अग्निहोत्रचन्द्रिका
विनायक गणेश आप्टे
१९२१

आनन्हा श्रमसंस्कृतग्रन्थावलिः | ग्रन्थाङ्क: ८७ वे ० शा० सं० रा० सरस्वती भूषण किंजवडेक रोपाह्ववाम शास्त्रिभिः कृता अग्निहोत्रचन्द्रिका | तत्र तत्रोपयुक्ताश्वलायनसूत्रदेवत्रातभाष्यगार्ग्यनारायणवृत्ति - संकलिता । एतत्पुस्तकं वे० शा० सं० आगाशे इत्युपनामकैः काशीनाथशास्त्रिभिः संशोधितम् । तच्च बी. ए. इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दा: १८४२ खिस्ताब्दाः १९२१ ( अस्य सर्वेऽधिकारा राजंशासनानुसारेण स्वायत्तीकृताः मूल्यं रूपकद्वयं चतुर्दश आणकाञ्च | (२०१४) ी ६ गुरुचरणारविन्दाभ्यां नमः । ॐ नमो यज्ञपुरुषाय ।

  • X:X:

अथाग्रिहोत्रचन्द्रिकाख्यो निबन्धः प्रकाश्यते । सरस्वतीभूषणपदविभूषितैः किंजवडकरोपनामभिर्वामनशास्त्रिभिरयं निवन्धो बहुतरम् न्थसमवलोकनेन वेदार्थनिर्णायकमीमांसाख्यन्यायस्वरूपस्य सम्यग्विभावनेन यज्ञिकसमा चारनिरीक्षणेन चोपांनेबद्ध इांते ग्रन्थदर्शनादेव स्फुटं प्रतीयते । यद्यचान्निहोत्रसंबन्धि पदार्थजातं क्रियाजातं प्रमाणादि च तत्सर्वमत्र विस्तरेण निरूपितमिति न तदपेक्षितं भूमिकायां किंचिद्विचारणीयमवशिष्पते तथाऽपि तत्र प्रवृत्तन किंचिलुखनीयमिति लिख्यते । अन्निहोत्रस्य फलवत्वेन काम्यत्वात्कथं नित्यत्वमिति केचिदाक्षिपन्ति, कॅचिच वेदा न्तेषु ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वोपदेशान्मिथ्याभूतस्वर्गार्थ यज्ञादौ प्रवृत्तिः कथं भवेदिति । तत्र वदामः अग्निहोत्रस्य फलवत्वेऽपि न नित्यत्वक्षतिः । यतो न नित्यत्वकाम्यत्वयोर्विरोधः । न चानयोरविरोधे नित्यं नैमित्तिकं काम्यं चेति विभागानुपपत्तिः, विभागलक्षणस्य विभाजकोपाधीनां परस्परविरोधघटितत्वादिति वाच्यम् । उपाधिभूतानां नित्यत्वादीना मेवायं विभागो नोपधेयानाम् । तथा चोपधेयसंकरेऽप्युपाध्यसंकरान्नोक्तानुपपत्ति: । तत्र नित्यत्वमननुष्ठान प्रत्यवायजनकत्वं ज्ञापकत्वं वा, काम्यत्वं च फलकामनावनियोज्यकत्वम् । नियोज्यश्च यः कार्ये स्वीयत्वेन बुध्यते । कार्य चापूर्वे, तस्य स्वीयत्वावबोधश्च स्वीय फलसाधनत्वमुखेन । फले स्वीयत्वं च न तदिच्छामात्रात् , अपि तु वचनादिति न तत्फलकाममात्रस्तत्र नियोज्य:, किंतु शास्त्राद्यादृशेोऽवगतस्तादृश एवेति न चतुर्थवर्णा देरग्रेिहोत्रादिप्राप्तिः । नित्यत्वकाम्यत्वयोरविरोधादेव । धर्मशास्त्रनिबन्धकारैर्जन्माष्टम्यादि व्रतानां नित्यत्वं काम्यत्वं चोक्तं संगच्छते । ननु-अननुष्ठानस्य प्रत्यवायजनकत्वं कथमवगम्यत उपपद्यते च ? न तावन्नित्य कर्मोत्पत्तिविधिभ्यस्तदवगमः, तेषु 'तथाविधबोधजनकशब्दाभावात् । नापि कर्मसुं पुरुषप्रवर्तनामत्राभिधायित्वाद्विषयानुष्ठानस्य पुरुषार्थत्वावगतिपर्यवसायिनस्ते तावन्मात्रे Iाणि प्रवन्यपण्णचेतस्तदननष्ठानस्य प्रत्यवायहेत्तत्वमाक्षिपन्ति । क्षीणशक्तित्वात् । यद्यनुप पयभावेऽप्यवश्यप्रवृत्तिसिद्धयर्थमर्थान्तरं कल्प्यते तर्हि निषिध्यमानक्रियार्जन्यप्रत्यवाय परिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धावपि फलान्तरं कल्येत । स चैत त्कस्यचिदपि । संमतम् । ननु यथा निषिद्धेष्वर्थवादावगतप्रत्यवायपरिहारार्थतयैव पुरुषार्थत्वं तथा विहितेष्वप्यर्थवादाघगताननुष्ठानजन्यमत्यवायपरिहारार्थता कस्मान्न स्यात् । मैवम् । नहि सर्वत्रान्निहोत्रादिषु तथाविधार्थवादाः सन्ति । न च * विहि तस्याननुष्ठानान्नरः पतनमृच्छति ? इति स्मृतिरेवार्थवादस्थानीयेति युक्तम् । नहि प्रन्थान्तरस्थविधीनां ग्रन्थान्तरस्थं वाक्यमर्थवादः संभवति । भवतु वा कथं. चिदेकवाक्यतयाऽर्थवादस्तथाऽपि नाभावरूपमननुष्ठानं कार्यान्तरं जनयितुं क्षमम् । ननु ' ज्वरे चैवातिसारे च लङ्घनं परमौषधम् ? इत्यायुर्वेदवचनाद्भोजनाभावरूपं लङ्घनं अवरशान्ति जनयतीति यथाऽवगम्यते तथाऽत्रापि भवितुमर्हति । मैवम् । यतो नात्रापि लङ्घनाञ्वरशान्तिः । किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलि पाकजनिताद्धातुसाम्यादिति मन्तव्यम् । तस्मात्कथमननुष्ठानात्प्रत्यवायोत्पत्तिरुपपद्यत इति चेदुच्यते--अत्र ग्रत्यवायो नाम न भावरूपोऽभिप्रेतः किंतु कर्मन्तराधिकारानुत्पत्ति रूपः । तस्य च कर्मणामधिकारसिद्धिहेतुत्वबोधकेन विधिनैव व्यतिरेकात्सिद्धिः । प्रत्य बाङ्कस्य भावरूपत्वे तु नित्यानुष्ठानकाले तदननुष्ठानम्, तत्र प्रकृतिप्रतिबन्धकं प्रत्यवायं ज्ञापयतीति वा तदननुष्ठानस्य प्रत्यत्रायज्ञापकत्वं बोध्यम् । केचित्तु नित्याननुष्ठानस्य ऽपि तत्कालकृतकर्मान्तराणां तज्जनकत्वमित्यपि वदन्तीति न किं. विपरमपीदं विल्यत्वमवश्यकार्येत्वरूपम् । तच फलेनं कर्तुरवश्वं योजयितृत्वम् । नन्वेवं फूलमनिच्छता न कार्यमिति चेन्न । एतादृशेषु स्थलेषु प्रत्यवायपरिहारस्यैव फलत्वकल्पनात् । तस्य च सर्व प्रतीष्टत्वात् । ननु विश्वजिन्न्यायेन स्वर्गः किमिति न कल्प्यते ! मुमुक्षुभिरप्रार्थितत्वात् । प्रत्यवायपरिहारस्तु तैरपीष्यत एव । नन्वेवं विश्व . जित्यपि प्रत्यवायपारंहार एव फलं स्यात् । तत्रापि * सर्वान्प्रत्यविशिष्टत्वात् ? इत्युक्त त्रात् । .नेत्युच्यते, गैौरवात् । तथाहि-प्रत्यवायो हि न तावत्स्वरूपेण फलमपुरुषा र्थत्वात् । न च तप्रागभावः । तस्य स्वयमेव सिद्धत्वात् । न तद्ध्वंसः । उत्पन्नस्य दुःखस्य स्वंयमेव विशरणात् । ततश्च प्रत्यवायावच्छिलं तद्धेतुं च निरूप्य तदभावः फलं कल्पयि तव्यमिति गौरवम् । सुखस्य तु स्वयमेव साध्यत्वं सुकल्पमिति लाघवम् । तेन सुख रूपे तावत्साध्ये कल्पयिष्ये पशुपुत्रादिसुखविशेषपेक्षयाऽनवच्छिन्नसुखरूवस्य स्वर्गस्य

  • सर्वान्प्रत्यविशिष्टत्वात्' इति विशेष उच्यते । नन्वेवमन्निहोत्रादिष्वपि गौरवात्प्रत्य

वायपरिहारः फलं न सिध्येदपि तु लाघवात्स्वर्ग एवेति चेन्न । वैषम्यात् । यत्र निमित्तं श्रूयते तत्रैवावश्यकार्यत्वप्रतीया निमित्तवतामाधकारिणामसंकुचितानां सर्वेषां फलसाधन त्वस्य श्रुतस्यानुपरोधार्थं मुमुक्षुसाधारणसर्वाधिकारिभिरभिलषितप्रत्यवायपरिहारस्य फलर्ब कल्प्यते' .नान्यत्रेत्यन्निहोत्रादिबिधिषु * यावज्जीवम् ' इत्यादिनिमित्तवाचिपदश्रवणद्विः श्वजिदादिषु षु तदश्रवणान्नेोक्तातिप्रसङ्गः । इदमेव च नित्यत्वमङ्गसंकोचनिमित्तम् । तथाहि--अवश्यमेवास्मिन्सतीदं कृतं फलं साधयतीति प्रतीयते । यदि त्वङ्गलोपे न साधयेदवश्यसाधनत्वं विरुध्येत । नन्व धिकारेण कृतमवश्यं साधयतीति वक्तव्यमितस्था शूद्रादिकृतमपि साधयेदकाले च । संर्वाङ्गशक्तश्चाधिकारीत्यन्यादृशेन कृतमसाधनमिति । अत्रोच्यते-न तावच्छक्तिरधिका रिविशेषणं श्रूयते । साऽनुष्ठानोपदेशान्यथानुपपत्याऽशक्तस्य तदुपदेशासंभवात्कल्प्यते तत्र यावत्प्रयोगविधिना श्रुत्यर्थीद्वाऽनुष्ठाप्यते तच्छक्तिरधिकारैविशेषणम् । सा च स्ववाक्य निमित्ताविरोध्यङ्गमनुष्ठापयतीति यावन्त्यङ्गानि दाऽनुष्ठातुं शक्यन्ते तावन्ति तदाऽनुष्ठा पयति । न चैवमङ्गोपादानपरित्यागाभ्यां वैरूप्यं प्रसज्यते, यथाशक्ति कुर्यादित्येवंविधैक रूपयैव वचोभङ्गयोभयसिद्धेः । एतच प्रयोगविध्यनुष्ठाप्येष्वङ्गेघूच्यते । यद्धि कुर्यादित्युच्यते तद्यथाशक्त्यु पपद्यते । यानि तु स्वभावसिद्धानि विध्यन्तरसिद्धानि चोपजीव्यून्ते यथा लोकेऽर्थार्जनादि वेदे कालो विद्याऽन्निश्च तेषां स्वरूपेणैवाधिकारिविशेषणत्वम् । अमावास्या संबन्धी द्रव्यवान् विद्यावानग्मिानिति । एतदुक्तं भवति-अङ्ग हि नाम विधिसंबन्धादुपादीयते निमित्तानुरोधाच्यज्यते वा, उभयानुग्रहार्थ वा शक्त प्रत्युपादीयतेऽशक्तं प्रति त्यज्यत इति नान्या गतिरस्ति । तत्रोभयानुग्रहस्तावत्साधीयान् यदि संभवति । संभवश्चोपादेयेष्वङ्गेषु यथाशक्ति व्रीहीन् संपादयेत् , यथाशक्ति वाऽवहन्यादिति । आहवनीयादिस्वरूपं तु नानेन विधिनोपा दीयते । यद्यपि होमं प्रत्युपादीयते स्वरूपं तु नोपादीयते । तत्र यद्याहिताग्रािह वनीये जुहुयादतरश्च यत्र कचिदिति विधीयेत ततो वैरूप्यं प्रसज्येत । न च यथाशक्ति आहवनीयं संपाद्य जुहुयादिति उभयसाधारण्येन विधानं संभवति । अंाहवनीयसंपादनस्यात्रार्थादपि व्रीह्यादिसंपादनवद्विधानात् । तेनाऽऽहवनीयमनादृत्यैव होममात्रमनुष्ठाप्येत, आहवनीयवन्तं वाऽधिकृत्याऽऽहवनीये वा होमः । तत्रानादरे संत्या हवनीयविधरत्यन्तबाधप्रसङ्गात् । यावज्जीवशब्दस्य तदीयजीवनेऽपि कृतार्थत्वेनात्यन्त पीडाभावादग्मिाञ्जीवञ्जुहुयादित्येवमाश्रयिते । अनेन कालविद्यादयो व्याख्याताः । नन्वेवमङ्गान्तरेऽपि किमिति जीवनं नोपसंहियते-तच्छक्तिमाञ्जीवन्निति । शक्त्यू पेक्षयाऽप्युपसंहारे तेषामत्यन्तविरोधाभावात् । तत्र निमित्तं वाऽङ्गानुरोधेन किंचिद्वाध्यतेऽ. ङ्गानि वा निमित्तानुरोधेनेति चिन्तायां प्रधानवाक्ये श्रुतत्वेन निमित्तं प्रथमं प्रधान मनुरुध्य प्रधानाविरोधेनाङ्गानि संबन्धयति । काम्ये तु निमित्तवाक्यस्य कश्चिद्विरोधी नास्तीति अङ्गान्यपेक्षितान्युपसंहियन्त इति निखिलाङ्गयुक्तस्यैव प्रयोगः । नित्ये तु । ' यथोक्तन'न्यायेन विप्राझिकालार्षेयवरणपरित्यागेनान्येषामङ्गानां यथाशक्युपसंहारः । सोऽयं प्रत्यवायपरिहारोऽधिकारितावच्छेदकावच्छेदेनाभीप्सितत्वानित्यः । ततश्च नित्याभीप्सितो पांयत्वादप्यमिहोत्रादीनां नित्यत्वं बोध्यम् । ननु मुमुक्षुसाधारण्येनाभीप्सितत्वोपपत्त्यर्थ प्रत्यवायपरिहारस्य फलत्वमुतं तेन च मुमुक्षु णाऽपि कर्माण्यनुष्टयानाति प्राप्त तच * त्यजतैव हि तज्ज्ञेयम् ' इत्यादिश्रुतिविहित कर्मसंन्यासिन विरुध्यत इति चेन्न । यथा प्राबीजावापात्कर्षणं तदनन्तरमकर्षणमिति कर्षणाकर्षणाभ्यां व्रीह्यादिनिष्पत्तिस्तथा । आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगा रूढस्य तस्यैव शमः कारणमुच्यते ? इत्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादि रूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानं ततः कर्मसंन्यास इतिव्यवस्थाङ्गीकारात् । नित्यानां कर्मणां दुरितक्षयद्वारा चित्तशुद्धावुपयोगः । किंच * विहितत्वाचाऽऽश्रमकर्मापि '(३॥४॥३२) इति शारीरकसूत्रे मोक्षहेतुब्रह्म विद्यासाधनत्वमप्याश्रमकर्मणामवधारितम् । नन्वेवं - नित्यानित्यसंयोगविरोधाद्विद्यार्थत्वेन कर्म कुर्वतः प्रत्यवायपरिहाराय नित्यप्रयोगोऽपि पृथकर्तव्यः, न चेन्नित्यप्रयोगस्यैवानित्यत्वं स्यादिति चेन्न । यथा स्वर्गीर्थोऽग्रिहोत्रप्रयोगो नित्यविधेः प्रयोजकत्वं बाधित्वा निविशते यथा वा * यदि राजन्यं वैश्यं वा याजयेत स यदि सोमं ब्रिभक्षयिषन्न्यग्रेोधस्तिभीराहृत्य ताः संपिष्य दधन्युन्मृज्य तत्तस्मै भक्षं प्रयच्छेत् ? इति नैमित्तिकः फलचमसप्रयोगो नियं. सोमप्रयोगं विकृत्य निविशते, काम्यनैमित्तिकाभ्यां नित्यकार्थसिद्धेः ‘काम्यो वा नैमित्तिको वा नित्यमर्थ विकृत्य निविशते ? इति न्यायात् । यादृशो नित्यः प्रयोग करणार्थत्वेनं विहितस्तादृशस्येतरत्र प्रत्यभिज्ञानाच न पुनः प्रयोगापत्तिर्नापि नित्यप्रयोग स्यानित्यतापत्तिरेवमत्रापि । ननु कारणस्य कार्याव्यवहितप्राक लवृतित्वावश्यकत्वात्कर्मणां चाऽऽशुविनाशित्वात्काला न्तरभाविफलहेतुत्वमनुपपन्नम् । इति चेदत्र केचित्-श्रुतार्थापत्या विनष्टानामेव फलारम्भ कत्वं फलारम्भपर्यन्तस्थायित्वं वा कर्मणां कल्प्यमिति । तन्न । अर्थापत्या हि तदेव कल्प यितुमुचितं यन्न प्रमाणान्तरेण विरुध्येत स्त्वन्तरस्य फलारम्भकत्वम्, एवं स्थायित्वमपि क्षणमात्रवर्तिनः प्रमाणविरुद्धमतोऽपर्व व्यापारभूतं यागादेः कल्प्यम् । न , चैवं श्रुत्या यागस्य फलहेतुत्वं बोध्यते भवता चापूर्वस्य तदिष्यत इति श्रुतिविरोधः शङ्कयः । अपुर्वस्य यागशक्तित्वादवान्तरव्यापार त्वाद्वा । नहि शक्त्याऽवान्तरव्यापारेण वा व्यवधिरकारणतामापादयति काष्ठानामिव ज्वालया। न चात्र शक्तिमति व्यापारवति वाऽतीते शक्तव्यारस्य वाऽवस्थनायोगः शङ्कयः । नचावश्यं शक्तिमयेव शक्याऽक्स्थातव्यमिति नियमः, यतः कार्यानुमेया शक्तिः, यत्रैव कार्यायालं तत्रैब कल्प्यते । अते यागशक्तिरात्मन्येव. तिष्ठतीति न विरोधः । एतदेवा वान्तरव्यापाराणां तत्त्वं यत्समीहितोद्दशप्रवृत्तेन साधनेन तत्सिद्ध्यर्थमन्तरा साक्ष्यमानत्वम् । तस्मादस्त्यपूर्व फलसाधनस्य कर्मणोऽवान्तरव्यापारभूतमङ्गानां च फलवदुपकारसाधना नाम् । एषाऽत्र प्रक्रिया-प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनत्वं बोध्यते यागेन स्वगै कुर्यादिति । कथं विनश्वरेण फलं कर्तव्यमित्यपेक्षायामपूर्वं कृत्वेत्युच्यते । कथमपूर्व क्रियत. इत्यपेक्षायामङ्गानुष्ठानप्रकारेणेति । ततः पूर्वापरकालवर्तिभिरङ्गव्यापारविषयी कृतस्य यागस्यापूर्वसाधनत्वं न स्वरूपेण संभवतीति अपूर्वान्तरमपि परिकल्प्यते । दर्श पूर्णमासयोस्तु पक्षद्वयवर्तिभ्यां समुदायाभ्यां युगपत्फलापूर्वारम्भायोगादेकैकं प्रतिसमु दायमपूर्व. कल्प्यते । तत्कथंभावापेक्षायामग्न्यन्वाधानाद्यङ्गोपदेशः । ततः पूर्ववदेव पूर्वोः तराङ्गसंहितेभ्यस्तदुत्पत्तिर्न स्वरूपेण संभवतीति प्रतित्रिकं त्रीणि त्रीण्यपूर्वाणि कल्यन्ते । यदि पुनः षड्यागेभ्यः प्रथममेव षडपूर्वाणि कल्प्येरंस्ततोऽपूर्वार्थत्वादङ्गानामङ्गोपकृतेभ्यो यागेभ्योऽपूर्वसिद्धयै षडपूर्वाणि कल्प्यानि स्युरिति गौरवम् । तस्मादेकमेव फलापूर्वमुत्पत्यपू र्वाणि तु प्रतिप्रधानं भिद्यन्ते। तथाऽङ्गान्यपि क्रतूपकारकत्वेन स्वीकृतानि क्षणिकत्वान्न स्वरू पेण संहत्योपकर्तु शक्नुवन्तीत्यवान्तरव्यापाररूपाण्यंपूर्वाणि तावदारभन्ते । ततः सर्वाणि संहत्य प्रधानस्य सामथ्र्योद्वेोधनं फलारम्भेोन्मुखत्वरूपमनुग्रहं परमोपकाराभिधं जनयन्ति । तत्र त्वयं विभागः-संनिपत्योपकारकाणि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैव शक्त्यतिशयमादधानानि तदुत्पत्यपूर्वनिष्पतैौ व्याप्रियन्ते तद्द्वारेण फलापूर्वे । आरादुप कारकाणि तु साक्षादेवोत्पत्यपूर्वेभ्यः फलापूर्वनिष्पत्तौ । एवं प्रकारभेदे सत्यपि सर्वाण्य ङ्गानि यागापूर्वनिष्पत्तावनुग्राहकाणि भवन्तीत्येकरूपेणेत्थंभावेन स्वी क्रियन्ते । तस्माद स्ति कर्मजन्यं फलपर्यन्तस्थायि कर्मावान्तरव्यापारभूतमपूर्वमिति न कर्मणां कालान्तर वेदान्तिनस्तु-देवताप्रसादादेव स्थायिनः फलेोत्पत्तेरुपपत्तेः कृतमपुर्वेण । एवमशुभे नापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धं ततः स्थायिनोऽनिष्टफलप्रसवः । यथा च परमापूर्वे कर्तव्य उत्पत्यपूर्वाणामङ्गापूर्वाणां चोपयोग एवं प्रधानाराधनेऽङ्गाराधनानामुत्प त्याराधनानां चोपयोगः स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति मन्यन्ते । ए प्रथमाक्षेपः परिहृतस्तत्प्रसङ्गायातं चान्यदपि निरूपितमिदानीं द्वितीयाक्षेपः परिह्रियते यद्वेदान्तेषु ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वमुक्तं तस्य नायमभिप्राय:, वञ्चकवाक्यवत्स्त्र गर्गाद्युद्देशेन यागादिविधायिकानां श्रुतीनामप्रामाण्यमिति । अपि तु जगतः प्रत्यक्षादिप्रमाण सिद्धत्वात् * नेह नानाऽस्ति, आत्मैवेदं सर्वम्, एकमेवाद्वितीयं ब्रह्म ' इत्यादिश्रुतिवचनै स्तदभावस्य च प्रतिपादनातू , प्रमाणानां बलाबलविचारे च स्वार्थे तात्पर्थवत्याः श्रुतेरु भास्ताविकं किंचित् । ॐ भूधरभूजानिर्विजयतेतमाम् । अवि श्रुतिस्मृतिपारदृश्वानो विचारचातुरीचतुराः श्रौतस्मार्तकर्मनिष्ठा गरिष्ठा विद्वांस । विदितचरमेवेदं तत्रभवतां अन्निहोत्रस्यावश्यः भवतां यद् “एतद्वै :जरामर्य सत्रं यदग्रिहोत्रं कर्तव्यता जरया :वा होवास्मान्मुच्यते मृत्युना

  • यावज्जीवमग्रिहोत्रं जुहुयात्' इत्यादिश्रुति

शासनात् ।

  • कर्म स्मातै विवाहाझैौकुर्वीत प्रत्यहं गृही ।

दायकालाहृते वाऽपि श्रौतं वैतानिकाप्तिषु ? । यक्षता इति याज्ञवल्क्यस्मृत्यनुज्ञानाच प्रत्यधिकारपुरुषमन्निहोत्रमवश्यकर्तव्यं तामाटीकते श्रौतधर्मत्वादिति । सोऽयं धर्मस्तत्फलं च प्रत्यक्षतो ज्ञातुं शक्यं न वेति मीमांस्यते । साक्षात्कृतधर्माण ऋषयो बभूवुः । धर्मतत्फलयोरप्र- (नि० १ । ५ )इत्यादिभिर्यास्कादिवचनैर्धर्मः प्रत्यक्षतो ज्ञातुं शक्यत इति :पूर्वपक्षः । धर्म विचारं प्रतिज्ञाय प्रवृत्ता या द्वादशलक्षणी मार्ची मीमांसा तया राद्धान्तितत्वाद्धर्मस्तत्फलं च न प्रत्यक्षमित्युत्तरः पक्षः सिद्धान्तभूतः । तथाहि-भगवताजैमिनिना * अथातो धर्मजिज्ञासा (जै० सू० १ । १ । १) इति धर्मविचारं प्रतिज्ञाय तत्प्रमाणपरीक्षार्थ ‘तस्य निमित्तपरीष्टिः’ (जै० सू० १ । १ । ३ ।) इति सूत्रं प्रणी यते तेन च धर्मप्रमाणानि परीक्ष्यन्त इति प्रतिज्ञायते । ततश्च प्रमाणान्तराणि पञ्चापि परीक्ष्य केवलं शब्दैकसमधिगम्यत्वं धर्मस्य सिद्धा न्तितम् । * सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्ष मनिमित्तं विद्यमानोपलम्भनत्वात् '(जै० सू० । १ । १ । ४ ।) इति सूत्रेण धर्मस्य प्रत्यक्षप्रमाणगम्यता नास्तीति च प्रत्यष्ठापि । अस्मि न्विचारे जैमिनिमहर्षिवचः प्रमाणतरम् । आहत्य धर्मविचारार्थमेव प्रवृ तत्वात् । यास्कादीनां वचस्तु गौणं शब्दनिरुक्यर्थं तेषां मुख्यतयां एवमस्य धमस्यानुष्ठेयत्वे सिद्धे तदनुष्ठानप्रकाराणां बोधका ग्रन्थाः क इति जिज्ञासा भवति । एतावत्कालपर्यन्तं अनुष्ठानबाधक- वैद्यमानेषु प्रन्थेषु कल्पसूत्रब्राह्मणग्रन्था मूर्धन्यः भूताः । कल्पसूत्रेभ्यो ब्राह्मणग्रन्थाः प्राचीनतमा स्तथाऽपि विधिशेषापरपर्यायार्थवादरहितत्वात्सूत्र ग्रन्थेष्वेव प्रवृत्तिः सर्वेषाम् । अथाप्यध्ययनपरम्परा ब्राह्मणग्रथानामपि जागर्ति मन्त्रार्थोपयुक्तत्वातेषाम् । अनुष्ठानविषये सूत्रग्रन्थास्तानतिशेरते केवलानुष्ठानुबोधकत्वात् । सूत्रग्रन्थानां दुरवगाहत्वात्प्रयोगवृत्यादयो ग्रन्था निरमीयन्त तैस्तैन्थकृद्भिः । यथा जाग्रत्स्वपि भाष्यवार्तिकेषु काशिका सिद्धान्तकौमुद्यादयो ग्रन्था व्याकरणशास्त्रे प्राणीयन्त धीमद्भिः पण्डित वरेण्यैः । यान्सूत्रग्रन्थान्प्रमाणीकृत्य प्रयोगग्रन्था न्यबध्यन्त विद्वरैस्ते सूत्रग्रन्ध दुर्लभाः पाश्चात्यदेशे कचित्क इदानीं भारतवर्षे स्वोत्पत्तिस्थाने चिन्मुद्यत इति प्रसक्तानुप्रसक्त्या ज्ञापयितुं दूयते चेतः । एवमास न्पूर्वप्रयोगाः परंतु तत्रपि काश्चन त्रुटयो दरीदृश्यन्ते प्रेक्षावत्प्रवृत्तिविघा तिन्यः । ताश्च यथा पूर्वप्रयोगेषु सूत्रानुसारं प्रणीतेष्वपि सूत्राणि यथा स्थानं न प्रदइन्ते । तत्र च पृथक्पृथक्प्रयोगाः ( हौत्रप्रयोगः, आध्वर्ये वप्रयोगः, ओद्भात्रप्रयोगः) प्रणीयन्ते तत्समवायेन प्रयोगद्रष्टणां वैरस्याय । किंच तत्र सूत्रार्थः प्रयोगमीमांसा च न प्रदर्शयेते । मीमांसया विना प्रयोगशास्त्रापरपर्यायेतिकर्तव्यता न समाप्यते । यत उक्तं श्रीकुमारिलभट्ट पादैर्वार्तिके * इतिकर्तव्यताभार्ग मीमासा पूरयिष्यति ? इति । प्रमाणशास्त्रप्रमाणितमतिभिः किञ्जवडेकरवा मनशास्त्रिभिः पूर्वोक्तत्रुटीर्निराकुर्वद्भिरिये श्रौत अग्निहोत्रचनि . काया अपूर्वता धर्मविषयेऽमिहोत्रचन्द्रिका निरमायि । अत्र परि भाषादिसूत्राणि यथायथं लक्ष्यानुसारं कौमुदी कृद्वैिः सूत्राणि यधा प्रविभक्तानि तथा विभज्य यथास्थानं तन्निवेशः कृतः । ततः सूत्रार्थो दर्शितः । मन्त्रार्थोऽपि प्रदर्शितः । प्रतिकर्म मीमांसाऽथ्यादृता । मीमांसाशास्त्रं प्रयोगशास्त्रेण न संबध्यत इत्येवाऽऽसीन्मतिरेतावत्कालपर्यन्तं याज्ञिकानां साऽऽयेतद्ग्रन्थालो चनतो विहनिष्यते । सूत्रप्रतिकूलाः प्रयोगान्तरगृहीता निर्देशाः परित्यक्ताः । अत्र ग्रन्थेऽझिहोत्रकुण्डादिप्रतिकृतिदर्शकमादर्शपत्रमारम्भ एव मुद्रितं तेन सर्वजनसुविज्ञेयोऽयं ग्रन्थः स्यात्तथाऽत्राऽऽधानपद्धतिशेषः समीमांसै प्रद र्शितः । अथ च कुत्रापि देश एतावत्कालपर्यन्तममुद्रितं देवत्रातभाष्यं यथास्थानं न्यवेशि । यच श्रौतकर्मनिष्ठागरिष्ठराहिताग्ििभर्गणेशशा त्रिभिः सप्रेम वर्षत्रयाप्राक्प्रादायि ग्रन्थकृते। ते च महाभागा वर्षद्वयात्पूर्वं दिवं गतास्तेन चन्द्रिका तदृष्टिपथं नायासीत् । किं चात्र ग्रन्थे प्रसक्तानु प्रसैक्त्या कल्पसूत्रानुसारमाश्रमविचारादयो विषया अपि न्यबध्यन्त । एवं च चन्द्रिका सर्वसहृदयहृदयान्याह्लादयेदेव । यथा सूर्यप्रकाशप्रकाशितच न्द्रचन्द्रिकाप्रदर्शितो मार्गः सुखेन स्वेष्टग्रामप्रापक एवं कल्पसूत्रसूर्यप्रकाश ताग्रिहोत्रचन्द्रिका धर्मपथप्रवर्तिका भवेदिति सुदृढमाशास्महे । प्राय इयं चान्द्रका सर्वगुणमयी तथाऽपि गच्छतः स्खलनमिति न्यायानुकारो ग्रन्थकृता दुष्परिहरः । तद्विषये विद्वांसो लोकवृत्तज्ञा गुणैकपक्ष पातिनः क्षाम्येयुरिति संसूचयामः । तथैव चन्द्रिकाप्रणेतारोऽपि प्राथ्र्यन्ते यतैरेवमेव श्रौतविषये ग्रन्थान्प्रणीय जनानां वैदिककर्मण्यादरः संव धैयितव्यः । प्रकृतिग्रन्थास्तैः प्रणीयेरन् । आनन्दाश्रमस्य व्यव स्थापकैश्च ते संमुद्रेरंस्तर्हि वैदिकपथानुयायिनो जना महोपकृतिभाजो भवेयुरिति संभावयामः । अत्र विषयान्तरमादृत्यापि सर्वजनोपकृतये सप्रश्रयं संसूच्यन्ते पुण्यपतनस्थानन्दाश्रमसंस्थाया अधिपाः सुगृहीतनाम धेयाः श्रीविनायकशर्माण आपटेकुलकमलदिवाकराः । यत्-अयि श्रेष्ठाः, सुविदितमेतच्छूीमतां यच्छार्मण्यदेशीयाः ( जर्मन्स्) कल्पसूत्रब्राह्मणादि ग्रन्थान्मुद्रापयन्ति स्वदेशे भारतीयमहर्षिप्रणीतान् । यद्यपि ते महता श्रमेण मुद्रापयन्ति तथाऽपि भारतीयविद्वत्साहाय्याभावातैस्तत्कर्म सुव्यव स्थिततया सुशुद्धतया चानुष्ठातुं न पार्यत इति । अतः श्रीमद्भिरवश्य कर्तव्यतामापतत्येतत्कार्यम्। यतेऽत्र तज्ज्ञविद्वत्साहाय्यं सुकरं वैदिकग्रन्थ मुद्रापणजं श्रेयोऽपि लभ्येत । चैिवं दृढं विश्वसिमो यदेतादृशग्रन्थमुद्रा पणार्थमेवाऽऽनन्दाश्रमसंस्थाया अवतार इति । तेन चू स्वकार्थे निर्वाहितं यथायथमिति प्रमोदोऽपि श्रीमतां चेतसि पदं कुर्यात् । किंच क्रेतभिरिमे ग्रन्था अल्पमूल्येनैव लभ्येरन् । अतः स्वपरहितसंसाधकमेतत्कार्ये श्रीम द्भिरवश्यमेवोररीकृत्योपकारभरेण नमयितव्या विद्वांस इति संप्राथ्र्य विरमाम इति शम् । विद्वज्जनवशंवदः पाठकोपाह्वस्त्र्यम्बकतनूजनुः श्रीधरशर्मा पुण्यपत्तनस्थ-दाक्षिणात्यमहाविद्यालय (डकनकॉलेज़) स्थः शास्त्राध्यापक निवेदनम् । श्रीरामदीक्षितानां साहाय्याद्विरचिता मयाऽल्पधिया । भवतु मुदे गिरिजापतिपदार्पिता चन्द्रिकाऽमिहोत्रस्य ।। १ ।। जानक्यां रामचन्द्रादधिगतजनुषो यस्य बन्धुर्वरीयान् दत्तात्रेयाभिधेयः सकलनिगमवित्सोमयाजी सुशीलः । अन्यौ द्वौ शीलविद्यामुखगुणरुचिरौ विष्णुगोविन्दसंज्ञौ खापर्ड श्रीगणेशो विलसति च महानाश्रयो यस्य नित्यम् ॥२॥ स्वाध्यायं केशवार्यात्, निगुडकरमुरोधमतः शब्दशास्त्र तन्त्रं वैयासिकं यो बुधकुलतिलकाच्छूीविरूपाक्षसूरेः । मीमांसां वैद्यनाथाचिरतरमपठीद्रामतः श्रौतविद्यां तेन श्रीवामनेन व्यरचि कृतिरियं क्षम्यतां वेिद्वरिष्ठेः ।। ३ ॥ अयि प्रियवाचकमहाशयाः, सुतरां खलु मुदमापन्नोऽस्म्यद्य भवतां करतलं प्रापयन्नमिहोत्रचन्द्रिकामिमाम् । यद्यपि नानाविधान्धान्यराशी न्स्वगृहस्थितेषु कोष्ठागारेषु व्यवस्थापयन्क्षेत्राधिपतिलकानामादराय भवति गीयते च श्रीमांश्चेति सर्वेस्तथाऽपि “ नासौ विस्मरति सस्योत्पादने कृत परिश्रमान्दीघद्योगिनोऽनेकान्पुरुषान्, न ह्येकेनैव तेन निखिला कृषिः कृष्यते न हि स्वेनैव तेन सर्वबीजनिर्वापणं क्रियते न वा सस्यधारणा पर्यन्तं बहुविधाः परिश्रमाः सह्यन्ते । एवमेव ग्रन्थोऽयं श्रीमतां कृपापात्र मभूदद्य तथाऽपि तनिर्माणे सहृदयाः सहाया अपि भूयांसः सन्तीति निवेदयन्वहाम्युपकारभरानेतेषामनेकशो विनीतेन शिरसा । तत्र स्मृतिपथमायाति पुनः पुनः श्रीमालोकमान्यो गङ्गाधरात्मज स्तिलकान्वयजो बालशर्मा, महाभागोऽसौ ग्रन्थमिमं प्रत्यक्षीकर्तु नाव शेषितः करुणाविमुखेन कृतान्तेनेति नितरां विषण्णोऽस्मि संवृत्तः । अनेन खलु परमोदारेण पुरुषपुंगवेन स्वकीयग्रन्थालयस्थमृक्संहिताभा ष्यमुपहारेरॉकृत ग्रन्थकर्ने । न केवलं प्रस्तुतग्रन्थप्रकाशने किंतु नित्य मेव शास्त्रीयवाग्यज्ञानुष्ठानसमये साहाय्यं व्यतनोदेष ममेति सविनयमावि ष्करोमि कृतज्ञतामेतस्मिन् । अथास्मिनुपकृतस्मृतिसमुद्यमे झटिति वर्णनविषयमवतरति मदीया लेखनी तत्रभवतः श्रीमतः परांजपेकुलदीपकस्य शिवरामात्मजस्य नरहर शर्मणः ( डॉ० बाबासाहेब परांजपे ) । एतेन खलु सुगृहीतनामधेयेन वैद्यशास्त्रनदीष्णेनाधीतबहृचेन पावनचारतेन राष्ट्रकार्यधुरंधरेण वर्णाश्रम व्यवस्थासंरक्षणबद्धपरिकरण पुरुषार्थचतुष्टयप्रतिपादननिपुणेनाऽऽयासित आत्मा मत्कृते । न केवलमत्रत्यान्यपि तु विदेशीयान्यपि पुस्तकंानि मद्दत प्रयासेन संपाद्य वितीर्णान्येतेन महात्मना मे । नावगच्छामि कथमपि कथमस्याऽऽनृण्यमुपगन्ताऽस्मीति । मुम्बापुरमध्यवर्तिबृहन्मन्दिरा ीश्वरान्गोस्वामिकुलभूषणाञ्श्री १०८ श्रीगोकुलनाथमहोदयाञ्शतशः प्रणम्य तैः प्रदत्तेन मानवकल्पसूत्रैकदेशेन बहुमूल्यग्रन्थेन सुमहती सम त्कार्यनिष्पत्तिर्ममेति सानन्दमुद्धेोषयामि । आहिताग्रिभिर्नानलकुलेोत्पनैरनवरतमग्रिसेवां कुर्वद्भिर्गणेशात्रिभि नैखिलेऽपि जगति दुरापः श्रीदेवत्रातभाष्यग्रन्थः प्रसादीकृतो ममेति [र्णनातीतमेतेषामौदार्यम् । आनन्दाश्रमसंस्थाधिकारिभिः श्रीविनायकरायआपटेमहाशयैर्मुद्रितेोऽयं न्थ इति श्लाध्यमेषां चारितम् । श्रौतप्रकरणस्थग्रन्थान्तरमुद्रणेऽपि वर्ध तामेतेषामेवमेव परमेश्वरकृपाकटाक्षत इति मे मनीषा । सद्बुद्धिः. किंजवडेकरकुलापरवसिष्ठभूतैः श्रीरामचन्द्रात्मजदत्तात्रेयशर्मभिरा हिताग्ििभः सोमयाजिभिरत्राऽऽगत्य न्युष्य चाऽऽग्रन्थसमाप्ति ग्रन्थलेखने बृहत्साहाय्यमकारि । तथैव वेदशास्त्रोदधिपारंगतानां प्रयोगशास्त्रनदीष्ण हानगलग्रामनिवासिनां श्रीरामदीक्षितानां प्रत्यक्षप्रयोगविज्ञानस्य साहाय्यं विनाऽसंभाव्यैव ग्रन्थनिष्पत्तिरिति साञ्जलिबन्धं स्मरामि तदुपकृती : डेक्कनकेॉलेजस्थैः शात्राध्यापकैराचाथैः श्रीधरशास्त्रिभिः पाठकमहो। दयैव्र्यलेखि ग्रन्थस्यास्य प्रस्तावो भूयोभूयश्च संपादितं संशोधनमिति वितरामि तेभ्योऽनेकशो धन्यवादान् । मिरजकरवंशभूषणै: श्रीमुकुन्द शास्त्रिभिः संस्कृताध्यापकैश्वाङ्गीकृतमन्तराऽन्तरा सहकार्यमिति तेष्वपि दर्शितादरोऽयं जनः । एवं च पारसमाप्याऽऽनन्दनकरं निवेदनमेतचराचराधारभूतस्य कैला सपते: कोरग्रामनिवासिनः श्रीकमलेश्वरस्य प्रसादत आदिशक्तर्महालक्ष्म्याः कृपाकटाक्षतः पूज्यपादविरूपाक्षचरणानां गुरुवर्यवैद्यनाथशास्त्रिणामध्या पककेशवभट्टपादानां दत्तात्रेयशात्रिनिगुडकराख्यानां गुरुचरणानां पण: निवेदनम् । श्रीरामदीक्षितानां साहाय्याद्विरचिता मयाऽल्पधिया । भवतु मुदे गिरिजापतिपदार्पिता चन्द्रिकाऽग्निहोत्रस्य ।। १ ।। जानक्यां रामचन्द्रादधिगतजनुषो यस्य बन्धुर्वरीयान् दत्तात्रेयाभिधेयः सकलनिगमवित्सोमयाजी सुशीलः । अन्यौ द्वौ शीलविद्यामुख्वगुणरुचिरौ विष्णुगोविन्दसंज्ञौ खापर्ड श्रीगणेशो विलसति च महानाश्रयो यस्य िनत्यम्॥२॥ स्वाध्यायं केशवार्यात्, निगुडकरगुरोधमतः शब्दशास्त्र तन्त्रं वैयासिकं यो बुधकुलतिलकाच्छूीविरूपाक्षसूरेः । मीमांसां वैद्यनाथाचिरतरमपठीद्रामतः श्रौतविद्यां तेन श्रीवामनेन व्यरचि कृतिरियं क्षम्यतां विद्वरिडैः ॥ ३ ॥ अयेि प्रियवाचकमहाशयाः, सुतरां खलु मुदमापन्नोऽस्म्यद्य भवतां. करतलं प्रापयन्नग्निहोत्रचन्द्रिकामिमाम् । यद्यपि नानाविधान्धान्यराशी न्स्वगृहस्थतषु व्यवस्थापयन्क्षत्राधिपातलकानामादराय भवात कोष्ठागारेषु गीयते च श्रीमांश्चेति सर्वैस्तथाऽपि नासौ विस्मरति सस्योत्पादने कृत परिश्रमान्दीघद्योगिनोऽनेकान्पुरुषान्, न होकेनैव तेन निखिला कृषिः कृष्यते न हि स्वेनैव तेन सर्वबीजनिर्वापणं क्रियते न वा सस्यधारणा पर्यन्तं बहुविधाः परिश्रमाः सह्यन्ते । एवमेव ग्रन्थोऽयं श्रीमतां कृपापात्र मभूदद्य तथाऽपि तनिर्माणे सहृदयाः सहाया अपि भूयांसः सन्तीति निवेदयन्वहाम्युपकारभरानेतेषामनेकशो विनीतेन शिरसा । तत्र स्मृतपथमायाति पुनः पुनः श्रामालाकमान्य गङ्गाधरात्मज स्तिलकान्वयजो बालशर्मा, महाभागोऽसौ ग्रन्थमिमं प्रत्यक्षीकर्तु नाव शेषितः करुणाविमुखेन कृतान्तेनेति नितरां विषण्णोऽस्मि संवत्तः । अनेन खलु परमोदारेण पुरुषपुंगवेन स्वकीयग्रन्थालयस्थमृक्संहिताभा ष्यमुपहारीकृतं ग्रन्थकत्रे । न केवलं प्रस्तुतग्रन्थप्रकाशने किंतु नित्य मेव शास्त्रीयवाग्यज्ञानुष्ठानसमये साहाय्यं व्यतनोदेष ममेति सविनयमावि ष्करोमि कृतज्ञतामेतस्मिन् । अथास्मिनुपकृतस्मृतिसमुद्यमे झटिति वर्णनविषयमवतरति मदीया लेखनी तत्रभवतः श्रीमत: परांजपेकुलदीपकस्य शिवरामात्मजस्य नरहर शर्मणः (डॉ० बावासाहेब परांजपे ) । एतेन खलु सुगृहीतनामधेयेन वैद्यशास्त्रनदीष्णेनाधीतबचेन पावनचारतेन राष्ट्रकार्यधुरंधरेण वर्णाश्रम व्यवस्थासंरक्षण्णबद्धपरिकरण पुरुषार्थचतुष्टयप्रतिपादननिपुणेनाऽऽयासित आत्मा मत्कृते । न केवलमत्रत्यान्यपि तु विदेशीयान्यपि पुस्तकंानि महता प्रयासेन संपाद्य वितीर्णान्येतेन महात्मना मे । नावगच्छामि कथमपि कथमस्याऽऽनृण्यमुपगन्ताऽस्मीति । मुम्बापुरमध्यवर्तिबृहन्मन्दिरा धीश्वरान्गोस्वामिकुलभूषणाञ्श्री १०८ श्रीगोकुलनाथमहोदयाञ्शतशः प्रणम्य तैः प्रदत्तेन मानवकल्पसूत्रैकदेशेन बहुमूल्यग्रन्थेन सुमहती समः भूत्कार्यनिष्पत्तिर्ममेति सानन्दमुद्धोषयामि । आहिताग्रिभिर्नानलकुलेोत्पलैरनवरतमग्सेिवां कुर्वद्भिर्गणेशशास्त्रिभि र्निखिलेऽपि जगति दुरापः श्रीदेवत्रातभाष्यग्रन्थः प्रसादीकृतो ममेति वर्णनातीतमेतेषामौदार्यम् । आनन्दाश्रमसंस्थाधिकारिभिः श्रीविनायकरायआपटेमहाशयैर्मुद्रितेोऽयं ग्रन्थ इति श्लाध्यमेषां चारतम् । श्रौतप्रकरणस्थग्रन्थान्तरमुद्रणेऽपि वर्ध तामेतेषामेवमेव सद्बुद्धिः.परमेश्वरकृपाकटाक्षत इति मे मनीषा । किंजवडेकरकुलापरवसिष्ठभूतैः श्रीरामचन्द्रात्मजदत्तात्रेयशर्मभिरा हिताग्ििभः सोमयाजिभिरत्राऽऽगत्य न्युष्य चाऽऽग्रन्थसमाप्ति ग्रन्थलेखने बृहत्साहाय्यमकारि । तथैव वेदशास्त्रोदधिपारंगतानां प्रयोगशास्त्रनदीष्ण हानगलग्रामनिवासिनां श्रीरामदीक्षितानां प्रत्यक्षप्रयोगविज्ञानस्य साहाय्यं विनाऽसंभाव्यैव ग्रन्थनिष्पत्तिरिति साञ्जलिबन्धं स्मरामि तदुपकृती: पुनःपुनः । डेक्कनकेॉलेजस्थैः शास्त्राध्यापकैराचायैः श्रीधरशास्त्रिभिः पाठकमहो दयैव्येलेखि ग्रन्थस्यास्य प्रस्तावो भूयोभूयश्च संपादितं संशोधनमिति वितरामि तेभ्योऽनेकशो धन्यवादान् । मिरजकरवंशभूषणै: श्रीमुकुन्द शात्रिभिः संस्कृताध्यापकैश्चाङ्गीकृतमन्तराऽन्तरा सहकार्यमिति तेष्वपि दर्शितादरोऽयं जनः । एवं च पारसमाप्याऽऽनन्दनकरं निवेदनमेतचराचराधारभूतस्य कैला सपते: कोरग्रामनिवासिनः श्रीकमलेश्वरस्य प्रसादत आदिशतेर्महालक्ष्म्याः कृपाकटाक्षतः पूज्यपादविरूपाक्षचरणानां गुरुवर्यवैद्यनाथशास्त्रिणामध्या पककेशवभट्टपादानां दत्तात्रेयशास्त्रनिगुडकराख्यानां गुरुचरणानां पण: शीकराख्यदचात्रेयशात्रिणां, रघुनाथकृष्णपाटणकराख्यानां महोदयानां सन्मित्राणां चाऽऽशिषा भवतु मत्तः पुनरेवं ग्रन्थनिष्पतिारैति प्रकटय्य मनोरथं समापयाम्येतन्निवेदनम् । नेत्रवेदवसुभूमिते ( १८४२ ) शालिवाहनशाके समाप्तिमगमदयं ग्रन्थः पुण्यपत्तने केळकरोपाहृमाधवरा याणामारामेऽग्रिहोत्रशालायामाश्चिनसुदि पैौर्णमास्यामिति शम् । विदुषामनुचरो वामनशर्म आयामविस्तारौ-देवयजनस्याऽऽयामविस्तारावर्थलक्षणाविति सूत्रकारेण प्रमाणानुः क्तत्वाज्ज्ञायेते । अर्थलक्षणं तु कल्पान्तरप्रणेतृभिव्यक्तीकृतमस्ति । तदेवम् । आयामः पेोडशप्रक्रमः । विस्तारो द्वादशप्रक्रमः । नन्वन्यतो ग्रहणे दोषः स्यादिति मैवम अनुक्तमन्यतो ग्राह्यमिति न्यायान्निषेधाभावाचेति विभाव्यताम् । आगारपार्थक्यम्--तस्मिन्देवयजन आगारद्वयं कल्पनीयम् । तदेतत्सूत्रकारः सूत्र देवयजनप्रतिष्ठतिप्रदर्शितविषयप्रमाणानि । 1ान्भवः

