान् यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाग्निरक्षितोऽनुपदस्त एवं मे तताय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ ऋचस्ते महिमा एष ते पितामह पितुर्मधुमाँ ऊर्मिः सरस्वान् यावान् वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथा वायुरक्षितोऽनुपदस्त एवं मे पितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ यजूँषि ते महिमा । एष ते प्रपितामह पितुर्मधुमाँ ऊर्मिः सरस्वान् यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथादित्योऽक्षितोऽनुपदस्तः एवं मे प्रपितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्यँ स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमा इति । प्रत्येत्य प्रतिष्ठितमुदपात्रेणाप उपप्रवर्तयति परायात पितरः सौम्या गम्भीरैः पथिभिः पूर्व्यैः प्रजामस्मभ्यं ददतो रयिम् । अथ मासि पुनरायात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः इति । एतेन अर्घ्यावर्ष व्याख्याततन्त्रम् । मांसं नियतं मांसाभावे शाकम् ३ अमावास्यायामपराह्णे येचेहपितरः उदकुम्भंदर्भमुष्टिं त्रीणि इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने प्रथमोऽध्यायः

द्वितीयोऽध्यायःसम्पाद्यताम्

अष्टकां करिष्यमाण उपकल्पयते उक्षाणं वा वेहतं व्रीहीनन्नं मधुश्च सर्पिश्च । प्रसिद्धं शौचम् । अनूराधायामग्निमुपसमाधाय परिस्तीर्यापरेणाग्निं व्रीहीनेकपवित्रोऽथ निर्वपति इममपूपं चतुश्शरावं विर्वपामि क्लेशापहं पितॄणां संपराये । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यस्त्वा जुष्टं निर्वपामि इति पितृभ्यस्त्वा पितृभ्यस्त्वा इत्येवं चतुश्शरावं निर्वपति । प्रोक्ष्य तूष्णीं हविष्कृता वाचं विसृज्य यथा पुरोडाशमेवमेवैतमपूपं पदकपालमधिश्रयति । एककपालं वा । शृते तस्मिन्नाज्यं दधि विलाप्योत्पूयाथ परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतःप्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इति उत्तरतःप्राचीनं देव सवितः प्रसुव इति सर्वतः प्रदक्षिणं परिषिच्याघारावाघार्य आज्यभागौ जुहोति । आज्येन प्रायश्चित्तं जुहोति या तिरश्ची निपद्यसेऽहं मर्यादा विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणीं कामैः स्वधा नमः स्वाहा इति । अथैतस्यापूपस्य मध्यादवदायोपस्तीर्णाभिघारितमौदुम्बर्या दर्व्या जुहोति । अपूपं जुहोति घृतवन्तमद्य स्वधावन्तं पितॄणां तर्पणाय वह हव्यं पितृभ्य आहुतीर्जुहोमि कामैः स्वधा नमः स्वाहा इति अथ पुरस्ताद्दक्षिणतोऽवदाय पश्चादर्षीयो जुहोति इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एनां महिमानः सचन्ते कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति औलूखला ग्रावाणो घोषमक्रत अपः पितृभ्यः कृण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजा वीरवन्तो वयँ स्याम पतयो रयीणाम् कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायती । संवत्सरस्य या नी पत्नी सा नो अस्तु सुमङ्गला कामैः स्वधा नमः स्वाहा इति । पञ्चमीं जुहोति प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां कामैः स्वधा नमः स्वाहा इति । षष्ठीं जुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्व ँ! स्विष्टं सुहुतं करोतु मे अग्नये स्विष्टकृत सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे कामैः स्वधा नमः स्वाहा इति । दवीं प्रक्षाळ्य निधाय तथैव परिमृज्य परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वात्रैतमपूपं घृतवन्तं मधुमन्तं श्रद्धाभिमर्शनेनाभिमृशति २

पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिन् लोके पृथिवी समन्तस्समेऽग्निरुपद्रष्टा दत्तस्याप्रमादाय ऋचस्ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोकेऽन्तरिक्षं समन्तस्समे वायुरुपश्रोता दत्तस्याप्रमादाय यजूँषि ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके द्यौः समन्तस्समे आदित्योऽनुख्याता दत्तस्याप्रमादाय सामानि ते महिमा इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलीन् ददाति एष ते तत पितुर्मधुमाँ ऊर्मिस्सरस्वान् यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाग्निरक्षितोऽनुपदस्तः एवं मे तताय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासावृचस्ते महिमा ३

एष ते पितामह पितुर्मधुमाँ ऊर्मिस्सरस्वान् यावान् वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यया वायुरक्षितोऽनुपदस्त एवं मे पितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ यजूँषि ते महिमा । एष ते प्रपितामह पितुर्मधुमाँ ऊर्मिस्सरस्वान् यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथादित्योऽक्षितोऽनुपदस्त एवं मे प्रपितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमा इति । एतावदेतत् तदहःकर्म भवति । एतद्धस्म वै तद्विद्वांसः पूर्व ऋषय एवमष्टक्यमपूपं चतुश्शरावमेवमकल्पयंस्तेन वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयंस्ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् । स यो ह वा एवं विद्वान् ऐतमष्टक्यमपूपं चतुश्शरावमेवं कल्पयति । तेन वै स पितॄंस्तर्पयति येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभिर्मित्रं कुरुते । मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वान् एतमष्टक्यमपूपं चतुश्शरावमेवं कल्पयति ४

श्वो ज्येष्ठायामग्निमुपसमाधाय संपरिस्तीर्य तथैव परिषिच्याघारावाघार्याज्यभागौ जुहोति । प्रायश्चित्तीयां हुत्वोपाकरणीयां जुहोति इमां पितृभ्यो गामुपाकरोत्यूर्जस्वतीं स्वधावतीं तन्मे जुषन्तां पितरः परेताः । सा मे पितॄन् संपराये धिनोतु कामैः स्वाहा इति । अथैभ्यो गामृपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमि इति । अथैनां प्रोक्षति पितृभ्यस्त्वा जुष्टां प्रोक्षामि इति । तामत्रैव प्रतीचीनशिरसं दक्षिणापदीं संज्ञपयन्ति । तस्यै संज्ञप्ताया अद्भिः प्राणान् आप्याययति तूष्णीम् । अथास्यै वपामुद्धृत्य विशालयोपतृणत्ति तूष्णीमेव अथास्यै हृदयमुद्धारयन्ति प्रज्ञाते च मतस्ने । तान्येतेष्वेव शूलेषु संप्रणीक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति । शृतेषु त्रेधा वपां विच्छिद्योदुम्बरदर्व्या उपस्तीर्णाभिघारितां जुहोति वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कूल्या उप तान् क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः स्वाहा इति । अथैतस्य मांसस्योपस्तरणाभिघारितौदुम्बर्या दर्व्योपघातं जुहोति ५

एकाष्टकां पश्यत दोहमानामन्नं मांसवद् घृतवत् स्वधावत् । तद् ब्राह्मणैरतिपूतमनन्तमक्षय्यं स्फीतिं गच्छतु कामैः स्वधा नमः स्वाहा इति । द्वितीयां जुहोति एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तां दोहमुपजीवाथ पितरः सहस्रधा मुच्यमानां कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुराणामभवच्छचीभिः कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति औलूखला ग्रावाण इति । पञ्चमीं जुहोति यां जनाः प्रतिनन्दन्ति इति । षष्ठीं जुहोति प्रजापते इति । सप्तमीं जुहोति यदस्य कर्मणोऽत्यरीरिचम् इति । दर्वीं प्रक्षाळ्य निधाय तथैव परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभिमृशति पृथिवी ते पात्रम् इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलिं ददाति एष ते तत पितुः इति । एतावदेवैतदहःकर्म भवति । एतद्धस्म वैतद्विद्वांसः पूर्व आचार्या एवमष्टक्यां गामेवमकल्पयंस्तया वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन् ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् । स यो ह वा एवं विद्वानेतामष्टक्यां गामेवं कल्पयति । तेन वै स पितॄंस्तर्पयति । ते येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभिर्मित्रं कुरुते मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वानेतामष्टक्यां गामेवं कल्पयति ६

तृतीयेऽह्नि भूयोऽथ श्राद्धमन्नं च धनं च कल्पयित्वाग्निमुपसमाधाय परिस्तीर्य तथैव परिषिच्याघारावाघार्याज्यभागौ हुत्वाज्येन प्रायश्चित्तीयां हुत्वाथैतस्यान्नस्योपस्तीर्णाभिघारितौदुम्बर्या दर्व्या जुहोति वहान्नं जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान् पराके । अन्नस्य कूल्या उप तान् क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः स्वाहा इति । द्वितीयां जुहोति संवत्सरस्य प्रतिमां यां त्वा रात्र्युपासते । प्रजां सुवीरां कृत्वा विश्वमायुर्व्यश्नुवत् कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति यां जनाः प्रतिनन्दन्ति इति । चतुर्थीं जुहोति प्रजापते इति । पञ्चमीं जुहोति यदस्य कर्मणोऽत्यरीरिचम् इति अनुप्रहृत्य दर्वीं तथैव परिषिच्य पिण्डावृतैतान् पिण्डान दत्त्वा श्रद्धाभिमर्शनेनाभिमृशति पृथिवी ते पात्रम् इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलिं ददाति । एष ते तत इति । एतावदेवैतदहःकर्म भवति । एतद्धस्म वैतद्विद्वांसः पूर्वे श्रोत्रिया एवमष्टक्यमन्नमेवमकल्पयंस्तेन वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन् ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् स यो ह वा एवं विद्वानेतमष्टक्यमन्नमेवं कल्पयति । तेन वै स पितॄंस्तर्पयति । ते येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभिर्मित्रं कुरुते मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वान् तृतीयेऽह्नि यथाश्रद्धमन्नं च धनं च ददाति ततो वै तस्यापरिमितान्नधनाः पशवो भवन्ति । य एवं विद्वान् तृतीयेऽह्नि यथाश्रद्धमन्नं धनं च न ददाति तस्यापरिमितान्नधना न वै पशवो भवन्ति ७ अष्टकांकरिष्यमाणः अथपुरस्ताद्दक्षिणतोऽवदाय पृथिवीतेपात्रं एषतेपितामहपितुः श्वोज्येष्ठायाम् एकाष्टकां तृतीयेऽह्नि सप्त इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने द्वितीयोऽध्यायः

तृतीयोऽध्यायःसम्पाद्यताम्

अथातः श्राद्धशेषं वक्ष्यामः । पूर्वेद्युः सायमौपासनं हुत्वा प्राणासायम्य संकल्प्य श्वः पितृभ्यो मासिश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः नक्षत्रश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः त्रिपक्षश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः षण्मासश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः संवत्सरश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः सपिण्डीकरणश्राद्धं करिष्य इति वा संकल्प्य ब्राह्मणान् शुचीन् श्रोत्रियान् दरिद्रान् वेदज्ञान् समाङ्गान् अगोत्रानसमानार्षेयान् क्षणं करोति । द्वौ विश्वेदेवेभ्यः त्रयः पितॄणाम् । सपिण्डीश्राद्धं चेदेकोऽधिकम् । प्रेतश्राद्धेष्वेकमेव वरयेत् । श्वः पितृभ्यो मासिश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति एवमेव श्वः पितृभ्योऽष्टकाश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति श्वः पितृभ्यो नित्यश्राद्धम् एकोद्दिष्टं नक्षत्रश्राद्धमिति सर्वत्रोक्त्वा गन्धादिभिराराध्य तिलपिष्टादिभिर्भक्ष्यद्रव्यैर्यथावकाशोऽस्ति तथाराध्य ताम्बूलादि दद्यात् । श्वोभूते प्रातरौपासनं हुत्वावटौ खनति । प्रेतश्राद्धेष्वेकमेव खनति । सपिण्डीकरणे त्रीन् खात्वा अवटे तिलदर्भान् प्रकीर्य ब्राह्मणानाहूय क्षणं करोति । उत्तरेऽवटे विश्वेदेवयोः पादान् प्रक्षाळ्य मध्यमे पितॄणां दक्षिणे प्रतस्य पादौ प्रक्षाळ्य तानाराध्य ताम्बूलं दद्यात् । पादप्रक्षाळनक्रमेण सर्वं कुर्यात् प्राचीनावीती । अपराह्णे ब्राह्मणभोजनार्थमौपासने स्थालीपाकं कुर्यात् । पितॄणामावाहनकाले प्राचीनावीती दक्षिणाभिमुखः स्थित्वा आवाह्य ब्राह्मणानाहूय यथोक्तं दिङ्मुखमुपवेशयति । यथाविधि हुत्वा यत्र यत्रोक्तेषु पिण्डावृतैतान् पिण्डान् ददाति । पात्रसादनकाले एकस्मिन् पात्रे आ प आगन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णान् । अस्मिन् यज्ञे सर्वकामान् लभन्तेऽक्षीयमाणमुपदुह्यन्ताम् इमां पितृभ्यो वोऽर्घ्यं गृह्णामि इति पितृभ्यः पितामहेभ्यो वोऽर्घ्यं गृह्णामि इति पितामहेभ्यः प्रपितामहेभ्यो वोऽर्घ्यं गृह्णामि इति प्रपितामहेभ्यः अथान्यस्मिन् पात्रे प्रेताय ते गृह्णामि इति प्रेताय अप आनयति । तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वध एहि पितॄनिमान् लोकान् प्रीणयाहि नः स्वधा नमः इति तिलानावपति । पितामहान् प्रपितामहान् इमान् लोकान् प्रीणयाहि नः स्वधा नमः इति च । प्रेताय इमान् लोकान् इति च १