  • अन्यदाहवनीयागारमन्यद्भार्हपत्यस्य ” ( आप० श्रौ० सू० ५४॥६॥)

सूत्रार्थः-गार्हपत्यागारात्पृथगेवाऽऽहवनीयस्याप्यागारं कर्तव्यमित्यर्थः । गार्हषयामा एव दक्षिणाग्न्यागारं भवतीत्युक्तं भवति । आगारं शरणमित्यनर्थान्तरम् । शरणनियमः--तत्र प्रत्यागारमुदीचीनाग्रवंशतानियमः । सूत्रयति च

  • तस्मिनुदीचीनवंशं शरणं करोति ? ( आप० श्रौ०सू० ५४॥१॥)

सूत्रार्थः—उदीचीनान्वंशानिधाय गार्हपत्यस्य शरणं कुर्यात् । तत्र शरणस्य स्तम्भ चनाविशेषं सौकर्यावहं प्रदर्शयामः । प्रतिशरणं स्तम्भास्त्वेकादश द्वादश वा खातव्याः । त्र प्रतिस्तम्भमन्तरालं प्रतिकृतावङ्कितरीत्या षट्चतुस्त्रिप्रक्रममिति ज्ञेयम् । गार्हपत्यस्य क्षिणस्यां दिशि शकटगमनार्हमेकं द्वारं कल्पनीयम् । आहवनीयशरणेऽप्येकं द्वारं {ाचीनं कल्पनीयं शेषमागारं गार्हपत्यागारवत्कार्य । आयतननिर्मितिः-आयतननिर्माणमानप्रकारः प्रतिकृतै योऽस्माभिः प्रादर्शि परम्परामूलकः । परम्परा वितिहासप्रमाणमूलिकेति सुन्दरराजकृच्छुल्बसूत्रव्याख्यानतोऽ [गच्छामः । एव हि तत्र व्याख्यानम्--

  • मण्डलं गार्हपत्यस्य, अर्धमण्डलं दक्षिणाग्रेः, चतुरश्रमाहवनी

यस्यैतिहासिकाः सर्वाणि चाऽऽयतनानि क्षेत्रतस्तुल्यानीत्याहु रिति च 1) सूत्रकारमत्याऽऽयतननिर्मितिप्रकारस्तु यथावन्निणय यथावकाशं दार्शिके विहारे प्रदर्श गार्हपत्यायतनस्थलनिर्देशः-गार्हपत्यशरणस्य पृष्ठवंशादधस्लनदेशमग्रे गार्ह पत्यायतनस्थानमिति सूत्रकारेण सूत्रितम् । तद्यथा

  • तस्याग्रेण मध्यमं वैशं गापत्यायतनं भवति ? (आप० श्रौ० ५॥४॥२)

सूत्रार्थःपृष्ठवंशादधस्तनं देशमग्रेण गार्हपत्यस्य । -तस्य शरणस्य स्थानं भवति आयतनमानम्-पञ्चतिलाधिकसार्धत्रयोदशाङ्गुलपरिमितेन शुल्बेन कर्कटेन वा। कृतवर्तुलं गार्हपत्याग्रेरायतनं भवति । १ चतुत्रिंशतिलाः पृथुसंश्लिष्टाः—एकमङ्गुलम् । पृथुसंश्लिष्टः-चतसृष्वपि दिक्षु संश्लिष्टाः प्रथनगुणविशिष्टा इत्यर्थः संबद्धाः । अयं पृथुसंक्षिष्टशब्दार्थ इति शुल्बशास्त्रविदो याज्ञिकाः प्राहुः । आहवनीयान्यायतनम्-गार्हपत्यायतनस्य पर्वशङ्कमारम्याष्टासु प्रक्रमेष्वतीतेष्वा हवनीयस्य पश्चिमशङ्क: स्थानम्

  • तस्मात्प्राचीनमष्टासु मक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राज

न्यस्य द्वादशसु वैश्यस्य ” ( आप० श्रौ० सू० ५॥४॥३ ।) सूत्रार्थः--अष्टासु प्रक्रमेष्वर्ततेष्वाहवनीयस्थानम् । प्रक्रमो द्विपदत्रिपदो वा पदं पञ्चदशाङ्गुलमिति बाधायनः । द्वादशाङ्गुलामात कात्यायनः । तत्र समचतुरश्र चतुविंशत्य हुलात्मकमाहवनीयायतनम् । दक्षिणाग्न्यायतनम्-गार्हपत्यायतनस्य पूर्वेशङ्कमारभ्य पुरस्तात्षष्टयङ्गुलमिते देशे शहूं निखाय, तस्मात्समं दक्षिणतः षट्सप्तत्यङ्गुलपरीमिते देशे शाहुं निस्वाय, तथा च गार्हत्यायतनस्य पूर्वशङ्कमारभ्य दक्षिपन्तः पुरस्तात् षण्णवत्यङ्गुलपरिमिते देशे दक्षिणाझे रायतनमध्यशङ्के निखाय सार्धयवद्वयाधिकैकान्नविंशत्यङ्गुलात्मकशुल्बेन कर्कटेन वा मण्डलं कृत्वोत्तरार्ध त्यक्त्वा दक्षिणतोऽर्धचन्द्राकाररेखां कुर्यात् । तदेतद्दक्षिणाग्रेरायतनम् ।

  • दक्षिणतः पुरस्लाद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि. दक्षिणाग्रेराय

तनम्' (आप० श्रौ० सू० ५॥४॥५॥) सूत्रार्थः-गार्हपयस्य दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्याहवनीयोरन्तराल देशस्य तृतीयऽक्षो विगतौ यस्माद्देशात्स तथोक्तः । गार्हपत्यस्य नेदीयसीति परमत निरासार्थमिति ज्ञेयम् । बितृतीयदेशे-इति समीपसतमी चेयं बितृतीयदेशस्य पश्चात्स्तो कान्तरे देश इत्यर्थः । तीर्थम्-उत्करं प्रणीताश्चान्तरेण यो देशः स तीर्थसंज्ञको ज्ञेयः । तीर्थप्रदेशज्ञानार्थ प्रतिकृतौ प्रणीतोत्करप्रदर्शनमिित ज्ञेयम् । देवयजनप्रतिकृतिप्रदर्शिताविषयप्रमाणानि ।

  • पूर्वेणोत्करमपरेण प्रणीता एतत्तीर्थमित्याचक्षते । ” ( आश्ध० श्रौ०

सू० ११॥१॥४ ) यजमानसंचरः--अपरेण वेदिदेशं पूर्वेण गार्हपत्यं दक्षिणाठिं च पूर्वेण गच्छेत् ।

  • आहिताग्रािचम्यापरेण वेदिमतिव्रज्य ? ( आश्ध० श्रौ०सू० २ ।

३॥११॥ ) श्राचमनस्थानम्-आहवनीयस्यैशानीतो निष्क्रम्य प्राङ्मुखो भूत्वाऽऽचामेत् ।

  • भागुदगाहवनीयादवस्थाय प्राङ्मुखो यज्ञोपवीत्याचम्य ? ( आश्ध०

श्रौ० सू० १॥१॥४ ।) यजमानस्थानम्-वेदिदेशस्य दक्षिणत उपविशेत् ।

  • दक्षिणत उपविश्य ” ( आश्ध० श्रौ० सू० २३॥११।)

पत्नीस्थानम्-गार्हपत्यस्य दक्षिणत उदङ्मुस्युपविशेत् ।

  • दक्षिणत उदीच्युपविशति ?' ( आप० श्रौ० सू० २॥५॥८॥ )

१ धृष्टिः-धृष्टिः, उपवेष इत्यनर्थान्तरम् । सा च धृष्टिर्यस्य कस्यचिद्यज्ञियकाष्ठस्य कार्या । सा चाङ्गरनिरूहणभस्मसमीकरणादिपूपयुज्यते । सा प्रादेशमात्राऽरनिमात्रा वा कार्यं । तद्विधानं चैवं सूत्र्यते * उपवेषं करोति ? ( आप० श्रो० सू० सञ्यतः २ अग्रिहोत्रस्थाली-सैषा मृन्मयी दुग्धतापनार्थमुपयुज्यते । तस्याः प्रमाणं

  • प्रसृताकृतिरार्यकृताऽन्निहोत्रस्थाल्यूर्वकपालाऽचक्रवर्ता ? ( आप० श्रौ०

सू० ६॥३॥७| ) सूत्रार्थः-प्रसृताकृतिः—असंकुचितबिला । आर्थकृता-आयैः कृता । ऊध्र्वेकपाला अतिर्यग्वृत्तकपाला । अचक्रवर्ता वर्तनं वर्तः, न चक्रे वर्तनं यस्याः सा तथोक्ता न चक्र भ्रमणेन निर्मितेत्यर्थः । ३ सुधुवः--खदिरकाष्टकृतोऽर्थलक्षणः । अन्यत्रार्थलक्षणं नियतमस्ति । अङ्गुष्ठपर्व मात्रबिलः त्रुव इति भारद्वाजः । अरत्निमात्रदैध्यैः । देवयजनप्रतिकृतिप्रदर्शितविषयप्रमाणानि ।

  • तस्याग्रेण मध्यमं वंशं गापत्यायतनं भवति ? (आप० श्रौ० ५॥४॥२)

सूत्रार्थः-तस्य शरणस्य पृष्ठवंशादधस्तनं देशमग्रेण गार्हपयस्य स्थानं भवति । पञ्चतिलाधिकसार्धत्रयोदशाङ्गुलपरिमितेन शुल्बेन कर्कटेन वा कृतवर्तुलं गार्हपत्याग्रेरायतनं भवति । १ चतुत्रिंशतिलाः पृथुसंश्लिष्टाः-एकमङ्गुलम् । पृथुसंक्षिष्टाः-चतसृष्वपि दिक्षु संश्लिष्टाः संबद्धाः प्रथनगुणविशिष्टा इत्यर्थः । अयं पृथुसंश्लिष्टशब्दार्थ इति शुल्बशास्त्रविदो याज्ञिकाः प्राहुः । आहवनीयान्यायतनम्-गार्हपत्यायतनस्य पूर्वशङ्कमारम्याष्टासु प्रक्रमेष्वतीतेष्वा हवनीयस्य पश्चिमशङ्को: स्थानम् ।

  • तस्मात्प्राचीनमष्टासु मक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राज

न्यस्य द्वादशसु वैश्यस्य ' ( आप० श्रौ० सू० ५॥४॥३ ।) सूत्रार्थः--अष्टासु प्रक्रमेष्वतीतेष्वाहवनीयस्थानम् । प्रक्रमो द्विपदत्रिपदो वा पदं पञ्चदशाङ्गुलमिति बैौधायनः । द्वादशाङ्गुलमिति कात्यायनः । तत्र समचतुरश्र चतुर्विशल्य झुलत्मकमाहवनीयायतनम् । दक्षिणाग्न्यायतनम्-गार्हपत्यायतनस्य पूर्वशङ्कमारभ्य पुरस्तात्षष्टयङ्गुलमिते देशे शहूं निखाय, तस्मात्समं दक्षिणतः षट्सप्तत्यङ्गुलपरीमिते देशे शाहुं निस्वाय, तथा च गार्हत्यायतनस्य पूर्वशङ्कमारभ्य दक्षिपन्तः पुरस्तात् षण्णवत्यङ्गुलपरिमिते देशे दक्षिणाग्रे रायतनमध्यशङ्गं निखाय सार्धयवद्वयाधिकैकान्नविंशत्यङ्गुलात्मकशुल्बेन कर्कटेन वा मण्डलं कृत्वोत्तरार्ध त्यक्त्वा दक्षिणतोऽर्धचन्द्राकाररेखां कुर्यात् । तदेतद्दक्षिणाग्रेरायतनम् । “क्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्रेरायः सनम्” ( आप० श्रौ० सू० ५॥४॥५l) सूत्रार्थः-गार्हपत्यस्य दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्याहबनीययोरन्तराल देशस्य तृतीयोऽो विगतो यस्माद्देशात्स तथोक्तः । गार्हपत्यस्य नेदीयसीति परमत निरासार्थमिति ज्ञेयम् । बितृतीयदेशे-इति समीपसप्तमी चेयं बितृतीयदेशस्य पश्चात्स्तो कान्तरे देश इत्यर्थः । तीर्थम्-उस्कर प्रणीताश्चान्तरेण यो देशः स तीर्थसंज्ञको ज्ञेयः । तीर्थप्रदेशज्ञाना प्रतिकृतौ प्रणीतोत्करदर्शनमिित ज्ञेयम्। देवयजनप्रतिकृतिप्रदंतिविषयमाणानि । ४ अगिहोत्रहवणी-अरत्निमात्रेौ वायस्पुच्छी हंसमुख्यर्धप्रादेशमात्रबिल विक ङ्ककतवृक्षनिर्मिता । स्वादिरः ध्रुवो वैकडूत्यशिहोत्रहवणी बाहुमाञ्यरत्निमात्री वा । १) ( आप० श्रौ० सू० ६३॥६॥) अयेिहोत्रचन्द्रिकाया विषयानुक्रमः । १ पास्तावेिकम् स्वाध्यायशब्दार्थ वेदान्तिमतेन कर्मानुष्ठानविचारः ... . परित्राङ्ॉवेचारः .... ... ... ... ... अग्निहोत्रस्य नित्यत्वम् उत्पत्तिविधेः परिघ्कार सूत्रस्यैव पुरस्कृतिविचारः... २ आश्वलायनीयाग्हिोत्रसूत्रम् ३ अमिहोत्रसूत्रभाष्यं सकृतिकम् .. भाष्यं देवत्रातकृतं वृत्तिर्ग:ग्र्यनारायणकृत ४ यथाप्रयोगशास्रशयेिद्देोत्रहोमप्रयोगः ५ अग्निहोत्रप्रयोगविशेषाः प्रातरन्निहोत्रविशेषाः, समान्यविशेषाः, पार्वण्णा विशेषाः ६ अध्वप्रमीताग्निहोत्रविधिः ७ पक्षामिहोत्रहोमप्रकारः ८ शेषाग्हिोत्रहोमप्रकारः ९ समस्याग्निहोत्रहोम्प्रकारः १० आश्वलायनीयाहिताग्प्रिवासविधिसूत्रम् ११ सवृत्याहिताग्प्रिवासविधिसूत्रभाष्यम् भाष्यं देवत्रातीयं, वृत्तिगग्र्यनारायणी.... १२ वाहिताग्रेयथाप्रयोगशास्त्रं प्रवासोपस्थानम् १३ प्रवासादागतस्याऽऽहितार्विधिः १४ आहिताग्रेरग्रिसमारोपप्रत्यवरोहसूत्रम् तदेव देवत्रातीयभाष्यनारायणवृत्तिसहितम्.. १५ यथाप्रयोगशास्त्रमन्नेः समारोपप्रयोगः १६ आहिताग्रेरग्रेर्यथाशाखं प्रत्यवरोहणप्रयोगः १७ मथमाग्हिोत्रारम्भप्रयोगः १८ अमिहोत्रस्य सविषयविधिवाक्यानुक्रमः ... . ( ९-१ ३१-३६

६-७ ४३ ३९-४० ४१-४२ -- ४४ ४९ ५०-५१ ५२-५४ ५७ ५५-५६ ५७-५८ १९ अग्रेमन्थनयन्त्रकं सप्रभं कर्मप्रद्वीपस्थम् २० अग्हिोत्रानुष्ठानविषयिका सामग्री २१ अग्हिोत्रहेोमप्रयोगमन्त्रभाष्यम् २२ समारोपप्रत्यवरोहप्रयोगमन्त्रभाष्यम् २३ प्रवासोपस्थानप्रयोगमन्त्रभाष्यम् पिण्डपितृयज्ञविषयकं तैत्तिरीयब्राह्मणं २४ सायणाचार्यकृतभाष्यसहितम्.. २५ आश्वलायनीयं पिण्डपितृयज्ञसूत्रम् २६ तदेव देवत्रातनारायणभाष्यवृत्तिसहितम् २७ पिण्डपितृयज्ञसंभारस्मरणपट्टिका २८ पिण्डपितृयज्ञप्रयोगः २९ पिण्डपितृयज्ञप्रयोगमन्त्रभाष्य कृतभाष्यसांहेतम् ३६ {ु सायणाचाय

पुटसख्या ६१-६५ ६५-६६ ६६-७३ • ७४ ७५-७९ ८०-८५ ३१ आग्रयणसँभारस्मरणपट्टिका १११ ३२ आश्वलायनीयमाग्रयणीयसूत्रम् १११-११२ ३३ तदेव देवत्रातनारायणभाष्यकृत्तिसहितम् • ११२-११७ ३४ आपस्तम्बाचार्यप्रणीतमाग्रयणश्रौतसूत्रम् ... ११८-१२० ३५ तदेव रुद्रदत्तकृतवृत्तिसहितम् १२१-१२९ तत्सूत्रानुसारि आग्रयणप्रयोग तत्र तत्राऽऽश्वलायनानां विशेषः प्रदर्शितोऽस्ति ... १२९-१३४ ३७ अथाऽऽग्रयणहौत्रप्रयोगः १३५-१३७ आपस्तम्बीययजमानस्य विशेषस्तत्र तत्र प्रदर्शितोऽस्ति ३८ अ आश्वलायनीयः १३७-१३८ ३९ ऐतरेयब्राह्मणविहितमाग्रयणाकरणप्रायाश्चत्तं सायण-.... भाष्यसहितम् १३८ ४० तत्प्रायश्चित्तेष्टिस्थानीयपूर्णाहुतिप्रयोगः १३८-१३९ ४१ भाग्रयणमीमांसा .१३९-१४१ दक्षिणामीमांसा ८५-८६ ८७-९९ १०१-१०३ १०४-१०७ १०७-११ विषयानुक्रमः ।

  • पाकादिधर्ममीमांसा .... ... ... ...

४२ अग्निहोत्रप्रायश्चित्तविधायकमैतरेयब्राह्मणं ... ... १ उपावसृष्टाया गोर्दोहनमध्य उपवेशनप्रा० ... २ दोहनकाले ध्वनिकरणे प्रा० . ३ दुह्यमानस्य क्षीरस्याग्निहोञ्याः स्थानचलनेन भमौ पतने प्रा० ४ सर्वस्मिन्पयसि सित्त प्रा० .... ... .... ५ सर्वहविर्दूषणे प्रा० ६ अग्निहोत्रस्याधिश्रितापत्तै प्रा० ... ७ अधिश्रितोत्तरस्कन्दने, दाहाधिक्येन वा स्कन्दन्नं प्रा० ८ गार्हपत्यादाहवनीयं नीयमाने हविषि स्खलने, साकटयन वा द्रव्यपतन प्रा० • • • • • ९ अग्निहोत्रह५ण्या भेदनेन प्रा० १० आहवनीयेऽौ सति गार्हपत्य उपशान्ते प्रा० ११ आहवनीयेऽौ स्थित एव पुनरुदृते प्रा० .. १२ गार्हपत्याहवनीययोर्मिथः संसर्जने प्रा० १३ सर्वेषामग्रीनां संसर्जने प्रा० १४ आहिताग्रीनां परस्परमग्निसंसर्जन १५ लौकिकाग्निसंसर्जन च प्रा० १६ गार्हपत्यादीनां महानसादिगतेनाग्निा संसर्गे प्रा० १७ गार्हपत्यादैवैद्युतान्निसंसर्जने प्रा० ... .. १८ गार्हपत्यादेः शवाग्रेिसंसर्गे प्रा० १९ गार्हपत्यादेरारण्येनाग्निा संसर्गे प्रा० २० गार्हपत्यादीनां सर्वेषामुपशान्तैौ प्रा० २१ आहिताग्निाऽस्नातनान्निहोत्रहोमे कृते प्रा० ... २२ आहिताग्रेः सूतकान्नप्राशने प्रा० २३ आहिताग्निा स्वमरणविषयके शब्दे श्रुते प्रा० २४ आहिताग्रेर्भार्या वा तद्रहावस्थिता गौर्वाऽपत्यद्वयं सह जनयत्तदा प्रा० .... ? ... । १४१-१५१ .... १४१ १४२ १४२ १४३ १४३ १४४ १४५ १४६ १४६ १४७ १४७ १४७ १४८ १४८ ... . १४८ १४८ १४९ १४९ १४९ ... १४९ १५० १५० १५० पुटसंख्या ४३ आश्वलायनीयाग्हिोत्रप्रायश्चित्तसूत्रं देवत्रातीयभाष्येण १५१-१५७ १ अर्वाक्छम्यापरासादाहवनीयगमने प्रा० ... .... २ अर्वाकछव्यापरासाद्भत्वाऽऽहवनीय उपशान्ते प्रा० ...१५२ ३ अन्यस्याग्रेषु यागे कृते प्रा० ४ अस्याग्ष्विन्येन यागे कृते प्रा० ... ... ... १५२ ५ अस्याग्रीनन्यो वाऽग्व्यैिवेयात्तदा प्रा० ६ अन्निहोत्रद्रव्ये कुशेघूपसादिते रथशाकटादि , ... ७-८ धा, मनुष्यजातिः सर्वाग्रीनां मध्येनातिक्रामेत्तदा प्रा० १५२ ९ यजमाने प्रवासे मृते प्रा० .. १० अग्विर्जितैरन्यैर्यवाये प्रा० १५४ ११ शुनो व्यवाये विशेषविधिरूपं प्रा० १२ अध्वप्रमीतयजमानस्येष्ठः प्राग्विशेषप्रा० १३ अपरपक्षे प्रमौतस्य यजमानस्य विशेषविधिरूपं प्रा० .१५६ ४४- शम्यापरासदेशमनतिक्रान्ताग्रीनां यथाप्रयोगशास्त्र प्रायश्चित्तप्रयोग १५७ ४५ पाथिकृतेष्टिस्थानीयपूणाहुतिप्रयोगः .. ४६ शम्यापरासदेशातिक्रमणेऽन्याग्रेिषु यजने अस्यामिषु अन्येनेष्टेऽग्निा व्यवाये, चक्रीव च्छ्वपुरुषैर्यवायेऽध्वनि यजमाने मृते प्रायश्चित्तप्र० ...११८ ४७ व्यवधानप्रायश्चित्तविशेषस्तत्संकल्पश्च ... ... ८.१५९-१६० शुना व्यवाये विशेषप्रयोगः ... ... ४८ प्रायश्चित्तसूत्रं पूर्वोक्तभाष्यवृत्तिसहितम् - .. . .....१६१-१६४ १४ केशनखकीटपतङ्गादिभिरन्यैर्वा बीभत्सितेषु वघ्य १५ क्षरणं प्राप्तेषु हविष्षु प्रा० .... १६ अन्निहोत्रद्रव्यमधिश्रितं सद्यदि स्थालीमूलतः स्रवेत्तदा प्रा० ... . १६१ १६१ विषयानुक्रमः । विषय पुटसस्या १७ उपावसृष्टा गौर्तुह्यमाना यद्युपविशेत्तदा प्रा०. १६१ १८ उपावसृष्टा दुह्यमाना यांद शब्दं कुर्यात्तदा प्रा० • १६२-- १९ शोणितं चेद्युह्यति गौस्तदा प्रा० १६३ २० स्थालीभेदेन विक्षिते द्रव्ये, सिते च प्रा० ... २१ उपावसृष्टायां दुह्यमानायां गांवे चलन्त्यां यांद पयः स्कन्दत्तदा प्रा० ... १६३ ४९ प्रायश्चित्तस्य यथाशास्त्रं प्रयोगः ... १६४-१६५ २२ अधिश्रितमन्निहोत्रद्रव्यं स्थालीमूलेन स्रवति १६४ २३ उपावसृष्टा गौर्दूह्यमाना यद्युपविशेत्तदा प्रा० प्र० .. १६४ २४ यदि गौरुपावसर्गादिदोहनपर्यन्तं शब्दं कुर्याः तदा प्रा० प्र० • १६४ २५ स्थालीमूलतो विक्षिते, स्कने वा प्रा० प्र० ... .. १६५ २६ दोहनावस्थायामुपावसृष्टा गौश्चलन्ती यदि भूमावीषत्क्षीरं पातयेत्तर्हि प्रा० प्र० १६५ ५० प्रायश्चित्तसूत्रं भाष्यवृत्तिभ्यां सहितम् १६५-१७३ १७ सिक्तावशिष्टऽनवशिष्ट वा प्राचीनहरणे होमव्यवस्था:....१६५ -- २८ प्राचीनहणे स्कन्ने प्रा० ... ... ... .... १६६ २९ स्कन्दित्वा शेषाशेषे होमव्यवस्था ३० प्राचीनहरणानन्तरं स्कन्ने प्रा० ... ,.. १६७ ३१ अन्यहोमकालपर्यन्तं नियमनविधिः ... ... ... १६७ -- ३२ गाणगार्मितम् .... १६७ ३३ अधिश्रितेऽग्निहोत्रद्रव्ये शरशरायच्छब्दायमाने सांते प्रा० १६७ ३४ विष्यन्दमानेऽग्निहोत्रद्रव्ये प्रा० ३५ बीभत्सेऽग्निहोत्रद्रव्ये प्रा० .. १६८ ३६ संस्कृतेऽग्निहोत्रद्रव्ये यदि वर्षधाराः पतन्ति तदा प्रा०... १६८ -- ३७ अहुतायामुत्तराहुतौ स्कन्दने प्रा० ३८ साय हामकालान्यमः ३९ प्रातहॉमकालनियमः... ४७ तदुभूयहोमकालातिक्रमे प्रा० • १६९-१७३ वंध्यः अग्हिोत्रचन्द्रिकाया ५१ प्रायश्चित्तप्रयोगः ४१ पूर्वोक्तप्रयेोगशषः ... ४२ प्राचीनहरुणोत्तरं स्कने प्रा० ० ... ४३ अधिश्रितेऽग्निहोत्रद्रव्ये शब्दायमाने प्रा० प्र० ४४ उद्वासिते स्कन्न प्रा० प्र० ४५ बीभत्से प्रा० प्र० ... ... ... ४६ संस्कृतेऽग्निहोत्रे वर्षधारापतने प्रा० प्र० ... ४७ उत्तराहुतावहुताया स्कन प्रा० प्र० ४८ सायंहोमकालातिक्रभे प्रा० प्र० .. ४९ प्रातःकालातिपत्तौ प्रा० प्र० ५२ प्रायश्चित्तसूत्रं भाष्यवृत्तिसहितम् ५० अात्याऽऽश्रुपात्तप्रा० ५१ आहवनीयेऽप्रणीत आदित्येऽस्तमिते प्रा० ... ५२ आहवनीयेऽप्रणीत आदित्येऽभ्युदिते प्रा० ... ५३ आहवनीये ध्रियमाण आदित्यानुगमने प्रा० ५४ अरण्योः समारूढेषु अग्षुि अरणीनाशे प्रा० ५५ साग्रावग्रिप्रणयने प्रा० ... .... ५६ आहिताग्रेर्तृहदाहे प्रा० ५७ सर्वाग्रीनां मिथोभावे ५८ गार्हपत्याहवनीययोर्मिथोभावे . ५९ प्राम्येणाग्निा श्रौताग्रीनां संसर्गे प्रा० ६० वैद्युतेनाग्निा श्रौताझीनां संसर्गे प्रा० ६१ विमतानामन्नभोजने. ६२ आहिताद्वैौ जीवत्येव मृत इति शब्दे श्रुते प्रा० ६३ प्रायश्चित्तेष्टीनां स्थाने पूर्णाहुतिप्रा०.. ६४ मृन्मयपात्रभेदे प्रा० ६५ अग्हिोत्रकाले मन्थनेऽप्यग्रावजायमाने प्रा० ६६ तस्यैवानुकल्पग्राहकसूत्रम् ... ... ६७ अनुकल्पांवधानसूत्रम् -६८ अनुकल्पेन होमे सत्यपि मन्थनविधायकं सू० पुटसंख्या १७३-१७६ १७३ १७४ १७४ १७४ १७४ १७५ १७९ १७५-१७६ १७६ १७७-१९१ १७७ .... १७७ ... १७७-१७९ १८३ १८३-१८४ १८४ १८९ १८५ १८५ १८५ १८५ १८५ ... १८६ १८६-१८७ १८७ १८७-१८८ १८८ १८८-१८९ १८९ विषयानुक्रमः । पुटसस्या ६९ अनुकल्पेन कृते होमें तस्मिन्ननुकल्पविषयप्रायश्चित्त विधाकसूत्राणि १९० • ७० तप्रायश्चित्तीयनियममर्यादाविधायकं सू० ,... ... १९० ७१ आहुत्योरन्तराऽझावनुगते मा० १९०-१९१ ५३ प्रायश्चित्तप्रयोगः १९१-२०० ७२ यजमानस्याग्निहोत्रेोद्धरणमारभ्याऽऽहोमं दुःखा श्रपात प्रा० प्र० १९१ ७३ सायंकालेऽनुद्धरणप्रा० प्र० ७४ प्रातरनुद्धरणप्रा० प्र० ७५ आहवनीये ध्रियमाणे गार्हपत्यानुगमने प्रा० म० ....१९३-१९४ अस्मिन्प्रयोगे चत्वारोऽपि पक्षाः प्रदर्शिताः ७६ अग्निहोत्रार्थ प्रणीत आहवनीयेऽनुगते गार्हपत्ये पूणाहुतिप्रा० प्र० १९४ ७७ अग्रेिहोत्रार्थ विहृतानामग्रीनां गार्हपत्याहवनीययोर्वाऽ स्तमयादुदयाद्वोध्र्वमनुगमननिमित्तः प्रा० प्र० १९४-१९९ ७८ समारूढाग्न्यरणीनाशप्रा० प्र० १९५ ७९ साग्रावायतने पुनरन्निप्रणयने प्रा० प्र० ... ...१९६ ८० आहिताग्नेर्गहदाहनिमित्तप्रा० प्र० ८१ अग्निहोत्राग्नेः शवाग्निसंसर्गे प्रा० प्र० ... ... १९५ ८२ गार्हपत्याद्यग्नीनां द्वयोर्वा मिथः संसर्गे प्रा० प्र० ...१९६ ८३ श्रौताग्नीनां लौकिकाग्निसंसर्गे प्रा० प्र० ८४ श्रौताग्नीनां वैद्युतानलसंसर्गे प्रा० प्र० ... ८९६ आहिताग्निना द्विषदन्नभोजने प्रा० प्र० "... .. .१९६ ८६ यजमानेन स्वमरणशब्दश्रवणे प्रा० प० १९७ ८७ मृन्मयपात्रभदन प्रा० प्र० . १९७ ८८ उद्धरणकाले मन्थनेऽप्यग्नावजायमानेऽनुकल्प - ... प्रायश्चित्तप्रयोग १९७-१९८ ८९ अन्तराऽऽद्वयोराहवनीयानुगमने प्रा० प्र० ... ... १९८ ९० दावाग्निना गार्हपत्याद्यग्निसंसर्गे प्रा० प्र० ... १९८ ९१ हविष्पाकार्थमुट्टताग्न्यनुगमनै प्रा० प्र० ... ... १९८ ९२ अपेोढग्नेर्गार्हपत्यस्य च नाशे प्रा० प्र० ९३ अपेोढेऽग्नौ वर्तमाने गार्हपत्यानुगतौ प्रा० प्र० ... १९८ ९४ आहवनीयहोमोत्तरं गार्हपत्यदक्षिणाग्न्योरन्यतरस्य नाश प्रा० प्र० ९६ अग्निहोत्राय विहृतेष्वग्निषु प्रयत्नं विना १९९ ज्वलतषु प्रा० प्र० ९६ यदि दक्षिणाग्निमनुद्धत्य भ्रमादाहवनीयं प्रणयेदु द्धरणमन्त्रेण विना वाऽहवनीयं प्रणयेत्तदा प्रा० प्र० ....१९९-२०० ९७ अग्निहोत्रार्थाग्निविहरणोत्तरं दक्षिणाग्न्यनुग मन्नं प्रा० प्र० ९८ कश्चिदग्निहोत्रसंबन्धी विशेषः २०० ९९ आहिताग्नर्वाग्यमलोपप्रा० प्र० ... २० ० ५४ आधानपद्धतिशेषः २०१-२२६ १० ० अग्न्याधयप्रकाराः १०१ सोमपूर्वाधानं प्रयोगशास्त्रमीमांसाशास्त्रप्रमाण घटितमित्यस्य विचारः .२०१-२०६ १०२ इष्टिपूर्वाधानप्रमाणानि २०६ १०३ होमपूर्वाधानप्रमाणंानि २०६-२०७ १०४ पूर्णाहुल्यन्ताधानप्रमाणानि २०७-२०९ १०५ अक्षाभिहोमान्ताधाने प्रमाणम् २००९ १०६ इष्टयन्ताधाने प्रमाणम् २०९-२११ १०७ सोमपूर्वाधानानुष्ठानक्रम .... २११ १०८ इष्टिपूर्वाधानानुष्ठानक्रमः २११-२१६ १०९ बौधायनानां पौर्णमास्याधाननिर्णयः ... ११० केचिद्वैौधायनीयाः स्वकपोलकल्पनया स्वसूत्रमन्यथायित्वा तद्विरुद्धमेवाऽऽचर न्ति तेषां वादकथया निरासः १११ खण्डपौर्णमास्यनुष्ठाननिर्णयः २१५ ११२ अखण्डपौर्णमास्यनुष्ठानक्रम २१५-२१६ • •. विषय : ११३ अन्वारम्भेष्टिविषयिणी मीमांसा ... .. ११४ सद्यस्कालपौर्णमास्यनुष्ठाननिर्णय ११५ खर्विकापौर्णमास्या निर्णय ... .... ११६ इष्टिपूर्वाधानविषये शवराचार्यमतम् .. ... ११७ होमपूर्वाधानप्रमाणम् .... ११८ पूर्णाहुत्यन्तमाधानम् ११९ अक्षाभिहोमान्तमाधानामिष्ट्यन्तं च • १२० अजस्रपक्षांवेचार ... १२१ पुनराधेयसूत्राणि ... १२२ पुनराधेयसूत्रवृतिः १२३ पुनराहितिविषयकाश्वलायनसूत्राणि ... देवत्रातभाष्यनारायणवृत्तिसमेतानि १२४ मीमांसावेषये कुमारिलभट्टानां विचारः १२५ अग्निहोत्रानुष्ठाननित्यानयत्वमीमांसा १२६ अग्निहोत्रशब्दसमासमीमांसा. १२७ अग्निहोत्रस्य नामधेयत्वे प्रमाणम् ... ... १२८ स्वस्याभोज्यदिनेऽग्निहोत्राद्यननुष्टय- ... मिति वदतां खण्डनम् १२९ त्रिंशद्दिनमेवाग्निहोत्रानुष्ठानमिति वदता समाचारः ... ... ... १३० मीमांसकमतेऽनुपादेयपञ्चकम् १३१ अनुष्ठयकर्मसूक्तविकल्पानामनुष्ठेयविचार ... १३२ पक्षशेषहोममीमांसा... १३३ प्रवासविधिमीमांसा ... ... .... १३४ पिण्डपितयज्ञमीमांसा १३५ आग्रयणमीमांसा १३६ आश्वलायनीयाग्रयणानुकल्पसूत्रस्य देवत्रातभाष्यं १३७ आहिताग्रेराग्रयणानुकल्पस्थालीपाकप्रयोगः ... पुटसख्या २१६-२१९ २१९-२२० ...२२० २२०-२२१ .२२१-२२३ •.२२४-२२५ २२६ २२६-२२८ २२८-२३७ २३८-२४० २४ ०-२४२ २४२-२४६ २४६-२४७ ...२४७-२४९ २५० ... २५०-२५४ ...२५४-२५७ २५७ ....२५७-२५८ २५८-२५९ २९ ९ २६०-२६१ .२६१-२६३ अमिहोत्रचान्द्रकाया विषयानुक्रमः । विषय: १३८ मन्त्रभाष्यम् *** १३९ प्रायश्चित्तमीमांसा १४० पुनराधेयमीमांसा

.... • • ... ... • • • ,२६३ ...२६५-२७३ २७३-२७४ इत्यग्रेिहोत्रचन्द्रिकाया विषयानुक्रमः । ॐ तत्सद्रह्मणे नमः । अग्निहोत्रचन्द्रिका । निर्मथ्य निगमसिन्धून्विविधन्यायाभिधानमन्थानैः । धर्मसुधामुद्धरते भूयो मुनये नमोऽस्तु जैमिनये ।। १ ।। आश्वलायनमाचार्य नत्वा श्रीकमलेश्वरम् । चन्द्रिकामन्निहोत्रस्य कुर्वेऽहं विदुषां मुदे ॥ २ ॥ अहो मुनिवंशोत्तंसभूताः मथितदिगन्तयशसो निर्मलान्ता वेदैकप्रमाणवद्वपरिकरा आपस्तम्बकात्यायनाश्वलायनकौशिकाचार्यप्रणीतप्रयोगशास्त्रानुगामिनः किमपीदं कर्णे कुरुत यदिदमनवरतमविच्छिन्नगुरुशिष्यपरम्पराऽस्मञ्छूावयतीति ।

  • यावज्जीवमग्निहोत्रं जुहुयात् । नानाहिताग्ििम्रयेत ' ।

“अथ यदस्याग्मुिद्धरति सहस्र तेन कामदुघोऽवरुन्धेऽथ यदमिहोत्रं जुहोति सहस्र तेनेत्यपरिमितमेवेदमुक्तं भवतेि ? । (बौ० श्रौ० सू० २ । ७) तमिमाम्नायं प्रमाणयन्तः शबराचार्यभगवत्पूज्यपादशंकराचार्यप्रभृतय एवं मन्यन्ते स्म “अतिक्रमिष्याम इमान्नायम् । अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमव कल्पयेम, दृष्टो हि तस्यार्थः कर्मावबोधनं नाम, न च स्वाध्यायाध्ययनमात्रात्तत्र भवन्तो याज्ञिकाः फलं समामनन्ति । यदपि च समामन्तीव तत्रापि द्रव्यसंस्कार कर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् ”(पू० मी०१॥१॥१) “धर्मजिज्ञा सायां श्रुत्याद्य एव प्रमाणम् । ? (ब्र० सू० भा० १ । १ । २) सोऽयमाचाथैः प्रदर्शितः पन्था अस्माभिरनुसर्तव्यः । अतस्तदनुसरणेऽवश्यमस्माभि र्नित्यकर्मानुष्टानवद्भिर्भवितव्यम् । अहो नैतन्नित्यं कर्म विनाऽनुष्ठानसाधनमनुष्टातुं प्रभवन्ति यथाशास्त्रमनुष्ठातारः । तदर्थं साक्षादाम्नाय एव विदधांत्यव्ययनम् ।

  • स्वाध्यायोऽध्येतव्यः ? (तै० आ० २ । १५ । ७) इति ।

तमिमं स्वाध्यायशब्दमवीवृतद्वार्तिककृद्भकुमारिलः

  • स्वाध्यायग्रहणेनैका शाखा हि परिगृह्यते । एकार्थानां विकल्पश्च कर्मे

कत्वे भविष्यति ?' । ( तन्त्रघार्तिकम् ) पूर्वं “ यजेत जुहुयात् ” इयादि िशष्ठऽध्ययनं विदधताऽऽग्नयेन विहितपूर्वगागहो माद्यनुष्ठानार्थमध्ययनमिल्यान्नातं भवति । इममेवाऽऽम्नानाभिप्रायं जानता युक्तिभिर्विचारयत तत्रभवता जैमिनिनाऽऽन्नायार्थः मुस्पष्ट सूत्रेणेोपनिबद्ध अग्निहोत्रचन्द्रिका । “नह्यविद्वान्विहितोऽस्ति ? । (पू० मी० ३ । ८ । १८) ।। इति । वार्तिकयांबभूवात्र कुमारिलस्वामी

  • नह्यज्ञेो विद्यते क्रतौ। अधिकारो हि विदुषां नान्येषामिति निश्चयः ।

अवीभपदत्र भाष्यकारोऽपि तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्यभिधीयते न.विद्वान् ? ॥ इतेि । ( शा० भा० ३ । ८ । १८ ) विहितकर्माण्यनुतिष्ठन्तु परिजिहीपेव प्रवृत्तः । एवं चानुष्ठानं तदर्थं ज्ञानं तच स्वाध्यायस्येत्यवगतम् । स्वाध्या यत्वं हि प्रतिव्यक्ति गोत्वादिवत्प्रतिशाखं समवैति । ततश्चाधीतेन स्वाध्यायेनेष्टं भावये दित्यर्थपर्यवसन्नस्वाध्यायविधौ स्वाध्यायस्योपादेयतया तद्रतैकत्वस्य पश्धकत्वत्पित्रादिपरम्प रागतत्वरूपस्वत्वस्य समासान्तर्गतस्याश्वाभिधान्यामश्वच विवक्षितत्वादेकशाखाध्यायिना नावश्यमनुसर्तव्यम् नचैवं वेदान्तरस्याप्यध्ययनं न प्रसज्यत इति वाच्यम् । यजुर्वेदे समान्नातद्रव्यदेवतारूपयुक्तज्योतिष्टोमादिकर्मण ऋग्वेदे याज्यानुवाक्यादिगुणमात्रं सामवेदे च स्तोत्रादिगुणमात्रं विधीयते । अतः साकाङ् क्षत्वाद्वेदान्तराणामतुल्यकार्यकारित्वात्समुचयो युज्यते । शाखान्तरेषु तु नैवं संभवति सर्वासु ह्यध्वर्युशाखासु दर्शपूर्णमासज्योतिष्टोमादीनि द्रव्यदेवतारूपवन्ति तान्येवान्योन्य निरपेक्षाणि विधीयन्त इति शाखान्तराणां तुल्यकार्यत्वम् । अतो नैकस्यानकशाखाध्ययन सैभवः । अयमेव न्यायसिद्धार्थ इति जैभिनिरपि सूत्रयांबभूव

  • वाक्यासमन्वयात् (३ । ४ । १७ ) इति

सत्रथ स्वाध्यायविधेः पूर्वप्रपश्चितया रीयैकशाखाध्ययनविधिपरत्वादेकस्यानेक शाखाध्ययनाभावादेकस्मिन्पुरुषे शाखान्तरवाक्यस्यासमवायान्न तच्छूवणसंभवः । अतः सर्वो जनः शाखान्तरं शृण्वन्नप्यश्रुतमेव मन्यते । एवं च पितृपरम्पराप्राप्तः समान्नाय एव स्वश ब्दार्थः । स च शाकलबाष्कलकण्वमाध्यंदिनतैत्तिरीयहिरण्यकेश्यादिरूपः । एवमपि याज्ञि कास्तावदुणोपसंहारं वैकल्पिकमिति जानन्तः परशाखीयं विध्यन्तमुपसंहृत्य सुखं'कर्माण्य नुतिष्ठयुरिति कृपया तं परकीयमपि विध्यन्तं विध्यादिं च कमैक्यत्सूत्रयांबभूवुरिति सर्वेरपि स्वस्वसूत्रकार एवानुसरणीयोऽनुष्ठानेतिकर्तव्यातायामिति विचारक्षमः पन्थः । न च वाच्यं कुतः सूत्रकारैर्गुणोपसंहारः कृतः, अलं स्वशाखेोतेतिकर्तव्यतानुष्ठानेनेति । प्रयोगशास्त्र कृद्भिः कात्यायनापस्तम्बप्रभृतिभिन्यीयत: सिद्धार्थस्यैव सूत्रितत्वात् । जैमिनिरपीममर्थ साधयामास अपि वाऽप्येकदेशे स्यात् प्रधाने ह्यर्थनिवृत्तिगुणमात्रमितरतदर्थत्वात् (पृ० मी० ६। ३ । २) इति अग्हिोत्रचन्द्रिका । अत एव प्रयोगशास्त्रकृतोऽपि

  • योगापति वक्ष्यामः ? ( आश्ध० श्रौ० सू० १ । १ । १)

इति सूत्रयामासुः । इमान्यङ्गानि, इमानि प्रधानानि, इति खलु न्यायतः साधयितव्योऽर्थ स्तमेवार्थमान्नायतो विचार्य प्रणीतानि वाक्यानि हि श्रौतगृह्यसूत्राणीति वस्तुगतिः । अतः शाखान्तरीय आवश्यकस्तावान्गुणोपसंहारः सूत्रकारै: सूत्रितः । अतस्तावन्तमेवानुष्ठाय भवेयुः श्रेयोभाजनं वैदिका इति मीमांसकहृदयम् । ननु

  • आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' ? (बृ०

उ० ४ । ५ । ६ ) इति श्रुत्या सकलवैदिकधुरीणानामात्मज्ञानसाध्यपरमपुरुषार्थापवर्गमुख्योपायात्मानात्मवि चार एव श्रेयस्करः प्रत्युत

  • कर्मचितो लोकः क्षीयते ? (छान्दो० ८ । १ । ६)

इत्यादिश्रुत्या धूमार्चिरादिमार्गप्रदर्शनेन च क्षुलुकफलकोऽयमारम्भ इति चेत्--बूमहे । ये तु नित्थसुखाभिव्यक्ति येऽपि दुःखध्वंसं वाऽविद्यानिवृत् िवा लिङ्गशरीरलयं वाऽपवर्ग माहुस्तेषामपि शरीरपारग्रहाभावेऽविवाद एव । एतद्विरुद्धायास्तु वात्स्यायनस्मृतेद्वष्टवर्षका मिनीनीविमोक्ष एवापवर्ग इति त्स्याः काममूलत्वेनाप्रामाण्यनिश्चयाद्वैसजनाधिकरणन्या येन श्रुत्यकल्पनात् । अतः सर्ववादिसंमतमिदमेवापवर्गलक्षणं कर्काचार्येरभाषि शुभाशुभकर्मोपभोगनिमित्तनैरन्तर्येण प्राणिनां शरीरपरिग्रहाभावोऽप वर्गः ? । ( का० श्रों० सू०'क० भा० २ । १) इति । अयं चापवर्गे निषिद्धकाम्यवर्जनान्नित्यानुष्टानाच जायते नेतरथा । नन्विदमयुक्तम् । कर्मणां तावत्

  • कर्मणा पितृलोकः । (बृ० १ । ५ । १६)

इति फलान्तरविधानेन निराकाङ्क्षत्वात् प्रत्युत

  • एतमब प्रत्राजिनो लोकमिच्छन्तः प्रव्रजन्तीति न कर्मणा न प्रजया

नास्त्यकृतः कृतेन ?' (बृ० उ० ४ । ४ । २२ ) इत्यादिश्रुतिसहस्रमुमुक्षेोः कर्मणां त्यागविधानादतो न कर्मसाध्यत्वम् । सत्यम् । परमत्रास्ति कश्चिद्विशेषः-कर्मणां विविदिषावाक्येण मोक्ष उपादानात् । तथाहि यथाऽश्वन जिगमिषन्तीत्यत्र गमनफले ग्रामसंयोगेऽधेोपादानं तथा ।

  • तमेतं वेदानुबचनेन विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ? (बृ०

उ० ४ । ४ । २२ ) इत्यनेनापवगद्देिशेन तृतीयाश्रुत्या कर्मणां संयोगपृथक्त्वाधिकरणन्यायेन तादथ्र्येन प्रयोगान्तरानुपादानान्नित्यविधिप्रेरणयाऽनुष्ठितानामेव नित्यकर्मणां मुक्तिसाधनत्वम् ।

  • नह्यविद्वान्विहितोऽस्ति ? । (पू० मी० ३ । ८ । १८) ।इतेि ।।

वार्तिकयांबभूवात्र कुमारिलस्वामी –- नह्यज्ञेो विद्यते क्रतौ। अधिकारो हि विदुषां नान्येषामिति निश्चयः । अबौभघदत्र भाष्यकारोऽपि तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्यभिधीयते न.विद्वान् ' ॥ इति । (शा० भा० ३ । ८ । १८ ) विहितकर्माण्यनुतिष्ठन्तु परिजिहीर्षवः कर्माकरणप्रयुक्तप्रत्यवायमियर्थमयमाम्नाय प्रवृत्तः । एवं चानुष्ठानं तदर्थं ज्ञानं तच स्वाध्यायस्येयवगतम् । स्वाध्या यत्वं हि प्रतिव्यक्ति गोत्वादिवत्प्रतिशाखं समवैति । ततश्चाधीतेन स्वाध्यायेनेष्टं भावये दित्यर्थपर्यवसन्नस्वाध्यायविधौ स्वाध्यायस्योपादेयतया तद्रतैकत्वस्य पश्वेकत्वत्पित्रादिपरम्प रागतत्वरूपस्वत्वस्य समासान्तर्गतस्याश्वाभिधान्यामश्वच विवक्षितत्वादेकशाखाध्यायिना शाखान्तरराध्ययन न विश्यमनुसर्तव्यम् । नचैवं वेदान्तरस्याप्यध्ययनं न प्रसज्यत इति वाच्यम् । यजुर्वेदे समान्नातद्रव्यदेवतारूपयुक्तज्योतिष्टोमादिकर्भण ऋग्वेदे याज्यानुवाक्यादिगुणमात्रं सामवेदे च स्तोत्रादिगुणमात्रं विधीयत । अतः साकाङ् क्षत्वाद्वेदान्तराणामतुल्यकार्यकारित्वात्समुचयो युज्यते । शाखान्तरेषु तु नैवं संभवति सर्वासु ह्यध्वर्युशाखासु दर्शपूर्णमासज्योतिष्टोमादीनि द्रव्यदेवतारूपत्रान्त तान्येवान्योन्य निरपेक्षाणि विधीयन्त इति शाखान्तराणां तुल्यकार्यत्वम् । अतो नैकस्यापेनकशाखाध्ययन सैभवः । अयमेव न्यायसिद्धार्थ इति जैमिनिरपि सूत्रयांबभूव

  • वाक्यासमन्वयात् ? (३ । ४ । १७ ) इति ।

सूत्रार्थः स्वाध्यायविधेः पूर्वप्रपञ्चितया रीयैकशाखाध्ययनविधिपरत्वादेकस्यानेक शाखाध्ययनाभावादेकस्मिन्परुषे शाखान्तरवाक्यस्यासमवायान्न तच्छत्रणसंभव । अतः सर्वो जनः शाखान्तरं शृण्वन्नप्यश्रुतमेव मन्यते । एवं च पितृपरम्पराप्राप्तः समान्नाय एव स्वश ब्दार्थः । स च शाकलबाष्कलकण्वमाध्यंदिनतैत्तिरीयहिरण्यकेश्यादिरूपः । एवमपि याज्ञि कास्तावदुणेोपसंहारं वैकल्पिकमिति जानन्तः परशाखीयं विध्यन्तमुपसंहृत्य सुखं कर्माण्य नुतिष्ठयुरिति कृपया तं परकीयमपि विध्यन्तं विध्यादिं च कर्मक्यात्सूत्रयांबभूवुरिति सर्वैरपि स्वस्वसूत्रकार एवानुसरणीयोऽनुष्ठानेतिकर्तव्यातायामिति विचारक्षमः पन्थाः । न च वाच्यं कुतः सूत्रकारैर्गुणोपसंहारः कृतः, अलं स्वशाखेोतेतिकर्तव्यतानुष्ठानेनेति । प्रयोगशास्त्र कृद्भिः कात्यायनापस्तम्बप्रभृतिभिन्यीयत: सिद्धार्थस्यैव सूत्रितत्वात् । जैमिनिरपीममर्थ साधयामास

  • अपि वाऽप्येकदेशे स्यात् प्रधाने ह्यर्थनिवृत्तिर्गुणमात्रमितरत्तदर्थत्वात् '

(पू० मी० ६ ! ३ । २) इति अन्निहोत्रचन्द्रिका । अत एव प्रयोगशास्त्रकृतोऽपि

  • योगापति वक्ष्यामः ' ( आश्ध० श्रौ० सू० १ । १ । १ )

इति सूत्रयामासुः । इमान्यङ्गानि, इमानि प्रधानानि, इति खलु न्यायतः साधयितव्योऽर्थ स्तमेवार्थमान्नायतो विचार्य प्रणीतानि वाक्यानि हि श्रौतगृह्यसूत्राणीति वस्तुगतिः । अतः शाखान्तरीय आवश्यकस्तावान्गुणोपसंहारः सूत्रकारैः सूत्रित: । अतस्तावन्तमेवानुष्ठाय भवेयुः श्रेयोभाजनं वैदिका इति मीमांसकहृदयम् । ननु–

  • आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (बृ०

उ० ४ । ५ । ६ ) इति श्रुत्या सकलवैदिकधुरीणानामात्मज्ञानसाध्यपरमपुरुषार्थापवर्गमुख्योपायात्मानात्मवि चार एव श्रेयस्करः प्रत्युत

  • कर्मचितो लोकः क्षीयते ?’ (छान्दो० ८ । १ । ६)

इत्यादिश्रुत्या धूमार्चिरादिमार्गप्रदर्शनेन च क्षुलुकफलकोऽयमारम्भ इति चेत्--बूमहे । ये तु नित्थसुखाभिव्यक्ति येऽपि दुःखध्वंसं वाऽविद्यानिवृतिं वा लिङ्गशरीरलयं वाऽपवर्ग माडुस्तेषामपि शरीरपरिग्रहाभावेऽविवाद एव । एतद्विरुद्धायास्तु वात्स्यायनस्मृतेद्वर्चष्टवर्षका मिनीनीविमोक्ष एवापवर्ग इति त्स्याः काममूलत्वेनाप्रामाण्यनिश्चयाद्वैसजनाधिकरणन्या येन श्रुत्यकल्पनात् । अतः सर्ववादिमतमिदमेवापवर्गलक्षणं कर्काचारभाषि शुभाशुभकर्मोपभोगनिमित्तनैरन्तर्येण प्राणिनां शरीरपरिग्रहाभावोऽप वर्गः ? । ( का० श्रो० सू० क० भा० २ । १ ) इति । अयं चापवगों निषिद्धकम्पवर्जनान्नित्यानुष्ठानाञ्च जायते नेतरथा । नन्विदमयुक्तम् । कर्मणां तावत्

  • कर्मणा पितृलोकः ? । (ब० १ । ५ । १६)

इति फलान्तरविधानेन निराकाङ्क्षत्वात् प्रत्युत

  • एतमव प्रव्राजिनो लोकमिच्छन्तः प्रत्रजन्तीति न कर्मणा न प्रजया

नास्त्यकृतः कृतेन ?’ (बृ० उ० ४ । ४ । २२) इत्यादिश्रुतिसहस्रमुमुक्षेोः कर्मणां त्यागविधानादतो न कर्मसाध्यत्वम् । सत्यम् । परमत्रास्ति कश्चिद्विशेषः-कर्मणां विविदिषावाक्येण मोक्ष उपादानात् । तथाहि यथाऽश्वन

  • तमेतं वेदानुवचनेन विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ?’ (बृ०

उ० ४ । ४ । २२ ) इत्यनेनापवर्गेद्देिशेन तृतीयाश्रुत्या कर्मणां संयोगपृथक्त्वाधिकरणन्यायेन तादथ्र्येन प्रयेोगान्तरानुपादानान्नित्यविधिप्रेरणयाऽनुष्ठितानामेव नित्यकर्मणां मुक्तिसाधनत्वम् । अग्निहोत्रचन्द्रिका न तु मुक्त्यर्थं तेषामनुष्ठानान्तरमित्यर्थ सेयं ममक्षेोः कथा सविस्तरं प्राकाशे तत्रभवता वाचस्पतिना भामत्यां सर्वापेक्षाधिकरणे तथा हि आश्रमविहितनित्यकर्मानुष्ठानधर्मसमुत्पादस्ततः पाप्मा यते । स हि तत्त्वतो नित्याशुविदुःखानात्मनि संसारे सति नित्यशुचिसु खात्मलक्षणेन:विभ्रमेण मालिनयति चित्तसत्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् । अतः पाप्मनः:प्रत्यक्षे प्रत्यक्षोषपत्तिद्वाराऽपावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्विकीमनित्याशुचिदुःस्वरूपतामप्रत्यूहं विनिश्चिनोति ततोऽस्मिन्नन भिरतिसंझं वैराग्यमुपजायते । ततस्तजिहासाऽस्योपावर्तते । ततो हानोपायं पर्येषते पर्येषमाणश्चाऽऽत्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तांजज्ञासत इति विविदिषोपहारमखेणाऽऽत्मज्ञानोत्पत्त्या वाऽस्ति कर्मणामुपयोगः । विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते । ततोऽस्य तत्त्वमसि इति वाक्यान्निर्विचिकित्सज्ञानमुत्पद्यते' (ब्रह्मसू० भा० भा० ३ । ४ । २६) यथोक्तं कर्म सम्यगनुष्ठितं निष्कामस्य मुमुक्षेोः सत्त्वशुद्धयर्थं भवति ? (के० उ० भा० १ । १ । १ ) इय हे सोपानपरम्परा वेदान्तिभिरुपवर्णितेति तदनुयायिनामप्यस्ति नित्यक मुमुक्षुणां र्मणामननुष्ठाने प्रत्यवाय इति निरवद्यम् । एतेन कथमभावाद्भावोत्पत्तिारैति प्रलपन्तः परास्ता वेदिव्या इति शिवम् । इदानीं मुमुक्ष्णां कर्मण्यनुष्ठयानिन वेति चिन्तायामनुष्टयानीत्येव मुत्तरमीमांसायां निरणायि, अबीभषंश्चात्र भगवन्पादाचार्याः -

  • यज्ञादीनि मुमुक्षेोज्ञानसाधनानि भवन्ति यथाश्रमं सर्वाण्येवाऽऽश्रमकर्माणि

विद्योत्पत्तावपेक्षितव्यानि ' (ब्र० सू० भा० ३ । ४ । २७)

  • आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि “यावज्जीव

ममिहोत्रं जुहोति ? इत्यादिना विहितत्वात् ?” इति । (ब्र०सू०भा०३॥४॥३२) वस्तुतस्तु मुमुक्षुर्वाऽमुमुक्षुर्वा भवतु विहितत्वादेवानुष्टये कर्मेति मीमांसकानां सर्वत न्त्रगोचरः सिद्धान्तः । एवं च नित्यकर्मानुष्ठानप्रकारेतिकर्तव्यता सर्वाऽपि प्रादार्श तत्तच्छा स्वीयकल्पसूत्रेषु । अतः कल्पसूत्राणामपि वेदाङ्गत्वेनाध्ययनं स्वाध्यायवद्व्यवस्थितम् । विना तदध्ययनान्नानाशाखास्वाम्नातोऽनेककर्मोपष्टम्भको विध्यादिर्विध्यन्तश्च विप्रकीर्ण स्वरूपोऽलसपुरुषैरल्पमल्या सुखेन बोद्रुमशक्य इति ज्ञात्वैव सूत्राणि प्राणैषीत्तत्तदाचार्यः । एवं च साङ्गश्चतुर्विधोऽपि विधिमन्त्रार्थवादनामधेयरूपो वेदो धर्मप्रमाणमिति ज्ञेयम् । तत्र विधिवाक्यानां विधायकत्वेनार्थवादानां स्तावकत्वेन मन्त्राणां स्मारकत्वेन नामधेयानां परिच्छेदकत्वेन सकलोऽपि वेदः प्रमाणमिति स्थितम् । एवं च (१) स्वाध्यायोऽध्येतव्य अग्निहोत्रचन्द्रिका । इति विधिचोदितषडङ्गसकलस्वशाखापरपर्यायवेदाध्ययनसंसिद्धार्थज्ञानवत्वमधिकारितावच्छेद. कम्(२) यद्वा स्वाध्यायविध्युत्थापितानुष्ठेयमात्रोपयोगि स्वाध्यायार्थज्ञानवत्त्वमधिकारित्वम् (३) यद्वा तादृशवेदाध्ययनवत्वमेवाधिकारिविशेषणं नार्थज्ञानवत्वमेव। तृतीयेऽस्मिन्पक्षेऽर्थज्ञानाभा वे कर्मण्यधिकारो नास्तीति वक्तुंन युक्तमिति याज्ञिककल्पानां पन्थाः । सोऽयं मीमांसया विरु ध्यत इति षाष्ठ प्रपञ्चितमस्माभिरपि पूर्वं न ह्यविद्वानिति संस्तुतम् । अत्र मण्डनप्र भृतयो याज्ञिकाः पृथगेवाभिप्रयन्ति । यथा ननु स्वाध्यायोऽध्येतव्य इति विधौ वार्तिके ऽधीतेन स्वाध्यायेन फलवदर्थज्ञानं कुर्यादिति वाक्याथों मीमांसासारे चाधीतेन स्वाध्या येन यच्छक्यं समीहितं तत्कुर्यादिति वाक्यार्थः स सर्वोऽप्यार्थिकः । वास्तविकस्तु स्वाध्यायोऽध्येतव्य इत्यस्मिन्वाक्येऽध्ययनकरणिकायां भावनायां स्वाध्यायस्य कर्मत्वम् । तच योग्यतया प्राप्यत्वं तेनाध्ययनेन स्वाध्यायं प्रामुयादिति मुख्योऽर्थः । नचानर्थकस्य प्राप्यत्वायो गाद्वाक्यान्तरणार्थवत्त्वज्ञानादीदृशं वचनं युज्यते । अधीतेन स्वाध्यायं यत्कर्तु शक्नुयात्त कुर्यादिति वाच्यम् । तां चतुर्भिरभ्रिमादत्ते । उरु प्रथस्वति प्रथयति । ऐन्द्रया गार्हपत्य मुपतिष्ठते । इत्यादिश्रौतलैङ्गिकविनियोगाभ्यामर्थवत्तानिश्चयेन तत्कल्पनं युक्तमित्युत्पश्यामः । इति । ननु ये तु ब्रह्मचर्यादेव प्रव्रजन्ति तेषां कथं ? बूमः । ये किल परित्राजेोः भवन्ति तेऽप्याश्रमादाश्रमान्तरमनुभूयैव । यः किल प्रत्यपाद्यौपनिषदे परित्राड्विधिः सोऽपि गृहस्थाश्रमविहितपरित्राड्विधरुत्कृष्यैवेति बूम:। सोऽयं भगवताऽपस्तम्बेन लाट्यायनेन च स्वसत्रे सत्रितस्तमिमं प्रदर्शयाम

  • परिणह्मान्निमाधाय दृषद्वत्या दक्षिणेन कूलेनाऽऽग्रेयेनाष्टाकपालेन शम्या

परासीयात् त्रिः प्रक्षे प्रति यमुनामवभृथमभ्यवैति । तदैव मनुष्येभ्यस्तिरो भवति ' । (आ० श्रौ० सू० २३ । १३।। १५) सोऽयमर्थः सर्वोऽपि लाटयायनाचार्येण सूत्रितस्तमिमं प्रदर्शयिष्याम यत्र क च ततो दूरे यमुना स्यात्तत्रैतयेष्टचेष्टा स्वयं साम गायन्नवमृथमभ्य वेयादगायन्चा । प्रत्रजिघ्थतोऽयनमिदं मन्य इतेि धानंजप्यस्तदैव मनुष्येभ्य स्तिरो भवतीति । न ग्रामं पुनरेवादितीव । स्वर्ग लोकमाक्रमते । व्यावर्तते श्रेयान्भवतीति वा । उदकान्तधानाद्वा यथा सरजस इति । ( ला० श्रौ० सू० १९ । १ अयमत्र तात्पर्यार्थः-सत्रनामकं किंचिदनुष्ठीयमानं नित्यं कर्म तत्र च कर्मान्तेऽ वभृथः सूत्रितः स च यमुनायाम् । यदि यमुना दूरे स्यात्तर्हि यस्मिन्कस्मिंश्चिद्देश इष्टिमिट्वा स्वयं साम गायन्नवभूथमभ्यवेयात् । तदैष मनुष्येभ्यस्तिरो भवतीति एष तिरोभावस्तस्य यनित्यमरण्ये वसन्न मनुष्यैईश्यते न मनुष्यैरुपलभ्यते स्वर्गलोकमा अग्निहोत्रचन्द्रिका । क्रान्त इव भवति । अथवा व्यावर्तत एवासौ मनुष्येभ्यो नासैौ मनुष्यैस्तुल्यो भवति श्रेयान्भवति किं पुनर्मनुष्येभ्यः श्रेयो ब्रह्मप्राप्तिः । ब्रह्म प्राप्रेत्यनेन कर्मणाऽपवृज्यत इत्यर्थः । अयमात्यन्तिकस्तिरोभाव । उदकान्तर्धानाद्यदाऽसावभृथमभ्य अथवा तिरोभाव वैत्यप्सु निमज्जति तदाऽसावन्तर्हितो भवति न दृश्यते तस्मादुदकान्तर्धानातिरो भवति यथा सरजस इति दृष्टान्त उपादीयते । यथा सरजसेऽहनि मनुष्यलोकादिवैनमन्तर्दे धातीति । सोऽयमर्थ औपनिषदैरुपबंहितः । तथा च श्रौते कर्मणि सत्रान्ते द्वयमवगतं प्रव्रजनमुदकान्तर्धानं च । तदानुषङ्गिक अरण्यवास इष्टिश्च । अत एवेमामिटिं विरजे ष्टिमिति ब्रह्मवादिन आसुः ।भाषित एषोऽर्थो भङ्ग्यन्तरेण भगवत्पादाचायैरीशावास्योपनिष

  • न जीविते मरणे वा गृधं कुर्वीत, अरण्यमेियात्, इति च पदम्' । पदं

शाखाविधिः।* ततो न पुनरेयादिति च संन्यासशासनात् ' (३० उ० भा० २) प्रव्रजिष्यत इमे विधय इमे निषेधा इति तद्विषय औपनिषदैरित एवाऽऽकृष्योपवृंहितो विषयः पुनः स्मृतिकारैर्निबन्धकृद्भिश्च परां काष्ठामापादितः सर्वेरपादानीमङ्गी क्रियते सोऽयं भगवत्याः श्रुतेर्महिमेति तं नमामो वयं शरणीभूतां भगवतीं विश्ववन्द्यामखिललेोकसंतारिणीं भूदेवाननकाननसंचारिणीं पण्डिताननान्तःपुरविहारिणीं चञ्चलायाः श्रियो द्वेष्टीमाम्नायापर नाम बिभ्रतीं श्रुतिम् । अत एव पण्डितप्रकाण्डभूतैः पूज्यपादैः सकललोकगुरुभिर्महता कौशल्येन शारीरकमीमांसायां संन्यासोऽभिहित इति मन्तव्यम् । परं यथाश्रममित्युक्त त्वाद्गृहिणस्तावदन्निहोत्रादिकमवश्यमनुष्टयमापद्यमानं नापलपितुं शक्यं यत्किंचि शैरिति वेदन्तु सुधियः । एतेनेदमपि सिद्धं भवति नानाहिताग्रिम्रियेतेति शासनादाहिता ग्रिमात्रेण शरीरं संस्कृतं भवति तैरेवग्रिभिर्दाहः प्रतिपत्तिकर्म । उपयुक्तानामग्रीनामुपयु क्तस्य च शरीरस्यायं संस्कारः । अतोऽपि देशान्तर आहिताग्मिरणे शरीरानुपलब्धौ पालाशविधिः कल्पकारैराग्नातः । परं न्यायतो वचनाच यद्युदकान्र्तधानं तर्हि पालाश विधिना शरीरं नोत्पादयेत् । अत एव त्रिकाण्डमण्डनेोऽपि वामनमतं श्रेोकयांबभूव “त्रिंशदिनादिभिर्वाऽग्रिहोत्राद्युपरमोऽस्त्विति । वेदान्ते पुरुषार्थाधिकरणे प्राह वामनः’ ॥ १-१०३ मण्डनाचायेः । एतेन समुवयवादः प्रत्युक्तो वेदितव्यः । द्विजत्वविशिष्टगृहस्थत्वावच्छिंलमुद्दिश्यानि होत्रानुष्ठानं वदामः । न हि ब्राह्मणत्वावच्छिन्नमुद्देश्यं संभवति समुचयवादिनां मते तु केवल मन्निहोत्राद्यव त्यज्यते विद्यमानामपि धर्मपत्नीं परित्यज्य विधुरवदटाटयमाना भवन्ति तच सकलश्रुतिस्मृतिपुराणेतिहासशिष्टाचारमीमांसाविरुद्धमिति वेदितव्यम् । सुस्पष्ट चैतत् सर्वमतस्वितरदिति शारीरक्रमीमासायामिन्युपरम्यते । प्रद्र्यन्ते नित्यत्ववादिन्यः अग्निहोत्रचन्द्रिका । प्रमाणसरण्यः । ताश्च स्मतयो नित्यकर्मणामकरणे दोपं स्मारयन्ति तस्मादवश्य मनुष्ठेयत्वम् ।