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधु जक्तमुतोषसि मधुमत्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु न इति मध्वानयति । कुशलवमादाय सोमास्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाह्यवेष्टा दन्तशूका इति मथित्वा निरस्तं नमुचेः शिरःइति फेनं निरस्य दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य शन्नो देवीः इत्यवोक्ष्य गन्धादिभिरलङ्कृत्य स्वधां यत्र गुप्तं मन्यते तत्र निदधाति । पूर्ववत् पादप्रक्षाळनं कृत्वा यथोदङ्मुखानुपवेश्य विश्वेदेवान् क्षणं करोति विश्वेदेवाः क्षणः कर्तव्य इति । प्रतिवचनम् ॐ तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । मासिश्राद्धे क्षणः कर्तव्य इति मासि अष्टकाश्राद्धे क्षणः कर्तव्य इत्यष्टकासु नित्यश्राद्धे क्षणः कर्तव्य इति नित्यश्राद्धे एकोद्दिष्टश्राद्धे क्षणः कर्तव्य इत्येकोद्दिष्टे नक्षत्रश्राद्धे क्षणः कर्तव्य इति नक्षत्रे त्रिपक्षश्राद्धे क्षणः कर्तव्य इति त्रिपक्षे षण्मासश्राद्धे क्षणः कर्तव्य इति षण्मासे संवत्सरश्राद्धे क्षणः कर्तव्य इति संवत्सरे सपिण्डीकरणश्राद्धे क्षणः कर्तव्य इति सपिण्डीकरणे प्रतिवचनम् ॐ तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो गन्धादिभिराराध्य स्वधापात्रमाराध्य वस्त्रयुग्मं कुण्डलमङ्गुलीयकं च दत्त्वाथान्नमभिमृशति पृथिवी ते पात्रम् इति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि इति । ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचान्तेभ्यस्तिलोदकं प्रदाय पवित्रं पितृहस्ते निधाय स्वधामानयति पितृभ्यो हस्ते स्वधास्तु इति । अस्तु स्वधा इति प्रतिवचनम् । एवं पितामहायैवम् प्रपितामहायैवं प्रेताय । तथैव शुद्धोदकं प्रदाय अस्तु शुद्धोदकम् इति प्रतिवचनम् । यथाशक्ति दक्षिणां दत्त्वा प्रदक्षिणं कृत्वा अन्नशेषैः किं क्रियताम् इति इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रत्येत्य शेषं सगणः प्राश्नाति । यदि नित्यश्राद्धं कुर्वन् शशं वा मृगं वा कूर्मं वोपाकरोति श्रपयित्वा हिरण्येन परिक्रीय वा यथाष्टकासु द्वितीयेऽह्नि तथा करोति । एकोद्दिष्टवत् त्रिपक्षश्राद्धं कुर्वन्ति । त्रिपक्षवत् षण्मासश्राद्धं कुर्वन्ति । षण्मासवत् संवत्सरश्राद्धं कुर्वन्ति । एवमा संवत्सरात् प्रेतस्य दहननक्षत्रेष्वेवमेवं कुर्वन्ति २ अथा तः श्राद्धशेषंवक्ष्यामो मधुवाताऋतायते इति द्वे । इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने तृतीयोऽध्यायः

चतुर्थोऽध्यायःसम्पाद्यताम्

अथातो दहनविधिः । आहिताग्नेरनाहिताग्नेः स्त्रियाश्चैव मरणसंशये शुचौ समे देशे गोमयेनोपलिप्य अवोक्ष्य सिकताभिरवकीर्य तासु दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु दक्षिणाशिरसमेनं निधायास्वधायुक्ता ब्रह्माण्यभिश्रावयेत् आयुषः प्राणँ सन्तनु इति । अथ प्राणेषूत्क्रान्तेषु प्राचीनावीत्यवाचीनपाणिः हिरण्यशकलमास्ये प्रत्यस्याङ्गुष्ठबन्धं प्रबध्य ग्राम्येणालङ्कारेणालङ्कृत्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य सायमाहुतिं हुत्वा मातराहुतिं हुत्वा पौर्णमास्येनेष्ट्वामावास्येनेष्ट्वाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीये जुहोति मृत्योरधिष्ठानाय स्वाहा इति । चतुरो ब्राह्मणान् बाहयित्वा ग्रामाभिमुखेन चतुष्पथे निधाय मुखं दर्शयित्वा श्मशानाभिमुखेन वाहयित्वा श्मशानं निर्हृत्य सहाग्निभिः प्रेतं तत्रैनं निधाय दहनं जोषयेत् दक्षिणाप्रत्यक्प्रवणमभङ्गुरमनिरिणमसुषिरं समं वा । अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तैर्यमो ददात्ववसानमस्मै इति हरिण्या पलाशशाखयौदुम्बरशाखया वा सतं सम्मृज्य दक्षिणतः शाखां निरस्य अप उपस्पृश्याद्भिरवोक्ष्य हिरण्यशकलमवधाय अपसर्पत प्रेता ये के चेह पूर्वजाः स्वस्ति नः कुरुत माश्रुपातः पुनरागमत् इति दक्षिणापवर्गाः स्फ्येन परशुना वा तिस्रः कर्षूः खात्वाद्भिरवोक्ष्य तिलतण्डुलानां मुष्टिं पूरयित्वा यमाय पितृपतये पितृभ्यः स्वधा नम इति प्रथमायां निवपति । एवं द्वितीयायां तथा तृतीयायाम् । शेषांस्तिलतण्डुलान् यद्याहिताग्निर्भवति तस्य कृष्णाजिनं छित्त्वा दक्षिणाग्रीवमधरलोमास्तृणाति । एतस्मिन् काले स्नात्वोदकेनौषधीभिश्च कुम्भं पूरयित्वा तेन दशहोत्रा पत्तोग्रात् स्नापयेत् । अथाहतं वासः परिधाप्यालङ्कृत्य ततश्चितामारोप्याथ सप्तप्राणायतनेषु सप्त हिरण्यशकलान् प्रत्यस्यालाभ आज्यबिन्दून्वा मुखे प्रथममास्ये दधितण्डुलांश्च तिलांश्च जुहोति इदं त आत्मनः शरीरमयं त आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनद्मि भूर्भुवःस्वरसौ स्वर्गाय लोकाय स्वाहा इति । दशहोतारं चित्तिः स्रुग् इत्यादि ग्रहवर्जमेवमेवाग्रे नासिकाच्छिद्रयोर्द्विर्जपेत् । आसीदिति सर्वेषु होतृपदेष्वनुषजत्यन्यत्र षड्ढोतृपदेभ्यः । आस्तामिति द्विवचनादिषु । चतुर्होतारं पृथिवी होता इति मुखे सृक्किकटयोर्द्विः पञ्चहोतारम् अग्निर्होता इति कर्णयोर्द्विष्षड्ढोतारं सूर्यम् त इति कीकसासु द्विस्सप्तहोतारं महाहविर्होता इति १

अथाज्यानि गृह्णीते दर्शपूर्णमासवत् तूष्णीं जुह्वां घृतं दध्युपभृति दधि मधु घृतमिति ध्रुवायां पयोऽग्निहोत्रहवण्याम् । अपिवाज्यमेव सर्वासु । अत्र पात्राण्युपचिनोति । यानि पात्राण्यासेचनवन्ति तानि सम्पूरयित्वाभ्युक्षतीतराण्यरिक्तताया इति विज्ञायते । तस्य दक्षिणहस्ते जुहूं स्फ्यं चादधाति । सव्य उपभृतमुरसि ध्रुवामुपवेषमरणीं च मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवावाज्यस्रुवौ वा कर्णयोः प्राशित्रहरणं भित्त्वैकैकम् । हन्वोरुलूखलमुसले दत्सु ग्रावाणो भवन्ति । शिरसि कपालानि । ललाट एककपालमुदरे ड्ष्टिसंयवनीं पात्रीं नाभ्यामाज्यस्थालीं पत्त उपावहरणीयं कूर्चं शिरस्त उपसादनीयं कूर्चं पार्श्वयोः शूर्पं छित्त्वैकैकं वा घ्राणयोः सान्नाय्यकुम्भ्यौ यदि सन्नयन् भवति अण्डयोर्दृषदुपले शिश्ने वृषरवं शम्यां च पृष्ठयोरग्निहोत्रस्थालीमन्वाहार्यस्थालीम् इडापात्रं वेदं शिखायाम् । अथवावशिष्टान्यन्तरेण सक्थिनी निवपति । तस्य कृष्णाजिनशेषेण दक्षिणाग्रीवमुत्तरलोम्ना प्रच्छाद्य बान्धवाः सिग्वातेनोपवीजयन्ति । त्रयः सिग्वाता भवन्ति ग्रामे पथि चितायां च । वातास्ते वान्तु पथि पुण्यगन्धा मनःशुभा गात्रशुभा अनुलोमाः । त्वचस्सुखा मांससुखा अस्थिसौख्या वहन्तु त्वा मरुतः सुकृतां यत्र लोकाः इति २

यद्याहिताग्निर्भवति अप नः शोशुचदघम् इत्यङ्गुष्ठबन्धं विसृज्य पत्न्युदकुम्भमादायाध्वर्युर्वा शीर्षन्नधिनिधाय त्रिरपसलैः परिषिञ्चन् पर्येति । किञ्चित् परशुना प्रहरति । अथ धारामनुमन्त्रयते इमा आपो मधुमत्योऽस्मिंस्ते लोक उपदुह्यन्ताम् इति । द्वितीयं परिगतायां पश्चात् प्रहरति इमा आपो मधुमत्योऽन्तरिक्षे ते लोक उपदुह्यन्ताम् इति । तृतीयं परिगतायां पश्चात् प्रहरति इमा आपो मधुमत्यः स्वर्गे ते लोक उपदुह्यन्ताम् इति । भिनत्ति कृम्भम् । यदि पुरस्तात् पतति पापीयान् भवति यदि पश्चात् पतति वसीयान् भवति इति । अथ कपालशेषा अपः प्रेतस्य प्राणस्थानेषु निनयति दिवि जाता अप्सु जाता इति । आर्द्रा ओषधीरालभ्योत्तिष्ठति । गां पश्यति । ब्राह्मणान् पश्यति । हिरण्यमालभते । अत्र गुरवे वरं ददाति ३

अथास्मा अध्वर्युर्दक्षिणपूर्वस्यां दिश्याहवनीयमादीपयति नैरृत्यामन्वाहार्यपचनं वायव्यां गार्हपत्यमुत्तरतः सभ्यावसक्थ्यौ । संभारैः अग्निर्यजुर्भिः पत्नीभिः सेनेन्द्रस्य इत्येतैः उपोषयेत् । ग्रहैः वाचस्पते विधे नामन् वाचस्पते वाचो वीर्येण सोमः सोमस्य वाचस्पतेऽच्छिद्रया वाचा वाचस्पते हृदिधे नामन् इत्येतैः ऋतुमुखीयेन वाग्घोता इत्येतेन ब्राह्मण एकहोता इति चोपस्थानम् । आहवनीय एकेषां कपालः । सन्तपनाग्निना वाजसनेयिनः समामनन्ति । तमभिनिवर्तते यं घर्मोऽग्निरभिजिहर्त्ति यां गतिं यान्ति युधि युद्धशूरा विधृतपापा विरजा विशोकास्तां गतिं याहि सुरभिर्नाकपृष्ठः स्वधा नम इति । यद्यनाहिताग्निर्भवति यां गतिं यान्ति युधि युद्धशुरास्तनुत्यजो मोक्षविदो मनीषिनः सुकृतिनोऽग्निहोत्रहविष्ठास्तां गतिं याहि सुरभिर्नाकपृष्ठः स्वधा नम इति । ततो यज्ञोपवीती सं त्वा सिञ्चामि यजुषा इति शान्तिं कृत्वा ज्योतिष्मत्या आदित्यमुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रम् इति । पुत्रभ्रातृसपिण्डाः संविशन्ति । अनवेक्षमाणास्तीर्थमायान्ति । राजपुरुषो वा तानसगोत्रो वा पर्णशाखया शमीशाखयौदुम्बरशाखया वारयति मा तरत इति । न पुनरागमिष्यामह इत्युक्त्वातुरव्यञ्जनानि कृत्वा केशान संप्रकीर्य पांसूनोप्यैकवाससोऽहतवाससो वा दक्षिणामुखाः सकृदुन्मज्ज्योत्तीर्य सव्यं जानुं भूमौ निधाय वासः पीडयित्वोत्थायाञ्जलिनोदकमादाय तिलमिश्रा अपस्तं प्रति असावेतत्त उदकम् इति एवं द्वितीयं तृतीयं च कृत्वा अथाप्रतीक्षा ग्राममायान्ति । कनिष्ठप्रथमाः पिपीलिका यान्ति । निवेशनद्वारे निम्बपत्रं प्राश्याप आचम्य गोमयं हिरण्यमपोऽग्निं सर्षपांस्तैर्लामत्युपस्पृश्य शिरः प्राणान् संमृश्याश्मानमाक्रम्य गृहं प्रविश्य यत् स्त्रिय आहुस्तत् कुर्वन्ति । यत्र प्राणा उत्क्रान्ता भवन्ति तस्मिन् गोमयेनोपलिप्य वत्सं प्रतिष्ठाप्य तिलतण्डुलान्युदकमिश्राणि संप्रकीर्य स्वस्त्यस्तु गृहाणां शेषे शिवमास्ताम् इति पवनं कृत्वापक्वाशी स्त्रिया अत ऊर्ध्वं ब्रह्मचर्यमा दशरात्रात् । सायंप्रातः सकृदुदकमुत्सिच्य दशमेऽहनि त्रिरुदकमुत्सिच्य दशम्यां विकृताहारम् ४

अथातोऽस्थिसंचयनं व्याख्यास्यामः । अनिवृत्तेऽग्नौकरणे द्व्यहे त्र्यहे चतुरहे पञ्चाहे सप्ताहे वा नवकुम्भमादाय श्मशानं नीत्वा पालाशशङ्कुना शमीशङ्कुनौदुम्बरशङ्कुना वाङ्गुष्ठोपकनिष्ठिकाभ्यां वा सर्वाभिरङ्गुलीभिर्वास्थीनि समुदायुत्य क्षीरेण प्लावयित्वा घृतं निनयेद् इदं त आत्मनः शरीरमयं त आत्मा आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनद्मि भूर्भुवःस्वरसौ स्वर्गाय लोकाय स्वाहा इति । अथ यदि न दहेयुरुल्मुकमादाय पुनर्दहेद् अस्मात्त्वमधिजातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय स्वर्गाय लोकाय स्वाहा इति । अथास्थ्यादाय नदीतीरेषु वा समुद्रतीरेषु वापाहरेयुः । अपि वा गजसम्मितं पुरुषसम्मितं वा गर्तं खात्वास्थिकुम्भमवधाय पुनरभ्यज्य पुरीषेण पूरयेत् यवदेव तद् भवति तावत् स्वर्गे लोके महीयते इति ५ अथातोदहनविधिः अथाज्यानिगृह्णीते यद्याहिताग्निर्भवति अथास्मा अध्वर्युः अथातोऽस्थिसंचयनं पञ्च । इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने चतुर्थोऽध्यायः

पञ्चमोऽध्यायःसम्पाद्यताम्

अथ यद्याहिताग्निर्निर्मारं गच्छति उपतपता वा जरया वा अग्निष्ठ एवास्य यजमानायतने शयनं कल्पयेयुर्जघनेन वा गार्हपत्यम् । तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते । स यद्युहागदो भवति पुनरेति । यद्यु वै प्रैति न पयः समासिञ्चति । अथेदमग्निहोत्रं सायमुपक्रमं प्रातरपवर्गमाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि सायंहुतेऽग्निहोत्रे प्रेयात् प्रतिकृष्य प्रातरग्निहोत्रं जुहुयात् । अथ यदि प्रातरग्निहोत्रे हुते कुशलम् । अथेमौ दर्शपूर्णमासौ पौर्णमास्यमावास्यासंस्थावाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि पौर्णमास्यां वृत्तायां प्रेयात् प्रतिकृष्यामावास्यां यजेतेति । अथ यद्यमावास्यायां वृत्तायां कुशलम् । अथ यस्योभे पर्वणी अतिपन्ने स्याताम् अतिपन्नप्रायश्चित्तं कुर्वीत । अथ यद्यार्तस्याग्निहोत्रं विच्छिद्येत यद्यस्य पुत्रो वान्तेवासी वालं कर्मण्यः स्यात् सोऽरण्योरग्निं समारोप्योदवसाय मथित्वाग्नीन्विहृत्याग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति । शरावं दक्षिणां ददाति । सा प्रसिद्धेष्टिः सन्तिष्ठते । दिवि प्रक्रान्ते प्रेयात् तूष्णीमेतत् तन्त्रम् संस्थाप्यापोभक्षानभ्यवहरेयुः । अपोभक्षानभ्यवहरन्ति इति विज्ञायते । अथैनमादायान्तरेण वेद्युत्करावुदङ्मुखमुपनिर्हृत्याथैनं परिश्रयन्ति । तस्य दक्षिणा द्वारं कुर्वन्ति । अथास्य केशश्मश्रूणि वापयित्वा लोमानि संहृत्य नखानि निकृन्तयीत । अथास्य दक्षिणं कुक्षिमुपाकृष्य निस्पुरीषं कृत्वाद्भिः प्रक्षाळ्य सर्पिषान्त्राणि पूरयित्वा दर्भैः संसीव्यति । तदु तथा न कुर्यात् क्षोधुका अस्य प्रजा भवन्ति इति विज्ञायते । अपिवा सपुरीषमेवाप्लाव्याच्छाद्यालङ्कृत्याथैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हपत्यमुपसादयन्त्यत्र हविर्निरुप्यत इति । अथैनम् आदायान्तर्वेदि प्राक्च्छिरसमासादयन्त्यत्र हविरासाद्यत इति । अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीयेऽधास्य दक्षिणं बाहुमन्वारभ्य जुहोति १

परेयुवांसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्यत स्वाहा इति । एतेनैव गार्हपत्ये जुहोति । तूष्णीमन्वाहार्यपचने हुत्वाथैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हपत्यमासन्द्यां कृष्णाजिने दक्षिणाशिरसं संवेश्य शिरस्तो नळदमालां प्रतिमुच्य पत्तोदशेनाहतेन वाससा प्रोर्णोति इदं त्वा वस्त्रं प्रथमं न्वागन् इति अथैतदपोहति अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा विबन्धुषु इति । तदस्य पुत्रो वान्तेवासी वा पत्नी वा परिदधीत । तदु हाजरसमेव वसीताहश्शेषं वा । अथ त्रीञ्छकलानुपकल्पयते । अथ यदि न शकला भवन्ति अन्तर्वेदि परागवहतानां कृष्णानां व्रीहीणाम् अन्वाहार्यपचने त्रीन् चरून् श्रपयत्येकं वा । गार्हपत्य आमिक्षां श्रपयति । अथैनान् संभारानुपकल्पयते दधि च सर्पिर्मिश्रमाज्यं चोदकुम्भं च दर्भाश्च परिस्तरणीयान् हिरण्यं चाजं च शासं चेडसूनं च कुम्भीं च प्रच्यावनीं सिकताश्च शुल्बे च तिस्रः पर्णशाखाश्च । कथमु खल्वेनं दहेयुः इति । यो बहुयाजी स्यात् तं पूर्वाग्निना दहेयुरित्येतदेकम् । अजस्रैरेनं दहेयुरित्येतदेकम् । निर्मन्थ्यैरेनं दहेयुरित्येतदेकम् । अपिवा तिस्र उलपराजीरादीप्य यत्राग्नयः संगच्छेरन् तत्रोल्मुकमादाय तेनैनं दहेयुरित्येतदेकमपरम् २

अथातोऽनुस्तरणीकल्पः । आनयन्त्येतां कृष्णां कूटां जरतीं मूर्खां तज्जघन्यामनुस्तरणीं प्रतिबद्धाम् । सव्यप्रतिबद्धा भवति इति विज्ञायते । एतस्मिन् कालेऽस्यामात्याः प्रकीर्णकेशास्तिसृभिरङ्गुलीभिः उपहत्य पांसूनंसेष्वावपन्ते खल्वघं नास्य खल्वो एवाघम् इति । अथास्य भार्याः कनिष्ठप्रथमाः प्रकीर्णकेश्यो व्रजेयुः पांसूनंसेष्वावपमानाः खल्वघं नास्य खल्वो एवाघम् इति । एतस्मिन् काले गार्हपत्ये पालाशं काष्ठमातप्याथोल्मुकप्रथमाः प्रतिपद्यन्ते । स्वधितिरथाग्नयोऽथ पात्राणि दध्याज्यं दर्भा राजगवीति । अथैनमेतयासन्द्या तल्पेन वा कटेन वा संवेष्ट्य दासाः प्रवयसो वा वहेयुः । अथैनमनसा वहन्ति इत्येकेषाम् । अनश्चेद् युञ्ज्याद् इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनं सुकृतां चापि गच्छतात् इति समारोप्याग्नीन् हरन्ति । समारोप्य वान्तरेण वा कृत्वाग्नीन् हरन्ति ३

अथैनमाददते । आदीयमानमनुमन्त्रयते पूषा त्वेतश्च्यावयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददात् पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः इति । तृतीयमेतस्याध्वनो गत्वा निदधति । अथैतेषां शकलानामेकमशस्त्रेण प्लक्ष्णोति । अथ यदि न शकला भवन्ति चरुं मेक्षणेन प्रयौति । अथवा एक एव स भवति चरोस्तृतीयं मेक्षणेन प्रयौति । लोष्टानुपसंहृत्य तेषूपमृज्य कनिष्ठप्रथमाः प्रकीर्णकेशास्त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्तः । एवममात्या एवं स्त्रियः संयम्य केशान् यथेतं त्रिः पुनः परियन्ति । अथैनमाददते । आदीयमानमनुमन्त्रयते पूषेमा आशा अनुवेद सर्वाः सो अस्माँ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयृच्छन् पुर एतु प्रविद्वान् इति । अर्धमेतस्याध्वनो गत्वा निदधति । अथैतेषां शकलानामेकमशस्त्रेण प्लक्ष्णोति । अथ यदि न शकला भवन्ति चरुं मेक्षणेन प्रयौति । लोष्टानुपसंहृत्य तेषूपमृज्य कनिष्ठप्रथमाः प्रकीर्णकेशास्त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्तः । एवममात्या एवं स्त्रियः संयम्य केशान् यथेतं त्रिः पुनः परियन्ति । अथैनमाददते । आदीयमानमनुमन्त्रयते आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु इति । समस्तमेतस्याध्वनो गत्वा निदधति । अथैतेषां शकलानामेकमशस्त्रेण प्लक्ष्णोति । अथ यदि शकला न भवन्ति चरुं मेक्षणेन प्रयौति । यद्यु वा एक एव भवति चरोरवशिष्टं मेक्षणेन प्रयौति । लोष्टानुपसंहृत्य तेषूपमृज्य कनिष्ठप्रथमाः प्रकीर्णकेशाः त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्तः । एवममात्या एवं स्त्रियः संयम्य केशान् यथेतं त्रिः पुनः परियन्ति । अथैतां चरुस्थालीं सुभिन्नां भिनत्ति यथास्यै कपालेषूदकं न तिष्ठेदिति । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ४ अथास्यावकाशं जोषयते । पश्चादुदकमनूषरमनुपहतमस्रुतहार्यमनिरिणमभङ्गुरमवल्मीकमजागर्तिबहुलौषधि यत्र क्षीरिणो वृक्षा ओषधयो व्यतिषक्ताः स्युः यस्माद् दक्षिणाप्रतीच्य आपः शनैः प्रतिष्ठेरन् ताः प्रदक्षिणमभिपर्यावृत्य महानदीमभ्युपेत्य प्राच्यः संपद्येरन् । दक्षिणाप्रत्यक्प्रवणमित्येकेषाम् । अपिवा या समा सुभूमिः । तस्माद्वीरुध उद्धारयन्ति । काळां च पृश्नोपणीं च तिल्वकां चापाघां चापामार्गं च शुण्ठीं च बहुपुत्रीं च विस्रंसिनीकां च राजक्षपणीं च याश्चान्या क्षीरिण्य ओषधयो भवन्ति । अथैनमुद्धत्यावोक्ष्य हिरण्येन परिक्रीय पर्णशाखयापोहति अपेत वीत वि च सर्पतात इति । दारुचितां कुर्वन्ति दक्षिणाप्राचीम् एषा हि पितृणां प्राची दिग् इति विज्ञायते । जघनेन चितां दक्षिणाप्राचीं विहारं कल्पयित्वा दर्भैरग्निं प्रेतं चितां च परिस्तीर्य दक्षिणेन विहारं दक्षिणाग्नान् दर्भान् संस्तीर्य तेष्वेकैकशो न्यञ्चि पात्राणि सादयति । एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य प्रेतं चितां चाज्यं निरुप्याधिश्रित्य पर्यग्निकृत्वोद्वास्योत्पूय तूष्णीं दर्भैः पात्राणि संमृज्य तूष्णीं तूष्णीं दार्शपूर्णमासिकाज्यानि गृहीत्वा ५

अथास्य राजगवीमुपाकरोति भुवनस्य पते इति । तस्यां निपद्यमानायां सव्यानि जानून्युपनिघ्नते पुरुषस्य सयावर्यपेदघानि मृज्महे । यथा नो अत्र नापरः पुरा जरस आयति इति । तामत्रैव शस्त्राद् घ्नन्ति । अथैतस्यै प्राणान् विस्रस्यमानाननुमन्त्रयते पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् । शरीरेण महीमिहि स्वध एहि पितॄनुप प्रजयास्मानिहावह इति । उपोत्थाय पांसूनमवमृशन्ते मैवं मांस्ता प्रियेऽहं देवी सती पितृलोकं यदैषि । विश्ववारा नभसा सं व्ययन्त्युभौ नो लोकौ पयसाभ्याववृत्स्व इति । अथैनं संशास्ति अङ्गादङ्गादनस्थिकानि पिशितानि प्रच्छिद्यासंश्रावयन्तोऽप्रच्यावयन्त एकोल्मुकेन श्रपयन्तः प्रज्ञातां वपां निधत्त प्रज्ञातं हृदयं प्रज्ञातां जिह्वां प्रज्ञातं चर्म सशीर्षवालपादं प्रज्ञाते च मतस्रे प्रज्ञातं मेद इति । अथास्य भार्यामुपसंवेशयति इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्यप्रेतम् । विश्वं पुराणमनु पालयन्ती तस्यै प्रजां द्रविणं चेह धेहि इति । तां पतिहितः सव्ये पाणौ गृहीत्वोत्थापयति उदीर्ष्व नार्यभि जीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वमेतत् पत्युर्जनित्वमभि संबभूव इति । अथास्य स्वर्णेन हस्तौ निमृजते स्वर्णे हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति ब्राह्मणस्य धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्रायौजसे बलाय । अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति राजन्यस्य मणिं हस्तादाददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति वैश्यस्य । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति । अथैनमेतयासन्द्या सह चितावादधाति । अपकृष्य रज्जूरासन्दीमपविध्यन्ति । कृष्णाजिने चैव रज्जुषु चोत्तानः शेते । तस्य प्राणेषु हिरण्यशकलान् प्रत्यस्यति । नाना चतुर्गृहीताभ्यामक्ष्णोर्जुहोति चित्रं देवानामुदगादनीकम् इत्यर्धर्चाभ्यां जुहोतीति विज्ञायते ६