  • निर्धनो धनसाध्येषु नित्येष्वधिकृतो यदि । चौर्यादन्यैः कुमागैरपी

ष्टयर्थ धनमर्जयेत् ? । १-१०८ मण्डनाचार्यः * ये शूद्रादधिगम्यार्थमग्रिहोत्र मुपासते । नित्यानि निन्दावाक्यानि काम्यहोमविवक्षया ? ॥ १-११० “आाव श्यके तु सोमादौ सर्वसंभारसंभृते । सुवर्णव्यतिरिक्ताङ्गद्रव्यालाभे हिं चोर येद् १-१-१११ अप्यन्यायशतं कृत्वा भर्तव्या मनुरब्रवीत्'। विहितत्वाचाऽऽ श्रमकर्मापि । (उत्तरमीमांसायाम् । ३ । ४ । ३२) इदमत्र पर्यवसन्नम् । ये शूद्रादिति मन्वाद्युक्तं निन्दावचनं काम्यहोमविषयं न नित्यकर्मविषयम् । तेषां करणश्रवणस्य बलीयस्वात्स्मृतेश्च तदपेक्षया दौर्बल्यात् सर्वसंभारस मृद्वै सुवर्णभिन्नदेयदक्षिणालाभे तु चौर्यमपि कृत्वा नित्यं सदक्षिणं कार्यं नादक्षिणेो यज्ञो भवतीत्यान्नायात् । अप्यन्यायेति स्मृतेः पोष्यान्तर्गतत्वाचाग्रीनां नित्यमनुष्टमेवेत्यर्थः । इदं त्वत्रापरं न विस्मर्तव्यम् । ये त्वेतां स्मृतिमुदाहृत्य

  • आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः । हन्त्यल्पदक्षिणो यज्ञो

तस्मान्नाल्पधनो यजेत्? । अल्पदक्षिणं यज्ञे नाऽऽरभेतेति वदन्ति तदेतद्वचनं काम्ययज्ञविष्यमिति । यस्य नित्यानि लुप्तानि तथैवाऽऽगन्तुकानि च । विपद्यपि न स स्वर्ग गच्छेत्तु पतितो हि सः । तस्मात्कन्दैः फलैलैर्मधुनाऽऽज्यरसेन वा । नित्यं नित्यानि कुर्वीत न तु नित्यानि लोपयेत् । इति बौधायनवचोभ्यां ज्ञायते। ये चान्ये यथा विद्वत्वमधिकारितावच्छेदकं तथा-आढय त्वम-धिकारितावच्छेदकमित्याहुस्तदपि काम्यपरमिति ज्ञेयम् । एवं हि तत्र समभिव्याहरन्ति “ इन्द्रियाणि यशः कीर्तिमायुः स्वर्गे प्रजां पशून् ?' इति । अतः कन्दैलैः फलैर्वाऽपि होतव्यमेवान्निहोत्रं न सर्वथा परित्याज्यमिति संसिद्धं विदुषां संसदि । अविद्वांसस्तु यथा तथा वा जल्पन्तोऽनया प्रक्रियया विद्वसंसदा प्रत्युक्ता वेदितव्याः । तदिदमग्हिोत्रं यजुषा विधीयते । तत्रैव तस्येोत्पत्तिाविधिं समामनन्ति

  • अग्हिोत्रं जुहोति ? इति ।

ननु कस्तावदयमुत्पतिविधिर्नाम । उच्यते । कर्मस्वरूपमात्रबेोधको विधिरुपति विधिः । द्रव्यं देवता च यागस्वरूपं देवतामुद्दिश्य त्यक्तस्य द्रव्यस्य प्रतिपत्तिरस्रौ प्रक्षेपो होम इत्याचक्षते । केचिद्धेोमान्तं यागस्वरूपं वर्णयन्ति । उत्पतिविधिरेव प्रबलः । तदिदमुत्पतिविधिलक्षणम्--अङ्गिबोधकत्वसमानाधिकरणात्यन्ताभविीयवैशिष्टयव्यासज्यवृत्तिधर्मान वच्छिन्नप्रतियोगित्वत्वपर्याप्तावच्छेदकताकमतियोगिताकाभाववदङ्गबोधक वाक्यनिष्ठनिरूपकतानिरूपितानिरूप्यताशालप्राबल्यमित्यस्मदुरुचरणा व्याच अग्निहोत्रचन्द्रिका। अतोऽग्निहोत्रतदङ्गप्रायश्चित्तं दक्षिणंझावेव वचनादाहवनीये तदभावे दक्षिणाम्रौ । तदिदं सूत्र्यत आचार्येण