कथमु खल्वस्य पात्राणि युञ्ज्यादिति । दध्ना सर्पिर्मिश्रेण पूरयित्वा मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवौ अक्ष्णोः हिरण्यशकलौ आज्यस्रुवौ वा कर्णयोः प्राशित्रहरणं भित्त्वैकैकं हन्वोरुलूखलमुसले शिरसि कपालानि ललाटे एककपालं शिरस्तः प्रणीताप्रणयनं चमसं निदधाति इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सौम्यानाम् । एष यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् इति । दक्षिणे हस्ते जुहूं सव्ये उपभृतमुरसि ध्रुवामुपवेषमरणीं च दक्षिणे अंसे मेक्षणं सव्ये पिष्टोद्वपनीं पृष्ठे स्फ्यमुदरे दारुपात्रीं कुक्षौ चमसौ सान्नाय्यपिधानं चेडोपवहनं च वङ्क्ष्णयोः सान्नाय्यकुम्भ्यौ पादयोरग्निहोत्रस्थालीमन्वाहार्यस्थालीं चोर्वोरुलूखलमुसले अण्डयोर्दृषदुपले शिश्ने वृषारवं शम्यां च पार्श्वयोः शूर्पं छित्त्वैकैकं शिरस्त उपसादनीयं कूर्चं निदधाति । पत्त उपावहरणीयं कूर्चम् । अथावशिष्टान्यन्तरेण सक्थिनी निवपेयुः । अपो मृण्मयान्यभ्यवहरेयुः । अपो मृण्मयान्यभ्यवहरन्ति इति विज्ञायते । अत्रैवोपनिदध्युः । ब्राह्मणेभ्योऽयस्मयानि लोहमयानि च दद्युः । तेषां यान्यासेचनवन्ति तानि दध्ना सर्पिर्मिश्रेण पूरयेत् । संस्पृशेदितराणि । अरिक्तानि भवन्ति इति विज्ञायते । अत्रैवाध्यस्यन्त्युपवाजिनं खारीं नल्वम् । अथास्याद्मिक्षामुद्धृत्य पाण्योरादध्यात् मित्रावरुणाभ्यां त्वा इति । अथास्य मतस्नामुल्लिख्य पाण्योरादध्यात् श्यामशबळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यं हृदये हृदयमास्ये जिह्वां यथाङ्गमङ्गैरितराणि संप्रच्छाद्य वपयास्य मुखं प्रच्छादयति । मेदसा स्रुचौ प्रोर्णोति इति विज्ञायते । अथैनं चर्मणा सशीर्षवालपादेनोत्तरलोम्ना प्रर्णोति अग्नेर्वर्म परिगोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन् पर्यङ्खयातै इति ७ अथ यद्यनुस्तरणीं नानुस्तरिष्यन्तो भवन्त्युत्सृजेद्वैनाम् । ब्राह्मणेभ्यो वा दद्यात् । दत्त्वात्रैव श्रेयसे भवन्ति इति विज्ञायते । अथ यद्युत्स्रक्ष्यन् भवति तामपसलैः पर्याणयति अपश्याम युवतिमाचरन्तीम् इति तिसृभिस्त्रिः पर्याणीयोत्तरतः प्रतिष्ठितामनुमन्त्रयते ये जीवा ये च मृता इत्येतया । अथास्याः कर्णलोमान्युत्पाट्य पाण्योरेवादध्यात् श्यामशवळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यम् । अथैनामुत्सृजति माता रुद्राणां दुहिता वसूनां स्वसातित्यानाम् अमृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत इति । अथैनमुपोषयति पुरस्तादाहवनीयेन दक्षिणतोऽन्वाहार्यपचनेन पश्चाद् गार्हपत्येनोत्तरतः सभ्यावसक्थ्याभ्याम् । अत्राप्युत्प्रेक्षा भवन्ति । तं यद्याहवनीयः प्रथममभ्युज्ज्वलेद् देवलोकमभ्यजैषीदित्येनं जानीयात् । अथ यद्यन्वाहार्यपचनः पितृलोकम् । अथ यदि गार्हपत्यः स्वर्गलोकम् । अथ यदि सभ्यावसक्थौ सप्तर्षीणां लोकम् । अथ यदि सर्व एव सहाभ्युज्ज्वलेद् ब्रह्मलोकमभ्यजैषीद् इत्येनं जानीयात् । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ८

अथयद्याहिताग्निः परेयुवांसम् अथातोऽनुस्तरणीकल्पः अथैनमाददतेआदीयमानमनुमन्त्रयते अथास्यावकाशंजोषयते अथास्यराजगवीमुपाकरोति कथमुखल्वस्यपात्रा णियुञ्ज्यात् अथयद्यनुस्तरणीम् अष्टौ । इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने पञ्चमोऽध्यायः

षष्ठोऽध्यायःसम्पाद्यताम्

अथैनमादीपयते । आदीप्यमानमनुमन्त्रयते मैनमग्ने विदहो माभिशोचो मास्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोऽथेमेनं प्रहिणुतात् पितृभ्यः इति । प्रज्वलितमनुमन्त्रयते शृतं यदा करसि जातवेदोऽथेमेनं परिदत्तात् पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति इति । अत्र षड्ढोतारं व्याचष्टे सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति । अत्रैनमजं चित्यन्तेऽबलेन शुल्बेन बध्नाति अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमं सुकृतां यत्र लोकाः इति । स यद्यहो द्रवति नैनमावर्तयति । प्रागु हैक उपोषणात् । उदकुम्भेन त्रिरपसलैः परियन्ति वारुणीभिः । तत्प्रच्छाद्येन पर्णमयेन स्रुवेणोपघातं जुहोति य एतस्य पथो गोप्तारस्तेभ्यः स्वाहा इति नव स्रुवाहुतीः । अथान्यां जुहोति अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककुज्जातवेदो वहेमं सुकृतां यत्र लोकाः स्वाहा इति । अत्रैव स्रुवमनु प्रहरति । अत्रैतान्यवदानानीडमूने प्रच्छाद्यौदुम्बर्या दर्व्योपघातं जुहोति अग्नये रयिमते स्वाहा इति । अत्रैव दर्वीमनुप्रहरति जघनेन चिताम् । अथैनं नवर्चेन याम्येन सूक्तेनोपतिष्ठते प्रकेतुना बृहता भात्यग्निः इति । आसीनः पराचानुशंसति । जघनेन दहनं तिस्रो दक्षिणाः कर्षूः कुर्वन्ति । अथैना अद्भिरनुप्लाव्य सिकताभिरवकीर्य संगाहन्ते यवीयान् यवीयान् पूर्वः संगाहन्ते । अश्मन्वती रेवतीः संरभध्वमुत्तिष्ठत प्रतरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान् वयमभि वाजानुत्तरेम इति । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्ति यद्वै देवस्य सवितुः पवित्रं सहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै तेनाहं मां सर्वतनुं पुनामि इति । जघन्यो व्युदस्यति या राष्ट्रात् पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः । धातुस्ताः सर्वाः पवनेन पूताः प्रजयास्मान् रय्या वर्चसा संसृजाथ इति । यत्रापस्तद्यन्त्यनवेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिकाः प्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याचम्यादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति १

एतस्मिन् कालेऽस्यामात्याः प्रकीर्णकेशाः केशश्मश्रूणि वापयन्ते ये सन्निधाने भवन्ति । विकल्प इतरेषु । वापयेरन् निवर्तयेरन्वा । श्रुतवता तु वप्तव्यमेवासन्निधानेऽपीति मतं बोधायनस्य कल्पे । न समावृत्ता वपेरन्नन्यत्र विहारादित्येके । मातरि पितर्याचार्य इति त्रिरात्रं क्षारलवणवर्जितभोजनमधःशयनं ब्रह्मचर्यं त्र्यहं षडहं द्वादशाहं संवत्सरं यावद्ग्रहणं द्वादशाहापरार्धम् परमगुरुष्वेवमघोदकम् इतरेषु त्रिरात्रम् यावज्जीवं प्रेतपत्नी । अथ यद्याहिताग्निरन्यत्र प्रेयादादीप्यमानैराहूयमानैर्वसीरन् यावदस्य शरीरमग्निभिः समागमयेरन् । अथैतदभिवान्यायै पयो दोहयित्वा गार्हपत्ये ऽभिविष्यन्दयित्वाहवनीयेऽभिविष्यन्दयेत् । अधस्तात् समिधमाहरन्त्युपरिष्टाद्धि देवेभ्यो हरन्ति इति विज्ञायते । अथैनमादायान्तरेण वेद्युत्करावुदगुपनिर्हृत्य प्रसिद्धमुपोषेयुः । अथ यद्याहिताग्निरन्यत्र प्रेयादुदकान्ते त्रीनग्न्यगारानालिख्य सकृत् प्रविश्य निमील्य निगृह्य स्कन्दक्षिणान्तानादित्यमुदीक्षेत् । परिकुर्वीत च । अनेनैव त्रिर्विदेशस्थे । अथ यदि दग्धः स्यादस्थीन्याहृत्यान्तर्वेदि शरीराणां कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुः । अथ यद्यस्थीनि न विन्देत त्रयाणां षष्टिशतानां पर्णत्सरूणामेव कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुः । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च इति विज्ञायते । पुरुषाहुतिर्ह्यस्य प्रियतमा इत्येतामनुख्यातां दहनस्य ब्रुवते । अथाप्युदाहरन्ति शरीरदायादा ह वाग्नयो भवन्ति इति । तदपि दाशतये विज्ञायते शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः इति २

अथातः संचयनम् । एकस्यां व्युष्टायां तिसृषु वा पञ्चसु वा सप्तसु वा नधस्वेकादशसु वायुग्मेष्वहस्सु अर्धमासेषु मासेषु ऋतुषु संवत्सरेषु वा सम्पाद्य सञ्चिनुयुरिति । स उपकल्पयते सतं च क्षीरं चाज्यं च उदकुम्भं च दर्भांश्च परिस्तरणीयान् नीललोहिते सूत्रे बृहतीफलं चाश्मानं चापामार्गं च वैतसशाखां च सिकताश्च शुल्बे च तिस्रश्च पर्णशाखाश्च । अत एव दहनादङ्गारान्निर्वर्त्य तिस्रो अवसर्जनीया जुहोति अवसृज पुनरग्ने पितृभ्यः संगच्छस्व पितृभिः यत्ते कृष्णः शकुन आतुतोद इति । एतस्मिन् सते क्षीरं चोदकुम्भं च निक्षिप्य वैतसशाखयावोक्ष्य सम्पादयत्यप्रकाथयन् शरीराणि यं ते अग्निममन्थाम इति षड्भिः । प्रथमां वोत्तमां द्विरभ्यावर्तयेयुः । अथैतदादहनमुदकुम्भैः स्ववोक्षितमवोक्ष्य या अस्य स्त्रीणां मुख्या सा सव्ये पाणौ बृहतीफलं नीललोहिताभ्यां मूत्राभ्यां विश्रथ्याश्मानमन्वास्थायापामार्गेण सकृदुपमृज्यानन्वीक्षमाणा पत्तः शिरस्तो वास्थीनि गृह्णाति उत्तिष्ठातस्तनुवं संभरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु इति । इदं त एकम् इति द्वितीयम् । पर ऊत एकम् इति तृतीयम् । तृतीयेन ज्योतिषा संविशस्व इति चतुर्थम् । संवेशनस्तनुवै चारुरेधि इति पञ्चमम् । प्रियो देवानां परमे सधस्थे इति षष्ठम् । अथैनं सुसञ्चितं संचित्य पिण्डीकरोति । तं तथा करोति यथास्य कपोतः छायायां नोपविशेदिति । अथैनम् अपरिमितैः क्षुद्रमिश्रैरश्मभिः परिचिनोति न तेन परिचिनुयाद् यथास्य कपोतः छायायामुपविशेत् । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कुम्भे वा सते वा कृत्वोपोत्तिष्ठति उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् इति । संप्रवेशं कुम्भं निधाय अथातो हविर्यज्ञियं निवपनम् यं कामयेतानन्तलोकः स्यात् इति । तमस्या उद्धते सिकतोपोप्ते परिश्रिते निदधाति पृथिव्यास्त्वा अक्षित्या अपामोषधीनां रसे स्वर्गे लोके नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुमसौ इति । अनन्तलोको हवै भवति इति विज्ञायते । जघनेन कुम्भं तिस्रो दक्षिणाः कर्षूः कुर्वन्ति । तत् पुरस्ताद् व्याख्यातम् । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्ति । तत् पुरस्तात् व्याख्यातम् । यत्रापस्तद्यन्त्यनवेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिकाः प्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याचम्याथादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यश्चात्र स्त्रिय आहुस्तत् कुर्वन्ति ३ अथ यदि पुनर्धक्ष्यन्तो भवन्ति पुरस्तादेवावशेषयेयुर्जुहूं चारणीं च कृष्णाजिनं दृषदुपले शम्यामिति । अथ यद्यनुहृताः स्युर्यस्यकस्यचिदश्वत्थस्यारणी गृहीत्वा मथित्वाग्निमुपसमाधाय परिस्तीर्य कृष्णाजिने शम्यायां दृषदुपले युक्त्वास्थीन्येवाञ्जनं पिष्ट्वा पुराणेन सर्पिषा समुदायुत्य जुह्वा प्रसेकं जुहोति अस्मात्त्वमधिजातोऽस्मयं त्वदधिजायताम् । अग्नये वैश्वानराय स्वर्गाय लोकाय स्वाहा इति । अत्रैवानुप्रहरति जुहूं चारणीं च कृष्णाजिनं दृषदुपले शम्यामिति । अत्राप्युत्प्रेक्षा भवन्ति । तं यदि ज्वालोर्ध्वमभ्युज्ज्वलेद् देवलोकमभ्यजैषीदित्येनं जानीयाद् अथ यदि मुहूर्तमुदेत्य वा भ्रमेदन्तरिक्षमभ्यजैषीदित्येनं जानीयाद् अथ यदीमामनुविनमेदिहैवेत्येनं जानीयात् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति । न चास्यात ऊर्ध्वं श्मशानं कर्तुमाद्रियेत । कृतीर्वास्य दहने वपेदपस्याभिर्वा परिचिनुयात् । तमभ्येवादित्यस्तपति अभि वा वातः पवते स नादित्यस्य सकाशान्न वायोर्नापां स्पर्शाच्छिद्यते । यमेवं निदध्युर्य उ चैनमेवं विदुरेवमु हाहीना हायना वाश्वत्थं निदध्युस्तं हो एवं चक्रे तस्यो हेमेऽहीना हायना श्रेयसी श्रेयसी ह्यस्मै वस्यसी वस्यसी प्रजा भवति । यमेवं निदध्युर्य उ चैनमेवं विदुरेतां ह कौषीतकिर्विदांचकार । तस्यो हेमे कौषीतकिनः श्रेयसी श्रेयसी ह्यस्मै व्युच्छन्ती व्युच्छन्त्यस्मै वस्यसी वस्यसी प्रजा भवति यमेवं निदध्युर्य उ चैनमेवं विदुर्य उ चैनमेवं विदुः ४ अथैनमादीपयते आदीप्यमानमनुमन्त्रयते एतस्मिन्काले अस्यामात्या अथातः संचयनम् अथयदिपुनर्धक्ष्यन्तः चत्वारि । इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने षष्ठोऽध्यायः

सप्तमोऽध्यायःसम्पाद्यताम्

अथ गृहानेष्यन्नुपकल्पयते वारणं स्रुचं च स्रुवं च वारणान् परिधीन् कुशमयं बर्हिः पर्णमयमिध्मं रोहितं चर्मानडुहं नवं च सर्पिराञ्जनं चाश्मानं चानड्वाहं च शमीशाखां च कुशतरुणकानि च दर्भस्तम्भं चाजं च यवांश्च इति । अथान्तरेण ग्रामं च श्मशानं च तद्वृधाग्निमुपसमाधाय कृशमयं बर्हिस्तीर्त्वा वारणान् परिधीन् परिधाय पर्णमयमिध्ममभ्यज्य स्वाहाकारेणाभ्याधायाथैतद्रोहितं चर्मानडुहं जघनेनाग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति । तदारोहन्ति यावन्तोऽस्य ज्ञातयो भवन्ति आरोहतायुर्जरसं गृणाना अनुपूर्वं यतमानाय तिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दिर्घमायुः करतु जीवसे व इति । अथैनाननुपूर्वं कल्पयन्ति यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति कॢप्ताः । यथा न पूर्वमपरो जहात्येवा धातरायूँषि कल्पयैषाम् इति । अथ वारणेन स्रुवेण वारण्यां स्रुचि चतुर्गृहीत्वा जुहोति न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति ते जनं पुनर्जरायुगौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघं मृत्यवे स्वाहा इति । अथ वारणेन स्रुवेणोपघातं जुहोति अप नः शोशुचदघम् इति द्वादश स्रुवाहुतीः । अथोपोत्थाय अनुड्वाहमन्वारभन्ते अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः संपारणो भव इति । प्राञ्चो यान्ति इमे जीवा विमृतैराववर्तिन्नभूद् भद्रा देवहूतिं नो अद्य । प्राञ्चो गामानृतये हसाय द्राघीय आयुः प्रतरां दधानाः । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः इति १ अथान्तरेनाग्निं च ग्रामं चाश्मानमवदधाति इमं जीवेभ्यः परिधिं दधामि मा नोऽनुगादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दद्महे पर्वतेन इति । अथैताः पत्नयो नवेन सर्पिषा संमृशन्ते इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संमृशन्ताम् इति । कुशतरुणकैः त्रैककुदेनाञ्जनेनाङ्क्ते यदाञ्जनं त्रैककुदं जातं हिमवतस्परि । तेनामृतस्य मूलेनारातीर्जम्भयामसि इति । अथैतानि कुशतरुणकानि समुच्चित्य दर्भस्तम्बे निदधाति । यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि । एवमिम उद्भिन्दन्तु कीर्त्त्या यशसा ब्रह्मवर्चसेन इति । प्रत्येत्य गृहानासन्दीं प्रेष्ठनीत्यारोहन्ति अनश्रवो अनमीवाः सुशेवा आरोहन्तु जनयो योनिमग्रे इति । अजं चैतदहः पचन्ते । यवौदनं च । अजं चाश्नाति । अजोऽस्यजास्मदधाद् द्वेषाँसि इति । यवौदनस्य प्राश्नाति । यवोऽसि यवयास्मदघाद् द्वेषाँसि इति । अथास्य श्राद्धं कुर्वन्ति । एकस्यां वा व्युष्टायां तिसृषु वा पञ्चसु वा सप्तसु वा नवसु वैकादशसु वायुग्मेष्वहस्सु अर्धमासेषु वा दद्यात् । काममहरहरेकादशमासान् दद्यात् । न द्वादशमासमभ्यारोहयेत् । संवत्सरे संवत्सरे वा एतस्मिन्नहनि दद्यात् । स एष एवं विहितः । एवमनाहिताग्नेः स्त्रियाः पुल्लिङ्गाः पात्रचयेष्टकाः केशवपनवर्जं पितुर्मातुराचार्यस्य वा क्रियेत । सहस्रदक्षिणो वाप्यन्यत्र । सन्तिष्ठते पितृमेधः सन्तिष्ठते पितृमेधः २

यथो एतदाहिताग्नेर्निर्मारं गच्छतः प्रतिकृष्य प्रातरग्निहोत्रं जुहुयात् प्रतिकृष्यामावास्यां यजेतेति । तयैते कर्मणी अभिसञ्चरेद्यथा वा जीवतः कृते स्याताम् । सो चेदहुते प्रातरग्निहोत्रेऽव्युष्टायाममावास्यायां प्रेयात् तदानीमेवास्य तूष्णीं प्रातरग्निहोत्रं यादृक् कीदृक् च होतव्यं तदानीमेवास्य तूष्णीममावास्यायां यादृशीं कीदृशीं वा यजेत । सो चेत् पुनरगदः स्यात् पुनरेवास्य प्रातरग्निहोत्रं काल्यमव्यापन्नं होतव्यम् । पुनरेवास्याममावास्यायां काल्यामव्यापन्नां यजेतेति । यथो एतन्न पयः समासिञ्चत्यामिक्षार्थं पयोऽवशेषयेदित्येवेदमुक्तं भवति । यथो एतदासन्द्यामित्येवेदमुक्तं भवति । यथो एतदन्तर्वेदि शरीराणां कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुरिति विज्ञायते । पात्रचयनप्रभृति सिद्धमत ऊर्ध्वम् । एतावदेव नाना नात्र गोरालम्भोऽनुस्तरणीकाले कुशतरुणकैः शुष्कमोमयैर्घृतेनेत्यनुस्तृणीयाद् अग्नेर्वर्म परि गोभिर्व्ययस्व इत्येतदेव पर्णत्सरुषु । अपि वा यथेष्टिकल्पे । अपि वा तूष्णीमेव सर्वं क्रियेतान्यत्र चैव गोरालम्भादिति । अथ वै भवति । प्रजापतिः प्रजाः सृष्ट्वा वृत्तोऽशयत् । तं देवा ब्राह्मणं रसं तेजस्सम्भृत्य तेनैनमभिषज्यन्निति । चतुर्होतारमित्येवं ब्रूयात् । तस्य सग्रहैः होतृभिर्होमः भर्तुः सूक्तेन भरणं पत्नीभिरुपसंवेशनं दक्षिणाप्रतिग्रहैर्निर्मार्गो हृदयैर्हिरण्यशकलान् सम्भारैश्च पात्रचयो व्योतिष्यतीभिरुपोषणं नारायणाभ्यां ब्राह्मण एकहोता इति चोपस्थानं प्रयासाय स्वाहा इत्याज्याहुतीः चित्तं सन्तानेन इति पिशितहोमो मृत्युसूक्तेनानुशंसनं सौम्यया संगाहनम् ईयुष्ट्यावगाहनं सौर्येणादित्यस्योपस्थानमिति । तानेतान् परं ब्रह्मेत्याचक्षते । तान्न साधारणे श्मशाने प्रयुञ्जीत नानाचार्याय नाश्रोत्रियाय नागुरवे । पथो एतद्धविर्यज्ञियं निवपनं पुनर्दहनं चेति यदहः संचिनुयात् तदहरेवैतत् कुर्यात् । कुम्भान्तमनाहिताग्नेश्च स्त्रियाश्च । निवपनान्तं हविर्यशयाजिनः पुनर्दहनान्तं सोमयाजिनः चित्यन्तमग्निचितः । यदीतरं यदौतरमघोदकमुत्सिच्य दशरात्रमाशौचं कृत्वा शान्तिः । अथ यदि चितिश्चित्यन्ते शौचम् । चित्याः प्राक् कर्षूभ्यः कृत्वा श्वोभूते धुवनेनैव प्रतिपद्यते । सिद्धमत ऊर्ध्वम् ३

अथैतेषामुदकसपिण्डानां वान्धवानां मातुश्च योनिसम्बन्धेभ्यः पितुश्च सप्तमात् पुरुषादाचार्यान्तेवासिनोश्च सपत्नीकानां सापत्यानां सपिण्डानां दशरात्रम् । त्रिरात्रमितरेषाम् । बाले देशान्तरस्ये च सद्यः शौचमित्येके । एवं नित्योदकतर्पणेऽनुस्मरणं स्त्रीयाज्यशिष्याणाम् । न प्राक् चौळात् प्रमीतानां दहनं विद्यते । आपशुयाजिनां गोरालम्भः नासन्नयतामामिक्षा नाग्निचितां चितिः । न स्त्रीणां केशवपनं विद्यते न चितिर्नेष्टका न पुनर्दाहः । दारुवत् स्त्रीणां पात्राणि भवन्ति । बह्वृचां पितृमेधे स्त्रीणामिमान् मन्त्रानपोद्धरेत् । इयं नारी पतिलोकम् उदीर्ष्व नार्यभि जीवलोकं स्वर्णं हस्तादाददाना मृतस्य धनुर्हस्तादाददाना मृतस्य मणिं हस्तादाददाना मृतस्य मैनमग्ने विदहो माभिशोचः मृतं यदा करसि जातवेदः अजो भागस्तपसा तं तपस्व अयं वै त्वमस्मादधि त्वमेतत् इदं त एकं पर ऊत एकं यौ ते श्वानौ यत्ते कृष्णः शकुन आतुतोद उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व अस्मात्त्वमधिजातोऽसि अपेत वीत वि च सर्पतातः उच्छ्मञ्चस्व पृथिवि मा विवाधिया इति । मृतपत्नीकः क्रतूनाहरिष्यन् जायामुपयम्याग्नीनादध्यात् । विज्ञायते च तस्मादेको द्वे जाये विन्दत इति । मृतपतिकाया औपासनेन पितृमेधः । नह्यस्या अपतित्वात् पुनरग्न्याधेयं विद्यते । विज्ञायते च तस्मान्नैका द्वौ पती विन्दते इति । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्यविशेषाद् जायापत्योराहिताग्न्योरित्येवेदमुक्तं भवति । तयोर्यः पूर्वो म्रियेत तस्याग्नित्रेतया यज्ञपात्रैश्च पितृमेधः यः पश्चात् तस्यौपासनेन । सहप्रमीतयोः सहैकः पितृमेधः । औपासनं चोल्मुकार्थं स्यात् । औपासनेनानाहिताग्नेः स्त्रियाश्च निर्मन्थ्येन । उत्तपनीयेनैके समामनन्ति । निर्मन्थ्येन स्त्रीकुमारं दहेयुरित्येकेषाम् । मृतपत्नीकसमाग्निभिर्जायायां दग्धायामौपासनेन का प्रतिपत्तिरिति । क्रतुं चेदाहरिष्यन् स्याद् ब्राह्मोदनिकमेनं कुर्यात् । वनं चेदातिष्ठेद् औपासनमेवोपास्यं स्यात् । अथ चेत् संन्यसेन्नैनमाद्रियेत । नाशुचिः काम्यं तप आतिष्ठेन्न यजेन्न स्वाध्यायमधीयीतान्यत्राग्निहोत्रदर्शपूर्णमासाभ्यां दद्यात् । काममृत्विग्भ्यो दद्यात् । यथो एतद् गृहानेप्यन्नुपकल्पयते इति स्वान् गृहस्थधर्मान् प्रतिपत्स्यन्नित्येवेदमुक्तं भवति । कथमु खलु प्राचीनावीतिना पितृमेधः कार्यो यज्ञोपवीतिनेति । प्राचीनावीतिनेत्येवं ब्रूयात् । पितृणां वा एष मेधो देवानां वा अन्ये मेधा इति । निवीतिनश्चैवेदम् हरेयुश्चितायां चादध्युश्चितायां चादध्युः ४ अथगृहानेष्यन्नुपकल्पयते अथान्तरेणाग्निंचग्रामंच यथोएतदाहिताग्नेः अथैतेषामुदकसपिण्डानां चत्वारि इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने सप्तमोऽध्यायः