  • ऋक्तश्चेद्भरिति गार्हपत्ये । यजुष्टो भुव इति दक्षिणे । सामतः स्वरित्याह

वनीये ' । ( आश्वलायनश्रौतसू० १।१२।३२) तानि चाङ्गानि यजुष्ट एव समुपसंहृत्य साङ्गमन्निहोत्रप्रयोगं कल्पयामास तत्तत्सूत्रकारः । वेदार्थार्थमेव प्रवृत्तानां कल्पसूत्राणामव्याहृतमेव प्रामाण्यम् । ते च कल्पसूत्रग्रन्थाः परिनि ष्पन्नप्रयोगरूपकस्योपदेशकाः । अतः पदार्थरूपोपदेशामात्रप्रयोजनो वैदिक एवायमर्थ इति विहितत्वादेवानुष्ठय आदर्तव्यश्चाभ्युदयनिश्रेयसार्थिभिः सकलपुरुषार्थसिद्धय इति दर्शनान्तरम् । तैश्च सूत्रग्रन्थैरिदमत्र प्रधानम् । एतान्यङ्गानीयमितिकर्तव्यता । एवं साध्य साधनरूपेण मर्यादया श्रुतिसिद्धया प्रपञ्चितम् । योगापतिं वक्ष्याम इत्याचार्येणामिहोत्रं सूत्रितं तदत्रोपनिबध्नीमः । यद्यप्यत्रेदानीमध्यत्रध्यापकपरम्परयोपलभ्यमानं सुसंरक्षितं तैत्तिरीयशतपथयैितरेयान्यत मब्राह्मणमग्निहोत्रविषय उदाहतुं सुशकं तथाऽपि भगवद्भिः प्रयोगशास्त्रप्रणेतृभिः कतमद्रा ह्मणं स्वीकृत्य प्राणायेि प्रयोगशास्त्रमिति न वयमिदंतया परिच्छेत्तं पारयामः । न हि च तत्तत्प्रयोगशात्रकृद्भिस्तत्तत्प्रयोगशात्रे प्रयुक्तान्यङ्गानि प्रधानानि च यथावदुपरिनिर्दिष्ट ब्राह्मणे समुपश्रूयन्ते । इति ब्राह्मणनिदर्शनाद्विरताः सन्तः प्रयोगशास्त्रमेव पुरस्कृत्य तप्र योगमीमांतनं वरमिति तनिदर्शनाय प्रयोगशास्त्रकृत एव शरणी कुर्मः। अपरिच्छिोऽप्ययं साङ्गः समान्नायः शब्दसमूहरूपेण वर्तमानोऽग्रे शाखया परिच्छितो बभूव । ततोऽप्यग्रे मन्त्रब्राह्मणरूपेणावष्टितत् । ततेऽययं मण्डलकाण्डसूक्तानुवाकरूपाण्यनुसार । ततोऽप्यग्र इदानीमुपलभ्यमानस्वरूपोऽयमष्टकाध्यायवर्गऋग्रूपेण व्यभाजि भगवता कात्यायनेन महर्षिणेति कालवशात्खलु विपरिवर्ततेऽयं समाम्रायोऽध्ययनाध्यापनानुष्टानानुष्ठापनसैकर्या थेiतं साक्षादाम्नायाम्नातपथानुसरणं दुरबगाहमिति जानानाः प्रयोगशास्त्रानुसरणमेवा स्मद्रुद्विगोचरं वरमिति मन्वानास्तदेवात्र निर्दिशामः । अग्हिोत्रचन्द्रिका । आश्वलायनीयामिहोत्रसूत्रम् । उत्सर्गेऽपराहे गार्हपत्यं प्रज्वल्य दक्षिणाग्रिमानीय विट्कुलाद्वित्तवतो वैकयेोनय इत्येके ध्रियमाणं वा प्रज्वल्याराणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेद्देवं त्वा देवेभ्य श्रिया उद्धरामीत्युद्धरेदुदध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच विद्वांश्चकार । अङ्घा यदेनः कृतमस्ति किंचित्सर्वस्मान्मोद्धृतः पाहि तस्मादिति प्रणयेदमृताहुतिममृतायां जुहो म्यत्रिं पृथिव्याममृतस्य योनौ । तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगाया। वग्ःि स्वाहेति निदध्यादादित्यमभिमुख एवं प्रातव्र्युष्टायां तमेवाभिमुखेो रात्र्या यदेन इति तु प्रणयेदत ऊध्र्वमाहितान्नित्रैतचार्याहोमादनुदितहोमी चोदयादस्तमिते होमो नित्यमाचम नमृतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत्रित्रिरेकैकं पुनः पुनरुदकमादायाऽऽनन्तर्ये विकल्पो दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽीनां यद्दक्षिणः पुत्रेो गार्हपत्य आहवनीयस्तस्मादेवं पर्युक्षेद्रार्हपत्यादावच्छिन्नामुदकधारां हरेत्तन्तुं तन्वत्रजसो भानुमन्विही त्याहवनीयात्पश्चाद्भार्हपत्यस्योपविश्योदगङ्गारानपेोहेत्सुहुतकृतः स्थ सुहुतं'कारैष्यथेति तेष्वग्नि होत्रमधिश्रयेदाधश्रितमध्याधश्रितमधिश्रितं हि ३म् इति । इळायास्पदं घृतधञ्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्धरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा न दध्यधिश्रये पयसा नित्यहोमो यवागूरोदनो दधि सर्पिग्रमकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम धिश्रितमवज्वलयेदनविश्रयं दध्र्यान्निष्ठ तेजेो मा हार्षीरिति त्रुत्रेण प्रतिषिञ्च्यान शान्तिरस्यमृतमसीति तयोरव्यतिचारः पुनर्वलता परिहरेत्रिरन्तरितं रक्षेोऽन्तारता अरातय इति समुदन्तं कर्षन्निवोदगुद्वासयेद्दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति निदवत्सुहुतकृतः स्थ सुहुतमकार्टत्यङ्गारानतिसृज्य त्रुक्त्रुवं प्रतिपेत्प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टतं रक्षेों निष्टता अरातय इत्युत्तरतः स्थाल्याः स्त्रुचमासाद्योमुन्यानीत्यतिसर्जयीताऽऽहिताग्रािचम्याप रेण वेदिमतिव्रज्य दक्षिणत उपविश्यैतच्छूत्वोमुलयेत्यतिसृजतिसृष्टो भूरेिळा भुत्र इळा स्वीरळ वृध इळेति लुवपूरमुन्नयेदप्रियमग्रियं पूर्णतमं योऽनुज्येष्ठमृद्धिमिच्छेत्पुत्राणां योऽस्य पुत्र प्रियः स्यात्तं प्रति पूर्णमुन्नयेत्स्थालीमभिमृश्य समिधं खुचं चाध्यधि गार्हपत्यं हृत्वा प्राण संमितामाहवनीयसमीपे कुशेघूपताद्य जान्वाच्य समिधमादध्याद्रजतां त्वाऽग्ज्योतिषं रात्रिमि ष्टकामुपद्धे स्वाहेति समिधमाधाय विद्युदसि विद्य मे पाप्मानमौ श्रद्धेयप उपस्पृश्य मदीप्तां द्वयङ्गुलमात्रेऽभिजुहुयाद्भर्भुवः स्वरो३मन्निज्योतिज्योतिरन्निः स्वाहेति पूर्वमाहुतिं हुत्वा कुशेषु सादयित्वा गार्हपत्यमवेक्षेत पशून्मे यच्छेयथेोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा मजापतिं मनसा ध्यायातूष्णींहोमेषु सर्वत्र भूयिष्ठं खुचि शिष्टा त्रिरनुप्रकम्प्यावमृज्य कुशमूलेषु निमाटं पशुभ्यस्वेति तेषां दक्षिणत उत्ताना अङ्गुली: करोति प्राचीनावीती अग्निहोत्रचन्द्रिका । तूष्णीं स्वधा पितृभ्य इति वाऽपोऽवनिनीय । वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेयप उपस्पृश्याऽऽहिताग्रिनुमन्त्रयेताऽऽधानमुक्त्वा तेन ऋषिणातेन ब्रह्मणा तया देवतयाऽङ्गिर. स्वद्धुवाऽऽसीदेति समिधं ता अस्य सूदोहस इति पूर्वामाहुतिमुपेोत्थायोत्तरां काङ्क्षेतेक्षमाणो भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपपः पापैराझेयीभिश्चान्न आयूंषि पवस .इति तिसृभिः ॥ ३ ॥ संवत्सरे संवत्सरे यवाग्वा पयसा वा स्वयं पर्वणि जुहुयादृत्विजामेक इतरं कालमन्तेवासी वा स्पृष्टोदकमुदड्डावृत्य भक्षयेदपरयोर्वा हुत्वाऽऽयुषे त्वा प्राश्नामीति प्रथममन्नाद्याय त्वेत्युत्तरं तूष्णीं समिधमाधायाग्ये गृहपतये स्वाहेतेि गार्हपत्ये नित्यो त्तरा तूष्णीं समिधमाधायाप्तये संवेशपतये स्वाहेति दक्षिणेऽग्रयेऽन्नादायान्नपतये स्वाहेति वा नित्योत्तरा भक्षयित्वाऽभ्यात्ममपः खुचा नियते त्रिः सर्पदेवजनेभ्यः स्वाहेत्य चैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः प्रागुदीच्येोर्निनयेदृतुभ्यः स्वाहा दिग्भ्यः स्वाहा सप्तऋषिभ्यः स्वाहेतरजनेभ्यः स्वाहेति पञ्चभी कुशदेशे पृथिव्याममृतं जुहोम्यग्ये वैश्वा नराय स्वाहेति षष्ठीं पश्चाद्भार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति प्रताप्यान्तर्वेद नेिदध्यात्परिकर्मिणे वा प्रयच्छेदग्रेणाऽऽहवनीयं परीत्य समिध आदध्यातिस्र स्तिस्र उदङ्मुखस्तिष्ठन्प्रथमां समन्त्रामाहवनीये दीदिहीति गार्हपत्ये ददायेति दक्षिणे दीदिदायेत्युक्तं पर्युक्षणं ताभ्यां परिसमूहने पूर्वे तु पर्युक्षणादेवं प्रातरुपोदर्य व्युषित उदिते वा सत्यऋताभ्यां त्वेति पर्युक्षणमोमुनेष्यामीत्यतिसर्जनं हरिणीं त्वा सूर्यज्येोतिष महरिष्टकामुपदधेस्वाहेति समिदाधानं भूर्भुवः स्वरों ३ सूर्यो ज्येतिज्र्योतिः सूर्यः स्वाहेति होम उन्मार्जनं च ॥ ४ ॥ अग्निहोत्रचन्द्रिका । वृत्तिसमेतमाश्वलायनीयान्निहोत्रसूत्रभाष्यम् । उत्सर्गेऽपराहे गार्हपत्यं प्रज्वल्य दक्षिणाग्रिमानीय विट्कुलाद्विक्तवतो वैक योनय इत्येके ध्रियमाणं वा प्रज्वल्यारणिमन्तं वा मथित्वा गाहेपत्यादावनीयं ज्वलन्तमुद्धरेत् ॥ १ ।। देवत्रातभाष्यम्-उत्सर्ग आधानाद्वादशरात्रमजस्रा अत ऊध्र्वमपि गतश्रियोऽ जस्रा एवातोऽन्यस्योत्सर्ग एकस्याग्रेर्द्धयोर्वा तस्मिनुत्सर्गे सत्यग्न्युद्धरणविधानं वक्ष्यतेऽ पराहेऽहश्चतुर्थभागे गार्हपत्यं प्रज्वल्य गार्हपत्य एवाजस्रो भवति तं प्रज्वल्य प्रज्वलनमिष्टमन्यथा संबोध्येति ब्रयात्तत्प्रज्वलनेन दक्षिणा िप्रज्वल्य यद्यग्न्याधेय आहृतो भवति तं दक्षिणाग्मिानीयाऽऽहवनीयमुद्धरेदित्यध्याहर्तव्यं साकाङ्क्षत्वाद्वाक्यस्य । दक्षिणान्निरिति आनयनोत्तरस्य संज्ञा कृता । । विट्कुलं वैश्यकुलं वित्तवतो वा वित्तमस्यास्तीति वित्तवांस्तस्माद्विक्तवतः कुलाद्वा । एकयोनय इत्येके । एका. योनिर्येषां त इम एकयोनयः । गार्हपत्यादाहवनीयं प्रणयेत् । । गार्हपत्याद्दक्षिणाग्मिावहनीय चैक आचार्याः । तथैवाऽऽहिता भवन्ति तेषां ध्रियमाणं वाऽऽधानप्रभति धार्थ एव वा भवति म्रियमाणं वा दक्षिणात्रिं प्रज्वल्य प्रज्वलनमिष्टं विधीयते प्रज्वल्याऽऽहवनीयमुद्धरेदित्यध्याह र्तव्यं साकाङ्क्षत्वात् । अरणिमन्तं वा, अरणी अस्य विद्येते अरणिमान् दक्षिणाग्रिस्तम् रणिमन्तं वा दक्षिणाझिं मथित्वाऽऽहवनीयमुद्धरेदित्यध्याहर्तव्यं साकाङ्क्षत्वात् । यदि मथित्वाऽहितो भवति तत्रैषामन्यतमकल्पेनामेिं प्रज्वल्य गार्हपत्यादाहवनीयसंज्ञमि प्रज्वलन्तमवोद्धरेदुद्रुह्य हरेत् प्राचीं दिशं दक्षिणाम्न्यधिकारात्पुनर्गार्हपत्यग्रहणम् । इह हरेदित्युक्त्वा पुनरुद्धरेदिति वक्ष्यति तस्मातूष्णीमुद्धरणम् ॥ १ ॥ गाग्यैनारायणवृत्तिः-उत्सर्गेऽजस्रोत्सर्गेऽन्निहोत्रहोमाथै विहरेन्नाजस्त्रेषु । होम स्वजत्रेष्वपि भवतीत्युक्तम् । एवं स्थिते विहरणसहितमग्निहोत्रहोमप्रयोगं वक्तुकाम उत्सर्ग इत्युक्तवान् । अत्रापराह्मशब्देनाहश्चतुर्थभागो गृह्यते । विहरणकाले गार्हपत्यं प्रादुष्कृत्य प्रज्वाल्य च दक्षिणाझिं वैश्यगृहादानयेत् । चतुर्णा वर्णानामन्यतमस्य द्रव्य वतो वा गृहाद्भार्हपत्याद्वा । नित्यधार्यथेत्प्रज्वलयेत् । काले काले यदि निर्मथ्यस्तदा मन्थेत् । एषां प्रकाराणामुत्पतिवशाद्वयवस्था । तेषामन्यतमप्रकारेण दक्षिणान्नेि साधयित्वा ततो गार्हपत्याज्ज्वलन्तमग्मिाहवनीयार्थमुद्धरेत्। पात्रान्तरेण पृथकू कुर्यादित्यर्थः ॥ १ ॥ अमिहोत्रचन्द्रिका । देवं त्वा देवेभ्यः श्रिया उद्धरामीत्युद्धरेत् ॥ २ ॥ दे० भाष्यम्-प्रवत्स्यद्यजमानादिपूत्तरत्र सर्वत्र समन्त्रहोमार्थमेव देवं त्वा देवेभ्य इति तेन यथासमाम्नातेन मन्त्रेण होमार्थमाहवनीयमुद्धरेत् । पूर्वमुद्धरणमन्त्रं सर्वार्थमि त्युक्तम् । अथोद्धराऽऽहवनीयभिल्यपराह्य आहेत्युतं ब्राह्मणे तद्यजमान आह ग्रदि संनिहितो भवति नोक्तमाचार्येण तथाऽपि वक्तव्यमविरोधात्सर्वशाखाप्रत्ययत्वाच्च यजमानस्य ॥ २ ॥ वृत्तिः-अनेन मन्त्रेणाग्रिहोत्रार्थमुद्धरेत्। पूर्वस्योद्धरेदिति वचनस्येदं प्रयोजनं गार्हपत्यं प्रज्वल्येत्यादेराहवनीयं ज्वलन्तमुद्धरेदित्यन्तस्य मन्त्रवर्जितोद्धरणप्रकारस्य सर्वार्थत्वज्ञाप नम् । एवं सर्वार्थमुद्धरणं विदधतैतत्साधितं भवति–येनाग्निा यत्र प्रयोजनं तत्र तस्योद्धरणं कर्तव्यमिति । शास्त्रान्तरे स्पष्टं वचनमस्ति * अर्थायार्थायाझिं प्रणयति ? इति । उद्धरणमन्त्रोऽयमन्निहोत्र एव नान्यत्रेति सिद्धम् ॥ २ ॥ उद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यञ्च विद्वांश्चकार । अह्ना यदेनः कृतमस्ति किंचित्सर्वस्मान्मोद्धृतः पाहि तस्मादिति प्रणयेत् ॥ ३ ॥ दे० भाष्यम्-उद्भियमाण इत्येतेन यथासमाम्नातेन मन्त्रेणाऽऽहवनीयं प्रणयेन येदाहवनीयायतनसमीपे ॥ ३ ॥ वृत्तिः-प्रणयेत्याङ्नयेदग्मिाहवनीयं प्रत्यनेन मन्त्रेण ॥ ३ ॥ अमृताहुतिममृतायां जुहोम्यग्रिं पृथिव्याममृतस्य योनौ । तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायाग्रावग्ःि स्वाहेति निद्ध्यादादि त्यमभिमुखः ॥ ४ ॥ दे० भाष्यम्-अमृताहुतिमित्येतेन स्वाहाकारान्तनाऽऽहवनीयायतनेऽग्रिं निदध्यात् स्थापयेदादित्यमभिमुखो यस्यां दिश्यादित्यो भवति प्रतीच्यामवान्तरदिशि तमभिमुखेो वा निदध्यात् । तन्मुखे निधत्त इति श्रुतिः । यज्ञ एव तत्स्वर्गे लोके स्वर्ग लोकं निधत्त इति च श्रुतिस्तस्मादादित्यमभिमुख इत्याह । होम्न्यायेन निदध्यादमृतायां जुहोमीति दर्शनात् । एते त्रयो मन्त्राः । त्रीणि कर्माणि उद्धरणं, प्रणयनं. निधानमिति ॥ ४ ॥ वृत्तिः—आदित्याभिमुखो भूत्वाऽनेन मन्त्रेणाऽऽहवनीयायतनेऽििनदध्यादित्यर्थः॥४॥ एवं प्रातर्युष्टायां तमेवाभिमुखः ॥ ५ ॥ दे० भाष्यम्--एवं प्रातर्गार्हपत्यं प्रज्वल्येवमादि य उक्तो विधिरेवं तेनैव विधिना प्रातःकाले होमार्थ विहरेत् । . रात्रेश्चतुर्थकालाद्यादित्यस्य प्रथमकालाप्राप्तकालो भवति तस्मिन्प्रणयने प्रातरिष्टकालानयमो विधीयते । व्युष्टायां व्युष्टायामेव विहरेत् । व्युष्टायामुषस्युदितायामुषसि तमेवाभिमुखो निदध्यात्प्राच्यां दिश्यवान्तरदिशायां यस्य अग्निहोत्रचन्द्रिका दिश्यादित्यो भवति तमेवाभिमुखो निदध्यात् । एवं प्रातरिति प्राप्तेऽपि पुनरुच्यते तदानीमादित्यस्याभावादादित्याभिमुख इत्येतस्यार्थालोपः स्यात् ॥ ५ ॥ चिः-एवमेव प्रातहॉमार्थमप्यादित आरभ्य निधानान्तं कुर्यात् । तमेवाभिमुखो निधी यमानाहवनीयाभिमुख इत्यर्थः । एवं सति प्रातःकाल आहवनीयायतनात्पश्चास्थि तेन निधानं भवति । सायं तु पुरस्तास्थितेन व्युष्टायामुषस्युदितायामादित्योदयात् प्राक् ।। ५ राञ्या यदेन इति तु प्रणयेत् ॥ ६ ॥ दे० भाष्यम्-एवं प्रातरिति यथाम्नाते प्राप्त इहाऽऽरभ्याहा यदेन इत्येतस्य स्थाने रात्र्या यदेन इत्यूह्य प्रणयेत् । तुशब्दो विशेषणार्थः—अयं तु विशेषोऽन्यत्समान मिति । तुशब्देऽक्रियमाण एतावानेव प्रणयनमन्त्रः स्यात् प्रणयेदिति वचनात् । प्रणयनमन्त्र स्योहो भवति । अन्यथाविधानार्थं तमेवाभिमुखो रात्र्या यदेन इत्यान्नानात् ।। ६ ।। वृत्तिः-प्रणयनमन्त्रेऽह्मा यदेन इत्यस्य स्थाने रात्र्या यदेन इति कर्तव्यं प्रातः काले ।। ६ अत ऊध्र्वमाहितामित्रैतचार्याहोमात् ।। ७ ।। दे० भाष्यम्--अत ऊर्धमतोऽस्मादुद्धरणादूर्धमाहितान्निर्यजमानो व्रतचारी भवति व्रतचारीति कर्मनामधेयमग्किमैव चरति नित्यवदाचरल्या होमसमातेश्चातुर्मास्यादिषु ब्रतान्या दिष्टान्येवमिहानादिष्टानि तस्मात्कमैव व्रतमुपदिशत्येतदेव व्रतं पत्न्या अपि समानम् ॥ ७ ॥ दृ०-सत्रिधर्माश्चातुर्मास्यव्रतानि चात्र व्रतशब्देनोच्यन्ते । विहरणादध्माऽग्निहोत्रप्रयो गसमाक्षेत्रंतचारी भवत्याहिताग्ःि ।। ७ ।। अनुदितहोमी चोदयात् ॥ ८ ॥ दे० भाष्यम्-अनुदितहोमी च व्रतचारी भवति समाते होम आदित्योदयादनु दितहोमी, अनुदित आदित्ये जुहोति, अनुदितहोमी च व्रतचारी भवत्याहोमादिति प्राप्त ओदयाद्भवति हुतेऽपि होमे ॥ ८ ॥ वृत्तिः-अनुदितहोमी चेत्समातेऽपि प्रयोग ओदयाद्व्रतचारी भवेत् ॥ ८ ॥ अस्तमिते होमः ॥ ९ ॥ दे० भा०-अस्तमित आदित्ये होमकाल उदितेषु नक्षत्रेषु सायमित्यन्येषाम् ॥९॥ वृत्तिः-कर्तव्यः । अङ्गान्यपि प्रधानकाल एव कर्तव्यानि । यत्पुनरङ्गं विहरणव त्स्वकालविशिष्टं तत्स्वकाल एव कर्तव्यम् ।। ९ ।। नित्यमाचमनम् ॥ १० ॥ दे० भाष्यम्-नियतं होमकाले प्रयतस्यापि कर्माङ्गमाचमनं िवधीयते ॥ १० ॥ वृत्तिः-उक्तं प्राङ्मुखस्याऽऽचमनं यत्पुरस्तात्तदिदानीं कर्तव्यमस्याङ्गत्वाय ॥१०॥ १४ अग्निहोत्रचन्द्रिका । ऋतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत्रिविरेकैकं पुनः पुनरुद कमादाय ।। ११ दे० भाष्यम्-कर्ता, ऋतसल्याभ्यामित्येतं मन्त्रं जपित्वा परैि समन्ततः पयुक्षेत् सिचेत् त्रित्रेिरकैकमप्रिं पुनः पुनरुदकमादाय गृहीत्वोक्त्वेत्यर्थः । जपित्वावचनं प्रातहीँमार्थ सत्यऋताभ्यां त्वेति पर्युक्षणमित्यत्र यथान्नातं प्राप्तोति । अनुक्रमे विकल्पः । पयुक्षमीति न प्राप्तोति जपित्वावचनात् पयुक्षौमीतिशब्दमुक्त्वा पर्युक्षेदिति सिद्धं सकृदृहीतेनापि पर्युक्षणं प्रसज्येत तस्मात्पुनः पुनरुदकमादायेत्युच्यते ॥ ११ ॥ वृत्तिः—पर्युक्षणमत्रमपि जपित्वा पर्युक्षेदिति पृथक्क्रियते पर्युक्षणातिदिष्ट परिसमू हने मन्त्रो मा भूदिति । त्रिरेकैकमित्येतावतैवैकैकस्यान्नेत्रित्रिःप पर्युक्षणे सिद्धे त्रित्रिारति वीप्सावचनं मन्त्रस्यापि त्रिरावृत्तिर्भवत्वित्येवम्र्थम् । पुनः पुनरुदकमादायेतिवचनं नः सकृद्रहीतेन त्रिः पर्युक्षेदित्येवमर्थम् ॥ ११ ॥ आनन्तर्ये विकल्पः ॥ १२ ।। दे० भाष्यम्-आनन्तर्येऽनुक्रमे विकल्लो नानाकल्पो विकल्पो विहारानुक्रमेण गार्हपत्र्यमथ दक्षिणाग्मिथाऽऽहवनीयं होमानुक्रमेण वाऽऽहवनीयमेवाग्रेऽथ गार्हपत्यमथ दक्षिणान्निमिति ॥ १२ ॥ वृत्तिः-अग्रीनां पर्युक्षणादिषु कर्तव्येषु केनाऽऽनन्तर्येण कर्तव्या इत्यानन्तर्यविशेषे ज्ञातव्येऽनेन सूत्रेणाग्रीनामुत्पत्तिक्रमस्य होमक्रमस्य च विकल्पो विधीयते ।। १२ ।। दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽग्रीनां यद्दक्षिणः पुत्रो गार्हपत्यः पौत्र आहवनीयस्तस्मादेवं पर्युक्षेत् ॥ १३ ॥ दे० भाष्यम्-दक्षिणं त्वेव दक्षिणा ित्वेवप्रथमं प्रथमं पर्युक्षेत्। अथ गार्हपत्य मथाऽऽहवनीयम् । तुशब्दो विकल्पाधिकारव्यावृत्त्यर्थः। एवशब्दोऽवधारणार्थः । अवधारणा त्पूर्वो विधिर्न क्रियते । दक्षिणं त्वेव प्रथमं कस्मादिति । वचनाद्विज्ञायते श्रूयते पिता वैष पिता किल भवत्यग्रीनां सर्वेषां यो दक्षिणाग्रिस्तस्य पुत्रो गार्हपत्यान्निः पौत्र आहवनीयस्तस्मादेवं यथावृद्धानुक्रमेण पर्युक्षेत् ॥ १३ ॥ वृत्तिः-पर्युक्षेत्। पर्युक्षणेऽयमेव क्रमो दक्षिणा िगार्हपत्यमाहवनीयमिति । तत्र श्रुतिमेव हेतुमुपन्यस्य तस्मादेवं पर्युक्षेदित्युपसंहृतम् । तेन पर्युक्षणातिदिष्ट पारसमूहनेऽ यमेव क्रमः । अन्यत्र पूर्वोक्तो विकल्पः । अत्र विनिवेशः प्रधानात्पूर्वेषामुत्पत्तिक्रमः परेषां प्रधानक्रम इति ॥ १३ ॥ गार्हपत्यादावांच्छन्नामुदकधारां हरेत्तन्तुं भानुमन्विहत्यिाहृव तन्वद्रजसो नायात् ॥ १४ अग्निहोत्रचन्द्रिका । दे० भाष्यम्-गार्हपल्यादारभ्याविच्छिन्नां कमण्डलुनेोदकधारां हरेनयेत् । तन्तुं तन्वन्नेतेन मन्त्रेणाऽऽहवनीयाद्यावदाहवनीयं प्राप्तोति ॥ १४ ॥ वृत्तिः-अयमाकारो मर्यादायामन्युपघातविरोधात् ॥ १४ ॥ पश्चाद्भार्हपत्यस्योपविश्योदगङ्गारानपोहेत्सुहुतकृतः स्थ सुहुतं करिष्यथेति । दे० भाष्यम्-पश्चादपरस्यां दिशि गार्हपत्यस्यान्नेः पश्चादुपविश्याऽऽध्वर्यवत्वान्निर सनेोपवेशने न भवतः । उदगुदीच्यां दिश्यङ्गारानोहेदपनयेत् । सुहुतकृतः स्थेत्यनेन मन्त्रेण ॥ १५ वृत्तिः-पश्चाद्रार्हपत्यस्य तूष्णीमेव दक्षिणेोत्तरणोपस्थेनोपविश्य गार्हपत्यात्कतिपया नङ्गारानुदक्पृथक्कुर्यादधिश्रयणार्थम् ॥ १५ ॥ तेष्वग्हिोत्रमधिश्रयेदधिश्रितमध्यधिश्रितमधिश्रितं हि ३म् इति ॥ १६ ।। दे० भाष्यम्-तेष्वङ्गारेषु समिद्धेष्वन्निहोत्रद्रव्यमधिश्रयेदयुपश्रयेत् स्थापयेदधिात्र तमित्यनेन मन्त्रेण ॥ १६ ॥ वृत्तिः—तेष्विति । पृथक्कृतेष्वङ्गारेष्वित्यर्थः । अग्निहोत्रमिति होमसाधनभूतं द्रव्यमु पचर्यते ॥ १६ इळायास्पदं घृतवचराचरं जातवेदो हविरिदं जुपस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा ।। १७ ।। दे० भाष्यम्-इळायास्पदमित्यनेन मन्त्रेण वा विकल्पः ॥ ॥ १७ वृत्तिः-अनेन वा मन्त्रेणाधिश्रयेत्पर्वेण वेति विकल्पविधि ॥ ॥ १७ न दध्यधिश्रयेदधिश्रयेदित्येके ।। १८ ।। दे० भाष्यम्-पयआदीनि दश द्रव्याणि तेषां सर्वेषामावशेपवचनादधिश्रयणे प्राते मतिषेधो न दध्यधिश्रयेत्, दधि नाधिश्रयेत्, अधिश्रयेदित्येके । दध्यधिश्रयेदित्याधिश्रयणे प्राप्त न दध्यधिश्रयेदिति प्रतिषेधे तु न दध्यधिश्रयेदित्येक इति वचनात्प्राप्तादन्यदेवे दमधिश्रयणं धर्ममात्रं विधीयते यथा दधि द्रव्यान्तरं न संपद्यते तथाऽधिश्रयणं कर्तव्यं भवति ।। १८ ॥ वृत्तिः-अधिश्रयेन्न बेल्येतावतैव सिद्धे गुरुसूत्रकरणं न्यायविकल्पोऽयमिति प्रदर्शना थेम् । अत्रैक आचार्याः प्रवृत्तिपरत्वाच्छास्त्रस्य कार्यस्य चातीन्द्रियत्वादलोपमाहुः । आचा र्यस्तु कार्यार्थत्वात्प्रवृत्तेः कार्यस्य च दृष्टस्य त्यागे प्रमाणाभावात्तदत्यागे संस्कार्यस्वरूप विनाशात्संस्कार्यसंपादकत्वात्संस्कारस्य लोप एवात्र श्रेयानित्याह ॥ १८ ॥ पयसा नित्यहोमः ॥ १९ ॥ दे० भाष्यम्--पयो दुग्धं नित्यं सततं होमो नित्यहोमः कामान्न भवति पयसा । पशुकामस्येत्यन्येषामिति तु वचनान्नित्यं नित्यवचनात्कामाद्यवाग्वादिभिहॉम उपरते कायै पुनरपि पयसैव जुहुयात्पय आदीनि द्रव्याणि नित्यानि काम्यानि च तत्र पयसाऽऽहृतेन होमः प्राप्तो यस्याग्रहोत्र्युपावसृष्टेति प्रायश्चित्तेषु दर्शनाद् गां दुग्ध्वा जुहुयात्तूष्णीं वचनाभावान्न शूद्रो दुह्याद्वा विकल्पः ॥ १९ ॥ वत्तिः-नेनयश्चासौ होमश्च नित्यहोमः स पयसा कर्तव्य : । अकामस्याग्निहोत्रहोमः पयसा कर्तव्य इत्यर्थः । कामानुपदेशादेवास्य नित्यत्वे सिद्धे नित्यग्रहणमुत्तरार्थम् ॥१९॥ यवागूरोदनोदधेि सर्पिग्रमकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम् ॥ २० ॥ दे० भाष्यम्-यवागुरोदनो दधि सर्पिरित्येतानि चत्वारि द्रव्याणि ग्रामकामश्चा नाद्यकामश्चेन्द्रियकामश्च तेजस्कामचैतेषां चतुर्णा कामानां यवाग्वादिचतुर्णा द्रव्या णामानन्तर्येण योगो भवति यवाग्वा ग्रामकामस्यौदनेनान्नाद्यकामस्य, दध्नेन्द्रियकामस्य, सर्पिषा तेजस्कामस्य, तत्र प्रतिपेधः । यवागू श्रपयतीत्युक्तमध्वर्येणां तस्या: श्रपणं भवत्योदनः सिद्ध एवाऽनीयते न तस्य श्रपणं चोदितमस्ति । वाचिद्दध्यपि सिद्धमेवाऽन यते सर्पिरप्येवम् । एतानि चत्वारि पयसा सह पञ्चाऽऽम्नातानि । अथ पञ्चाऽम्नातानि तण्डुलैरोजस्कामस्य, बलकामस्य मांसेन, यशस्कामस्य वा तत्पच्यते यथा यवागूः । सोमेन ब्रह्मवर्चसकामस्य, तैलेन श्रीकामस्य, अद्भिर्वष्टिकामस्य, एतान्यपि चोदितानि द्रष्टव्यानि हौम्यं च मांसवर्जमिति बुवता च तानि दश द्रव्याणि ।। २० ।। वृत्तिः-यथासंख्येन ग्रामकामादीनां यवाग्वादीन्यन्निहोत्रहोमद्रपाणि भवन्ति । ग्रामकाम प्रसिद्धः । अन्न च तदाद्य चान्नाद्यम् । खाद्यान्नकाम इत्यर्थः । इन्द्रियं शुक्र चक्षुरादीनि वा । तेजश्छविः । नित्यहोम इत्यत्रापि संबध्यते । तेन पुरुषार्थेरपि क्रियमाणो होमो नित्य एव स्यात्र कामार्थः । होमाश्रितानि द्रव्याण्येव कामाश्रितानि भवन्तीति ॥ २० ॥ अधिश्रितमवज्वलयेत् ॥ २१ ॥ दे० भाष्यम्-अधिश्रितं द्रव्यं ज्वलतेोल्मुकेनावज्वलयेदिति । अवज्वलनस्य स्थानमु पदिष्टं स्यात्तस्मादधिश्रितमित्युच्यते । अधिश्रयणादनन्तरमवज्वलन सिद्धं भवति ॥२१॥ वृत्तिः--अधिश्रितग्रहणादधिश्रितमात्र एवावज्वलयेन्न कालविक्षेपः कर्तव्य इत्यव गम्यते ॥ २१ ॥ अनधिश्रयं दध्यग्धेि तेजो मा हार्षीरिति ।। २२ ।। दे० भाष्यम्-अधिश्रितमवज्वलयेदित्युक्त दध्नोऽधिश्रयणपक्षेऽवज्वलनं न प्राप्तोति तस्मादिदमुच्यते--अनधिश्रयन्नपि दध्यवज्वलयेदित्यग्टेि तेज इत्यनेन मन्त्रेण । एवं चेन्न दधिश्रयणं कर्तव्यमधिश्रतमवज्वलयेदनविश्रयामित्येतावता सिद्धे दधिग्रहणं दध्यादीनां प्राप्यर्थम्। कानि दध्यादीनि-तण्डुलः, ओदनं, सोम इयेतानि दधिप्रभृतीनि अग्निहोत्रचन्द्रिका । कथं दध्नो धर्मानुक्त्वैवं तण्डुलानोदनं सोमं चेत्युक्तमध्वर्युर्ण तदेवाऽऽचार्येण दधिग्रहणेन प्रदर्शितं तस्माद्दध्नोऽधिश्रयणे विकल्प उक्तः स ओदनस्यापि भवति । तघ्डुलानां सोमस्य च तयोः पाकविरोधात् । अवद्यातनं तु सर्वेषां भवत्यविरोधात् । मा हार्षीरिति विसर्जनीयं पठन्ति तकारान्तस्तु भवति मा हार्षीदिति ॥ २२ ॥ वृत्तिः--नाधिश्रयो यस्य तदनधिश्रयम् । अधिश्रयरहितमपि दध्यवज्वलयेदित्यर्थः । सर्वत्राबज्वलनमस्रोऽयम् * अग्टेि तेजः ? इति । दधि चेत्येतावतैव सिद्धे गुरुसूत्रकरणं व्रीह्यादीनामपकानां संग्रहार्थम् ॥ २२ ।। सुवेण प्रतिषिञ्च्यान्न वा शान्तिरस्यमृतयसीति ॥ २३ ॥ दे० भाष्यम्--अवज्वलनानन्तरं लुवेणेोदकं गृहीत्वाऽग्निहोत्रं प्रतिषिञ्ध्यादपाँ स्तेोकेनेत्युक्तमध्वर्तृणाम् । येन चा प्रतिषिञ्च्याद्विकल्पः । शान्तिरस्यमृतमसत्यनेन मत्रेण प्रतिषिञ्च्यान्मवमुक्त्वा विभाषा कर्तव्या । तथा सति मत्रस्य विभाषा स्यात् । प्रतिषेकस्यैव विकल्प इष्यते ॥ २३ ॥ वृत्तिः-पयसा हमें दोहनपात्रप्रक्षालनं सुव अानांय तेन प्रांतांञ्चित् । अग्हिो प्रद्रव्यमन्यत्रोदकेनैव शान्तिरिति मत्रेण । न वा प्रतिपेकः कर्तव्यः ॥ २३ ॥ तयोरध्यतिचारः ।। २४ ।। दे० भाष्यम्--तस्मादेवमुक्तयोरधिकृतपोरवद्योतप्रतिपेकयेोरव्यतिचारोऽव्यतिक्रम्य चारो व्यतिचारोऽवद्योतनं कृत्वा प्रतिषेको न क्रियते यदा तदा व्यतिचारो भवति न भवति व्यतिचारः । अबद्येतनं कृत्वा प्रतिपेकोऽपि क्रियते तयोः सह चारो व्यतिचार इत्युच्यते । प्रतिषेकस्य विभाषा तेन सहैवावद्योतनस्यापि विभाषा भवति दध्यादीन्यप्रतिषेच्यान्यध्वर्यणां सििष दर्भाग्रे प्रत्यस्यति न प्रतिपिञ्चति । एषु सर्व ष्वस्माकं प्रतिषेको विकल्प्यते ।। २४ ।। ट्टान्तः ---तयेोः प्रतिषेकाप्रतिषेकयोरित्यर्थ । अव्यतिचारोऽसंकरः । एकस्मिन्पुरुष इत्यर्थः । एकः सर्वदा प्रतिषिञ्चेद्परः सर्वदा न प्रतिपिञ्चेदित्यर्थः ।। २४ ।। पुनज्र्वलता परिहरेचिरन्तरितं रक्षोऽन्तरिता अरातय इति ॥ २५ ॥ दे० भाष्यम्-पूर्वमेव द्योतनं यथा ज्वलतेोल्मुकेन कृतमेवं पुनरपि ज्वलतो ल्मुकेनाग्हेिोत्रं परिहरेत् । परि समन्ततो हरेन्नयेत् । त्रिरन्तरितमित्यनेन मन्त्रेण सकृ न्मन्त्रेण द्विस्तूष्णीं पुनहणादवद्योतनमपि ज्वलतेोल्मुकेन सिद्धम् । अन्यथा न प्राप्तोति चत्रनाभावात् ।। २५ ।। 4-पुनर्वचनाज्ज्वलता येनेोल्मुकेनावज्वलनं कृतं तेनैवं परिहरणं कुर्यादिति टास्यते । उस्मुक्रादानं गार्हपत्यादेव न श्रपणार्थात् । श्रपणार्थ पृथक्कृतस्य पुन:प्रक्षेपवि १८ अग्निहोत्रचन्द्रिका । धानात् । अन्यत्र कार्यार्थं पृथक्कृतस्य कार्यपरिमाप्तौ त्याग एव कर्तव्यः । तैजावज्वल नार्थ पृथक्कृतमवञ्चलने कृते पृथगेव निधाय तेनेव परिहरणमांपे कृत्वा त्यजेत् ।। २५ ॥ समुदन्तं कर्षन्निवोदगुद्धासयेदिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति निदधत् ॥ २६ ॥ दे० भाष्यम्-समन्तत उदन्तं समुदन्तं कर्षतीव कर्पनिव भूमिसंनिकृष्टं नीयत उदगुद्वासयेदुदीच्यां दिश्युद्वासयेत् स्थापयेत् । दिवे त्वन्येतैस्त्रिभिर्मन्त्रेत्रिभूमौ निदधानि दध्यादुद्वासयेदित्यनेनैवाऽऽधाने सिद्धे निदध्यादिति न वक्तव्यम् । तस्यैतत्प्रयोजनं निदध दुद्वासयतीति । तस्मात्रिभूमौ प्रतिष्ठापयति त्रय एवैते मघ्रात्रिभूमौ प्रतिष्ठापयतीत्य न्येषाम् ॥ २६ ॥ वत्तिः-सम्यगुद्रतोऽन्तो यस्य द्रव्यस्य तत्समुदन्तं द्रव्यम् । प रतः स्थालीसैबद्रप्रदे शोऽन्त इत्युच्यते । यदा पच्यमानं पय एवमवस्थं भवेत्तदा कर्षन्निवोदगुद्वासयेत् । कर्ष न्निवेति मन्दगयेत्यर्थः । निदधदिति । त्रिभिर्मन्त्रैत्रिर्निधानं कुर्वन्नवतारयेत् । प्रथमाद्विती याभ्यामाकाशे धृत्वा तृतीयेन भूम्यां निदध्यात् ॥ २६ ॥ सुहुतकृतः स्थ सुहुतमकाटत्यङ्गारानातस्सृज्य स्रुक्सुषुव प्रतिपत्प्रत्युष्ट रक्षः प्रत्युष्टा अरातयो निष्ट रक्षो निष्टप्ता अरातय इति ।। २७ ।। दे० भाष्यम्-सुहुतकृतः स्थ इत्यनेन मत्रेणाङ्ग रानझावेवातिसृजति गमयति अतिसृज्य स्थालीमुत्तरतः कुशेपूपसादयेदतिसृजेदित्यत्र साकाङ्क्षत्वादासादयेदियध्या हर्तव्यम् । अन्यथाऽऽसादनमुपदिष्टं स्याद्वक्ष्यति चोत्तरतः स्थाल्याः लुचमासाद्येति स्थाली मासन्ना दर्शयति । सूत्रुचं लुत्रं चोभयं सह प्रतिपेत् प्रत्युष्टमियेतेन यथोष्माभिधा भवांते ।। २७ वृत्तिः—अतिसर्गेऽङ्गराणां गार्हपत्ये प्रक्षेपः ॥ २७ ॥ उत्तरतः स्थाल्याः स्रुचमासाद्योमुन्नयानीत्यतिसर्जयीत ॥ २८ ॥ दे० भाष्यम्-उत्तरतः स्थाली प्रागासना भवति तस्या उत्तरतः श्रुचमासाद्य स्थापयित्वोमुन्नयानीत्यतिसर्जयीत यजमानः । आसाद्येति वचनात्तत्र देशे कुशाः स्तीर्णा भवान्त। ओमुन्नयानीति त्रिमात्रमकार.न्तं कुर्यात् । अतिसर्जनत्वादुवैर्यथा शृणोति ।। २८ ॥ वृत्तिः-स्थाल्पा उत्तरतः त्रुचमासाद्य त्रुवहस्त एव सनोमुन ानीत्यनेन मन्त्रेणाऽऽ हितामितिसर्जयेत् ॥ २८ ॥ उबाहिताग्रेिराचम्यापरेण वेदिमत्रिज्य दक्षिणत उपविश्यैतच्छोमन्नये त्यविसृजेत् ॥ २९ ॥ अग्निहोत्रचन्द्रिका | १२ दे० भाष्यम् -आहिताग्निर्यजमान आचम्य प्रयतोऽपि कर्मावादाचामेत् । बेदिं गार्हपत्यं चापरेणातिसृज्य गत्वा दक्षिणतो दक्षिणस्यां दिश्युपविशति । निरसनमकृत्वैतच्छ्रुत्वा कर्तुरतिसर्जनं श्रुत्वोमुन्नयेत्यतिसृजेदनुज्ञां कुर्यात् । पूर्ववधिमात्रमेव कुर्यात् । आहि- साग्निग्रहणं कर्तुरधिकारादाचमनं कर्माङ्गमेव | ततः श्रुचेतिवचनात्प्रागेवाऽऽसीनो भवति । अधिकारे तु प्रपदनं त्रिधीयते । असति यजमाने स्वयमात्मनोऽनुजानीयादिस्यध्वर्यू- णाम् ॥ २९ ॥ वृत्तिः– विहरणकाल एवाऽऽहिताग्निश्चाध्वर्युः पत्नी च स्नात्वाऽऽचम्यं तीर्थेन प्रकि शन्ति । तत्राध्वर्युर्विहरणं कृत्वा होमकाले प्राप्त निष्क्रम्य प्राङ्मुख उदङ्मुखो वाऽऽचम्य तीर्थेनैव प्रविश्य पर्युर्क्षणादि कुर्यात् । पत्नी तु गार्हपत्यस्य दक्षिणत आस्त आ होमपरि- समाप्तेः । आहिताग्निश्चाऽऽहवनीयविहरणकाले दक्षिणत उपविश्योद्धराऽऽहवनीयमित्यध्वर्यु सँधैँषमुक्त्वाऽऽस्ते । ततो होमकाले प्राप्ते निष्क्रम्य प्राङ्मुख उदङ्नुखो वाऽऽचम्म तीर्थेनैव प्रपद्यापरेण चेदिदेशं पूर्वेण गार्हपत्यं दक्षिणाग्निं च गत्वा वेदेर्दक्षिणत उपविशेत् । उप- विष्टः सन्नेतदतिसर्जनवाक्यं श्रुतिसृजेत् ॥ २९ ॥ अतिसृष्टो भूमिळा भुव इळा स्वरिळा वृध इळेति स्रुवपूरमुन्नत् ॥ ३० ॥ दे० भाष्यम्–यजमानेन।तिसृष्टः कर्ता ' भूरिळा ' इत्येतैश्चतुर्भिर्मन्त्रैः स्थाल्याः स्रुवः पूर्यते । पूर्ण पूर्ण उन्नयेत् । स्थाल्या उद्धृत्योन्नयेच तुरुनयेदतिसृष्ट इत्यनुच्यमाने यजमानस्योन्नयनं प्राप्नोत्यधिकारात् ॥ ३० ॥ वृत्तिः– अतिसृष्ट इति वचनं प्रवसति यजमाने स्वेनैवातिसृष्ट उन्नयेन्नान तिसृष्ट इत्येवमर्थम् । चत्वार एते मन्त्राः समत्वात्संसर्गाणामतश्चतुष्कृत्व उन्नयेत् । स्रुवपूरमिति णमुल्प्रत्यययोगाच्च । अप्रियमप्रिय मित्युन्नयनभेददर्शनाच । स्रुवपूरमिति स्रुवं पूरयित्वे- त्यर्थः । अत्र पञ्चममन्त्रस्य।भावात्पञ्चावत्तिनां तूष्णीमेव पञ्चममुन्नीयतें पुरुषविशेषधर्मित्वा- दवदानविशेषसंबन्धस्य ॥ ३० ॥ तत अग्रियमग्रियं पूर्णतमं योऽनुज्येष्ठमृद्धिमिच्छेत्पुत्राणाम् ॥ ३१ ॥ दे० भाष्यम् – अग्र्यमग्रे भन्नमग्र्यमग्र्यमग्र्यं पूर्णतममुन्नयेत् । उत्तरं तत ऊनतममित्यनुज्येष्ठं यजमाव आत्मनोऽनुज्येष्ठं ज्येष्ठानुपूर्व्येण ऋद्धिमिच्छेत्पुत्राणां ज्येष्ठस्योत्तमा वृद्धिः । अनन्तरस्थोना, तत ऊनतरा तत ऊनतमेत्येवमेतदेव विपरीतमध्त्र - र्यूणां योऽनुकमिष्टमृद्धिमिच्छेत्पुत्राणामिति ॥ ३१ ॥ वृत्तिः --- यो यजमानः पूर्वजात नुसारेणाऽऽत्मनः पुत्राणामृद्धितारतम्यमिच्छेत्तस्य पूर्वः पूर्णतमो भवेत् | अनेकपुत्रस्यायं काम्यः ऋल्पो न चतुष्पुत्रस्यैव ॥ ३१ ॥ ‘अग्निहोत्रचन्द्रिका | योऽस्य पुत्रः प्रियः स्यात्तं प्रति पूर्णमुन्नयेत् ॥ ३२ ॥ दे० भाष्यम् -- यो यजमानस्य पुत्र इष्टः स्यात्तं पुत्रं प्रत्यादिश्य पूर्ण स्रुवमुन्नयेत् । तस्मादित्युत्तराण्युन्नयनानी पढ़नानि भवन्ति । प्रथमो नित्य उत्तरौ कामिकौ । पुत्रबहु- त्यात् । अधितृतीयदक्षिणाविभागन्यायेन चतुर्धा पुत्राणां विभागे प्रियः पुत्रस्तं प्रति पूर्णमुन्नयेत् । अस्येति यजमानप्राप्यर्थम् । अन्यथा कर्तुः स्यात् ॥ ३२ ॥ दृत्तिः—प्राकृतानामेव पञ्चानां चतुर्णां बैंकं स्रुवं प्रियं पुत्रं ध्यात्वा पूर्णमुन्नभेत् | अयमपि काम्यः । अयमेकपुत्रस्यापि भवति ॥ ३२ ॥ २० स्थालीमभिसृश्य समिधं स्रुचं चाध्यधेि गाईपत्यं हृत्वा प्राणसंमितामाहव- नीयसमीपे कुशेषूपसाद्य जान्वाच्य समिधमादध्याद्रजतां त्वाऽग्निज्योतिषं रात्रि - मिष्टकामुपदधे स्वाहेति ॥ ३३ ॥ - दे० भाष्यम् – स्थाली पाणिनाऽभिमृश्य समिधं पालाशी सुचं च गृहीत्वोपरि हि समिधं देवेभ्यो धारयत्यधस्तापितृभ्य इति विज्ञायते । अध्यध्युपर्युपार गार्हपत्यमग्निसमी फे गृहीत्वाऽऽसाद्य प्राणसंमितां नासिकासंमितां कृत्वाऽऽहवनीयसमीपे कुरााः स्तीर्णा भवन्ति । तेषु कुशेषप सभीप आसाद्य स्थापयित्वा दक्षिणं जानुमाच्य नीचं कृत्वा तां समिधमाह- बनीये निदध्यात्प्रक्षिपेत् ‘ रजतां त्वा ' इत्यनेन मन्त्रेण । अध्यधीति निपातः सामी- प्यार्थे वर्तते ॥ ३३ ॥ - वृत्तिः स्थास्याः सुत्रेण स्रुच्युम्नयनं कृत्वा स्थालीमभिसृश्य स्रुचा सह समिधं च गृहीत्वाऽध्यवि गार्हपत्यं गार्हपत्यस्योपरि समीपं हृत्वाऽऽहवनीयस्य नेदीयसि नासिका - संमितां हरेत । हृत्वा तस्य पश्चाददूरे कुशेषपसाद्य दक्षिणं जानु निपाय तां समिधमा- दध्याद्रजतामिति मन्त्रेण ॥ ३३ ॥ समिधमाधाय विद्यदसि विद्य मे पाप्मानमत्रौ श्रद्धेत्यप उपस्पृश्य मदप्तिां द्व्यङ्गुलमात्रेऽभिजुहुयाद्भूर्भुवः स्वरो३मग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेतेि ॥ ३४ ॥ दे० भाष्यम् – समिधमाधायेति पुनरुच्यते । यद्वा यजमानः स्वयं जुहोति तदा समिधमाधायानुमन्त्रयेत। यजमानस्य स्थानमुपदिशत्यत्र तत्र प्राप्नोति, उत्तरकालमप्सु श्रद्धे त्यप उपस्पृश्याऽऽहिताग्निरनुमन्त्रयते । ततो विद्युदसत्यनेनःप उपस्पृश्य होमकाल उप- स्पर्शननिराकाङ्क्षत्वात्प्रदीप्तां समिधं नाप्रदीप्तां, इयङ्गुलमात्र द्वयङ्गुलप्रमाणं दिशन्त्यष्य- भिसमिधं जुहुयात् “ भूर्भुवः स्वरो३म् " इत्यनेन मन्त्रेण | द्रवद्रव्यं प्रसेकेन जुहुयात् । अन्यान्यन्यमुखेन ॥ ३४ ॥ · अग्निहोत्रचन्द्रिका | २१ वृत्तिः– समिधमाधायेत्युच्यते समिदाधानधर्मस्य जानुनिपातनस्यानुवृत्त्यर्थम् । समि- घमाधायेत्यनेनैव समिद्ग्रहणेन पूर्वसूत्र अध्यादित्येवोक्तेऽपि समिध एवाऽऽधाने सिद्धे ऋत्पूर्वसूत्रे समिद्ग्रहणं करोति तज्ज्ञापयति यत्र यत्र समिधमादध्यात्तत्र तत्र जान्वाच्याऽऽ- दश्यादिति । विद्युदसीत्यप उपस्पृश्य मदीप्तां समिधं मूलतो द्द्व्यङ्गुलमात्रेऽभिजुहुयात् भूर्भुवः स्वरो३म् ' इति मन्त्रेण ॥ ३४ ॥ पूर्वामाहुति हुत्वा कुशेषु सादयित्वा गाईपत्यमवेक्षेत पशून्मे यच्छेति ॥ ३५ ॥ दे० भाष्यम् – तां पूर्वाहुर्ति हुत्वैतदपि पुनरुच्यते, पूर्ववद्यजमानस्य स्थानोपदे- शायँ हुव्वेति । कुशेषूपसाद्य गार्हपत्यभवेक्षेत पशून्मे यच्छेत्यनेन मन्त्रेण प्रत्यग्व्यावृत्यावे- क्षते ॥ ३५ ॥ वृत्तिः—द्धुत्वेतिवचनं निपातितजानुरेत्रोत्तरमपि कुर्यादित्येवमर्थम् । पूर्वामिति वचनं पूर्बाहुत्युत्तरकालीनं स्रुचं सादयित्वैव कुर्यादुत्तराहुत्युत्तरकालीनं सुग्घस्त एव कुर्याद चमर्थम् ॥ ३५ ॥ अथोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा ॥ ३६॥ दे० १० भाष्यम् – अथ वीक्षणादनन्तरमुत्तरामाहुतिं जुहुयात् । अधिकृते मन्त्रे प्राप्ते तूष्णीममन्त्रं भूयसीमुत्तरां पूर्वस्या उत्तरत एवं जुहुयादिति ॥ ३६ ॥ - वृत्तिः – अथेत्यानन्तर्थवचनेन पूर्वाहुत्योत्तराहुतेः संबन्धः क्रियते | तेन जान्वाच्ये- त्यस्यानुवृत्तिर्लभ्यते । प्राधान्यं चोत्तराहुतेः । अतः पूर्वाहुतौ हुतायां द्रव्यदोषे सत्युत्तरा- द्धुत्प्रर्थं द्रव्यमुत्पादयितव्यमेव । भूयसी पूर्वाहुतेर्भूयोद्रव्यम् । असंसृष्टां पूर्त्रयाऽऽहुत्या । प्रागुदक्पूर्वाहुतैरुत्तरतो वा तस्या एत्र || ३६ ।। प्रजापतिं मनसा ध्यायात्तूष्णींहोमेषु सर्वत्र ॥ ३७ ॥ दे० भाष्यम् – प्रजापतिदेवतां मनसा ध्यायाज्जुहुयाच्चतुर्थ्या विभक्त्या स्वाहा - कारेणा च प्रजापतये स्वाहेति मनसा जुहुयादिति वा तूष्णींहोमेषु प्रजापति व्याया सर्वत्र । अस्मादन्यत्रापि तूष्णींहो मेषु यत्र यत्र तूष्णीं चतुर्थं तूष्णीं सर्वहुतं जुहुयुः । होमग्रहणात्समिदाघाने न भवति तूष्णीं समिधमाधायेति ॥ ३७ ॥ । वृत्तिः तः - यत्र तु तूष्णींशब्द विशिष्टो होमश्वोद्यते तत्र प्रजापतिदेवतां ध्यायेद्देवता- साध्यत्वाद्धोमस्य । ध्यानत्वादेव मानसत्वे सिद्धे मनोग्रहणं शब्दध्यानार्थम् । तेन चतु- र्थ्यन्तं प्रजापतिशब्दं ध्यात्वा तदनन्तरं स्वाहेत्युपांशूक्त्वा जुहुयात् । होमेष्विति बहुवच- नादेव प्रकरणादुत्कर्षे सिद्धे सर्वत्र ग्रहणं गार्हेष्वपि प्रापणार्थम् ॥ ३७ ॥ भूयिष्ठं स्रुचि शिष्ट्वा त्रिरनुमकम्प्यावमृज्य कुशमूलेषु निमाष्टिं पशुभ्य- स्वेति ॥ ३८ ॥ २२ अग्निहोत्र चन्द्रिका | - दे० भाष्यम् – भूयिष्ठं बहुतममुत्तराद्धतिवदुत्तरावमं हविः शिष्ट्वा शेषं कृत्वा त्रिरन्त्राहुतिमनुप्रकम्प्य चालगित्वाऽमृज्या वाक्याणिना लेप परिमृज्य कुशमूलेषु निमार्ष्टि निःशेषेण लेप निमाटि पशुभ्यस्त्वेत्येतेन मन्त्रेण ॥ ३८ ॥ - वृत्तिः— उत्तराहुतेर्भूयिष्ठं भूयोद्रव्यं पूर्वाहुतेर्भूयिष्ठं यथा भवति तथा भक्षार्थ स्रुचि शेषयेत् । पूर्वाहुत्यर्थं प्रक्षिप्ताद्रव्यादुत्तराहुत्यर्थं भूयो भवति । तस्मादपि भूयो भक्षार्थं भवति । तत्पूर्वाहुत्यपेक्षया भूयिष्ठमित्युच्यते । भूयिष्ठं द्रव्यं स्रुचि शेषयित्वा स्रुचमेवाऽऽहुतिदेशस्थां प्रकम्पयेत् । ततः स्रुम्गतलेपं पाणिनाऽधो मुखेना मृज्य पाणि- गतं ऌपं कुशमूलेषु निमार्ष्टि निमृजेत्पशुभ्यस्त्वेति ॥ ३८ ॥ I तेषां दक्षिणत उत्ताना अगुली: करोति प्राचीनावीती तूष्णीं स्वध पितृभ्य इति वाऽपोऽवनिनीय वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेत्यप उप- स्पृश्य ॥ ३९ ॥ - दे० भाष्यम् – तेषां कुशमूलानां दक्षिणस्यां दिश्युत्ताना अङ्गुली: करोति प्राची - नावती भूत्वा तूष्णीं स्वधा पितृभ्य इत्यनेन मन्त्रेण । अङ्गुल ष्ववनिनीयावसिश्चेत् । पुनर्थज्ञोपवीतं कृत्वा वृष्टिरसीत्यनेन मन्त्रेणाप उपस्पृश्य | तूष्णीं ग्रहणं मन्त्रविवक्षार्थम् । अक्रियमाणे वाशब्दः क्रियाविकल्पार्थः स्यान्निनयनमपि होमवत्तूष्णीं निनयने प्रजापति ध्यायेत्पैतृकत्वात्कर्मणोऽप्सु श्रद्धेत्युपस्पृश्येति साकाङ्क्षत्वाद्वाक्यस्योदङ् भक्षयेदिति । स हि प्राप्तानुवादो नित्यमप उपस्पर्श ममन्त्रवदधिकृतात्तत्प्रतिपत्त्यर्थं परिभाषाव्यवायादन्यथा. स्पृष्ट्ये- दकत्रचनमनर्थकमभावात् ॥ ३९ ॥ वृत्तिः—तैषां कुशमूलानां दक्षिणत उत्ताना अङ्गुलीनिंदध्यात् । प्राचीनावीती भूत्वा ‘ स्वधा पितृभ्यः ’ इति मन्त्रेण तूष्णीं वा । एतावदेव सूत्रम् । अपश्च कुशमू- ळानां दक्षिणतो निनयेदवाचीनेन पाणिना | एतावत्स्स्रुग्धस्त एत्र करोति । एवं वा तेषां दक्षिणत उत्ताना अङ्गुली: करोति प्राचीनावीति तूष्णीं स्वधा पितृभ्य इति वाऽपोऽवनिनीय । इदमपि सूत्रमेतावदेव । निधाय स्रुचमप उपस्पृशेत् ॥ ३९ ॥ आहिताग्निरनुमन्त्रयेत ॥ ४० ॥ दे० भाष्यम् – आहिता निरनुमन्त्रयेत समिधम् ॥ ४० ॥ वृत्तिः—अधिकारोऽयम् ॥ ४० ॥ आधानमुक्त्वा तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वध्रुवा सीदेति समिधम् ।। ४१ ॥ दे० भाष्यम् – आधानमुक्वा समिदाधानमन्त्रमुक्त्वा सायं प्रातश्च यः प्रयुक्तस्तमाह अग्निहोत्रचन्द्रिका | २३ । स्वाहाकारान्तमुक्त्वा तेन ऋविणेत्येतेन च । उभाभ्यां समिधमनुमन्त्रयेत । आहिताग्निग्रहणं कर्तुरधिकाराद्देशान्तर उक्तऩमिदाधानकाले तु भवति । मन्त्रे स्त्राहाकारो होम र्थमनुमन्त्रणे न प्रयोक्तव्यस्तथ दृष्टत्वादुपस्थाने । एतैश्चैव वा स्वाहाकारैरिति नित्यमन्त्रस्यायमुपदेशो न तु नैमित्तिकस्य । मित्रो जनान्यातयति ब्रुवाण इति समिदाधानमिति । तत्रापि यज- मानो नित्येनैत्रानुमन्त्रयते । इष्टकोपघानलिङ्गत्वात् । श्रूयते तावद्यद मेर्यजुष्मत्य इष्टका इति ।। ४१ ॥ वृत्तिः– समिदाधानमन्त्रेण तेन ऋषिणेत्यनेन मन्त्रेण च समिधमाधीयमानामनुम - न्त्रयते ॥ ४१ ॥ ता अस्य सूद दोहस इति पूर्वामाहुतिम् ॥ ४२ ॥ दे० भाष्यम् ——ता अस्य सूद दोहस इत्यनयर्चा पूर्वामाहुतिमनुमन्त्रयते । पुर्त्रामाहु- तिमित्यनुध्यमान उभयत्र प्राप्नोति ॥ ४२ ॥ वृत्तिः—एतयर्चा पूर्णामाहुतिमनुमन्त्रयते ॥ ४२ ॥ उपोत्थायोत्तरां काङ्क्षेतेक्षमाणो भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः षोषैः ।। ४३ ॥ । दे० भाष्यम् -- उपोत्यायोत्तर / मुत्तरामाहुर्ति हुवा तामुपलक्ष्योन्याय स्थितिष्ठते सर्बानग्नीनविशेषवचनाद्व्याहृतयश्च सर्वार्था आग्नेय्योऽपि वास्यानुसमर्था यथावत्संप्रयोगात्तु एकार्था अपि बर्था भवन्ति । विभक्तास्तु नित्यास्तस्मात्सर्वाननीनुपतिष्ठते । कं पुनरस्य वैकल्पिकं विधिं वक्ष्यति । अयं पन्था अपि वित्तः । अस्य स्थाने भवति श्रुतिः । काङ्क्षेतेच्छेत मन्त्रलिङ्गोपदेशनार्थं भूर्भुवः स्त्र: सुप्रजाः प्रजाभि: स्यां सुत्रीरो वीरैः सुपोषः पोषैरित्येताः काङ्क्षत | ईक्षमाणोऽसीनीक्षमाण उपतिष्ठेत भूर्भुवः रूरित्येतेन मन्त्रेणाधिकारादनुतन्त्रणे प्राप्त उपोत्यायेति ब्रूयात् । उपोत्यायोत्तररामिति वचनादुत्तरा मुत्थानस्योक्तलक्षणं भवति । उत्तरामुपलक्ष्योत्थाय मन्त्र उच्यमन उपस्थानसंज्ञो भवति । ईक्षमाणवचनात् ॥ ४३ ॥ - वृत्तिः— इतिकाराध्याहारेण सूत्रच्छेदः । उत्तराहुतेतूयमानाया देशतः कालतश्च स्थित्वा कटाक्षेणेक्षमाणस्तामेवाऽऽहुतिमनुमन्त्रयते । काङ्क्षत शब्द: कटाक्षवचन: के चिदुत्तरामा हुतिमीक्षमाणोऽनुमन्त्रयते तन्मन्त्राभिहितान्कामान्काङ्क्षत चेति वर्ण- यन्ति ॥ ४३ ॥ आग्नेयीभिश्च ॥ ४४ ॥ ६० भाष्यम् – आग्नेयीनामुपदेशाच्च । अग्निर्देवता यासामुचां ता आग्नेय्यो भवन्ति । २४ आझेयीभिश्चाप्तिमुपतिष्ठते । निर्देशात्तावदेतस्य समाम्नायेऽग्मिीळादिसर्वाभिः समाम्नाताभिः क्रमेणान्वहं यथोत्साहमुपस्थानं कर्तव्यम् । चशब्दः समुचयार्थो भूर्भुवः स्वरित्यनेन मन्त्रेणाऽऽङ्गेयीभिश्चेति ॥ ४४ ॥ वृत्तिः-याभिः काभिश्च ध्यवराभिराग्रेयीभिरुत्तरामवाऽऽहुतिमनुमन्त्रयते ॥ ४४ ॥ अग्र आयूषेि पवस इति तिसृभिः ।। ४५ ।। दे ०भाष्यम्-अन्न आयूंषि पवस इयेताभिराझिपवमानीमिति तिसृभिरुप्रति ४५ ४५ अग्हिोत्रचन्द्रिका । संवत्सरे संवत्सरं ।। ४६ ।। दे० भाष्यम्-प्रतिसंवत्सरं यस्मिन्नहन्याहित:ग्रयो भवन्तीति श्रुतिः । यस्मिन्नहनि सायं प्रातभूर्भवः स्वरित्यनेन मन्त्रेणैताभिश्च तिसभिरुपतिष्ठते । पुननेवा अग्यो भव न्तीति श्रुतिः । पवमानहवापि च निरूप्यन्त इयन्येषाम् ॥ ४६ ॥ वृत्तिः-पृणें पुर्णे संवत्सर एताभिरधिकाभिः सकृदनुमन्त्रयेत ॥ ४६ ॥ यवाग्वा पयसा वा स्वयं पवणि जुहुयात् ।। ४७ ।। दे० भाष्यम्-यवाग्वा च तण्डुलैर्या पच्यते सायं प्रातस्तया च यवाग्वा पयसा । स्वयं यजमानः पर्वण्यमावास्यायां पैौर्णमास्यां च सायं जुहुयात् । सायं प्रातर्यद्यपि काम्येन प्रक्रान्तं भवति पर्वध्येताभ्यामेव जुहुयात् । काम्येनैव वोधयति येन यवाग्वा पयसा वेति विकल्पः । अमावास्यायां चैन्द्रः पुरोडाशो न विद्यते यदा तदा यवाग्वैव होतव्यम् । तथाऽध्वणां वचनम् ॥ ४ वृत्तः-यवाग्वा पयसा वा स्वय पवाण पाणमास्याममावास्याया वा साय मातयज मानः स्वयमेवान्निहोत्रं जुहुयात् । अस्मिन्सूत्रे पर्वणि द्रव्यनियमः स्वयंकर्तृनियमश्च विधी. यते । स्वयंहोमे समिधमनुमन्त्र्य * विद्युदसि ? इति पूर्वमाहुतिमनुमन्त्र्य ' पशून्मे यच्छ इत्युत्तरामाहुतिमनुमन्त्र्य * वृष्टिरसि ? इत्येवं . क्रमो भवति । यकिंचिदग्निहोत्रद्रव्यं कम्यं वैकल्पिकं वा प्रयुज्यते तत्सायमुपक्रम्य प्रातरपवर्ग प्रयुज्यते नान्यथेति । प्रतिनिधिस्वे कप्रयोगपर्यवसाय्येव ।। ४७ ।। ऋत्विजामेक इतरं कालम् ॥ ४८ ॥ दे० भाष्यम्--ऋत्विजामेको येऽस्य ऋत्विजस्तेपाभेक इतरं कालं शर्य कार्ल जुहु यात् । ऋत्विगितरं कालभिति सिद्ध एकग्रहण ब्रह्मणः प्रतिषेधेो नित्यः सर्वकर्मणानिति प्रातः ॥ ४८ वत्तिः-ऋत्विजां मध्य एकः कश्चिदृविगितरस्मिन्कालेऽग्रिहो जुहुयात् ॥ ४८ ।। अमिहोत्रचन्द्रिका | अन्तेवासी वा ॥ ४९ ॥ दे० भाष्यम् - अन्तेवासी शिष्यो भवति । स चेतरं कालं शेषं कालं जुहुयात् । बेदग्रहणार्थं यो वसत्युपाध्यायं सोऽन्तेवासी । यः कृत्स्नमधीते स शिष्यः । ब्रह्मचारी च जुहुयादन्येषाम् ।। ४९ ॥ २५ वृत्तिः– इतरस्मिन्कालेऽग्निहोत्रं जुहुयादिति शेषः । अन्ते समीपे बसतीत्यन्तेवासी । स पुनः पुत्रः शिष्यो वा। अत्र किंचिदुच्यते - ऋत्विजस्त्रित्रिधाः । देवभूताः पितृभूता मनुष्य- भूता इति।ये कर्मणि कर्मणि त्रियन्ते ते देवभूताः | येऽन्त्रयागता ऋत्विजस्ते पितृभूताः । ये त्वेकस्य पुरुषस्य सर्वाणि कर्माणि कर्तुं वियन्ते ते मनुष्यभूताः । तत्र यस्याऽऽहिताग्नेः पितृभूता मनुष्यभूता वा ऋत्विजः सन्ति तेषामुविजामेकः कश्चित्पर्ववर्जितेषु कालेषु जुहु- यात् । यस्य तु देवताभूतास्तस्यान्तेवास्येवेति निवेशः ॥ ४९ ॥ स्पृष्ट्वोदकमुदङ्ङावृत्य भक्षयेत् ॥ ५० ॥ दे० भाष्यम् - स्पृष्ट्वोदकमप उपस्पृश्योदडावृत्योदीची दिशमानृत्य हविर्यद्भुत- शिष्टं तस्य गृहीत्वा भक्षयेत् । मन्त्रं वक्ष्यति । उदकस्पर्शने कारणाभावादप्सु श्रद्धेत्यप उपस्पृश्येति तमेवानुबदति ॥ ५० ॥ - वृत्तिः - उक्तमेबोदको पस्पर्शनं कृत्वोदगादृत्य स्रुग्गतं शेषं भक्षयेत् । उक्तसंकीर्तनमा- हिताग्न्यधिकारे सत्यपि होमकर्तृप्रापणार्थम् ॥ ५० ॥ अपरयोर्वा हुत्वा ॥ ५१ ॥ दे० भाग्यम् – अपरयोरम्म्योहुवा भक्षयेद्विकल्पः ॥ ५१ ॥ •- बृत्तिःSrkris (सम्भाषणम्)भक्षयेदिति शेषः ।॥ ५१ ॥ आयुषे त्वा माश्नामीति मथमम् | अन्नाद्यायं त्वेत्युत्तरम् ॥ ५२ ॥ दे० भाष्यम् – आयुषे त्वा प्राश्नामीत्यनेन मन्त्रेण प्रथमं भक्षयेत् । प्रथमग्रहणेऽक्रि- यमाण उत्तरमित्यनर्थकं भवति । उत्तरशब्देऽनुच्यमान उभाभ्यां मन्त्राभ्यामेकं भक्षणं प्राप्नोति । ‘अन्नाद्याय त्वा' इत्येतेन मन्त्रेणोत्तरं भक्षयेत् । द्विर्भक्षणं भवति प्राश्नामीत्यनु- वर्तमाने । अन्यथाऽपरिसमाप्तेऽर्थे मन्त्रः स्यात् ॥ ५२ ॥ वृत्तिः—प्रथममुत्तरमिति भक्षयोः संबन्धकरणार्थम् । तेनोत्तरस्यापि मन्त्रस्य प्राश्ना- म्यन्तता भवति ॥ ५२ ॥ तूष्णीं समिधमाधायानये गृहपतये स्वाहेति गार्हपत्ये || ५३ ॥ [ दे० भाग्यम् - तूष्णीं समिमधिकृतेन च वचनेन मन्त्रे प्राप्ते तूष्णीमित्यमन्त्रं समि- २६ अशिहांबचन्द्रिका | धनाध्य प्रदीप्तां चेनि वर्तते । अन्नने गृहपतये स्वाहेत्यनेन मन्त्रेण गार्हपत्येऽग्झौ स्थान्याः स्त्रबेणाऽऽदाय जुहुयाःप्रदीप्तां चेत्येवमादि सर्वत्र वर्तते । तूष्णीमिति वचनात् । आहवनी- याविकाराद्भ६पन्यवचनम् ॥ ५३ ॥ - वृत्तिः— जुहुयः दिव्यभ्याहारः | तूष्णग्रहणमाहवनीये समिदाधाने होमे च ये घर्मा जानुनिपातनं प्रदीप्ताभिहोमो द्रयङ्गुलमात्रामिहोमश्च तेषां प्राप्तिसूचनार्थम् ॥ ५३ ॥ नित्योत्तरा || ५४ ॥ दे० भाग्यम् – नियोत्तरा या नित्या प्रगुता प्रजापतिं मनसेति । अनन्तरा योत्तरा तथैव विधानं समानम् । भृयसीमनंसृष्ट मित्येतत्तृणीम् ॥ ५४ ॥ वृत्तिः——उत्तराहुतिं तृष्णां भूयसीमित्येवमुक्त्यर्थः ॥ ५४ ॥- तूणीं समिमाधायाग्नये संवेशपतये स्वाहेति दक्षिणे । पतये स्वाहेति वा ॥ ५५ ॥ अग्नयेऽन्नादायात्र- दे० भाग्यम् - तृष्णी समिधमाधायामय संवेशपतये स्वाहेत्यनेन दक्षिणाग्नौ जुहु• यात् । अपवादो नानुवर्तते । तस्मात्पुनस्तृष्णीमित्याहाग्नयेऽन्नादायान्नपत्तय इति वा । अयं मन्त्रो ब्राह्मणे दृष्टः । तस्मादेतामेव चरन्ति ॥ ५५ ॥ वृत्तिः—मन्त्रविकल्पोऽयम् || ५५ ॥ नित्योत्तरा || ५६ || ● दे० भाष्यम् – प्रजापतये स्वाहेति सोत्तरा द्वितीया भवति ॥ ५६ ॥ वृत्तिः - उत्तराहुतिं तूष्णीं भूयसीमित्येवमुक्त्यर्थः || १६ || भक्षयित्वाऽभ्यात्ममपः स्रुचा नियते त्रिः सर्पदेवजनेभ्यः स्वाहेति ॥५७ ॥ दे० भाष्यम् – भक्षणं कृत्वाऽनन्तरमन्यात्मम आत्मानमभ्यभ्य.त्मम् । अप उदकं स्रुचा निनयतेऽवाङ्मुखयोर्ध्वदण्डया त्रिमिति | सर्पदेवजनेभ्य इत्येतेन मन्त्रेण भक्षयित्वेति वचनाद्भक्षणेन निनयनस्य संवन्धवचनात् । आरयोर्चा हुवा भक्षणे भक्षणादनन्तरं निनयनमेव | परिसमाप्ते निनयने प्राक्तमिदावा नादपयोमिकालो निन- यनसमनन्तरमेव | संप्रदान एवं होमस्वाहाकारदर्शनाच होमनात् । पुनः पुनरुद्कमा - दाय तेन हि सद्गृहीतेन बहो हो आदिशन्ते । अन्यत्र प्रकृताहुतिभ्यो होमत्वाच मन्त्रावृत्तिः तः । उदङ्ड नृत्येन्यधिकारान्यां दिशि नियनं भवति । गुणकण्डचुना निनयनं न भवति ॥ २७ । अग्निहोत्रचन्द्रिका | - वृत्तिः - भक्षयिश्चेतित्रचनं नक्षणानन्तरमेव निन्यनमपि स्यादित्येवमर्थन् । भपः स्रुचा निनयते त्रिः | असंस्कारकमान्मन्त्रापि विवर्तते ॥ १७ ॥ अभ्याम- अथैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः प्रागुदीच्योर्निनयेतुभ्यः स्वाहा दिग्भ्यः • स्वाहा सप्तऋषिभ्यः स्वाहेतरजनेभ्यः स्वाहेति ॥ ५८ ।। दे० भाग्यम्–अथैनामथ निनयनानन्तग्मैवैतां स्रुचं कुशैरुदकेन च प्रक्षाल्य निर्लेपं कृत्वा. चतस्रः स्रुचः पूर्णाः प्रागुदीन्यो: प्राच्या मुदीच्यां च निनयेत् | अभ्यात्ममपः स्रुचा निनयते त्रिरित्येतत्सर्वमनुवर्तते । तस्मादेकेन मन्त्रेण त्रिरिति प्राप्ते चतस्र इत्युच्यते । पूर्णाः कर्तव्या इत्यर्थः । याश्वेता याश्च वक्ष्यमाणाः सर्वाः | उपदेशे विशेष उक्तः | ताः सर्वथा भवितुमर्हन्ति । अविरोधाचतन्त्रः स्रुचो दिश आनन्तर्ययोगस्य संभवाद्या- ज्यानुवाक्यान्यायेन द्वे द्वे स्रुचाकस्यां भवतः । अभ्यात्ममित्येतस्य प्राप्तस्य स्थाने प्राची चोदीची च भवतः । अपां निनयनमित्येतावदेव बर्तत ऋतुभ्यः स्वाहेत्येतैश्चतु भिर्मन्त्रैः ॥ ५८ ॥ `वृत्तिः–अथेत्यभ्यामनिनयनानन्तरमेवेदमपि कर्तव्यमिति दर्शयति। एनां स्रुचमित्यर्थः। विहारस्य प्रागुदग्देशे पुर्णाश्चतस्त्रः स्रुचो निनयेदेकैकेन मन्त्रेणैकामिति ॥ ५८ ॥ पञ्चमीं कुशदेशे पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहेति षष्ठींपश्चा- गार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति ॥ ५९ ॥ दे० भाग्यम् - स्रुचं कुशदेशे कुशेवायेति येऽधिकृतास्तेयां देशे पृथि व्यामित्यनेन मन्त्रेण । पञ्चमीब्रहणं त्रिरत्येतस्यैव निवृत्त्यर्थन् । कुशानामित्यनेनाभ्याम- मिति निवृत्तम् । ‘ अपः स्रुचा नियति ' इत्येतदेव वर्तते । पष्ठीं स्रुचं पूर्णां पश्चादपरस्यां दिशि गार्हपत्याग्नेः प्राणममृते जुहोर्मात्यनेन मन्त्रेण | टहणं त्रिरित्येतस्यैव निवृत्त्यर्थम् । पश्चाद्वचनेनाभ्यात्मनिवृत्तिः । अपां स्रुचा नियनमित्यनुवर्तते । शेषं पत्न्यञ्जलावित्युक्तम् । अध्वर्यूणां तदप्यविरुद्धम् ॥ ५९ ॥ वृत्तिः पञ्चमी पटीमिति पूर्णम् ॥ ५९ ॥ मता यान्तवेदि निध्यात् ॥ ६० ॥ दे० भाग्यम् – प्रताप्याऽऽहवनीये प्रताप्य स्रुचमन्तर्वेदि निदध्यात्स्थापयेत् । अधि काराद्गाहपत्ये प्रतपनं प्राप्तं पष्टीवचनादधिकृतमाहवनीय एव भवति । अनादेश आहवनीये भवतीत्युक्तम् । अध्वर्य॒णामप्या हवनीये प्रताप्येति ॥ ६० ! २८ अग्निहोत्रचन्द्रिका वृत्तिः—प्रतपनमाहवनीयेऽन्तर्वेदिशब्दसमन्वयात् ! प्रताप्य स्रुचमन्तर्वेदिदेशे निदध्या- दिव्युक्तम् || ६० ।। परिकर्मिणे वा प्रयच्छेत् ॥ ६१ ॥ - दे० भाष्यम् – परिकर्मिणे योऽत्र परिकर्मी भवति तस्मै वैतां स्रुचं प्रताप्य प्रय- च्छेति विकल्पार्थः ॥ ६१ ॥ वृत्तिः– परिचारकः परिकमयुच्यते ॥ ६१ ॥ अग्रेणाऽऽहवनीयं परीत्य समिध आध्यात्तिस्रस्तिस्र उदङ्मुखस्ति- छन् ॥ ६२ ॥ दे० भाष्यम् – अप्रेणाऽऽहवनीयं पूर्वेणाऽऽहवनीयमग्निं परीय गत्वा समिध आदध्यादग्निषु प्रक्षिपेत् । अपरिमिताः प्राप्तास्तिस्रस्तित्र एककस्मिन्नग्मा बुदङ्मुखस्तिष्ठन्नू- र्ध्वमासीनः ॥ ६२ ॥ वृत्तिः– पूर्वेणाऽऽहवनीयं विहारस्य दक्षिणदेशं गत्वा तस्य तस्याग्नेर्दक्षिणत उदङ्मुखस्तिष्ठंस्तिस्र।स्तस्रः समिध आदध्यात् । पुनः प्रत्येत्य पर्युक्षणादि कुर्यात् ||६२|| प्रथमां समन्त्राम् || ६३ ॥ . दे० भाष्यम् – प्रथमां समन्त्रामुत्तरे तूष्णीम् ॥ ६३ ॥ वृत्तिः—सकृन्मन्त्रेणेति परिभाषा प्रधानकर्मसु न प्रवर्तत इति कृत्वा प्रथम सम- न्त्राभियुक्तवानाचार्यः ॥ ६३ ॥ आहवनीये दीदिहीति गार्हपत्ये दीदायेति दक्षिणे दीदिदायेति ॥ ६४ ॥ दे० भाष्यम् – आहवनीये दीदिही त्येतेन मन्त्रेणाऽऽहवनीयग्रहणं वेदाधिकारादग्रहण वेदिमिति स्यात् । समिधमित्युक्तेऽपरिमिताः प्राप्ताः । तिस्रस्तिस्त्र इत्युच्यमाने प्राङ्मुखत्वे प्राप्त उदङ्मुखस्तिष्ठन्नितिवचनात्प्राङ्क्षिनयनेष्वासीनो भवति । तिसृणां सहाभ्याध्याने प्राप्ते प्रथम्त्येकैकस्या आधानम् । अथ प्रथमाया एव मन्त्रेण दक्षिणेन दक्षिणाग्निं गत्वा गार्ह- पंत्येऽम्यादध्यात् । उदङ्मुखवचनाद्वेद्यत्तरेण गार्हपत्यं गत्योदङ्मुखस्य होमो न दृश्यते । अग्निहोत्रहोमप्रवत्स्यद्यजमानप्रायश्चित्तादिषु प्राङ्मुख एव दक्षिणे दक्षिणाग्नौ दीदिदाये - त्यनेन मन्त्रेणाऽऽदध्यात् । होमक्रमेणैतत् ॥ ६४ ॥ वृत्तिः— सर्वे स्वाहाकारान्ताः कर्तव्याः ॥ ६४ ॥ अग्निहोत्रचन्द्रिका | उक्तं पर्युक्षणं ताभ्यां परिसमूहने पूर्वे तु पर्युक्षणात् ॥ ६५ ॥ दे० भाष्यम् - उक्तं पर्युक्षणं तदिहापि पुनः कर्तव्यमित्यर्थः । ताभ्यां पर्युक्षणाभ्यां यथाऽऽदौ तथाऽन्त उभाभ्यां पञ्चमी द्विवचनम् । उभाभ्यां परिसमूहने भवतः परितः समन्तत ऊहनं परिसमूहनं भवति । पर्युक्षणादनन्तरं प्राप्ते पूर्वे तुशब्दः प्राप्तव्यावृत्त्यर्थः । पर्युक्षणादेव पूर्वे परिस्तरणप्रतिषेधः कृतो भवति । प्राप्तं तु लिङ्गदर्शनात् । कुशेषूपसाद्येति न च कुशाश्चोदिताः । एवमचोद्येऽपि प्राप्नुवन्ति । शास्त्रान्तरे दर्शनात्प्राक्पयुक्षणात्प- रिस्तरणानां स्थानम् । अन्वाधाय परिसमुह्य परिस्तीर्येति तेषां प्राप्तानां प्रतिषेधः क्रियते क्षणात्पूर्वे तु भवत इति ॥ ६५ ॥ २९ वृत्ति: यदुक्तं पर्युक्षणं तदिहापि कर्तव्यम् । पूर्वोक्तमिदं च द्वे पर्युक्षणे ताभ्य परिसमूहने व्याख्याते इति धर्मातिदेश एकोऽर्थः । परिसमूहने इति योगविभागात्स्वरूपसि• द्विश्च भवति । मन्त्रस्तु जपित्वेति पृथक्करणान्न भवति । लिङ्गाभावाच्च । ये द्वे परिस- महने पर्युक्षणकर्मके विहिते तयोरनेन क्रमो विधीयते पर्युक्षणाभ्यां पूर्वे परिसमूहने भवत इति ।। ६५ ।। एवं प्रातः ॥ ६६ ॥ दे० भाष्यम् – यथा सायं विहरणादूर्ध्वमुक्तं विधानमेवं तत्सर्वं प्रातरपि भवति ॥ ६६ ।। वृत्तिः-सायंकालेऽग्निहोत्र विधिरुक्त एवं प्रातःकालेऽपि होमः कर्तव्य इत्यर्थः ॥६६॥ तत्र विशेषमाह - उपोदयं व्युषित उदिते वा ॥ ६७ ॥ दे० भाष्यम् उपोदयं प्रादुष्कालोऽवशिष्ट कालो नियम्यते । उपोदयमुप समीप – उदयसमीपे होतव्यम् । व्युषित उपोदय उषस्युदितायां होतव्यम् । उदितेऽनुदिते बाऽऽदित्ये होतब्यम् । इत्येते त्रयः कालविकल्पाः । होमकालस्याननुपूर्ववचनात् । उपोदयमित्येतस्य पूर्वपक्षत्वमत्रोदितेत्यस्य प्रधानत्वम् । यथा - 'उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन्संदधाति ' इति श्रुतिः । तस्मिन्नुदिते वा होतव्यमिति त्रयः कालाः ॥ ६७ ॥ वृत्तिः- उपोदयमादित्योदयसमीप इत्यर्थ: । व्युषित उपस्युदित इत्यर्थः । उदित आदित्यमण्डले कृत्स्न उदित इत्यर्थः । एते त्रयः प्रातर्हेमप्रधानकालाः । तत्र यद्यपोदय- मुदित इत्युच्यते, उदित आदित्ये सत्युदयसमीप इति द्वाभ्यां पदाभ्यामेक एव कालो ३० अग्निहोत्रचन्द्रिका | विहितः स्यात् । तद्भ्रान्तिनि॑िवृत्त्यर्थं व्युपितशब्दात्पूर्वमुपोदयशब्दं पठितवानाचार्यः । एतेषु त्रिषु कालेषु प्रधानं यथा संपद्यते तथाऽङ्गानामेवोकर्पोऽपकर्षो द्रष्टव्यः ॥ ६७ ॥ सत्यऋताभ्यां त्वेति पर्युक्षणमोमुन्नेष्यामीत्यतिसर्जनं हरिणीं त्वा सूर्यज्यो- तिषमहरिष्टकामुपदधे स्वाहेति समिदाधानं भूर्भुवः स्वरों सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति होम उन्मार्जनं च ।। ६८ ।। इत्यग्निहोत्रसूत्रम् । दे० भाष्यम् – सत्यऋताभ्यां चेति प्राप्ते पर्युक्षणस्य स्थानेऽन्यो मन्त्र आदिश्यते । सत्यऋताभ्यां त्वा पर्युक्षामीत्यनेन मन्त्रेण पर्युक्षणं जपित्वा वचनात्पर्युक्षामीति प्राप्नोती- त्युक्तम् । अन्यथा यथाम्नातं प्राप्नोति मन्त्रः | ओमुन्नेष्यामी त्यतिसर्जनस्य स्थाने भवति 1 हरिणीं त्वेत्यनेन मन्त्रेण समिदाधानं भवति । भूर्भुवः स्वरोम्३ सूर्य इत्यनेन मन्त्रेण होमो भवति । उर्म्माजनं च । अवमृष्टकुशमलेषु निमार्थत्यत्रमार्जनम् । अस्य कर्मणः स्थान उन्मार्जनं भवति । पाणिनाऽग्र ऊर्ध्वं निमार्टि तदुन्मार्जनम् । स एव मन्त्रः । अन्यत्तु कर्म । चशब्दः समुच्चयार्थः । य उक्ता मन्त्राः । इदं च कर्म । एतदन्यद्भवति । अतोऽन्यत्समानम् । सायं होमेन यावत्स्यादग्निहोत्रहोमो याजमानत्वाद्यजमानेनैव होत- व्यम् । क्षीरहोता वा जुहुयात् । वनेन हि स परिक्रीतो भवति । ब्रह्मचारी वा जुहु- यात् । ब्राह्मणो हि स परिक्रीतो भवति । परिक्रीतेन हुतं स्त्रयमेव हुतं भवति । तस्माद्या- जमानं यजमानाधिकारादिदमपि याजमानम् ॥ ६८ ॥ । इत्यग्निहोत्रसूत्रभाष्यम् । वृत्तिः– एते प्रातहोंमे विशेपाः ॥ ६८ ॥ - इत्यग्निहोत्रसूत्रे नारायणीया वृत्तिः । (१) ( २ ) (३) एक:- अपराशुचिर्यज्ञोपवीती प्राङ्मुखोपविष्टो विहारावहिराचम्य तीर्थेन विहारं प्रविश्य गार्हपत्यं प्रज्वल्य बिटकुलात् वित्तवतो वा गार्हपत्याद्वा अग्निहोत्रचन्द्रिका | अग्निहोत्रमयोगः | ( ४ ) ( ५ ) लन्तमग्निं शरावे गृहीत्वा दक्षिणाझिमानीय श्रियमाणं वा प्रज्वल्य अरणिमन्तं वा मथित्वा दक्षिणाग्न्यायतने निवायगार्हपत्याज्य- देवत्वा देवेभ्यः श्रिया उद्धरामि । इत्युद्धृत्य उद्रियमाण उद्धर माप्मनो मा यदविद्वान्यच्च विद्वांचकार । अह्ना यदेनः कृतमस्ति किंचित्सर्वम्मान्मोद्धृतः पाहि तस्मात् । इति प्रणीय ३१ इत्येकं प्रति प्रैपं कुर्यात् । एक:-- दक्षिणाग्निं परिसमुह्य अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य योनौ । तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायानावग्निः स्वाहा | इत्यादित्यमभिमुख आहवनीयायतने निदध्यादत ऊर्ध्वमाहिताग्निर्वतचार्याहोमात् । ओपो- दर्थ संध्यामुपासाते तत आहिताग्निराचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ सायमग्निहोत्रं वयसा होष्यामि । इति संकल्प्य अग्निहोत्रं जहधि | ऋतसत्याभ्यां त्वा पक्षामि इति जपित्वा त्रिः पुनःपुनरुइकमादाय पर्युञ्जेत् । एवमेव गार्हपत्यमेवमेवाऽऽहवनीयम् । गार्हपत्यादविच्छिन्नामुदकधारां हरेत् । आ, आहवनीयात् । तन्तुं तन्वन जसो भानुमन्त्रिहि ज्योतिष्मतः पथो रक्ष धिया कृतान | अनुवणं चंयत जोगुवामपो मनुभव जना दैव्यं जनम् । इति । ३२ अग्निहोत्रचन्द्रिका | ततः पश्चाद्गार्हपत्यस्योपविश्य गार्हपत्यादुदगङ्गारानपोहेत् । सुहुतकृतः स्थ सुहुतं करिष्यथ । इति तेष्वग्निहोत्रमधिश्रयेत् । अधिश्रितमध्यधिश्रितमधिश्रितं हि ३ म् | इत्यधिश्रितमत्रञ्चलयेदनधिश्रयं च । अग्निष्टे तेजो मा हार्षीत् । इति । पुनर्ज्वलता त्रिः परिहरेत् । अन्तरितं रक्षोऽन्तरिता अरातयः । इति परिहरणं कृत्वा तदुल्मुकं निरस्याप उपस्पृश्य समुदन्तं कर्ष निचोदगुद्रासयेत् । दिवे त्वा अन्तरिक्षाय त्वा पृथिव्यै त्वा । इति निदधत् । सुहुतकृतः स्थ सुहुतमकार्ष्ट । इत्यङ्गारान्गार्हपत्येऽतिसृज्य सुक्तुत्रं प्रतितपेत् । प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातयः | इत्युत्तरतः स्थाल्याः स्रुचमासाद्य ओमुन्नयानि । इत्पतिसर्जयीत । आहिताग्निः-- आचम्यापरेण वेदिमतिव्रज्य दक्षिणत अवश्यैतच्छ्रुत्वा ( पत्नी गार्हपत्यस्य दक्षिणत आस्ते ) ओमुन्नय । इत्यतिसृजेत् । एक:-- अतिसृष्ठः- भूरिष्ठा, भुव इळा, स्वरिळा, वृध इळा | इति सुत्रं पूरयित्वा स्रुचि चतुरुन्नयेत् । ततः स्थाछीमभिमृश्य समिधं स्त्रचं चाध्यधिगार्हपत्यं हृत्वा प्राणसंमितामाहवनीयसमीपे कुशेषपसाद्य जान्त्राच्याऽऽहवनीये सां धमादध्यात् । रजतां त्वाऽग्निज्योतिषं रात्रिमिष्टकामुपद स्वाहा । इति समिधमाधाय आहिताग्निः-- अग्नये ज्योतिष इदं न मम | रजतां त्वाऽग्निज्योतिष word wee अग्निहोत्रचन्द्रिका | रात्रिमिष्टकामुपदधे तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वध्रुवा सीद । इति । एक:- विद्युदसि विद्य मे पाप्मानमग्नों श्रद्धा - इत्यप उपस्पृश्य प्रदीप्तां समिधं मूलतो यङ्गुलमात्रे जान्वय सुचाऽमिजुहुयात् - भूर्भुवः स्वरो ३ मग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । आहिताग्निः –अञ्जये ज्योतिष इदं न मम । ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः || - एक:- पूर्वामाहुर्ति हुत्वा कुशेषु स्रुवं सादयित्वा गार्हपत्यमवेक्षेत – पशून्मे यच्छ । अथोत्तराम इति भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा पूर्वाहुतेर्जाम्बाध्यैव- प्रजापतये इति मनसा ध्यायन् इत्युच्चार्य जुहुयात् । आहिताग्निः – प्रजापतय इदं न मम । - स्वाहा ३३ उपोत्थायोत्तरां काङ्क्षतेक्षमाणोऽनुमन्त्रयेत् - भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । अग्रिमझिं हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् । अग्ने देवाँ इहाऽऽवह जज्ञानो वृक्त बर्हिषे । असि होता न ईड्यः । ताँ उशतो विबोधय यदने यासि दूत्यम् । देवैरासत्सि बर्हिषि । घृताहवनदीदिवः प्रतिष्म रिषतो दह । अग्ने त्वं रक्षस्विनः । अग्निनाऽग्निः समिध्यते कविगृहपतिर्युवा | हव्यवाद् जुहास्यः । एकः— उत्तराहुत्यपेक्षया भूयिष्ठं स्रुचि शिष्ट्वाऽऽहुतिदेशस्थां स्रुचं त्रिरनुप्र कम्प्य स्रुग्गतं लेर्पं पाणिनाऽधोमुरवेनावमृज्य पाणिगतं लेपं कुशमूलेषु निमजेत् - पशुभ्यस्त्वा | आहिताग्नि: - पशुभ्य इदं न मम । - एक: – स्रुग्धस्त एव कुशमूलानां दक्षिणत उत्ताना अंगुली : कुर्यात् । प्राचीना- वीती भूत्वाअग्निहोत्रचन्द्रिका | स्वधा पितृभ्यः | इत्यपोऽवनिनीय । आहितागिः– प्राचीनावीती-