अष्टमोऽध्यायःसम्पाद्यताम्

एकाहं धुनुपुस्त्रीण्यहानि धुनुयुः पञ्चसप्तनवैकादशार्धमासान् धुनुयुः अयुग्मरात्रीरर्धमासान् मासानृतून् संवत्सरं वा संपाद्य धुनुयुरिति । स उपकल्पयते दधि च वाजिनमिश्रं कुम्भीं च शतातृष्णां तिस्रः पालाश्यो मेध्यो रोहितं चर्मानडुहम् आहननार्थमपसलावृत्तरज्जुं परिव्ययणीं च षट्च्छतानीष्टका आममया अपरिमिताश्च लोकंपृणा द्वया धानास्तिलमिश्राश्चातिलभिश्राश्चाभिवान्यायै दुग्धमर्धपात्रं समूलं बर्हिर्नलेषिकां भुक्तभोगं च वासः क्षेत्रवितॄण्णीं चतुरो लोष्टान् पञ्च चरून् पञ्चापूपान् घृतेनैकः क्षीरेणैको दध्नैको मधुनैकः चतुरः स्तम्बान् अर्जुनस्तम्बं दूर्वास्तम्बं काशस्तम्बं कुशस्तम्बं चतुरो नानावृक्ष्यान् परिधीन् पर्णमयवारणवेतसशमीमयान् द्वे द्वे वारणशाखां च क्षेत्रवितृण्णीं विधृतिं यवमयं सर्वौषधं च सिकताश्च शुल्बञ्च तिस्रश्च पलाशशाखाः । अथान्तरेण वा ग्रामं च श्मशानं चागारं वा विमितं वा कारितं वा भवति । तद्वृधाग्निमुपसमाधायापरेणाग्निं तिस्रः पालाश्यो मेध्यो निहत्य तासामन्तरेणास्थिकुम्भं निधाय तदुपरिष्टाच्छतातृण्णामध्युद्यम्य दध्ना वाजिनमिश्रेण पूरयति वैश्वानरे हविरिदं जुहोमि इमं समुद्रं शतधारमुत्सम् इति द्वाभ्याम् । अनुमन्त्रयते द्रपसश्चस्कन्द इति । अथैतत्पुरस्ताद्रोहितेन चर्मणानडुहेनाभिघातं त्रिरपसलैः परियन्ति । अजिनमौ अजिनमौ इति । त्रिस्त्रिरेव रात्रेः परियन्ति त्रिरह्नः । एवममात्या एवं स्त्रियः । तदनु नर्तक्यश्चानुनृत्येयुः । यश्चाहन्यते स्वार्यां वा पल्वले वा समवशमयन्ते । यदेषां समवशमयितं सम्भवति ते न तथा प्रययुर्यदहर्न पुरस्तान्न पश्चाच्चन्द्रमसं पश्येयुः । ते महारात्र उत्थाय प्रययुर्ज्ञात्वा श्मशानकरणम् । अथैते ब्राह्मणाश्चत्वारोऽभ्रिमादायोत्तरतो गत्वा लोष्टानुपसंहरन्तीष्टका वा । अथैतदादहनमुदकुम्भैः स्ववोक्षितमवोक्षति अपेत वीत वि द्च सर्पतातः इति । यथाजीवमुपसर्पे स्यात् न जीवन्तमभिदध्याज्जीवतो ह्येष प्राणानभिनिदध्यात् इति । पर्नशाखया पीडयित्वा अपसलवृत्तया रज्ज्वा परियन्ति प्रेमां मात्रामुपस्नुहि इति । तस्य मात्रा यदि ग्रीवदघ्नं पुरस्तान्नाभिदघ्नं पश्चाद्यदि जानुदघ्नं पुरस्ताद् गुल्फदघ्नं पश्चाद्यदि गुल्फदघ्नं पुरस्तात् समं भूमेः पश्चात् पुरुषमात्रं भवतीति विज्ञायते । उक्तविधाभ्यां समनु स्पन्द्यां लेखां लिखति । अपोद्धत्य स्पन्द्यां कर्षूः खानयन्ति । उच्छ्रयन्त्यस्या दक्षिणतः पश्चाद् भूयसीः कुर्वन्ति १

अथ द्वाभ्याम् आत्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निम् यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्यान्तः शर्करामिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथैतत्पुरस्तादेवौदुम्बरं युगलाङ्गलं कारितं भवति सप्तगवं वा शयोदशगवं वा शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यन्तां शुनमुष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम् शुनासीराविमां वाचम् इति द्वाभ्याम् । सीतां प्रत्यवेक्षते सीते वन्दामहे त्वार्वाची सुभगे भव । यथा नः सुभगा ससि यथा नः सुफला ससि इति । अथास्थिकुम्भं सीतायां निदधाति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव इति । अथानडुहो विमुञ्चति विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम सुवरगन्म इति । अत एतेऽध्वर्ययो भवन्ति यदि दक्षिणावान् पितृमेधः । यद्यु वै सत्रियोऽग्निर्यथागवं व्युदञ्चति । यत्रैवानड्वाहस्तद्युगलाङ्गलमिति । अथैनमुपवातयते प्रवाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति इति । अग्निवत्सर्वौषधीर्वपति यथा यमाय हार्म्यमवपन् पञ्च मानवाः । एवं वपामि हार्म्यं यथा साम जीवलोके भूरयः इति । अत्र सिकता निवपति अग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसम् । अथोर्ध्वचित उपदधाति चितस्स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथानुव्यूहति आ प्यायस्व इति गायत्र्या ब्राह्मणस्य । सं ते पयाँसि इति त्रिष्टुभा राजन्यस्य यथासुष्टु यथाशर्करमनुव्यूहति । अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्याभिद्रवणं जपति अपामिदं न्ययनं नमस्त इति द्वे । अथ क्षेत्रवितृण्ण्यां चतुरो लोष्टानुपदधाति उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहँरिषम् । एताँ स्थूणां पितरो धारयन्तु तेत्रा यमस्सादनात्ते मिनोतु इति पुरस्तादुपदधाति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णं मृदा युवतिर्दक्षिणावत्येषा त्वा पातु निरृत्या उपस्थे इत्युत्तरतः । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथासि चाभ्येनं भूमि वृणु इति पश्चात् । उच्छ्मञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहास्मै शरणाः सन्त्वत्र इति दक्षिणतः । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिलमिश्राभिर्धानाभिरुपकिरति एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहाः सन्त्वनपस्फुरन्तीः इति । अथैनमभिवान्यायै दुग्धमर्धपात्रं दक्षिणत उपदधाति एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ इति यजमानस्य नाम गृह्णाति । तया देवतं कृत्वा सूददोहसं करोति । दक्षिणतः समूलं बर्हिरुपदधाति इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं यमेन त्वं यम्या संविदानः इति । तया देवतं कृत्वा सूददोहसं करोति । अथ नलेषिकामुपदधाति नळं प्लवमारोहैतन्नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा सन्तर प्रतरोत्तर इति । तया देवतं कृत्वा सूददोहसं करोति । अथैनमस्थिकुम्भं भुक्तभोगेन वाससा निर्णिज्य यथाङ्गं चिनोति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव इति । अत्र षड्ढोतारं व्याचष्टे षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति परं भृत्योरनुपरेहि पन्थाम् इति च । अथैनमुपवातयति शं वातः शं हिते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः इति । अथैनान् पञ्च चरून् सापूपानुपदधाति अपूपवान् घृतवांश्चरुरेह सीदतूत्तभ्नुवन् पृथिवीं द्यामुतोपरि । योनिकृतः पथिकृतः सपर्यत ये देवानां घृतभागा इह स्थ एषा ते यमसादने स्वधा निधीयते गृहेऽसौ इति यजमानस्य नाम गृह्णाति । दशाक्षरा तां रक्षस्व तां गोपायस्व तां ते परिददामि । तस्यां त्वामादभन् पितरो देवता प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्व द्ध्रुवा सीद इति पुरस्तादुपदधाति । अपूपवाञ्छृतवान् इति दक्षिणतः अपूपवान् क्षीरवान् इति पश्चात् अपूपवान् दधिवान् इत्युत्तरतः अपूपवान् मधुमान् इति मध्ये शताक्षरा सहस्राक्षरा इति प्रतिदिशमनुषजति । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिलमिश्राभिर्धानाभिरुपकिरति एतास्ते स्वधा अमृताः करोमि इति । तया देवतं कृत्वा सूददोहसं करोति । अथ चतुरः स्तम्बानुपदधाति २

चरूणामुपरिष्टात् त्वामर्जुनौषधीनां पयो ब्रह्माण इद्विदुः । तासां त्वा मध्यादाददे चरुभ्यो अपि धातवे इति पुरस्ताद् अर्जुनस्तम्बं दूर्वाणां स्तम्बमाहरैतां प्रियतमां मम । इमां दिशं मनुष्याणां भूयिष्ठानुविरोहतु इत्युत्तरतो दूर्वास्तम्बं काशानां स्तम्बमाहर रक्षसामपहत्यै । य एतस्यै दिशः पराभवन्नघायवो यथा ते नाभवान् पुनः इति पश्चात् काशस्तम्बं दर्भाणां स्तम्बमाहर पितृणामोषधीं प्रियाम् । अन्वस्यै मूलं जीवादनुकाण्डमथो फलम् इति दर्भस्तम्बं दक्षिणतः । चतुर्णां स्तम्बानाम् अग्रे मध्यं च चरुमुपदधाति एतैरेव चतुर्भिर्मन्त्रैः । तया देवतं कृत्वा सूददोहसं करोति । अथ चतुरो नानावृक्ष्यान् परिधीन् परिदधाति मा त्वा वृक्षौ संबाधिष्टं मा माता पृथिवि त्वम् । वैवस्वतं हि गच्छासि यमराज्ये विराजसि इति वैतसशमीमयौ पुरस्ताच्चोत्तरतश्च । तया देवतं कृत्वा सूददोहसं करोति । अथ क्लेषीकावित्येके । अथ लोष्टानुपदधाति । पृथिव्यास्त्वा लोके सादयामि । प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति शतं पुरस्तादुपदधाति अन्तरिक्षस्य त्वा लोके सादयामि इति शतमुत्तरतः दिवस्त्वा लोके सादयामि इति शतं पश्चात् दिशां त्वा लोके सादयामि इति शतं दक्षिणतः नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयामि इति द्विशतं मध्ये । तया देवतं कृत्वा सूददोहसम् करोति । अथ लोकंपृणा उपदधाति लोकं पृणच्छिद्रं पृण इति लोकंपृणाभिः सहस्रं सम्पद्यते । द्विषाहस्रादिष्वेतावदेव पुनः पुनरुपदध्यात् । काठकाग्निचितावपि पञ्चाशीतिशतमुपदध्यात् । विज्ञायते अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्यामिक्षया वा इति काठकाग्नीनां ब्राह्मणम् । तया देवतं कृत्वा सूददोहसं करोति । अथैनमुपवातयति शं वातः शं हिते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां ते दिशः सर्वाः इति । अथैनमभिमृशति इदमेव मेतोऽपरामार्तिमारामकाञ्चन । तथा तदश्विभ्यां कृतं मित्रेण वरुणेन च इति । पुरस्ताद् वारणशाखां निदधाति वरणो वारयादिदं देवो वनस्पतिः आर्त्यै निरृत्यै द्वेषाच्च वनस्पतिः इति । उत्तरतः क्षेत्रवितृण्णीं निदधाति विधृतिरसि विधारयास्मदघाद् द्वेषाँसि इति । पश्चाच्छमीशाखां निदधाति शमि शमयास्मदघाद् द्वेषाँसि इति । दक्षिणतो यवान् निदधाति यव यवयास्मदघाद् द्वेषाँसि इति । अथैनमुपतिष्ठते पृथिवीं गच्छान्तरिक्षं गच्छ दिवं गच्छ दिशो गच्छ स्वर्गच्छ स्वर्गच्छ दिशो गच्छ दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छापो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति । जघनेन चितां तिस्रो दक्षिणाप्राचीः कर्षूः कुर्वन्तीति । तत् पुरस्ताद् व्याख्यातम् । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्तीति । तत् पुरस्तात् व्याख्यातम् । यत्रापस्तद्यन्त्यनवेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिका आप्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योचीर्याचम्यादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति । अत्र शानिं कुर्वन्ति सौत्रामण्याः प्रत्याम्नायो भवतीति । अत्रामिक्षया कुर्यात् । सन्तिष्ठते लोष्टचितिः सन्तिष्ठते लोष्टचितिः ३

एकाहंधुनुयुः अथद्वाभ्यामा त्मन्यग्निंगृह्णीते चरूणामुपरिष्टात् त्रीणि । इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने अष्टमोऽध्यायः

नवमोऽध्यायःसम्पाद्यताम्

अथ यदि नष्टाग्निरपहृताग्निर्वा यजमानः प्रेयाद् यद्यस्य पुत्रो वान्तेवासी बालंकर्मण्यः स्यात् । प्राचीनावीतं कृत्वोद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यस्यायतने अरणीं निधाय प्रेतस्य दक्षिणं बाहुमन्वारभ्य मन्थति येऽस्याग्नयो जुह्वतो मांसकामाः संकल्पयन्ते यजमानं जायन्तु ते हविषे स्वादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु इति । तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेन मनसानुद्रुत्याहवनीये जुहोति । एतेनैव गार्हपत्ये जुहोति । तूष्णीमन्वाहार्यपचने हुत्वा ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्येत । यथो एतत्परोक्षं प्रेतस्य यजमानस्यास्थीन्याहृत्य संस्कुर्यात् । कथमत्राहरणं विद्यत इति । शिरस्तः प्रथमं गृहीत्वाथोरस्तोऽथ जठरतोऽथोरुबाहुभ्यामथ पत्त इति त्रयस्त्रिंशतमस्थीनि गृह्णातीति विज्ञायते त्रयस्त्रिंशत् पुरुषः इति । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कण्याजिनं दक्षिणाग्रीवमुत्तरलोमास्तीर्य तस्मिन्नस्थीनि संभरति इन्द्रो दधीचो अस्थभिः इत्येतेनानुवाकेन । तया देवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथ सूददोहसं करोति ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः इति । दीर्घवंशे विग्रथ्याक्षारलवणाशिनो मृण्मयभाजने आहरन्ति । तानि ग्राममर्यादायां निधायाग्नीनाहरेयुः । यद्यतिहरेयुरग्नयो लौकिकाः सम्पद्येरन् । विज्ञायते च प्रवसन् यजमानोऽग्निभ्यः परिदाय गृहानेति । यतो ग्राममर्यादां नातिव्रजन्ति । तस्माद् ग्राममर्यादां नातिहरेत् इति १

अथ यद्यात्मनि समारूढेष्वग्निषु अरण्योर्वा यजमानः प्रेयाद् यद्यस्य पुत्रो वान्तेवासी वालंकर्मण्यः स्यात् । प्राचीनावीतं कृत्वोद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यस्यायतने लौकिकमग्निमुपसमाधाय प्रेतस्य प्रदक्षिणं बाहुमन्वारभ्य जपति उपावरोह जातवेद इमं प्रेतं स्वर्गाय लोकाय नय प्रजानन् । आयुः प्रजां रयिमस्मासु धेहि प्रेताहुतीश्चास्य जुषस्व सर्वाः इति । अपि वारण्योरुपावरोह्य मन्थेदिति । तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा दुर्गां मनस्वतीं महाव्याहृतीर्हुत्वा तद्यमो राजा इति द्वाभ्यां पूर्णाहुतिं हुत्वा यद्यर्थिनो विन्देरन् तेभ्यो धेनुं ददाति । अथ परोक्षगतप्रेतस्य यजमानस्य दिगेव प्रज्ञायते । तां दिशं विहारं कल्पयित्वा असावेहि इति नामग्राहमाहूय पर्णत्सरूणामेव कृष्णाने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रच्छाद्य प्रसिद्धमुपोषेयुः । यद्येवं कृतेऽग्निभिस्तीर्य यजमानः पुनरागच्छेत् कथं तत्र कुर्यादिति २

अथ याज्ञिकात् काष्ठादग्निं मथित्वा अग्निमुपसमाधाय परिस्तीर्याग्निमुखात् कृत्वा पक्वाज्जुहोति हिरण्यगर्भः समवर्तताग्रे इति द्वाभ्याम् । अथाज्याहुतीरुपजुहोति सहस्रशीर्षा पुरुषः इत्येतेनानुवाकेन स्वाहाकारैः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अपरेणाग्निं सौवर्णेन पात्रेण नवेन वा मृण्मयेन कृष्णाजिनेन वा दृतिभूतेन घृतेना पाभिः पूरयित्वा जीवपितुश्चेत् पिताभिमन्त्रयते विष्णुर्योनिं कल्पयतु इति । अथैनं प्रवेशयति यां पूषन् शिवतमामेरयस्व इति । स गर्भो भूत्वा कृष्णाजिने दृतिभूते रात्रिं वसति । व्युष्टायां जघनार्धादात्मानं प्रतिकृष्य जायेत । जातस्य जातकर्मप्रभृति संस्कारान् कारयित्वा दशरात्रव्रतं चरेत् । तथैव जाययाग्नीनाधाय व्रात्येन पशुनेष्ट्वा गिरिं गत्वाग्नये कामायेष्टिं निर्वपेदायुष्मतीं शतकृष्णलाम् । दिशामवेष्ट्या यजेत । अत ऊर्ध्वं ईप्सितैर्यज्ञक्रतुभिर्यजेतेति विज्ञायते ।

हिरण्यगर्भः सम्भूतो ब्राह्मणस्तीर्णनिर्णयः
प्रत्युत्थानं न कस्यापि कुर्याद् देवसमस्तु सः
इति विज्ञायते

तस्मात् प्रोषिते यजमाने चतुर्विंशतिवर्षाणि परिपाल्याग्निहोत्रं संस्कुर्यादिति स यद्यश्रुतः स्यात् । अथाग्रयणेष्टिपशुचातुर्मास्याध्वराणामसमाप्ते व्रतान्तराळे प्रमीयेत यद्यस्य पुत्रो वान्तेवासी वा शेषांश्चैकतन्त्रं समाप्नुयात् । यद्दैवत्यं पशुमालभेत तद्दैवत्यं पुरोडाशमामिक्षां वा यजेत । अथ वै भवति तमसो वा एष तमः प्रविशति सह तेनाहिताग्निमन्यैरग्निभिः संस्कुर्याद् इति । अथाप्युदाहरन्ति शरीरदायादा ह वाप्नयो भवन्ति इति । मरणे क्षेयोऽस्ति । य एवं विद्वानुदगयने प्रमीयते सौर्येण पथा स्वर्गं लोकमेत्यथ यो दक्षिणे प्रमीयते चान्द्रमसेन पथा पितृलोकमेति इति विज्ञायते । ता सूर्याचन्द्रमसा विश्वभृत्तमा महद् इत्याहुतीभिरेवैनं रात्रावपरपक्षे दक्षिणायनेन यदुदगयने आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति । अन्येषु नियमभूतेषु सत्रेषु दीक्षितप्रमीतवदेकाहेऽहीने च कुर्यादिति ३ अथयदिनष्टाग्निः अथय

द्यात्मनिसमारूढेषु अथयाज्ञिकात्काष्टात् त्रीणि
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने नवमोऽध्यायः

दशमोऽध्यायःसम्पाद्यताम्

अथ हैके तूष्णीमितरेषाम् इत्यत्रोदाहरन्ति
भार्यासंज्ञिता नारी पुरुषो ब्राह्मणसंज्ञकः
त एते होतृसंस्कारा इतरेऽमन्त्रसंस्कृताः । इति

ताननु व्याख्यास्यामः । अनुपेत उन्मत्तो जळोऽन्धो मूको बधिरः कृष्ठी किलासी कुब्जः पङ्गुर्हीनाङ्गोऽधिकाङ्गः सहाञ्जगतो ब्राह्मणोऽनाथो राजन्योऽनग्निर्गृहस्थो वैश्यस्य स्त्रियामुत्पन्नपुत्राः कन्या विधवा बन्ध्या चेति । तेषां प्राणेषूत्कान्तेषु तूष्णीं स्नापयेत् । श्मशानं नीत्वा दहनं जोषयेदमन्त्रेण । शाखया संभृज्य सम्प्रकीर्य तिलतण्डुलान् सम्प्रकीर्य चितां कल्पयित्वा चितायां प्रेतं निधायाव्येनास्ये निनयेत् इदं त आत्मनः शरीरम् अयं त आत्मा आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनत्ति भूर्भुवस्वरसौ स्वर्गाय लोकाय स्वाहा इति । मन्त्रेण सिग्वातेनोपवीजयन्ति । तूष्णीमुदकुम्भेनापसव्यं परिषिञ्चति । उत्तपनेनाग्निना संयोजयेत् अस्मात्त्वमधिजातोऽसि अयं त्वदधिजायताम् । अग्नये वैश्वानराय स्वर्गाय लोकाय स्वाहा इति । तीर्थेऽभिषिञ्चेत् १

अथ गर्भिण्यास्तैष्यां कृतायाम् अत ऊर्ध्वं स्रियेत भर्ता श्मशानं नीत्वा दहनं जोषयेत् । चितां कल्पयित्वापरेण चितायाः प्रेतं निधाय नाभेः सव्यस्योपरिष्टाद् लेख्येन हिरण्यगर्भः समवर्तताग्रे इत्यवलेखनम् । कुमारं दृश्यमानमनुमन्त्रयते जीवतान्मम पुत्र इति । अथ कुमारं स्नापयेयुः । हिरण्यमन्तर्धाय जीवता ग्राममायान्ति । यस्ते स्तनः शशयः इति स्तनं प्रदाय तस्मिन्नुदर आज्याहुतीर्जुहोति शतायुधाय शतवीर्याय इत्येताभिः पञ्चभिः प्रयासाय स्वाहा इत्येतेनानुवाकेन । प्राणाय स्वाहा व्यानाय स्वाहा इत्येतेनानुवाकेनाव्रणं कुर्यात् । प्रेतं चितामारोप्य विधिना दाहयेत् । अष्टकाधेनुं तिलधेनुं भूमिधेनुं वा दद्यात् । अथ नराणामशुचिर्भवेद् ब्राह्मणक्षत्रियवैश्यानां सूतके प्रेतके वान्येष्वशुचिर्मृतिः पञ्चगव्येन सुरभिमत्या अब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरग्निर्मूर्धेत्यान्तादनुवाकस्य शतरुद्रीयं प्रोक्षयित्वा यथाशक्ति दक्षिणां दत्त्वा पैतृमेधिककर्म प्रतिपद्यत इति २

अथ गृहस्थो बहुजायां विन्देत दासामन्यतमा म्रियेताग्निनैव पैतृमेधिकम् कर्म प्रतिपद्येत । अथ ऊर्ध्वं दशरात्रं व्रतं चरेत् । अधःशयनं ब्रह्मचर्यम् अनङ्गवेषमनक्ताशनं नासपिण्डान्योन्यस्पर्शनमन्योन्यान्नभोजनमित्येवमादि व्रतं चरेत् । अन्येष्वघाहेषु च । एकादश एकोद्दिष्टं कुर्वन्ति । इतराभिः पत्नीभिरग्निमन्वाधाय तस्मिन् गृह्याणि कर्माणि क्रियन्ते । गृहस्थो बहुजायां विन्देदौपासनं तन्त्रं न कृत्वा तस्यां वा म्रियेत प्रसिद्धं तत्र कल्पेन तन्त्रं कृत्वाग्निना दाहयेत् । अत ऊर्ध्वमितराभिः पत्नीभिरग्निमन्वाधाय तस्मिन् गृह्याणि कर्माणि क्रियन्ते । तासामपरा म्रियेत पूर्वाग्निमुपसमाधाय संपरिस्तीर्य स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा अन्वारब्धायां पत्न्यां यजमानो जुहोति नमस्तर्षे गद । अव्यधायै त्वा स्वधायै त्वा । मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवाब्रह्मन् तवेदस्तु स्वाहा इति । अथैनमग्निं समारोप्य अयं ते योनिरृत्विय इति अपराग्नौ समिधमभ्यादधाति आजुह्वानः उद्बुध्यस्व इति द्वाभ्याम् । सम्परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वान्वारब्धप्रेतस्य दक्षिणं बाहुमन्वारभ्य जुहोति यो ब्रह्मा ब्रह्मण उज्जहार इत्येतेन सूक्तेन । एकैकशश्चतुर्गृहीतं गृहीत्वा प्रणीताभ्यः कृत्वा चतुश्शरावमोदनं श्रपयित्वा अभिघार्योदञ्चमुद्वास्याधिष्ठितमभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति समितं सङ्कल्पेथाम् इति पुरोनुवाक्यामनूच्य अग्ने पुरीष्याधिपा भवा त्वन्न इति याज्यया जुहोति । श्वभ्रे काष्ठेऽथाज्याहुतीरुपजुहोति पुरीष्यस्त्वमग्न इत्यान्ताननुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । विधिना दाहयेत् । दशरात्रादत ऊर्ध्वं इतराभिः

पत्नीभिरग्निमन्वाधाय तस्मिन् गृह्याणि क्रियन्ते ३
प्रणम्य वन्दनं कायैः सदाख्यं परमेश्वरम्
पतीनां प्रेतसंस्कारविधिं वक्ष्ये विशेषतः
विप्रो गृहस्थः शुद्धात्मा यतिसंस्कारमाचरेत्
शिक्ये शरीरमारोप्य गन्धमाल्यैरलङ्कृतम्
तुषाग्निमत्र चोद्वास्य संस्कर्तानुहरेद्यतिम्
घोषितं जयशब्देन दुन्दुभीनां रवैरपि
प्राचीमुदीचीं वा गत्वा शुद्धं देशं समाश्रयेत्
खात्वा व्याहृतिभिर्देशं दण्डायामप्रमाणकम्
सप्तव्याहृतिभिः प्रोक्ष्य तत्र दारुचितिं क्रियात्
याज्ञिकैस्तु यथाशक्ति काष्ठैरन्यैरथापि वा
ततः शरीरं प्रक्षिप्य सावित्र्या शुद्धमानसः
विष्णो इव्यं रक्षस्वेति हविस्तस्यां निधापयेत्
पवित्रं तेति मन्त्रेण पवित्रं स्थापयेन्मुखे
त्रिदण्डं दक्षिणे पाणाविदंविष्ण्वादिना न्यसेत्
सव्ये शिक्यं यदस्येति स्वाहान्तेन निधापयेत्
सावित्र्या तूदरे पात्रं गुह्यस्थाने कमण्डलुम्
भूमिर्भूम्ना ममाग्नेति स्थापयेत् कौपनं ततः
अध्येन क्षिप्तसर्वसाधनसंयुतम्
शरीररं होतृभिः कर्ता सग्रहैरुपतिष्ठते
तुषाग्निना दहेद् देहं यातवातह सह भविष्यति
अथाप्युदाहरन्त्येयं वेदार्थनिपुणा बुधाः
विषेकादिश्मशानान्ता विधयो ब्राह्मणाश्रयाः
तस्मिन् यतेश्च संस्कारं मन्त्रवत् कुरुते गृही
आत्मन्यग्निं समारोप्य यः प्रेतमवदह्यति
तस्य पुत्रो विधानेन ह्यवरोप्याग्निना दहेत्
अपि होतृविधानेन गायत्र्या प्रणवेन च
सन्निकृष्टे तु संन्यस्ते पितर्युपरते सुतः
दहनं तस्य कर्तव्यं श्राद्धं पिण्डोदकक्रिया
आदावेव विकल्पेन ब्रह्मचारी यतिर्भवेत्
तत्र श्राद्धं गृहस्थस्य कर्तव्यं सन्निधौ भवेत्
यतिं वहन् दहन् स्पर्शन् स्नानमात्रेण शुध्यति
अश्वमेधफलं सर्वे प्राप्नुवन्ति पृथक् सुतैः
कर्मनिष्टे तु संन्यस्ते पितर्युपरतेऽस्य तैः
दाहस्तस्य न कर्तव्यः श्राद्धं पिण्डोदकक्रिया
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च
न तस्य दहनं कार्यं नाशौचं नोदकं ततः ४

अथातः पुनःसंस्कारं व्याख्यास्यामः । त्रीणि षष्टिशतानि पलाशवृन्तानां तैः कृष्णाजिने पुरुषाकृतिं कृत्वा यदि शरीरं नश्येयुः पुनः संस्कारं कुर्वन्ति । अहरहरञ्जलिनैकोत्तरवृद्धिरा त्र्यहात् तस्याग्निभिर्दहेयुः इति विज्ञायते । पलाशवल्कैः कुशैर्वा सन्धिषु संवेष्टयति । चत्वारिंशता शिरः दशभिर्ग्रीवां विंशत्योरस्त्रिंशतोदरं पञ्चाशता पञ्चाशतैकैकं बाहुं तेषामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्पयते । सप्तत्या सप्तत्यैकैकं पादं तेषामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्पयते । अष्टाभिः शिश्नं द्वादशभिर्वृषणम् । तान् स्नापयित्वालङ्कृत्य अहतेन वाससा प्रच्छाद्यान्तर्वेद्यां निधाय बान्धवाः पर्युपविश्याभिमन्त्रयन्ते यमस्यासौ यमस्य स इमे यमग्नय इति । एतदादिकर्म प्रतिपद्यन्ते ५ अथहैकेतूष्णीम् अथगर्भिण्यास्तैष्यांकृतायाम् अथगृहस्थोबहुवायांविन्देत प्रणम्य वन्दनं अथातःपुनःसंस्कारं पञ्च । इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने दशमोऽध्यायः