पितृभ्य इदं न मम 1 एकः–स्रुचं निघाषाऽऽहिताग्निरेकश्च द्वौ यज्ञोपवीतिनौ भूत्वा - दृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धा | इत्यप उपस्पृशतः । एक: - ग्रार्हपत्यसमीपं गत्वा जान्वाच्य- प्रजापतये | इति मनसा ध्यायन इत्युच्चार्य गार्हपत्ये समिधमाधाय । आहिताग्निः – प्रजापतय इदं न मम । एक:- विद्युदसि विद्य मे पाप्मानमग्नौ श्रद्धा | इत्यप उपस्पृश्य प्रदीप्तां समिधं मूलतो द्वयङ्गुलमात्रेऽभिजुहुयात्- अग्नये गृहपतये स्वाहा । आहिताग्निः – अग्नये गृहपतय इदं न मम । एकः—पुनः स्रुवेष्णाऽऽदाय पूर्वाहुन्यपेक्षया भूयसीं पूर्वाहुते: प्रागुदगुत्तरतो वा प्रजापतये । इति मनसा घ्यायन् स्वाहा । 'स्वाहा । इत्युच्चार्योच्चरामाहुतिं जुहुयात् । आहिताग्नि:--मजापतय इदं न मम । एकः–दक्षिणामिंसमीपं गत्वा जान्वाच्य प्रजापतये । इति मनसा घ्यायन् इत्युच्चार्य समिधमाधाय आहिताशि:- प्रजापतय इदं न मम । एक:- विद्युसि विद्य मे पाप्मानमग्नौ श्रद्धा | - स्वाहा । अग्निहोत्रचन्द्रिका | इत्यप उपस्पृश्य स्थाल्याः स्रुबेणाऽऽदाय प्रदीप्तां समिधं मूळतो. दूधगुलमात्रेऽभिजु- हुयात्- अग्नये संवेशपतये स्वाहा । आहिताग्निः-- अग्नये संवेशपतय इदं न मम । एक:- पुनः स्रुबेणाऽऽदाय पूर्वाहुत्यपेक्षया भूयसी पूर्वाहृतेः प्रागुदगुत्तरतो वा प्रजापतये | इति मनसा ध्यायन् स्वाहा । इत्युच्चार्योत्तरामाहुर्ति जुहुयात् । आहिताग्निः – प्रजानतय इदं न मम । इति त्यक्त्वा पश्चाद्द्बार्हपत्यस्य तिष्टन् अभयं वोऽभयं मेऽस्तु है इत्यग्नीनुपतिष्ठेत | एकः – उदङ्मुखो बिहाराद्वहिः स्रुक्स्थहविरेकदेशमादाय - आयुषे त्वा प्राश्नामि । इति प्रथमं भक्षयित्वाऽऽचम्य शेषमादाय अन्नाद्याय त्वा मानामि । इत्युत्तरं भक्षयित्वाऽऽचम्य विहारं प्रविश्य वेद्यंसस्यान्तः प्राङ्मुखः स्रुचाऽऽत्माभिमुखं त्रिरपो निनयेत्— सर्पदेवजनेभ्यः स्वाहा । मन्त्रोऽपि त्रिरावर्तनीयः । आहिताग्निः – सर्पदेवजनेभ्य इदं न मम । एकः—अभ्यात्मनिनयनानन्तरं स्रुचं प्रक्षाल्याद्भिः पूरयित्वा प्राच्यां दिशि ऋतुभ्यः स्वाहा । इति निनयेत् । आहिताग्निः- - ऋतुभ्य इदं न मम । एकः—पुनः स्रुचमद्भिः पूरयित्वा प्राच्यामेव दिग्भ्यः स्वाहा । ३५ आहिताग्निः-- दिग्भ्य इदं न मम । एकः पुनः स्रुचमद्भिः पुरयित्वोदीच्यां दिशि COP अग्निहोत्रचन्द्रिका | सप्तऋषिभ्यः स्वाहा । आहिताग्निः—सप्तऋषिभ्य इदं न मम । एकः -पुनः स्रुचमद्भिः परयित्वादीच्याम् इतरजनेभ्यः स्वाहा । आहिताग्नि: - इतरजनेभ्य इदं न मम । एकः– पुनः स्रुचमद्भिः प्रयित्वा कुशदेशे पृथिव्याममृतं जुहोस्यग्नये वैश्वानराय स्वाहा । - आहिताग्निः – अग्नये वैश्वानरायेदं न मम । एकः -- पुनः स्रुचमद्भिः पुरयित्वा गार्हपत्यस्य पश्चात् माणमस्ते जुहोम्यमृतं माणे जुहोमि स्वाहा । आहिताग्निः – माणायामृतायेदं न मम । एक: -- आहवनीये स्रुचे मताप्यान्तर्वेदि निदध्यात्परिकर्मिणे वा प्रयच्छेत् । ततः पूर्वेणाऽऽहवनीयं बिहारस्प दक्षिणदेशं गत्वाऽऽहवनीयस्य दक्षिणत उदङ्मुखस्तिष्ठन्त्राह- बनीये तिस्रः समिध आयात् । तत्र प्रथमां समन्त्रां दीदिहि स्वाहा । आहितांग्निः-- अग्नय इदं न मम । एक:--अन्ये द्वे समिधौ तृष्णी मेवाऽऽहवनीये प्रक्षिपेत् । तथैव दक्षिणाग्नदक्षिणं गस्वा गार्हपत्यस्य दक्षिणत उदङ्मुखस्तिष्ठ॑स्तिस्रः समिधो गृहीत्वा प्रथमां समन्त्रां दीदाय स्वाहा । आहिताग्निः-- अग्नय इदं न मम । एक:- ततो द्वे तृष्णीमेव गार्हपत्येऽग्नौ प्रक्षिपेत् । ततो दक्षिणाझेदक्षिणत उदङ्मुख- स्तिष्ठस्तिस्रः समिधो गृहीत्वा प्रथमो समन्त्रां दीदिदाय स्वाहा । आहिताग्निः --- अग्नय इदं न मम । एकः-~~-ततोऽन्ये द्वे समिधौ तूष्णीमेत्र दक्षिगाग्नावादध्यात् । तत उत्तरत एत्य पुनः प्रत्येस परिसमूहलपर्युक्षणे कृत्वाऽऽचामेत् । आहिताग्निः- आचम्यानेन सायमग्निहोत्राख्येत कृतेन कर्मणा परमेश्वर : मीयताम् । इत्यग्निहोत्रमयोगः | अग्निहोत्रचन्द्रिका | प्रातरग्निहोत्रे विशेष:- १ उदयात्प्रागुद्धरणम् । २ उद्धियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार | राज्या यदेनः कृतमस्ति किंचित्सर्वस्मान्मोदूधृतः पाहि तस्मात् । ३ होमकालः - उपोदयं व्युषित उदिते वा । ४ प्रातरग्निहोत्रं पयसा होष्यामि । ५ सत्यऋताभ्यां त्वा पर्युक्षामि । ६ ओमुन्नेष्यामि । ७ हरिणीं त्वा सूर्यज्योतिषमहारष्टकामुपदधे स्वाहा । ८ सूर्याय ज्योतिष इदं न मम। ९ हरिणीं त्वा सूर्यज्योतिषमहरिष्टकामुपदवे तेन ऋषिणा तेन ब्रह्मणा तया देवत- याऽङ्गिरस्वध्रुवा सीद | १० ॐ भूर्भुवः स्वरों ३ सूर्यो ज्योतिज्योतिः सूर्यः स्वाहा । ११ सूर्याय ज्योतिष इदं न मम । १२ प्राङ्मुख उत्तानेन पाणिना स्रुचो बिलमारभ्याप्रमुन्मृजति । अन्यत्सायमग्निहोत्रेण सम.नम् । अयं विशेषः--- ३७ १ येन द्रव्येण सायं होमस्तेनैव प्रातः । २ कर्तृनियमोऽप्येवम् । प्रतिनिधौ नायं नियमः । ३ स्वकर्तृकहोमे विशेषः -- -ओमुन्नयानीत्यन्तं कृत्वाऽग्रेणाऽऽहवनीयं गत्वा स्वस्थान उपविश्य, ओमुन्नयेत्युक्त्वा पुनः पश्चाद्गार्हपत्यस्योपविश्य भूरिळत्यादिध्रुवा सौदेत्यन्ते विद्यु दसि० त्रिष्वारोचने दिव इत्यन्ते पशून्मे यच्छ । उत्तराद्दुतिमनुमन्त्र्य त्रिरनुप्रकम्प्येत्यादि वृष्टिरसीव्यन्तम् । पार्वणो विशेष:- १ पर्वाण सायं प्रतिपदि प्रातः स्वयमेव जुहुयादग्निहोत्रम् | २ यवाग्वा पयसा वा न द्रव्यान्तरेण । उपरि निर्दिष्टाः सर्वे विशेषा ज्वरादिनाऽभितप्तेन यथोपपत्त्यनुष्ठेयाः । न तत्र निय- मविधेर्विशेषव्यापारः । अग्रिहोत्र चन्द्रिका | अध्वप्रमीताग्निहोत्रविधिः । १ ययाहिताशिरध्वनि प्रमीयेत तद्वार्ताश्रवणानन्तरं पाधिकृतमिष्टिं कृत्वा तदङ्गागः- मनपर्यन्तमग्निहोत्रधर्मकस्तूष्णीं होमः कार्यः । ननु कथंचिदपि यजमानदेशं प्रत्यग्नयोः नेयाः । यथोक्तं सिद्धान्तभाध्ये --- ३८ “ नासति यजमाने ग्राममर्यादामतिहरेयुः । यद्यग्नीन्हेरेयुर्लौकिकाः संपद्येरन् ।। " अथ तस्मिन्होमे विशेषः- - या मृतवत्सा वत्सान्तरेण दुह्यते तत्पयस्य होमः कार्यः । साङ्गं प्रधानम् । तूष्णीं प्रधाने प्रजापतिं मनसा व्यायेदिति वृत्तिकृत् । तन्मते वेकैवाऽऽहुतिः । नात्र तूष्णीं प्रधा- नहोमे प्रजापतिं ध्यायेदिति सिद्धान्तभाष्यकृत् । तन्मते आहुतिद्वयम् । तत्र त्यागौ, नित्यवत् । मतद्वयेऽपि सर्वहुतत्वान्न भक्षाय शेपः | सायंत्रातर्विघ्यन्तो नित्यवत् | अत्र देवत्रातः—–यजमानशरीरानयनपर्यन्तं तृष्णीं हुत्वा तदानयनोत्तरं पाथिकृतीं कृत्वा शरीरसंस्कारः कार्थः । अधः समिद्धारणं न प्राशनम् । न स्रुनिनयने, आदावन्ते. च परिसमूहूनपर्युक्षगे न स्तः । यत्पयः संस्कारात्प्राक्कर्म तल्लुप्यते । अत्र सिद्धान्तभाष्यकृत् --मुमू विषय एवायं विधिर्न मृतविषयः । मृतविषय एवायमिति वृत्तिकृद्देवत्रातौँ । यद्याहिताग्नेरपरपक्षे मरणशङ्का भवति तदा कृष्णपक्षाहुती : सर्वाः शुक्ल प्रतिपत्प्रात. र्होमेन सह पक्षहोमन्यायेन हुत्वा दर्शोऽप्यपकृष्य कार्य: । चातुर्मास्यान्तराले तस्य यानि, पर्वाण्यवशिष्ट्यनि तान्यपकृष्प कार्याणि | मरणशङ्कायमेवैष विवि.र्न मृतावस्थायाः मिति सर्वे । अत्र देवत्रातो विशेषमाह - होमार्थ तूष्णीं विहरणं होमयोरन्तरा मरणशङ्कायां पूर्वाहुत्योत्तरामाहुतिं तन्त्रेण कुर्यात् । जीवति चेपुनः काले होमा: कार्याः । अनाहि- तानैष विधिरिति । अत्र त्रिकाण्डमण्डनः- आहिताग्निः कदाचिचु कृष्णपक्षे मृतो यादे | तदा शेषाहुती: सर्वा जुहोतीत्याश्वलायनः ॥ (त्रिका ०२।११७) । मरणोत्तरं तु पक्षहोमन्यायेन क्रियमाणा आहुतयोऽध्वप्रमीतस्य होमवत्कार्याः । इष्टिीनां स्थाने पूर्णाहुतयः कार्याः । इत्यध्वममीताग्निहोत्रविधिः । अमिहोत्रचन्द्रिका | पक्षहोमप्रकारः । ३९ आहिताग्निः-- ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ पक्षहोमरूपमग्नि- होत्रं होण्यामि । 'पर्वोदनात्प्राग्यावन्ति दिनानि तावन्ति चतुरुन्नयनानि प्रतिपदि सायं बृहति पात्रा- न्तरे स्रुचं स्थापयित्वा तत्र गृह्णीयात् । ततः सर्वं नित्याग्निहोत्रं समाप्य अनेन पक्षहोमरूपाग्निहोत्राख्येन कृतेम कर्मणा परमेश्वरः श्रीयताम् । तदेतत्सर्वं सुस्पष्टं समग्राहि त्रिकाण्डमण्डनभास्करमिश्रण- प्रतिपद्युन्नयेत्सायमापद्यन्यत्र वा दिने । यावन्त्यौपवसध्याहात्माग्दिनानि भवन्ति हि ॥ तावन्ति परिगृह्णीया चतुरुन्नयनानि च । पात्रान्तरसहायायां नित्यायां प्राकृतस्रुचि । स्थूलं स्रुगन्तरं वाऽपि कृत्वा तत्र समुन्नयेत् । एका समित्सकृद्धोमः सकृदेव निमार्जनम् || उपस्थानं सकृत्कार्य शेषा प्रकृतिरिष्यते । एवमेवोत्तरत्राह्नि प्रातर्होमान्समस्य तु || जुहोत्यौपवसथ्याहे प्रातर्होमावधीन्सकृत् । पक्षहोमे हि तत्रैकमुदाहृत्येाच्यते मनाक् ।। चतुरुन्नयनान्यस्मिन्नष्टाविंशतिमुन्नयेत् । चतुर्धा कृत्वा जुडुयात्षट्पञ्चाशतमाहुतीः ॥ प्रक्षेपास्तत्र चत्वारः प्रतिप्रक्षेपमाहुतीः । मन्त्रेण जुहुयाद्विद्वांश्चतुर्दश चतुर्दश || आपश्चेदनुवर्तेत दीर्घकालं कदाचन । यावजीवमविच्छिन्नान्पक्षहोमान्समाचरेत् ! | आपदेवावधिस्तत्र न पक्षगणनाऽवधिः ॥ इति । कृतेऽपि पक्षहोमेऽग्नेर्धारणं कार्यमेव । अरणिषु समारोप: कार्य: । तदाह मण्डना- चार्यः- 30 अग्निहोत्रचन्द्रिका | समारोपविधानेन समारोपयतेऽनलान् । ये धार्यन्तेऽथवा धार्यान्धारयत्येव पूर्ववत् ॥ अत्र बहुवचनं तु अजस्त्राभिप्रायेण । एवं चाऽऽपद्नुसारेण कृतहोमसमासस्य समारोपोऽस्त्यमुनैव न्यायेन । नियहोमिनोऽपि प्रवासामयावित्वनिमित्तवशाद्धारणाशक्तौ होमप्रयोगमपवृज्य प्रत्यहं समारोपोऽप्युक्तो भवति । अतिक्रान्तमर्यादः किलात्राथर्व- परिशिष्टकारः~-अत्यशक्तौ काले काले प्रचर्याऽऽमनि समिधि वाऽऽरोपयेत्यन्ताशक्ता- वष्यपकृष्यापि प्रचर्याऽऽरोपयेन्नित्यानि नातिपातयेन्नोत्कर्षेणावरोपयेदिति । कथं नु नामाय- भधिकारी नित्यं कर्मानुतिष्ठदिति यत्नोपचर्यतेयं विभावनीया | इति पक्षहोमप्रकारः । अग्निहोत्रचन्द्रिका | शेषहोममकारः । आहिताग्निः— ममोपात्तदुरितक्षयद्वारा होत्रं होप्यामि । श्रीपरमेश्वरप्रीत्यर्थ शेषहोम रूपमग्नि- येन प्रकारेण पक्षहोम उक्तस्तेनैव प्रकारेण शेपहोमः कार्य: । अयं च विशेषः- प्रतिपद्व्यतिरिक्त्रदिने द्वितीयादिषु यस्मिन्दिने चाऽऽपत्प्र. तिस्त छिनमारभ्य पर्बहोमदिना- प्रागथवा यद्दिने चाऽऽपन्निवृत्तिस्तद्दिनपर्यन्तं वा भवति । सर्वोऽप्ययं समस्यहोम एव । आपन्निमित्तको ट्र्यादिदिनात्मकोऽपि भवतीति तदतन्मण्डनः संजग्राह प्रथमकण्डि- कायाम्- एवं प्रतिपदोऽन्यत्र यत्राऽऽपदुपपद्यते । तथैवौपवसध्याहात्माग्यत्राऽऽपद्विनश्यति ॥ तृतीयायां चतुर्थ्यो वा पञ्चम्यां वा परत्र वा । तदादीनां तदन्तानां होमानां स्यात्समस्यता || एवं पक्षहोमवच्छेषहोमरूपमग्निहोत्रं हुत्वा - - अनेन पक्षहोमरूपाग्निहोत्राख्येन कृतेन कर्मणा परमेश्वरः श्रीयताम् । इति शेषहोमप्रकारः । समस्यहोमप्रकारः । आहिताग्निः – ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरमीत्यर्थं समस्याग्निहोत्रं होष्यामि । सायंप्रातर्होमौ सायं समस्य होतव्यौ | तदेतच्छ्लोकयामास मण्डनः- सायंप्रातस्तनौ होमावुभौ सायं समस्य तु । आपन्नौ जुहुयात्तत्र समिदेकाऽथवा द्वयम् || सायंहोमस्य मुख्यत्वात्तदीयं तन्त्रभिष्यते । चतस्र आहुतीः कुर्यात्तत्र द्वे सायमाहुती || द्वे मातराहुती सायं होमे चैका समिद्यदि । समित्कृता द्वितीया चेत्सा भवेत्रातराहु ॥ द्विः सायं होमवन्मज्याद्धिः मातहमिचत्सुचम् || ४२ अग्निहोत्रचन्द्रिका । शेषं नित्यहोमवत् । अनेन समस्याग्निहोत्रहोमेन कृतेन कर्मणा श्रीपरमेश्वरः प्रीयताम् । इदमपि पक्षान्तरं स एवाऽह— सायंतनान्समस्याऽऽदौ सर्वान्मातस्तनानपि । पुनस्तानुभयान्सायं समस्येदुक्तमार्गतः ।। यावन्तोऽत्र समासास्ते सर्वे सायमुपक्रमाः । प्रातःकालापवर्गाश्च न तु प्रातरुपक्रमाः ॥ इति समस्याग्निहोत्रप्रकारः । १ पक्षहोमः– पक्षशब्दः पञ्चदशदिनात्मकार्धमासवाचकः । अत्र तु प्रतिपदि साय- मारभ्यामावास्याप्रातःपर्यन्तकालवाचकः । तथा च तेषु दिवसेषु कर्तव्या येऽग्निहोमास्ते सर्वे प्रतिपदि सायं सायंतना द्वितीयायां प्रातः प्रातस्तना होतव्याः | तस्य कर्मविशेषस्य पक्षहोम इति नामधेयम् । अध्वर्युभ्योऽयं ग्राह्यः | - २ शेषहोम:- -नात्र प्रतिपद्येव सायमित्यादिनियमः । अपि तु पक्षमध्ये पञ्चषा होमा निर्वर्तिताः । अवशिष्टा होमा ये पक्षहोमन्यायेन निर्वर्त्यन्ते स शेषहोमः । ३ समस्यहोमः – प्रातर्होमाः सायमेव यत्र हूयन्ते सायंहोमेन सह समस्यैकीकृत्य यत्र प्रातर्होमो हूयते स समस्यहोम इति । अग्निहोत्रचन्द्रिका | आहितानिप्रवासंविधिसूत्रम् । ४३ प्रबत्स्यन्नग्नीन्प्रज्ञल्याऽऽचम्यातिक्रम्योपतिष्ठत आहवनीयं शंस्य पशून्मे पाहीति। गार्हपत्यं नर्यप्रजां मे पाहीति । दक्षिणमथर्वपितुं मे पाहीति | गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रा- बरुणौ गृहान्गोपायतं यु॒वम् । अविनष्टानविहृतान्पूषैनानभिरक्षत्वस्माकं पुनरायनादिति । यथेतं प्रत्येत्य प्रदक्षिणं परियन्न, हवनीयमुपतिष्ठते । मम नाम प्रथमं जातवेदः पिता माता च दधतुर्थदने | तत्त्वं बिभृहि पुनराममैतोस्तवाहं नाम बिभराण्यग्न इति प्रव्रजेदनपेक्षमाणो मा प्रगामेति सूक्तं जपन्नारादग्निभ्यो वाचं विसृजेत सदा सुगः पितुमाँ अस्तु पन्था इति पन्थानमवरुह्यानुपस्थिताग्निश्चेत्प्रवासमापद्यतेहैव सन्तत्र सन्तं त्वाऽग्ने हृदा वाचा मनसा वा बिभर्मि। तिरो मा सन्तं मा प्रहासी ज्योतिपा त्वा वैश्वानरेणोपतिष्ठत इति प्रतिदिशमग्नीनुपस्था यापि पन्थामगन्महीति प्रत्येत्य समित्पाणिग्यतोऽमीञ्ज्वलतः श्रुत्वाऽभिक्रम्याऽऽहवनीयभी- क्षेत विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम | नमस्ते अस्तु मीळुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः समारय्यासृजेत्यग्निषु समिध उपनिधायाऽऽहवनी- यमुपतिष्ठते । मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः । ते बिभृवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेद इति । ततः समिधोऽभ्यादध्यादाहवनीये - अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नमभिसह आयच्छस्व स्वाहेति । गार्हपत्येऽयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया बसुबित्तमः । अग्ने गृहपतेऽभिद्युन्ममभिसह आयच्छस्व स्वाहेति । दक्षिणेऽयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभिद्युम्न मभिसह आयच्छस्व स्वाहेति । गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहानजूगुपतं युवम् | अविनष्टानविहृतान्पूषैनानभ्यराक्षीदास्माकं पुनरायनादिति यथेतं प्रत्येत्य प्रोष्य भूयो दशरात्राच्चतुर्गृहीतमाज्यं जुहुयान्मनोज्योतिर्जुषतामाभ्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनिष्टास्ता: संतनोमि हविषा वृतेन स्वाहेत्यग्निहोत्राहोमे च प्रतिहोममेके परिसमुह्योदग्विहार।दुपविश्य भूर्भुवः स्वरिति वाचं विसृजेत गृह्यनक्षेताप्यनाहिताग्निर्गृहा मा बिभीतोप वः स्वस्त्येवोऽस्मासु च प्रजायध्वं मा च वो गोपती रिषदिति प्रपद्येत गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरानू । इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानीति शिवं शग्मं शंयोः शंयोरिति त्रिरनुत्रीक्षमाणो विदितमप्यलीकं न तदहर्ज्ञापये- युर्विज्ञायतेऽभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेत प्रवसन्प्रत्येत्याहरहर्वेति ॥ ५ ॥ ४४ अग्निहोत्रचन्द्रिका | सवृत्त्याहितानिप्रवास विधिसूत्रभाष्यम् प्रवत्स्यन्नग्रीन्मज्वल्याऽऽचम्यातिक्रम्योपतिष्ठते ॥ १ ॥ दे० ० भाष्यम् – प्रवसतो यजमानस्य यदुच्यते प्रवत्स्यन्प्रवसिष्यन्यजमान इदं वक्ष्य- माणं कृत्वा प्रवसेत् । प्रकृष्टो वासो यत्र गत्वा यो होमकाल आगन्तुं न शक्नोति स प्रवासः । प्रवसिष्यन्यजमानः प्रवत्स्यन्प्रवसिष्यन्नवासं गमिष्यन्निदं विधानं कुर्यात् । अधिकार. स्तदेतदग्नीन्प्रज्वल्याग्नीन्विहृत्य भवत्यजस्त्रान्वा प्रज्वल्य सुसमिद्धान्कृत्वाऽऽचम्य प्रयतोऽपि पुनराचम्यातिक्रम्य ततः प्रविश्य तत उपतिष्ठते ॥ १ ॥ वृत्तिः——यस्मिन्प्रामेऽग्नय आसते तस्मात्प्रदेशाद्ग्रामान्तर एकरात्रावमो वासः प्रवासः। तं करिष्यन्प्रबत्स्यन्भवति । अग्नीनिति बहुवचनात्सर्वान्विहृत्य प्रज्वलयेत् । प्रज्वल्याऽऽ. चम्य तीर्थदेशेन प्रपद्या तिक्रम्याग्नीनुतिष्ठते । अतिक्रम्येति । अव्यक्तोपस्थानदेशमतिक- म्यात्यन्तसमीपं गत्वा तं तमग्निमुपतिष्ठत इत्यर्थः । इदं कर्माऽऽहिताग्निः स्वयमेव कुर्यात् ॥ १ ॥ । इदमनेनेत्याह- आहवनीयं शंस्य पशून्मे पाहीति | गार्हपत्यं नर्यप्रजां ये पाहीति | दक्षिण- मथर्वपितुं मे पाहीति | गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहान्गोपायत युवम् । अविनष्टानविहृतान्पूषैनानभिरक्षत्वस्माकं पुनरायनादिति ॥ २ ॥ दे० भाष्यम् – आहवनीयमा शंस्येत्यतेन मन्त्रेण | प्रज्वल्येति प्रज्वलनमिष्ठं विधी- यते । आचमनं कर्माङ्गं प्रयतस्यापि विधीयते । आचम्योपतिष्ठत इत्युक्ते तत्राऽऽचम्यैवो- पस्थानं प्राप्तम् । आरादुफ्कारित्वादुपस्थानस्य । तस्मादतिक्रम्योपतिष्ठत इत्युच्यते । आहव- नीयग्रहणं गार्हपत्यविवक्षार्थम् । अन्यथा गार्हपत्यस्यैवायं मन्त्रः स्यात् । गार्हपत्यं गत्वो- पतिष्ठते नर्यप्रजां मे पाहील्यनेन मन्त्रेण | दक्षिणाग्निमुपतिष्ठते ' अथर्व इत्यनेन मन्त्रेण | गार्हपत्याहवनीया अग्नी ईक्षते ' इमान्मे इत्यनेन मन्त्रेण ॥ २ ॥ । 3 वृत्तिः—दक्षिणाग्निमुपस्थाय तत्रैच तिष्ठन्गार्हपत्याहवनीयावीक्षते-इमान्मे मित्रावरुणा इति । उत्तरत्र ‘ यथेतं प्रत्येत्य ' इतिवचनात्तत्रैव तिष्ठन्निति लभ्यते । द्विवचनलिङ्गायु- गपदेवेक्षेत ॥ २ ॥ यथेतं प्रत्येत्य प्रदक्षिणं पर्यन्नाहवनीयमुपतिष्ठते । मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे | तत्त्वं विभृहि पुनराममैतोस्तवाहं नाम बिभरा- व्यग्न इति ॥ ३ ॥ अग्निहोत्रचन्द्रिका | दे० भाष्यम् –यथेतं यथागतं प्रत्येत्य प्रतिगत्य गार्हपत्यं गार्हपत्यदेशं प्राप्य गार्ह- पत्यदेशात्प्रदक्षिणं दक्षिणतो विहारं कृत्वा परियाद्गच्छन्नाहवनीय मुपतिष्ठते ' मम नाम ' इत्यनेन । मन्त्रस्थस्यैवोपस्थानं प्राप्तमारादुपकारित्वात्तस्माद्यथैवमित्युच्यते । ' प्रत्यत्ये' इत्य- नुच्यमाने दक्षिणाग्निदेशादेव प्रत्यागच्छन्नुपस्थानं ब्रूयात् । प्रत्येत्येत्युक्ते समीपं गत्वोपस्थानं प्राप्तम् । कस्मादिदमुच्यते । प्रदक्षिणं परिगच्छन्नुपतिष्ठत इति । तस्माद्गार्हपत्यदेशं प्राप्य तत एवोपस्थानमन्त्रः प्रतिपद्यते । एवं ब्रुवतो दक्षिणतो विहारो भवति । ततः प्रदक्षिण- मित्युच्यते । परियन्नेवोपतिष्ठते न गत्वा । आहवनीयग्रहणं गार्हपत्याहवनीययोरधिकारात्मत्र- जेत्परियन्नुपतिष्ठत इत्युक्त उपस्थानमन्त्रं समाप्य यावदावहनीयं न प्राप्नोति ॥ ३ ॥ वृत्तिः—आहवनीयमुपस्थायोत्तरेण विहारं गत्वा गार्हपत्यस्य प्रत्यगुदग्देशेऽत्यन्तसमीपं गत्वा तमुपस्थाय तद्वदेव स्थित्वा दक्षिणाग्निमुपस्थाय तत्रैव तिष्ठन्गार्हपत्याहवनीयेक्षणं कृत्वा पुनस्तेनैव मार्गेणाऽऽहवनीयसमीपं गत्वा ततो गमनाय प्रदक्षिणमावर्तमान आहवनीय मुपतिष्ठते ' मम नाम प्रथमम् ' इत्यनेन मन्त्रेण ॥ ३ ॥ प्रव्रजेदनपेक्षमाणो मा प्रगामेति सूक्तं जपन् ॥ ४॥ दे० भाष्यम् – तीर्थदेशादेव प्रजेद्द्रच्छेदमी ननवेक्षमाणः प्रत्रजेन्मा प्रगामेत्येतत्सूक्तं जपन्गच्छेत् । सूक्तग्रहणं सकृत्सूक्तमयोगार्थम् । जपन्गच्छेदित्युक्ते गमिक्रियाया दीर्घत्वा- त्सूक्तस्याभ्यावृत्तिः प्राप्ता । अतः सूक्तग्रहणात्सूक्तमेव भवति । न पुरावर्तनम् ॥ ४ ॥ वृत्तिः -- पृष्ठतोऽग्नीननीक्षमाणो मा प्रगामेति सूक्तं जपन्यथेष्टं गच्छेत् । सूक्तग्रहणम- नभ्यासार्थम् ॥ ४ ॥ आरादग्निभ्यो वाचं विसृजेत ॥ ५ ॥ दे० भाष्यम् – आरादग्निभ्य आराद्दूरादग्निभ्यो देशेऽग्नीनामसंदर्शने वाचं विसृजेत् | विसृष्टा वाग्भबति यथाकामं भवतीत्यर्थः । वाग्विसर्गमन्त्रो न विद्यते । उत्तरकाल उप- देशात् ॥ ५ ॥ - वृत्ति:- अग्निभ्यो दूराद्गत्वा चाचं विसृजेत् । यावद्गते ऽग्न्यागारच्छादिर्न दृश्यते तावदत्राऽऽराच्छब्देनोच्यते । अत्र वाग्विसर्गविधानादितः प्राग्वाग्यत एव सर्व कुर्यात् ॥ ५ ॥ सदा सुगः पितुमाँ अस्तु पन्था इति पन्थानमवरुह्य ॥ ६ ॥ दे० १० भाष्यम् – सदा सुग इत्येतामृचं पन्थानमत्ररुह्य प्राप्य जपेत् ॥ ६ ॥ बृत्तिः—ब्रूयादिति शेषः । योऽभिलषितदेशगामी पन्थास्तं प्राप्येत्यर्थः ॥ ६ ॥ अनुपस्थिताग्निश्चेत्प्रवासमापद्येत । इहैव सन्तत्र सन्तं त्वाऽने हृदा वाचा ४६ अग्निहोत्रचन्द्रिका | । मनसा वा बिभर्मि । तिरो मा सन्तं मा महासज्योतिषा त्वा वैश्वानरेणोपति- ष्ठत इति प्रतिदिशमग्नीनुपस्थाय ॥ ७ ॥ दे० भाष्यम् – अनुपस्थिताग्निश्चेदनुपस्थिता अग्नयो येन सोऽनुपस्थिताग्निः । स चेत्प्रवासमापद्यते प्राप्यैतद्ब्रामान्तरं कस्मैचिदर्थायाऽऽगतस्य तत एत्र समापद्येत । स चेद- नयो विहृता इति मन्येत तदा तत्रस्थ एव विहारमभिमुखोऽग्नीनुपतिष्ठते ' इहैव सन्तत्र सन्तम् ' इत्येतेन मन्त्रेण । प्रतिदिशं दिशं दिशं विहारं मनसि ध्यात्वा या यस्याम्नर्दिक तां दिशममिमुखस्तस्याग्नेरुपस्थानं कुर्यादेतेनैव मन्त्रेण । पूर्वोक्तेनैवानुक्रमेणाऽऽहवनीयमेवानिं गार्हपत्यमथ दक्षिणाग्निमित्युपस्थाय प्रव्रजेदनपेक्षमाण इत्येवमादि समानमेवमुक्त्वा प्रत्यागत्य चाभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेत । एते मन्त्रा ढिङ्गतो युज्यन्ते ॥ ७ ॥ वृत्तिः– यदि कदाचिद्यथोक्तोपस्थानमकृत्वैव गन्तव्यं स्याद्दैवान्मानुषाद्वा निमित्ता- सदा तत्रैव स्थितः ‘ इहैव सन् ' इत्यनेन मन्त्रेण सर्वानझी नुत्पत्तिक्रमेण तं तमग्निं मनसि ध्यात्वा तां तां दिशमभिमुखमुपस्थाय गच्छेत् ॥ ७ ॥ अपि पन्थामगन्महीति प्रत्येत्य ॥ ८ ॥ दे० भाष्यम् --अपि पन्थामित्यनेन मन्त्रेण प्रत्यागच्छन्प्रत्येत्य सकासं प्राश्य ॥ ८ ॥ वृत्तिः—ब्रूयादिति शेषः । प्रवासं कृत्वा प्रत्येत्य स्वग्रामसपीपं प्राप्य ‘ अफिः पन्था.. मगन्महि ' इति ब्रूयात् ॥ ८ ॥ 6 समित्पाणिर्वाग्यतोऽग्नीज्ज्वलतः श्रुत्वाऽभिक्रम्याऽऽहवनीयमीक्षेत | विश्व- दानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम | नमस्ते अस्तु मीहळुषे नमस्त उपसदने । अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेति ॥ ९ ॥ दे० भाष्यम् – समिधः पाणौ यस्य सोऽयं समिपाणिः । वाम्यतो यदि ग्रामदर्शने. वासार्थे गच्छतीत्यन्येषां वाम्यतो भूत्वाऽऽगत्याग्निं प्रज्वलनं कृत्वाऽग्यो ज्वलन्त इति कस्यचिद्वचनं श्रुत्वा वचनादन्येन विहृता अग्नयो भवन्तीति सिद्धम् । ततः आचम्यातिक्रम्य प्रविश्याऽऽरादुपकारित्वादभिक्रम्याऽऽहवनीयमीक्षेत विश्वदानीमिति मन्त्रद्व- येन ॥ ९ ॥ वृत्तिः