एकादशोऽध्यायःसम्पाद्यताम्

अथातो मृतबलिं व्याख्यास्यामः केशश्मश्रूणि वापयित्वा स्नात्वोदकं क्रियेत । प्राग्दक्षिणायतने चतुरश्रं गोमयेनोपलिप्य त्रिरश्मानं मध्ये निधाय सकृदुल्लिख्याद्भिरभ्युक्ष्य दक्षिणाग्रान् दर्भान् संस्तीर्य सकृत्तिलमिश्रं चरुमवद्यति मुष्टिप्रमाणं कुक्कुटाण्डप्रमाणं वा । प्रकीर्णकेशः सव्यं जानुं भूमौ निधायाश्मनि पिण्डं दद्यात् । एतत्तेऽमुष्मै पिण्डं दद्यात् । आञ्जनाभ्यञ्जने वासश्च दद्यात् । पात्रेणोदकं प्रदक्षिणं निनयेत् । अत्र प्रेताः काकादभिहरन्ति । एवं सायंप्रातः कृत्वा दशम्यां विकृताहारं सायं बलिं दत्त्वाव्युष्टकाले उपनिनीय ब्राह्मणान् हीनाङ्गानतिरिक्ताङ्गान् कुष्ठीन् कुनस्वीन् श्यावदन्तान् रोगीन् वृषळीपतीन् उन्मत्तान् पापीन् वर्जयित्वा शुचीन् श्रोत्रियान् सुवृत्तान् अध्ययनसम्पन्नान् गृहस्थान् दरिद्रान् क्रियापूर्वान् पात्रभूतान् सद्योऽधिगम्यान् असगोत्रसम्बन्धयुक्तान् आयन्त्र्य कर्मसु व्याख्यातान् एतत्ते पिता समनसो यत् किञ्चित् प्रेतायानुमतः श्वोभूते मे पितुरेकोद्दिष्टश्राद्धं भुञ्जतां भवन्त इति । भुज्यते इति प्रतिवचनम् १

एकादश्यामेकोद्दिष्टं कुर्वन्ति । अव्युष्टे काले ब्राह्मैणमाहूय किञ्चिद्दत्त्वा निवेद्यानुमन्त्रयते श्वोभूतेऽन्नं संस्कृत्य लुप्तश्मश्रुलोमनखाय ब्राह्मणाय दन्तकाष्ठं दत्त्वा धनधान्यपात्रं संस्पृष्ट्वा देशे पात्राणीत्यादि दत्त्वा ब्राह्मणमुदङ्मुखमुपवेशयेत् । तिलमिश्रेणोदकार्थं दद्यादन्यत्र प्राचमनात् । एकपवित्रान्तर्हिते पात्रेऽप आनीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । ब्राह्मणाय गन्धादि दत्त्वा पिण्डं निवपामि इत्याह । पिण्डं निवप इति प्रतिवचनम् । अथ दर्भेषु पिण्डं निदध्यात् अयमोदनः कामदघुओ!ऽस्त्वनन्तोऽक्षीयमाणः सुरभिः सर्वकामैः । स त्वोपतिष्ठत्वजरो नित्यभूतः स्वधां दुहानाममृतांस्तर्पयन्त्वसौ इति । एकं पिण्डं दत्त्वा तिलोदकैः प्रसव्यं परिषिञ्चति ऊर्जस्वतीः स्वधया वन्दमानास्तास्ते श्रयन्तीः स्योना ऊर्जं वहन्तीः स्वधामक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतम् इति । अञ्जनादिना पिण्डमलङ्कृत्य ब्राह्मणं सम्पूज्याङ्गुष्ठमूलमुपसंगृह्य भुङ्क्ष्व इत्याह भुज्यत इत्युक्त्वा अथ भुञ्जाने सर्वेषामुच्छिष्टं निधायाचान्ते बर्हीष्यवकीर्य न्युब्जपात्रं स्वदितम् इति ब्राह्मणो ब्रूयात् । अथ पवित्रं निधायान्युब्जेतनप्रमाण स्वधास्त्वित्युञ्चैः इत्युक्त्वा अस्तु स्वधा इति प्रतिवचनम् । यज्ञोपवीत्यवोक्ष्य दक्षिणां दत्त्वोत्थाप्य अन्नशेषैः किं क्रियताम् इत्याह । इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रदक्षिणीकृत्य प्रत्येत्य पिण्डं त्याज्याप्सु स्नात्वा देवागारं प्रविश्य अदक्षिणं कृत्वाञ्जलिं कृत्वालङ्कृत्य गृहानेत्य पुण्याहादीनि वाचयित्वा अन्नशेषं सगणः प्राश्नाति । पश्यति पुत्रं पश्यति पौत्रं न च शूद्रोच्छिष्टं जायत इति कुशहारीतः २

संवत्सरे सपिण्डीकरणं कुर्यात् । प्राचीनावीत्यग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य तेषु चत्वार्युदपात्राणि निधाय एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य तेषामेकं दक्षिणतः प्रेतपात्रं निधायार्धोदकपात्रमानीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । इतरेषु त्रिष्वप आनयति ऊर्जस्वतीः स्वधया वन्दमाना इति । दक्षिण आञ्जनाभ्यञ्जनमुदकुम्भं निधाय दक्षिणतो ब्राह्मणान् सुप्रक्षाळितपाणिपादान् दर्भेष्वासनेषु विश्वान् देवान् प्राङ्मुखानुपवेश्य इतरानुदङ्मुखानुपवेश्य प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो धूपदीपवर्जं पूजां कृत्वा ततोऽपसव्यं परिषिञ्चति । औदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्या जुहोति । होमार्हेणाज्येन सोमाय पितृमत इत्यादिषड्भिर्मन्त्रैर्हुत्वाथ नामधेयैर्जुहोति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इत्यष्टाबाहुतयः । एता अष्टौ जुहोति । एवमन्नस्य हुत्वा अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा इति दक्षिणार्धपूर्वार्धे हुत्वानुप्रहृत्य दर्वीमपसव्यं परिषिच्य दक्षिणतो दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वेकं प्रेतपिण्डं निदध्यात् अयमोदनः कामदुघ इति । ऊर्जस्वतीः स्वधया वन्दमाना इति तिलोदकैरपसव्यं परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभिमृश्यैतेन ब्राह्मणान् विद्यावतः परिविशति भुङ्क्ष्वेति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचान्तेभ्यस्तिलोदकं प्रदाय स्वधास्तु इति वाचयित्वा अस्तु स्वधा इति प्रतिवचनम् । यथाशक्ति दक्षिणां दत्त्वा ततः प्रेतपात्रं पितृपात्रेषु निनयेत् समानी च आकूतिः इत्यावर्त्य । ततः प्रेतपिण्डं पितृपिण्ढ्षेउ! निदध्यात् संगच्छध्वं संवदध्वं समानो मन्त्रः समितिः इति द्वाभ्याम् । तानुपतिष्ठते ये समानाः ये सजाताः इति द्वाभ्याम् । अत्र पैतृकमनुवाकं जपति उशन्तस्त्वा हवामह इति । ऊर्ध्वं पितुः क्रिया स्यात् । सर्वतः शेषं समवदायाश्नीयात् । सिद्धमेतत् सपिण्डीकरणम् ३

अथातो नारायणब्लिं व्याख्यास्यामः । दक्षिणोत्तरायणेऽपरपक्षस्य द्वादश्यां क्रियेत । श्रुतवृत्तसम्पन्नान् द्वादश षड्वा ब्राह्मणानामन्त्रयते । देवगृहे नदीतीरे वाथ देवयजनोल्लेखनप्रभृत्य्राप्फ्! हअस भ्यांत्र प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं देवमावाहयामि ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ स्वः पुरुषमावाहयामि ॐ भूर्भुवःस्वः पुरुषमावाहयामि ओम् इत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा सहस्रशीर्षा पुरुष इत्येतेनानुवाकेनाक्षतगन्धपुष्पधूपदीपैरष्टाक्षरेण वा दद्यात् । पश्चिमां दिशमुपवेश्य प्रधानाहुतीर्जुहोति विष्णोर्नुकं वीर्याणि प्रवोचम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इति द्वादश स्रुवाहुतीः । गुळपायसं घृतमिश्रं देवस्य त्वा इति महाविष्णवे हविर्निवेदयति । केशवाय इति द्वादशभिर्नमस्कारैर्ब्राह्मणानाहूय सदर्भोपकॢप्तेष्वासनेषु उदङ्मुखानुपवेश्य वासोऽङ्गुळीयं च दक्षिणां दद्यात् । त्रिवृतान्नेन ब्राह्मणान् परितोषयति । स्वस्ति वाचयित्वानुज्ञाप्य वाचं यच्छेत् । आज्यं तिलं हविः समुदायुत्येडापात्रमानीय हस्तेन जुहुयात् पितृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्येभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सखिभ्यः स्वधा नमो विष्णवे स्वाहा । सखिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्येभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वेभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वाभ्यः स्वधा नमो विष्णवे स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो विष्णवे स्वाहा इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमः साध्येभ्यो देवेभ्यो नमः सर्वेभ्यो देवेभ्यो नमः सर्वाभ्यो देवताभ्यो नमः असाविदं ते नमो ब्राह्मणेभ्यो नमः नमो ब्रह्मप्रियाय नमः । यस्तु सर्वान् समधिगच्छति पितृभ्यो नारायणाय बलिं ददाति । उपर्युक्तं प्रेतविधानम् । एवमेव शस्त्रविपरज्जुजलदर्वीकरमारुततरुपाषाणोच्छासनादिष्वात्मनिहतस्य वा गोब्राह्मणविधवापतितेष्वापतितस्य वा शरीरसंस्कारान् वर्जयेत् । देशान्तरमृते संग्रामहते व्याघ्रहते शरीरमानीय विधिना दाहयेत् । यद्येकाङ्गं दर्शयेद् द्विरङ्गं वा पृथिवीं शरीरं सक्त्वार्धयितः कुर्यात् । मधुसर्पिषाभ्यज्य विधिना दाहयेत् । अथ यदि जीवेत् पुनरागच्छेदिति ४ अथातोमृतबलिम् एकादश्यामेकोद्दिष्टंकुर्वन्ति संवत्सरेसपिण्डीकरणं कुर्यात् अथातोनारायणबलिं चत्वारि इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने एकादशोऽध्यायः

द्वादशोऽध्यायःसम्पाद्यताम्

भुक्त्वा श्राद्धं ततो विद्वान् यथाशास्त्रमगर्हितम्
छर्दयेत्तु ततः सम्यक् कुशवारिजलं पिबेत्
पुनर्जलाशये स्नात्वा मानस्तोकऋचं जपेत्
गायत्र्यष्टशतं जप्त्वा प्राणायामांस्तु षोडश
भुक्तं चेन्मासिकश्राद्धं प्राजापत्येन शुध्यति
अष्टकां हि ततो भुक्त्वा पूर्वोकेन विशुध्यति
एकोद्दिष्टं ततो भुक्त्वा तत्र चान्द्रायणं चरेत्
अतिकृच्छ्रं चरेद् विद्वान् भुक्त्वा नक्षत्रभोजनम्
कृच्छ्रातिकृच्छ्रं षण्मासे त्रिपक्षे तप्तमेव च
तथा संवत्सरे श्राद्धे सपिण्डे तु तथैव च
बलिं नारायणं भुक्त्वा कृच्छ्रमेकं चरेद् बुधः
अशक्तौ तु तथा सर्वं कृच्छ्रमेकं चरेद् बुधः
अथवापि त्रिरात्रं स्यादेकाहं वापि दुर्बलम्
तस्मात् सर्वप्रयत्नेन श्राद्धगेहं न गच्छति
दातारं तारयेत् पक्वात् त्वामदाता तु ग्रन्थिनम्
तस्मात् सर्वप्रयत्नेन आमश्राद्धं प्रतिग्रहेत्
सर्वाण्यादाय द्रव्याणि नयेद् ब्राह्मणसन्निधौ
सर्वाणीमानि गृह्णीष्व मे पितुः पुष्टिकाङ्क्षया
भगवन्ननुगृह्णीष्व पिण्डं देयं हि मद्गृहे
निवपेत् पिण्डमित्युक्त्वा निवपेयमितीतरः
ब्राह्मणेनाभ्यनुज्ञातो गत्वा तु स्वगृहं प्रति
दत्त्वा पिण्डं यथाशास्त्रमुदकस्याञ्जलिं तथा
स्वधामादाय तद् गत्वा ब्राह्मणस्याञ्जलौ नयेत्
स्वधास्त्विति ततः पश्चात् स्वधा मास्त्वादिनाब्रवीत्
एवमुक्ते ततो दत्त्वा दक्षिणां ब्राह्मणस्य तु
प्रदक्षिणं हि कृत्वा तु कृताञ्जलिपुटं तथा
द्रव्यप्रदानात् पूर्वं हि हुत्वा होमं यथाविधि
स्वगृहं प्राप्य तद् गत्वा सपिण्डैः सह भोजयेत् १

अथ सर्वप्रायश्चित्तानि जुहोति । पलाशशकलमौदुम्बरशकलं वान्यानि याज्ञिकशकलानि वाष्टौ गृह्णीयात् । पञ्च महायज्ञान् कृत्वाग्निं परिस्तीर्याज्यं विलाप्योत्पूय समन्तं परिषेचनं करोति । पुरस्तादोपरिष्टाश्च व्याहृतिभिर्विहृताभिः समस्ताभिश्च हुत्वा शकलानाज्येनाभ्यज्य एकैकशो जुहुयात् देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । अन्यकृतस्यैनसोऽवयजनमसि स्वाहा । यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि स्वाहा । यद्विद्वाँसश्चाविद्वाँसश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा इति । तथैव परिषिच्य एवमेवाहरहः सायं प्रातः शकलहोमं हुत्वा सर्वस्मात् किल्बिषात् पूतो भवति सर्वस्मात् किल्बिषात् पूतो भवतीत्याह भगवानाग्निवेश्यः २ भुक्त्वाश्राद्धम् अथसर्वप्रायश्चित्तानि द्वे इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने द्वादशोऽध्यायः तृतीयः प्रश्नः समाप्तः समाप्तं चाग्निवेश्यगृह्यसूत्रम् शुभं भूयात्