- वाण्यतः समिधो गृहीत्वा पुत्रेण शिष्येण का पूर्वं प्रस्थापितेनानी विहृता-

ज्ज्वलतश्च ज्ञात्वा स्वयमाहिताग्निराचम्य शुचिर्भूत्वा तीर्थेन प्रपद्याव्यक्तदेशादत्यन्तं समीप देशमभिक्रम्याऽऽहवनीयमीक्षेत ' विश्वदानीम् ' इति द्वाभ्यां मन्त्राभ्याम् ॥ ९॥ + आग्नेहोत्रचन्द्रिका | ४७ अभिषु समिध उपनिधायाऽऽहवनीयमुपतिष्ठते । मम नाम तव च जातवेदो बाससी इव विवसानौ चरावः । ते विभूवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेद इति ॥ १० ॥ दे० भाष्यम- अग्निषु समिध उपनिधायाऽऽहवनी यमुपतिष्ठते –' मम ' इत्येतेन मन्त्रेण । अभिषु समिध इति सर्वेषामधिकारादाहघनीयग्रहणम् ॥ १० ॥ वृत्तिः—इदानीमानीताः समिधो विभज्य तस्य तस्याग्नेः समीपे निधाय तत आह- चनीयमुपतिष्ठते ' मम बाम तब च ' इत्यनेन मन्त्रेण ॥ १० ॥ ततः समिधोऽभ्यादध्यात् ।। ११ ।। दे० भाष्यम् - तत उपस्थानानन्तरं या उपनिहिताः समिधस्ता अभ्याध्यात् । अभ्युपार आदध्यात्प्रक्षिपेत् ॥ ११ ॥ वृत्तिः – उपनिहिता एवास्मिन्ननेनेत्याह-- आहवनीये - अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नम- भिसह आयच्छस्व स्वाहेति । गार्हपत्येऽयमग्निगृहपतिगर्हिपत्यः प्रजाया वसुवि- तमः । अग्ने गृहपते ऽभिद्युमभिसह आयच्छस्व स्वाहेति । दक्षिणेऽयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीण्याभियुम्नमभिसह आयच्छस्व स्वाहोते । गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहावजूगुपतं युवम् । अविनष्टानवि- हृतान्पूषैनानभ्यराक्षीदाऽस्माकं पुनरायनादिति ॥ १२ ॥ - दे० १० भाष्यम् – आहवनीयेऽभ्याध्यात् ' अगन्म विश्ववेदसम् ' इति मन्त्रेण | आह चनीयग्रहणं गार्हपत्यविवक्षार्थम् । अक्रियमाणे गर्हपत्यार्थ: स्यात् । गार्हपत्ये समि- धोऽभ्यादध्यादयमग्निरित्येतेन । दक्षिणे दक्षिणामौ समिधोऽभ्याध्यादयमग्निः पुरीष्य इत्येतेन । गार्हपत्याहबनीयौ गार्हपत्यश्वाऽऽहवनीयश्च गार्हपत्याहवनीयावग्नी ईक्षेत दक्षिणा- ग्निस्त्रमीप एव स्थित्वेमान्मे मित्रावरुणा वित्येतेन मन्त्रेण ॥ १२ ॥ वृत्तिः - दक्षिणाग्निसमीपे स्थित इत्युक्तम् ॥ १२ ॥ ( २ | ५ | २ सूत्रे ) यथेतं प्रत्येत्य प्रोग्य भूयो दशरात्राच्चतुर्गृहीतमाज्यं जुहुयात् – मनोज्यो- तिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनि- टास्ता: संतनोमि हविषा घृतेन स्वाहेति ॥ १३ ॥ ० .. दे० भाष्यम् -- यथेतं. यथागतेनैव मार्गेण प्रत्येत्य प्रतिनिवृत्य प्रोष्य भूयो दश- रात्रा बढ्यो रात्रयः प्रोष्य प्रवत्स्य गार्हपत्य आज्यं विलाप्य तूष्णीमुत्पूयाऽऽहवनीयं ४८ अग्निहोत्रचन्द्रिका | । गत्वाऽऽसीनः सुचि चतुर्गृहीतमाज्यं कृत्वा जुहुयान्मनोज्योतिरित्येतेन मन्त्रेण | यथेत मित्यनुच्यमाने दक्षिणानावेव प्राप्नोति । तत्र स्थित्वा प्रत्येत्य विषमोऽर्थः । प्रत्येत्य तदानीमेव जुहुयादिति । भूयो दशरात्रादिति वचनाद्दशरात्रीः प्रोष्यञ्जुहोति । चतुर्गृहीतबच- नात्स्स्रुग्जुहूरेव भवत्यनादेशे । आज्यग्रहणं पयआदीनां होम्यद्रव्याणामविकारादास नो जुहुयात् । अग्निहोमाधिकारादस्या आहुतेरग्निहोत्रहो मार्थस्याग्निहोत्रहोमानां समानार्थोऽयं होमः ॥ १३ ॥ वृत्तिः——यथेतमित्युक्तार्थम् । यथेतं प्रत्येत्य सर्वस्य विहारस्य परिसमूहनं कृत्वा तस्योत्तरत उपविश्य वाचं विसृजेत भूर्भुवः स्वरित्यनेन । असत्यतिप्रवासनिमित्त एवं प्रयोगक्रमः । सति तु तन्निमित्त यथेतं प्रत्येत्य नैमित्तिकं कृत्वा परिसमूहनवाग्विसर्गौ कुर्यात् । एवमेव सूत्रस्वरूपं विवेध्यम् । दशरात्रादूर्ध्वं प्रवासं कृत्वा जुह्वां चतुर्गृहीतं गृहीत्वाऽनया जुहुयान्मनो ज्योतिरित्येतयर्चा । चतुर्गृहीतशब्दादेवाऽऽज्यद्रव्यसिद्धौ सत्या- माज्यग्रहणं तूष्णीमुत्पवनलाभार्थम् ॥ १३ ॥ अग्निहोत्राहोमे च ॥ १४ ॥ दे० भाष्यम्- [ – अग्निहोत्राहोमे च । अग्निहोत्रस्य होमोऽग्निहोत्रहोमस्तस्मिन्नग्नि- होत्रस्याहोमे चैतामेवाऽऽहुतिं जुहुयाद्भूयो दशरात्रादित्युक्तं दशरात्रं प्रवासेऽव्युच्छिन्नमें भवति तस्मादशरात्रमहुत एतामाहुति जुहुयादत ऊर्ध्वं पुनराधेयं भवत्युच्छिन्नत्वात् ॥ १४ ॥ वृत्तिः—अग्निहोत्रहोमविच्छेदे चैतामाहुतिं जुहुयात् । विशेषाभावादेकस्य द्वयोर्बहू- नामपि विच्छेद एषैव मायश्चित्तिः कार्या ॥ १४ ॥ प्रतिहोममेके ॥ १५ ॥ दे० भाष्यम् – प्रतिहोममेके | अहुतानां प्रतिहोममेके मन्यन्ते । प्रतिसंख्यं याव- दिह चतुर्गृहीतानि गृहीत्वा ‘ पक्षहोमन्यायेन ' जुहुयात्प्रतिहोमं वा भवतीति विकल्पः । प्रतिहोमे सति यत्प्रकृतिरग्निहोत्रद्रव्यं तेनैव जुहुयात् ॥ १५ ॥ वृत्तिः——चशब्दोऽत्राभ्याहार्यः । एतामा हुतिं हुत्वा प्रतिहोमं च कुर्यादित्यर्थः । प्रति- होमो नाम यावन्त: काला होमेन विच्छिन्नास्तावतामेकैकं कालं प्रत्येकैको होमः कर्तव्य इत्यर्थः । एवं परिसमुह्येत्यादि पूर्वमेव व्याख्यातम् ॥ १५ ॥ परिसमुह्योदग्विहारादुपविश्य भूर्भुवः स्वरिति वाचं विसृजेत | गृहानीक्षे- ताप्यनाहिताग्निगृहा मा बिमीतोप वः स्वस्त्येवोऽस्मासु च मजायध्वं मा च वो गोपतीरिष ति प्रपद्येत गृहानहं सुमनसः प्रपद्ये वीरनो वीरवतः सुवीरान् । इरां बहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानीति शिवं शम्मं शंयोः अग्निहोत्रचन्द्रिका | शयोरिति त्रिरनुवीक्षमाणः । विदितमप्यलीकं न तद्हर्ज्ञापयेशुः । विज्ञायतेऽभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेतं प्रवसन्प्रत्येत्याहरहति ॥ १६ ॥ - दै० भाष्यम् – पॅरिसमुह्य परिसमूहनं कृत्वाऽग्नी नामुदग्विहारादुदीच्यां दिश्युपविश्य भूर्भुवः स्वारि॑त्येतां स्वस्थाने समानजातिभ्यायेन हुत्वाऽनुमन्त्रणं भवत्येव । अहरहर्देवा- न्वाचयिष्यतीति श्रुतेः । वाशब्द: समुच्चयार्थः । भवति सायंप्रातरेतेनोपस्थानम् | आग्ने- यीभिः पावमानीभिश्च । वाकारशेषविनाशनार्थः ॥ १६ ॥ । + 1 वृत्तिः— ईक्षणं प्रपदनं चानाहिताग्निरपि कुर्यात् । गुहा मा विभीत ' इतीक्षेत । गृहानहम् ' इति प्रपद्येत । प्रतिपद्यमान एवं प्रपद्येत शिवं शग्म शंयोः शंयोः ' इति त्रिरनुर्वाक्षमाणः । अनुवीक्षणमनुमन्त्रणं मन्त्रेण प्रकाशनम् । तत्पुनर्मन्त्रेण विना कर्तुं न शक्यत इति मन्त्रोऽपि त्रिरावर्तते । अलीकमप्रियम् । अवगतमप्यप्रिनं प्रवासा- दागतस्य तस्मिन्नहनि न निवेदयेयुः । वाशब्दश्च शत्यार्थे । 'अभयं वः' इत्यनेन मन्त्रेण प्रवत्स्यन्प्रवासादागतश्चाहरहरग्निहोत्रहोमे चोषतिष्ठेतेति श्रुतिरेवोपन्यस्ता विज्ञायत इति । अस्मिन्पक्षे प्रयोगक्रमः - विहृत्य प्रज्वाल्याऽऽचम्य तीर्येन प्रपद्य तत्रैव स्थित्वा सर्वानग्नीन्सकदेवोपस्थाय प्रदक्षिणमावृत्य तीर्थेनैव निष्क्रम्य ' मा प्रगाम' इति जप- न्प्रव्रज्य ‘ सदासुग: ' इति पन्थानं प्राप्य ब्रूयात् । प्रत्येत्य 'अपि पन्थाम्' इत्युक्त्वा विहृताञ्ज्वलितांस्तीर्थेनैव प्रपद्य तत्रैव स्थित्वा ' अभयं वः' इत्युपस्थाय परसमूहनादि शेषं पूर्ववत् । अतिप्रवासोऽस्ति चेत्तस्य नैमित्तिकमपि कुर्यात् । अग्निहोत्र मे च दक्षि णाग्निहोमानन्तरम् ‘ अभयं वः' इत्युपतिष्ठेत | पूर्वोक्तस्यानुमन्त्रणस्य याजमानत्वादस् चोपस्थानत्वान्न विकरूपः । तेन समुच्चय एव । अनुपस्थिताग्ने प्रयास इहैव सन्नित्येत देव नान्यत्किंचित् ॥ १६ ॥ , , 8 ' yo अग्निहोत्रचन्द्रिका | प्रवासोपस्थानम् । ( इदमाहिताग्निनैव कार्यम् ) ) । आहिताग्निः –वाग्यतो भूत्वा ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रवासविधिनाऽग्नीनुपस्थास्ये । प्रवासं करिष्यन्नाहवनीयादी नग्नीन्विहृत्य प्रज्वल्याऽऽचम्याऽऽ(नात्राग्निहोत्रीयोद्धरणप्रण- यननिधानमन्त्राः ) हवनीयस्यात्यन्तसमीपं गत्वा तमुपतिष्ठेत- शंस्य पशून्मे पाहि । एवमुपस्थायोत्तरेण विहारं गत्वा गार्हपत्यस्य प्रत्यगुदग्देशेऽत्यन्तसमीपं गत्वा तमुप- तिष्टेत- नर्य प्र॒जां मे पाहि । एवमुपस्थायापरेण बिहारं गत्वा दक्षिणाग्नेः प्रत्यगुदग्देशेऽत्यन्तसमीपं गत्वा तमुप- तिष्ठेत- अथर्व पितुं मे पाहि । एवमुपस्थाय तत्रैव तिष्ठन्गार्हपत्याहवनीयावीक्षेत- इमान्मे मित्रावरुणो गृहान्गोपायतं यु॒वम् । अविनष्टानविहृतान्पूषैनानभिरक्षत्वस्माकं पुनरायनात् || इतीक्षित्वा पुनस्तेनैव मार्गेणाऽऽहवनीयसमीपं गत्वा ततो यथेष्टदेशगमनाय प्रदक्षिण- मावर्तमान आहवनीयमुपतिष्ठेत- मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे । तत्त्वं विभृहि पुनराममैतोस्तवाहं नाम बिभराण्यग्ने || इत्युपस्थाय पृष्ठतोऽग्नीननक्षमाणो मा प्रगामेति सूक्तं जपन्यथेष्टदेशं गच्छेत् । मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः | मां तस्थुर्नो अरातयः ||१|| यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतं नशीमहि ॥ २ ॥ मनोन्वा हुवामहे नाराशंसेन सोभेन | पितॄणां च मन्मभिः ॥ ३ ॥ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्य दृशे ॥ ४ ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ ५ ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः | प्रजावन्तः सचेमहि ॥६॥ इति ॥ अग्निहोत्र चन्द्रिका | यावद्गतेऽम्यागारच्छदिर्न दृश्यते ताबदग्निभ्यो दूरं गत्वा वाचं विसृज्याभिलषितदे- शगामिनं पन्थानमवरुह्य ब्रूयात्- सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः संपिवृक्त | भगो मे अग्ने सख्येन मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥ इति । ( म०३ - अ०५-सू०२ ) यदि कदाचिद्यथोक्तोपस्थानमकृत्वैव गन्तव्यं स्याद्दैवान्मानुषाद्वा निमित्तात्तदा तत्रैव स्थितः सर्वाननी नुत्पत्तिक्रमेण तं तमग्नि मनसा ध्यात्वा तां तां दिशमभिमुखमुपतिष्ठेत- इहैव सन्तत्र सन्तं त्वाने हृदा वाचा मनसा वा विभर्मि | तिरो मा सन्तं मा महासीज्योतिषा त्वा वैश्वानरेणोपतिष्ठते ॥ इति । तत आचम्य ५१ अनेन प्रवासोपस्थानेन श्रीपरमेश्वरः मीयताम् | इति प्रवासोपस्थानविधिः । ५२ अग्निहोत्रचन्द्रिका | प्रवासादागतस्य विधिः । -:X:X:X:-ge आहिताग्नि: - प्रवासं कृत्वा स्वग्रामसमीपं प्राप्य www अपि पन्थामगन्महि स्वस्ति गामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु || ( म०६ अ०५ सू०२ ) इति ब्रूयात् । ततः समित्पाणिर्वाग्यतोऽप्नीञ्ज्वलतः श्रुत्वाऽऽचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रवासागमनविधिं करिष्ये । शुचिर्भूत्वा तीर्थेनात्यन्तसमौपदेशमभिक्रम्याऽऽहवनीयमीक्षेत - विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम । नमस्ते अस्तु मीळुषे नमस्त उपसने । अग्ने शुम्भस्त्र तन्वः सं मा रय्या सृज || इतीक्षित्वाऽऽनीताः समिधो विभज्य तस्य तस्याग्ने: समीपे निधायाऽऽहवनीयमुप तिष्ठेत--- मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः । ते विभूवो दक्षसे जीवसे च यथायथं नौ सन्वौ जातवेदः ॥ इत्युपस्थायैकैकां समिधं तरिमस्तस्मिन्नन्नावादध्यात् । आहवनीये - अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नमभिसह आयच्छस्व स्वाहा || इति । गाईपत्ये – अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व स्वाहा || इति । दक्षिणे–अयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभिद्युम्नमभिसह आयच्छस्व स्वाहा || इति । समिध आवाय दक्षिणाग्निसमीपे स्थित्वा इमान्मे मित्रावरुणौ गृहानक्षूगुपतं यु॒वम् । अविनष्टानविहृताम्पूषैनानभ्यराक्षीदाऽस्माकं पुनरायनात् ॥ 4 इतीक्षित्वा यथेतं प्रत्येत्य दशरात्रादूर्ध्वं प्रवासं कृत्वाऽऽगतेन त्वप्रच्छिन्नाग्रवनन्तर्गभौं प्रादेशमात्रौ कुशौ नानाऽन्तयोर्गृहीत्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तनाभ्यां पाणिभ्यां तूष्णी- मायं त्रिरुत्पूय जुह्वां चतुर्गृहीतं गृहीत्वाऽऽहवनीये प्रत्यगुदगाहवनीयादवस्थाय जुहुयात्अग्निहोत्रचन्द्रिका मनो ज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो यो अनिष्टास्ता: संतनोमि हविषा घृतेन स्वाहा | मनसे ज्योतिष इदं न मम । इति हुत्वा त्यजेत् । अत ऊर्ध्वं वक्ष्यमाणो विधिर्दशरात्रादर्वाक्प्रवासं कृत्वाऽऽगत- स्योर्ध्वमागतस्य च समान एवेति ज्ञेयम् । द्वयोर्बद्दूनामप्यग्निहोत्रहोमविच्छेदे सति चतुर्गृ- हीतं जुहुयात् । तत्र संकल्पः- अग्निहोत्रहोमविच्छेदनिमित्तप्रत्यवायजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्री- त्यर्थं प्रायश्चित्ताज्याहुतिं होष्यामि । इति संकल्याऽऽज्यं पूर्ववत्तूष्णीं त्रिरुपूय जहां गृहीत्वा पूर्ववस्थित्वा जुहुयात- मनो ज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनिष्टास्ता: संतनोमि हविषा घृतेन स्वाहा | मनसे ज्योतिष इदं न मम । इति हुत्वा त्यक्त्वा च सर्वविहारं परिसमुह्य विहारस्योत्तरत उपविश्य भूर्भुवः स्वः । इति वाचं विसृज्य विहारादबहिराचम्य अनेन प्रवासागमननिमित्तविधिना कृतेन श्रीपरमेश्वरः प्रीयताम् । ततो गृहानीक्षेत - गृहा मा बिभीतोप वः स्वस्त्येवोऽस्मासु च प्रजायध्वं मा च वो गोपती रिषत् । इति । ततो गृहान्प्रपद्येत- गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरान् । इरां वहन्तो घृतमुक्षमाणास्ते सुमना: संविशानि || इति । प्रपद्यमान एवं प्रपद्येत -- शिवं शग्मं शं योः शं योः । इति त्रिरनुमन्त्र्य प्रपद्येत । ततो गृहान्प्रपन्नं तमाहिताग्निं यः कोऽप्यवगतमप्यप्रियं न निवेदयेत् । इति ॥ अत्र प्रबत्स्यन्प्रत्येल्याहरहः प्रयोगान्तरं कुर्यादित्यमवीवृतद्वृत्तिकृत् । भवत्स्यन् – अग्नीन्त्रिहृत्य प्रज्वाल्याऽऽचम्य तीर्थेन प्रपद्य तत्रैव स्थित्वा सर्वा नग्नीन्सकदेव - अमिहोत्रचन्द्रिका | अभयं वोऽभयं मेऽस्तु । इत्युपस्थाय प्रदक्षिणमावृत्य तीर्थेनैव निष्क्रम्य ' मा प्रगाम' इति जपन्प्रव्रज्य सुगः " इति पन्थानं प्राप्य ब्रूयात् । ५४ GE सदा प्रत्येत्य- _" अपि पन्थाम् इत्युक्त्वा विहृतान्प्रज्वलितांस्तीर्थेनैव प्रपद्य तत्रैव स्थित्वा " अभयं वः " इत्युपस्थाय मनोज्योतिरित्यादि पूर्ववत् । अहरहः—दक्षिणाग्निहोमानन्तरम् " अभयं वः " इत्युपतिष्ठेत । अनुपस्थिताग्नेः प्रवास इहैव सन्नित्येतदेव । नान्यत्किंचित् । इति प्रवासादागतस्य विधिः | अग्निहोत्रचन्द्रिका | अथ समारोपसूत्रम् | समारोपयेदयं ते योनिर्ऋत्विय इत्यरणी गार्हपत्ये प्रतितपेत्पाणी वा या ते अग्ने यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति यदि पाण्यो- ररणी संस्पृश्य मन्थयेत्प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजा- नन् । प्र॒जां पुष्टिं रयिमस्मासु धेह्यथा भव यजमानाय शं योरिति ॥ १ ॥ इति समारोपसूत्रम् । ५५ सवृत्तिसमारोपविधिसूत्रभाष्यम् | समारोपयेदयं ते योनिरृत्विय इत्यरणी गार्हपत्ये प्रतितपेत् ॥ १ ॥ दे० भाष्यम् – इदानीं समारोपणविधानं वक्ष्यते । अयं ते योनिऋत्विय इत्येत- व्यर्चा । अरणी उत्तरारण्यवरारणी च | गार्हपत्येऽग्नौ प्रतितपेदध्वर्युर्यजमानो वा । एते- नैव मन्त्रेण दक्षिणायौ समारोपयेत् । गार्हपत्यग्रहणं गार्हपत्यानुक्रमे सर्वेषु समारोप- येद्विकृतावपि सर्वेषु समारोपणं दर्शयति । अग्नीनस्य समारोप्येति पृथगरणीष्वनी- न्समारोप्येत्यन्येषाम् । सर्वेष्वग्निषु द्वाभ्यामेवारणीभ्यां समारोपणमन्येपाम् । अस्माकं त्वन्वाहितेष्वजस्त्रेषु च न ॥ १ ॥ वृत्तिः– पूर्वे एव द्वे अरणी गार्हपत्ये प्रतितपेन्नाग्न्यन्तरे । यदि दक्षिणाग्निर्भिन्न- योनिस्तदा तस्यारण्यन्तरे तेनैत्र मन्त्रेण समारोपणं भवति ॥ १ ॥ पाणी वाया ते यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति ॥ २ ॥ A दे० भा० - पाणी वा गार्हपत्ये प्रतितपेद्यजमानः । 'या ते अग्ने' इत्यनेन मन्त्रेण । पाणी प्रतितपेदरणी वेति बिकसः । यजमान एवं प्रतितपेन्मन्त्रलिङ्गादात्माऽऽत्मानम- च्छेति ॥ २ ॥ वृत्तिः—द्वौ पाणी गार्हपत्ये सकृदेव प्रतितपेत् । द्वयोरपि समारोपणं यजमान एव कुर्यात् । पूर्वमन्त्रस्य प्रत्याशीष्ट्रात् । उत्तरस्य चाऽऽत्मानमितिलिङ्गात् । कर्त्रन्तरांवेधः- नाभावाच ॥ २ ॥ यदि पाण्योररणी संस्पृश्य मन्थयेत्मत्यवरोह जातवेदः पुन॑स्त्वं देवेभ्यो अग्निहोत्रचन्द्रिका | हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु घेह्यथाभव यजमानाय शं योः ॥ ३ ॥ इति समारोपविधिसूत्रम् । दे० भा० -- यदि पाण्योररण्योः समारोप्यः पाण्योर्वेत्युक्तम् । तत्र यदि पाण्योः समारोपणं कृतं भवति ततो मन्थनकांलेऽरणी पाणिभ्यां संस्पृश्य मन्थयेत् ।' प्रत्य- बरोह ’ इत्यनेन मन्त्रेण स्पृशेत् ॥ ३ ॥ इति समारोपविधिसूत्रभाष्यम् । ८ वृत्तिः—अरण्योर्हस्तयोर्वा समारोपणमुक्तम् । तत्रावरोहणकाले यजमानः प्रत्य- बरोह जातवेदः ' इत्येतं मन्त्रमुक्त्वा मन्त्रान्ते तयोररण्योरग्नि मन्थयेत्स्वयं वा मन्थेत् । एवमरणी समारोपणे। यदि हस्तयोः समारोपणं स्यात्तदैतेन मन्त्रेणारणी संस्पृश्य मन्थयेत् | यजमानो मन्थनकाले यावदग्नेर्जन्म तावदरणी संस्पृशन्नेवाऽऽस्ते । मध्यमानेऽग्नौ यद्युत्पाद- नसमर्थः प्रयत्नो निष्फलः स्यात्तदा पुनरारम्भावसरे मन्त्र आवर्तयितव्यः । एवं व्यर्थे व्यर्थे पुनः पुनरावर्तयेत् । अग्न्यवरोहार्थमरणी मन्थयेदित्येकोऽर्थः । यदि पाण्योः समालोपणं तदैवमवरोहयेत्पाणिभ्यामरणी अनेन मन्त्रेण संस्पृश्य मन्थयेदित्य- परोऽर्थः ॥ ३ ॥ इति समारोपविधिसूत्रवृत्तिः । अथ समारोपप्रयोगः । प्रातरग्निहोत्रहोमानन्तरं सगृहः प्रवत्स्यंश्चेदाहिताग्निराचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थमापन्निमित्तानं समारोपयिष्ये । इति संकल्प्यारणी गृहीत्वा अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जाननम आसीदाथानो वर्धया गिरः || ( ऋ० सं० ३-१-३३ ) इति गार्हपत्ये प्रतितप्य यदि दक्षिणाग्निभिन्न योनिस्तदा तस्यारण्यन्तरेऽनेनैव मन्त्रेण दक्षिणाम्नावरणी प्रतितपेत् । अथवा द्वौ पाणी गार्हपत्ये प्रतितपत् । तत्र मन्त्रः --- या ते अग्ने यज्ञिया तनूस्तयेयारोहाऽऽत्माऽऽत्मानपच्छा वसूनि कृण्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद योनेिं जातवेदो भुव आजायमानः । आयम्यानेन समारोपविधिना श्रीपरमेश्वरः प्रीयताम् । इति समारोपप्रयोगः | अग्निहोत्रचन्द्रिका | अथावरोहणप्रयोगः । ५७ समारोप्य निवासे वासेऽमि मन्थेत् । तत्र मन्त्र प्रत्यवंरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । मज पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोः || इति । अथषा पाणिभ्यामरणी प्रत्यवरोहेत्यनेन मन्त्रेण संस्पृश्य मन्थेदिति । यावदग्न्युत्पादनं मन्त्रावृत्तिः । इत्यवरोहणप्रयोगः |

  • प्रथमाग्निहोत्रारम्भः |

अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽनुहुत्याऽऽहवनीये संग्रहं हुत्वाऽथ सायमग्निहोत्रं जुहोति । ( आपस्तम्ब० श्रौ० सू० ५ | २२ । १० ) तदिदमध्वर्यूणामुक्तमाश्वलायनादिभिरपि कर्तव्यमेवातस्तस्प्रयोगं प्रयुञ्जमहि । आधानानन्तरं द्वादशदिनमध्ये पूर्णमाससोनारम्भ प्रसक्तो द्वादश दिनपर्यन्तमजस्त्रे- ष्वेव तत्कार्यम् । तत्रोद्धरणकालेऽग्न्युत्पत्तिक्रमेण प्रादुष्करणं कार्यम् । कालातिक्रमे सर्वप्रायश्चित्तं कार्यम् । त्रयोदशेऽहनि प्रातर्होमान्तेऽग्नित्यागः । ततः सायंकाळप्रभृति होमार्थमुद्धरणं कार्यम् । द्वादशदिनमध्ये पौर्णमाससोमारम्भप्रसक्तौ पत्रमानेष्टवन्तेऽग्नीपरि- त्यज्यानन्तरं सायं होमार्थमुद्धरणं कार्यम् । तत्राग्निहोत्रमारस्यमानोऽपर यज्ञोपवीती पत्न्या सहाऽऽचम्प तीर्थेन प्रविश्य जघनेन गार्हपत्यं कुशपाणिः- ममोपात्त दुरितक्षयद्वारा श्रीपरमेश्वरमीत्यर्थमग्निहोत्रमारस्ये | यावज्जीवम ग्रिहोत्रं होण्यामि । जीर्णो विरंस्ये । इति संकल्प्याध्वर्युं वृणुयात् । अग्निहोत्रहो मेऽध्वर्यु स्वामहं वृणे । अग्निहोत्रमारप्स्यमानो दशहोतारं होष्यामि | ततोऽध्वर्युराज्यं संस्कृत्य जुह्वां चतुर्गृहीतं गृहीत्वा चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः | केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता | प्राणो हविः । सामाध्वर्युः । वाचस्पते विधे नामन् । विधेम ते नाम | विधेस्त्वमस्माकं नाम | वाचस्पतिः सोमं पिबतु । आऽस्मासु नृम्णं वात्स्वाहा ।

  • अयं प्रयोग आपदेवसूनुनाऽनन्तदेवेन कृतस्तथैव संगृहीतोऽस्ति । ५८

अग्रिहोत्रचन्द्रिका | आहिताग्निः--वाचस्पते ब्रह्मण इदं न मम । तत आचम्याग्निहोत्रा- रम्भविधिना कृतेन श्रीपरमेश्वरः मीयताम् । ततो दक्षिणत उपविश्य द्वितीयादिहोमेऽध्वर्युवरणं कृत्वा 'उद्धराऽऽहवनीयम् ' | इत्यध्वर्युं प्रैषं करोति । ततोऽध्वर्युर्विहारा द्वहिराचा न्तस्तीर्थेन प्रविश्य गार्हपत्यप्रज्व- लनादि सर्वं कुर्यात् । अत्राऽऽश्वलायनाचार्येणैक इत्येव सूत्रितम् । अध्वर्युभिरत्वध्वर्युरित्येव । अथ सविषयविधिवाक्यानुक्रमणम् | अग्निहोत्राङ्गप्रधानकर्मविधायकानि वाक्यानि सर्वाणीमानि भगवत आश्वलायनाचार्य- मणीतश्रौतसूत्रद्वितीयाध्याययद्वितीयखण्डमारम्भ चतुर्थखण्डपर्यन्तमिति ज्ञेयानि । तदिदं विधिवाक्यजातं कस्मिन्ब्राह्मणे स्थितमिति न प्रतीमः । ननु सन्त्येष तर्हि सूत्राणि यथास्थानं किमर्थमयमुपक्रमः । यदि स्युर्ब्राह्मणे तर्ह्य- र्थवादमिश्रितत्वात्पृथक्कृतिरपेक्षिता । सूत्राणां च प्रायोऽर्थवादराहित्यान्मा नाम भूत्पृथक्कृतिः। मैवम् । सूत्रेषु सत्स्वप्येषु वाक्येषु न यथावज्ज्ञातुं सुशकं जिज्ञासुभिरित्यस्त्युपक्रमस्य प्रयोज नम् । बुद्धिवैशद्यार्थं च । आश्वलायनीय श्रौतसूत्रम् - द्वितीयाध्यायः । (२।४ ) - १ गार्हपत्यप्रज्वलनम्—अपराह्णे गार्हपत्यं प्रज्वल्य | २ दक्षिणानेरानयनम् – दक्षिणाग्निमानीय । ३ आहवनीयोद्धरणम् – आहवनीयं ज्वलन्तमुद्धरेत् । - ४ प्रणयनम् – प्रणयेत् । ५ निघानम् – निदध्यात् । ६ आहितार्वतचर्या -आहिता निर्त्रतचार्याहोमात् । ७ होमकालः – अस्तमिते होमः | प्रदोषान्तो वा । ८ आचमनम् –नित्यमाचमनम् । ९ परिसमूहनम् — ताभ्यां परिसमूहने । १० परिसमूहनकालः– पूर्वे तु पर्युक्षणात् । ११ पर्युक्षणम्पुर्युक्षेत् । 'अग्निहोत्र चन्द्रिका | १२ परिसमूहनपर्युक्षणक्रमः - दक्षिणगार्हपत्याहवनीयाः । १३ धाराहरणम्-धारां हरेत् । - १४ उपवेशनम् – पश्चाद्गार्हपत्यस्योपविश्य । १५ अङ्गारापोहनम् – अङ्गारानपोहेत् । १६ अग्निहोत्राधिश्रयणम् - अग्निहोत्रमधिश्रयेत् । १७ नित्यहोमे द्रव्यविधानम् - पयसा नित्यहोमः । े १८ अवज्वलनम्—अवज्वलयेत् । १९ परिहरणम् - परिहरेत् । २० अङ्गाराणामतिसर्गः – अङ्गरानतिसृज्य । - २१ स्रुक्स्रुवोः प्रतितपनम् - स्रुक्स्स्रुवं प्रतितपेत् । २२ स्रुगासादनम् – स्रुचमासाद्य । २३ अतिसर्जनम्—अतिसर्जयत । २४ आहिताग्नेराचमनम् – आहिताग्निराचम्य | २५ अतिव्रजनम् – अपरेण वेदिमतिव्रज्य | २६ आहिताग्युपवेशनम् – दक्षिणत उपवेश्य | -- २७ अतिसर्जनश्रवणम्—एतच्छ्रुत्वा । २८ अतिसर्जनम् - अतिसृजेत् । २९ स्रुवपूरोन्नयनम् – स्रुवपूरमुन्नयेत् । - ३० स्थाल्यभिमर्श:–स्थालीमभिमृश्य । ३१ स्रुक्समिधोर्हरणम् – समिधं स्रुवं चाध्यधि गार्हपत्यं हृत्वा । ३२ उपसादनम् - उपसाद्य । - ३३ जानुनिपातनम्—जान्वाच्य । ३४ समिदाधानम्—समिधमादध्यात् । ३५ अपामुपस्पर्शनम् –अप उपस्पृश्य । ३६ प्रधानहोमदेशः—द्वघङ्गुलमात्रे । ३७ होमविधानम्— अभिजुहुयात् । ३८ सादनम् – कुशेषु सादयित्वा । - ३९ गार्हपत्यावेक्षणम् गार्हपत्यमवेक्षेत । ४० उत्तर हुतिविधानम् अथोत्तरां तूष्णीं भूयसीमसंसृष्टाम् । ४१ उत्तराहुतेर्देशावधानम् -- प्रागुदगुत्तरतो वा । ४२ प्राजापत्यध्यानम् - प्रजापतिं मनसा ध्यायात् ।

ROS-CON ६० अग्निहोत्रचन्द्रिका | ४३ स्रुचि शेषस्थापनम् – भूयिष्टं स्रुचि शिष्ट्वा | १ ४४ स्रुचः प्रकम्पनम् - त्रिरनुप्रकम्प्य | ४५ अवमार्जनम् – अवमृज्य । - ४६ निमार्जनम् – निमार्ष्टि । ४७ अङ्गुल्युत्तानकरणदेशः—तेषां दक्षिणतः । ४८ अङ्गुल्युत्तानकरणविधिः – उत्ताना अङ्गुलीः करोति । ४९ प्राचीनावीतिविधिः - प्राचीनावीती | ५० अपां निनयनम् अपोऽवनिनीय । ५१ अपामुपस्पर्शनम् – अप उपस्पृश्य । ५२ अनुमन्त्रणम् – अनुमन्त्रयेत । ५३ उत्थानम् -उपोत्थाय । ५४ उत्तराहुतेः कटाक्षपूर्वकमक्षिणम् - उत्तरां काङ्क्षतेक्षमाणः । ५५ पर्वणि द्रव्यनियमः - यवाग्वा पयसा वा पर्वणि । ५६ पर्वणि होमकर्तृनियमः—स्वयं पर्वणि जुहुयात् । ५७ अन्यत्र पर्वणो होमकर्तृनियमः — ऋत्विजामेक इतरं कालमन्तेवासी वा । ५८ उदकस्पर्शः–स्पृष्ट्वोदकम् । ५९ उदगावर्तनम्—उदङ्ङावृत्य । ६० भक्षणम् --- भक्षयेत् । - ६१ समिदाधानम्–समिधमाधाय । ६२ अपां निनयनम् -- अपो निनयते - ६३ स्रुचः प्रक्षालनम् –एनां कुशैः प्रक्षाल्य । ६४ अपां निनयनम् - अपो निनयेत् । - ६५ प्रतापनम् – प्रताप्य स्रुचम् । ६६ निधानम् - निदध्यात् । - ६७ समिदाधानम्—समिध आदध्यात् । ६८ परिसमूहनम् —ताभ्यां परिसमूहने । ६९ पर्युक्षणम् – उक्तं पर्युक्षणम् । ७० प्रातर्विधिः – एवं प्रातः । - ७१ प्रातर्होमकाल:- } उपोदयं व्युषसि उदिते वा । सङ्गवान्तः । इति सविषयविधिवाक्यानुक्रमणम् । अग्निहोत्रचन्द्रिका | मन्थनयन्त्रकम् । शमीगर्भस्याश्वत्थस्यारणी आहरति ( आपस्तम्बश्रौ० सू० ५। १ । २ ) अश्वत्थाच्छमीगर्भादरणी आहरेत् । ( आश्वलायनश्र० सू० २ | १ | १६) अश्वत्थशमीगर्भारणी प्रयच्छति । ( कात्यायनश्रौ० सू० ४ । १९४ ) तदेतत्सर्व मनसि निधाय तत्र भगवान्कात्यायनः कर्मप्रदीपनाम्नि च्छन्दोगपरिशिष्टा- परनामधेये ग्रन्थे श्लोकर्याांबभूव - - अश्वत्थो यः शमीगर्भः प्रशस्तोवसमुद्भवः । तस्य या प्राङ्मुखी शाखा योदीची योर्ध्वगाऽपि वा ॥ १ ॥ अरणिस्तन्मयी प्रोक्ता तन्मयी चोत्तरारणिः । सारवद्दारवं चात्रमोविली च प्रशस्यते ॥ २ ॥ प्रभा --- आरणेयस्य मन्थनप्रकारं वक्तुं प्रथमं मन्थनयन्त्रघटक मरण्यादिकमाह - अश्वत्थो य इति द्वाभ्याम् । शर्मागर्भस्य लक्षणं वक्ष्यते । पवित्रभूमौ जातो यः शर्मागर्भोऽश्वत्थ- स्तस्य प्राङ्मुख्युदक्गतोर्ध्वगता वा या शाखा | अधरारणिरुत्तरारणिश्च तन्मयी मुनिभिः कथिता । चात्रमोविली च सारयुक्त खदिरादिकाष्ठनिर्मितं मुनिभिः प्रशस्यते । चात्रं नाम मन्थनदण्डः । चात्रोर्ध्वभागनियन्त्रणार्थः काष्ठविशेष ओविली ॥ १ ॥ २ ॥ शमीगर्भ:-

- शम्या गर्भः - शमीगर्भः । इति षष्ठीसमासः ।

इयं वै शमी तस्या एष गर्भो यदश्वत्थः । इति श्रुतेः । संसक्तमूलो यः शम्या शमीगर्भः स उच्यते । अलाभे त्वशमीगर्भादाहरेदविलम्वितः ॥ ३ ॥ चतुर्विंशतिरनुष्ठा दैर्घ्यं षडपि पार्थवम् । चत्वार उच्छ्रयो मानमरण्योः परिकीर्तितम् ॥ ४॥ - प्रभा - इदानीं शमीगर्भस्य लक्षणमाह - संसक्तमूल इति । यस्याश्वत्थस्य मूलं शम्या सह संसक्त्तं सम्यग्लग्नं सोऽश्वत्थः शर्मागर्भः कथ्यते । शमीगर्भस्याश्वत्थस्याला भे पुनरशमीगर्भादप्यरणिमाहरेत् । गुणलोपे च मुख्यस्येति न्यायादित्यभिप्रायः । शमीगर्भ- स्यान्वेषणया कालविलम्बो न कर्तव्य इति वक्तुमविलम्बित इत्युक्तम् ॥ ३ ॥ अरण्यादीनां परिमाणमाह ——– चतुर्विंशतिरितिद्वाभ्याम् । चतुर्विंशतिसंख्याका अङ्गुष्ठा अङ्गुष्ठा अङ्ग्गुला अरण्योदैर्घ्यं दीर्घताप्रमाणमित्यर्थः । षडङ्गुलस्तयोः पार्थवं पृथुत्वम् । तत्परिमाणमिति यावत् । चत्वारोऽङ्गुला अरण्योरुच्छ्रय उच्चतापारमाणमित्येतत् । तदेवमरण्योः परिमाणं सर्वतोभावेन कथितम् ॥ ४ ॥ ६२ अग्निहोत्रचन्द्रिका | अष्टाङ्गुल: प्रमन्थ: स्याच्चात्रं स्याद्वादशाङ्गुलम् | ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥ ५ ॥ प्रभा—अष्टाङ्गुल इति । चात्रमध्यस्थो मन्थनार्थः काष्ठविशेषः प्रमन्थ इत्युच्यते । स खल्त्रष्टाङ्गुलपरिमाणः स्यात् । चात्रमोविली च द्वादशाङ्गुलपरिमाणं स्यात् । एतत्सर्व मिलितं यथाविन्यस्तं मन्थनयन्त्रमिति कथ्यते । मन्थनयन्त्रकमिति स्वार्थे कन् । गोभि- लपुत्रेणाप्येवमेव मन्थनयन्त्रमुक्तम् | केवलमरण्योर्दीर्घतायामन्यदपि परिमाणद्वय मुक्तम् । तथा च गृह्यसंग्रहः— आश्वथ तुः शमीगर्भामरणीं कुर्वीत सोत्तराम् । ऊरुदीर्घा रत्निदीर्घा चतुर्विंशाङ्गुलां तथा ॥ इति स्वादिरे बध्नाति, पालाशे बध्नाति, रोहितके बध्नाति, " इतिवदमीषां विकल्लगे बोद्धव्यः ॥ ५ ॥ अद्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा ॥ ६ ॥ गोबालैः शणसंमिश्रैखिवृद्धत्तमन॑शुकम् । व्यामप्रमाणं नेत्रं स्यात्ममध्यस्तेन पावकः ॥ ७॥ प्रभा – अङ्गुष्ठेति । बृहत्पूर्वप्रन्धिभिर्मभ्यरेखाभिः । निगदव्याख्यातमन्यत् ॥ ६ ॥ 1 मन्थनसाधनं नेत्रमाह———गोबालैरिति । शणसंमिश्र स्यादिति संबन्धः ॥ नेत्रं रज्जुः। नेत्रं बिशिनष्टि - ऋदित्यादिना | त्रिवृत्रिगुणं वृत्तं वर्तुलम् । अनं- शुकम् अंशुरहितम् । अंशवस्तन्तूनां क्षुद्रा अवयवाः । व्याप्रमाणं विस्तृतसहस्तवाड- द्वयतिर्यगन्तरालं ब्याम उच्यते | तत्परिमाणं तेन नेत्रेण प्रकर्षेण निर्मन्थनीयः ॥ ७ ॥ मूर्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुलं वक्ष उच्यते || ८ || अङ्गुष्ठमात्रं हृदयं व्यङ्गुष्ठमुदरं स्मृतम् | एकाङ्गुष्ठा कटिर्जेया द्वौ बस्ति तु गुह्यकम् ॥ ९ ॥ ऊरू जङ्घे च पादौ च चतुत्र्येकं यथाक्रमम् । अरण्यवयवा होते याज्ञिकैः परिकीर्तिताः ॥ १० ॥ प्रभा —- अरण्यत्रयवं तत्परिमाणं चाऽऽह - मूर्धाक्षीति त्रिभिः । वक्त्रं मुखम् | कन्धरा ग्रीषा। ग्रीवाहृदययोर्मध्यं बक्षः । सुगममन्यत् ॥ एतच्च मूलादारभ्य मानं वृक्षदार्वादीनां. तथैव मानस्यौत्सर्गिकत्वादिति नारायणोपाध्यायाः ॥ ८॥ अग्निहोत्रचन्द्रिका | ६३ अङ्गुष्ठमात्रमिति । द्वाबङ्गुष्टा एवमुत्तरत्र बस्तिर्नाभेरधो भागः | स्पष्टमन्यत् ॥ ९ ॥ ऊरू जङ्घे चति ऊरू जङ्वे पादौ चेत्येतानि यथाक्रमं चतुरङ्गुष्ठत्र्यङ्गुष्ठैकाङ्गु- ष्ठपारमितानि भवन्ति । सोऽयं चतुर्विंशत्यङ्गुष्ठानां विभागः । एतेऽरण्यवयवा याज्ञिकैः सर्वतोभावेन निश्चयेन कथिताः ॥ १० ॥ यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । तस्यां यो जायते वह्निः स कल्याणक्रुदुच्यते ॥ ११ ॥ अन्यत्र मध्यते यत्तु तद्रोगभयमाप्नुयात् । प्रथमे मन्थने ह्येष नियमो नोत्तरेषु च ॥ १२ ॥ उत्तरारणिनिष्पन्नः प्रमन्थः सर्वदा भवेत् । योनिसंकरदोषेण युज्यते ह्यन्यमन्थकृत् ॥ १३ ॥ प्रभा --मन्थनस्थानमाह यत्तदिति । यत्तदिति सर्वनामद्येन प्रसिद्धिमवद्योतयति । यद्गुह्यमिति कथितं सा देवस्या निरुत्पत्तिस्थानमुच्यते । सेति विधेयप्राधान्यविवक्षया स्त्रीत्वेन निर्देशः । तस्यां मन्थनेन योऽग्निरुत्पद्यते स कल्याणक्रुदभ्युदयकारीति मुनिभिः कथ्यते । गोभिलपुत्रस्त्वाह - मूलादष्टाङ्गुलमुत्सृज्य त्रीणि त्रीणि च पार्श्वयोः । देवयोनिः स विज्ञेयस्तत्र मथ्यो हुताशनः || मूलादष्ठ|ङ्गुलं त्यक्त्वा अग्रात्तु द्वादशाङ्गुलम् । देवयोनिः स विज्ञेयस्तत्र मथ्यो हुताशनः ॥ इति । तत्र प्रथमवचनेन गुह्यस्य देवयोनित्वं भङ्ग्यन्तरेणोक्तम् । द्वितीयवचनेन तत्संधैरिति विशेषः । सोऽयं विकल्पः ॥ ११ ॥ अन्यत्रेति । यदिति मन्थनक्रियाविशेषणम् । यत्पुनर्देवयोनेरम्यत्र मध्यते, तस्माद्धेतो रोगभयं प्राप्नोति मन्थनकर्ता । अयं च नियमः प्रथमाधाने यन्मन्थनं क्रियते तत्रैव न पुनराधाने कर्तव्ये द्वितीयादिमन्थनेषु ॥ १२ ॥ इदानीं प्रमन्थनिर्माणे विशेषमाह -- उत्तरारणीति । उत्तरारणेः सकाशात्काष्ठ शकलमुद्दृत्य तेन ममन्थो निष्पन्नो भवेत् । सर्वदा द्वितीयाद्याधानेष्वपि । अन्येन काष्ठेन प्रमन्थकरणे दोषमाह - योनीति | मन्थः प्रमन्थः । यस्मादन्येन काष्ठेन प्रमन्थकर्ता ६४ अग्निहोत्रचन्द्रिका | योनिसंकरदोषेण युज्यते तस्मात्सर्व देवोत्तरारणिनिष्पन्नः प्रमन्थो भवेदिति पूर्वार्धोक्तेऽर्थे हेतुवचनमुत्तरार्धम् ॥ १३ ॥ आर्द्रा सशुषिरा चैव घुणाङ्गी स्फुटिता तथा । न हिता यजमानानामरणिर्नोत्तरारणिः ॥ १४ ॥ प्रभा—अरण्योत्रिंशेषमाहाऽऽर्देति । सशुषिरा सच्छिद्रा । घुणः कीटविशेषः । सोऽङ्गे यस्याः सा वुणाङ्गी । स्पष्टमन्यत् ॥ १४ ॥ परिधायाहतं वासः प्रावृत्य च यथाविधि । विभृयात्माङ्मुखो यन्त्रमावृता वक्ष्यमाणया ॥ १५ ॥ चात्रबुध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः । कृत्वोत्तराग्रामरणिं तहुघ्नमुपरि न्यसेत् ॥ १६ ॥ चात्रोर्ध्वकीलकाग्रस्थामोविलीमुदगग्रगाम् । विष्टभ्य धारयेद्यन्त्रं निष्कम्पं प्रयतः शुचिः ॥ १७ ॥ त्रिरुद्वेष्टयाथ: नेत्रेण चात्रं पत्न्यहतांशुका । पूर्वे मन्थेदरण्यन्ते प्राच्यग्नेः स्याद्यथा च्युतिः ॥ १८ ॥ प्रभा — इदानीं मन्थनप्रकारमाह - परिघायेति । अहतं यन्त्र निर्मुक्तं नवमिति यावत् | वासः परिधाय प्रावृत्य चोत्तरीयमपि विधाय । यथाविधीत्युभयत्र संबध्यते । ततश्च परि धान उत्तरीयकरणे च- परिधानाद्वहिः कक्षा निबद्धा ह्यासुरी भवेत् । धर्म्ये कर्मणि विद्वद्भिर्वर्जनीया प्रयत्नतः ॥ इति । सव्यादंसात्परिभ्रष्टः कटिदेशे धृताम्बरः । एकवस्त्रं तु तं विद्यादैत्रे पित्र्ये च वर्जयेत् || इति चैवमादिस्मृयन्तरोक्तो विधिरनुसरणीय इत्युक्तं भवति । एवंभूतः प्राङ्मुखः सन्वक्ष्यमाणया परिपाट्या मन्थनयन्त्रं धारयेत् ॥ १५ ॥ चात्रबुध्न इति । विचक्षणो मन्थनप्रकाराभिज्ञः | चात्रस्य मूले प्रमन्थस्याग्रं रन्ध्रपूरणेन निश्चलं कृत्वाऽरणिमुत्तरात्रां कृत्वा दण्डवदर्ध्वस्थितं चात्रमरणेरुपर स्थापयेत् ॥ १६ ॥ चात्रोर्ध्वेति । चात्रस्योर्ध्वे यस्कीलकं लोहशङ्कुस्तदग्रस्थितामुदगग्रामोविलीं कृत्वा विष्टभ्याऽऽश्रित्य गढं पीडयित्वा वा यन्त्रं निष्कम्पं संगद्य शुचिः कृताचमनादिः प्रयतः प्रयत्नवांस्तद्गतचित्त इति यावत् | यन्त्रं धारयेत् ॥ १७ ॥ त्रिरुद्वेष्टषेति । अथानन्तरं नेत्रेण पूर्वोक्तलक्षणेन चात्रमुपर्युपार क्रमेण वारत्रयं वेष्टय- स्वाहतवसना पत्नी पूर्वे अरण्यन्ते मन्थेत् । अरणिपूर्वान्त मन्थनस्य प्रयोजनमाहअग्निहोत्रचन्द्रिका । प्राचीति । अग्नेच्युतिर्निःसरणं प्राची प्राक्प्रदेशगता यथा भवेत्तथा मन्थेत् । प्राचीति सप्तम्यन्तपाठेऽपि तथैवार्थः ॥ १८ ॥ इति * मन्थनयन्त्रकम् । अग्निहोत्रसामग्री | १ विद्वानाहिताग्निः - अनिहोत्रानुष्ठानार्थम् । २ गार्हपत्याद्यग्नयः–अङ्गप्रधान होमरूपप्रतिपत्तिकमर्थम् । ३ विट्कुलम्- ४ वित्तवतः कुलं वा- ५ काष्ठकरीषादि–अग्नीनां प्रज्वलनार्थम् । ६ अग्न्युद्धरणशराबौ – आह्वनीयोद्धरणप्रणयनाद्यर्थम् । } दक्षिणाम्यानयनार्थम् ॥ ७ आपः :—आचमननिनयनाद्यर्थम् । ८ कमण्डलुः–धाराहरणार्थम् । ९ संदंश:- अङ्गारातिसर्जनाद्यर्थम् । - १० अङ्गाराः – अग्निहोत्राधिश्रयणार्थम् । ११ पयः – प्रधानहोत्रभक्षणार्थम् । १२ स्थाली - पयोधिश्रयणार्थम् । १३ लद्रुमुकम् अवज्वलनपरिहरणार्थम् । १४ स्रुवः - प्रतिषेकोन्नयन्त्रद्यर्थम् । - १५ स्रुक् - होमसाधनम् । १६ समिधः - होमार्थम् । १७ कुशा: – स्रुगासादनार्थम् । whilosbeat and १८ अजिनं वासा वार -यज्ञोपवीतप्राचीनावीत्यर्थम् । - अनुमन्त्रणाद्यर्थम् । -- १९ आग्नेय्य ऋचः - २० एकः - - नित्यहोमार्थम् । २१ अन्तेवासी-..

  • एतदग्निहोत्रमन्थनयन्त्रकं कर्मपदी प्रकाशितं प्रयोगशास्त्रक्रुद्भिस्तावदरणिद्वयमेवाऽऽनात-

मस्ति तन्मते संघर्षणमेव मन्थनमिति ज्ञायते । चामोविलीत्यादिकं नास्त्येवेतिसूत्रकुदाशय इति भाति । २२ परिकर्मा– सामग्रीसज्जीकरगार्थम् । २३ अधरारणिः -- अग्निनिष्पत्त्यर्थम् । २४ उत्तरारणिः -- प्रमन्थार्थम् । अग्निहोत्रचन्द्रिका | २५ चात्रम् - - घणकाष्ठाधारः | -- २६ ओविली -- चात्राधारभृतः काष्टविशेषः । २७ घृतम् – अधरारणेः स्निग्धीकरप्पार्थम् । २८ नारिकेलफलत्वचो रज्जुः -- अग्निनिष्पत्स्मनन्तरमेव प्रदीपनार्थम् । २९ गोवालाः—चात्राछोडनार्थम् । ३० अश्वत्थः शर्मागर्भः—अरण्यर्थम् । ३१ खादिराणि काष्ठशकलानि --शराबा ङ्गारर्थम् । ३२ वैकङ्कतः --स्रुर्धम् । ३३ बस्त्रम्-यज्ञोपवार्थम । ३४ खदिर:- - 7 चा बिपर्थम् । } सुवार्थं च । इत्य मिहोत्रसामग्री । अग्निहोत्र प्रयोगमन्त्रभाष्यम् । देवं त्वा देवेभ्यः श्रिया उद्वरामि ॥ १ ॥ ( आश्वलायनश्र० स० २ | २/२ ) ऋचः भाष्यम् –हेऽश्वे देवं द्यःनमानं, त्या त्वःममन्येकदेशभूस्, देवेभ्यो द्योतमानबहू- न्यादिेवतःर्थम् । श्रियै- ऋग्यजुः सा मोक्तक संपत्प्राप्त ने सामानि यजूपि | सा हि श्र`रमृता सताम् ” इति श्रुतेः । उद्धराभि गार्हपत्याग्न्यायतनीदूर्ध्वदेशं प्राप- यामि ॥ १ ॥ उद्धियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वांचकार । अह्ना पदेनः कृतमस्ति किंवत्सर्वमान्मोद्धृतः पाहि तस्मात् ॥ २ ॥ भाष्यम् – हे, उद्भियमाणा ग्नेऽहमविद्वानजानन् सन् यदहं पापं चकाराकरवन् । तथा विद्वाजाननपि यत्पापं चकाराकरवम् । तस्मात्पाप्मनो दुरितान्मा मामुद्धरापसार येत्यर्थः । अपि चोद्धृतः स्रंस्त्रं यचिदेोऽहऽहनि “सतम्बर्थे तृतीया " कृतमस्ति सस्मात्सर्वस्मादेनसः पापान्मा मां पाहि पालय रक्षेव्यर्थः ॥ २ ॥ अग्निहोत्रचन्द्रिका | ६७ अमृताहुतिममृतायां जुहोम्यानं पृथिव्याममृतस्य योनौ तयाऽनन्तं कम्ममहं जयानि प्रजापतिः प्रथमोऽयं जिगायानावग्निः स्वाहा || ३ || भाष्यम् – अमृतस्य व्रीह्यादेर्योना उत्पत्तिस्थानभूतायाममृतायाममरणधर्मियां चिर- स्थायिन्यामिति यावत् । पृथिव्य ममृताहतिममृता आहुतयो यत्र हुता आहु॒तयोऽमृतरूपा भवन्तीत्यर्थः । अग्निं गार्हपत्याद्धृत दशं जुहोमि स्थापयामि प्रकरण।ज्जुहोतिः स्थापनार्थ: । तया पुत्रोक्ताग्निस्थापनरूपयाऽऽहुत्याऽनन्तं काममन- न्तान्कामान् " जातावेकवचनम् " अहमेकः क्षीरहोताऽन्वर्युर्ब्रह्मचारी वाऽन्तेवासी जयानि प्राप्नवानि । यद्यप्यत्रास्मच्छदगोचरो होमकेच्यते तथाऽपि न तस्यान- न्तकामजेतृत्वम् । किंतु यजमानस्यैव | होमकर्ता तु दक्षिणया परिक्रीतः । अतः स दक्षिणतिरिक्तं फलं न लभते । अयं प्रथमः प्रजापतिर्हिरण्यगर्भः पुवोक्तयाऽऽहुत्या - नन्तान्कामाञ्जिगाय । अतोऽग्ना आहवनीयाग्न्यायतनेऽग्निरनिं स्वाहा स्थापयामि | प्रकरणादयमर्थोऽवसीयते ॥ ३ ॥ ऋतसत्याभ्यां त्वा पर्युक्षामि ॥ ४ ॥ भाग्यम् — ऋतं मानसिकं सत्यम् । सत्यं वाक्कायिकम् | ताभ्यां हेऽने त्वा त्यां पर्युक्षा मे परिपश्चापरित उदकेन सिञ्चमि । त्वत्परितो वर्तमानोऽहं मनोवाक्कायैः सत्यं नातिक्रमिष्य इत्यर्थः ॥ ४ ॥ तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष घिया कृतान् । अनुलवणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥ ५ ॥ भाष्यम् – हेऽग्ने तन्तुं यज्ञं तन्वन्विस्तारयन्रजसो रञ्जनात्मकस्य लोकस्य भानुं भासकमादित्यमन्विहि अनुगच्छ रश्मिद्वारा सूर्यमण्डलं प्रविशेत्यर्थः । किं च ज्योतिष्मतः प्रकाशवतो यज्ञस्य पथो गमनमार्गान् । अथवा ज्योतिष्मतो दीप्तिमतः स्वर्गस्य पथो मार्गा- न्देवयानान्रक्ष पालय । वि.दृशान्मार्गान्धिया कर्मणा कृतान्सेपादितान् । किं च सोऽग्नि- जगु स्तोतॄणामपः कर्मनानैतत् । किमया व्याप्नं कर्मानुल्वणमनतिरिक्तं वयत करोतु यदेव यज्ञ उल्चणं क्रियते तस्यैवैमा शान्तिरिति हि ब्राह्मणम् । स त्वं मनुर्भव मन्तव्यो भव स्तुत्यो भवेत्यर्थः । किंच दैव्यं जनं देवसंवं जनयोत्पादय यज्ञाभिगमनवन्तं कुर्वि त्यर्थः ॥ ५ ॥ सुहुतकृतः स्थ सहुतं करिष्यथ ॥ ६ ॥ भाष्यम् – हेऽङ्गारा यूयं मुहुतकृतः सुहृतकारिणः स्थ भवथ । तस्मान्मुहुतं सुपकं यथा स्यात्तथा करिष्यथ कुरुतेत्यर्थः । व्यत्ययेन लृट् ॥ ६ ॥ अमिहोत्रचन्द्रिका | अधिश्रितमध्यधिश्रितमधिश्रितं हि३म् ॥ ७ ॥ भाष्यम् – अधिश्रितमङ्गारेषु स्थापितम् । “ अभ्यासे भूयांसमर्थ मन्यन्ते " इति न्याथैनाऽऽम्रेडितम् । हिंकारः सात्वसंपादनार्थः । प्लतिः सांप्रदायिकी ॥ ७ ॥ U इळायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुपस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति ॥ ८ ॥ भाष्यम् – हे जातवेदोऽग्स इलाया इडायामिडापायां पदमाधेयभूतं पद्यते स्थाप्यते सदिति व्युत्पत्तेर्घृतवद॒घृतयुक्तं चराचरं स्थावरजङ्गममाण्यात्मकम् । स्थावरजङ्गमात्मकप्रा- णिस्थितिभूतमित्यर्थः । इदमारेषु स्थाप्यमानं हविर्हयत इति हविः पयोयवाग्बोदना. दिरूपम् । जुपस्ब सेवस्त्र। ये विश्वरूपा ग्राम्याणां पशूनां गयाश्वाजाविपुरुषगर्दभोष्ट्राणाम् । ग्रामे भवा ग्राम्यास्तेषां सप्तानां मयि आहिताग्नौ पुष्टिरस्तु | सर्वेऽघि सप्त पशवो बाहु- ल्येन मम गृहे बर्तन्ताम् । तद्विभवद्वारा पुष्टो भवेयमिति भावः ॥ ८ ॥ अनिष्टे तेजो मा हार्षीत् ॥ ९ ॥ भाष्यम्-~-अग्झिर्गार्हपत्य/ग्निःते हविपस्तेजो ब्रह्मवर्चसादितेजःप्रापकं बीर्थ मा हार्षीन्मा विनाशयतु ॥ ९ ॥ शान्तिरस्यमृतमसि ॥ १० ॥ भाष्यम् – हे हर्बिस्त्वं शान्तिः शान्तिसाधकममृतममरणधर्मसाधकम् । आयुर्वै घृत- मितिवलक्षणा । असि ॥ १० ॥ अन्तरितं रक्षोऽन्तरिता अरातयः ॥ ११ ॥ -3 भाष्यम् – अन्तारैतमन्तर्धानमाप्तं रक्षो राक्षसजातिः । जातावेकवचनम् । अन्तरिता अन्तर्धानमाप्ता अरातयः शत्रवः । अनेनोल्मुकपरिहरणेनान्तर्भूय विघ्नं कुर्वन्तो नष्ट्वा भवन्त्वित्यर्थः ॥ ११ ॥ दिवे त्या, अन्तरिक्षाय त्वा, पृथिव्यै त्वा ॥ १२ ॥ भाष्यम्-हे हृत्रिः। त्वां द्युलोक आकाशेऽन्तरिक्षायान्तरिक्षलोके मेरुपृष्ठादारभ्याऽऽ- क्षुत्राद्ग्रहनक्षत्रताराविचिोऽन्तरिक्षलोकः | पृथिव्यै भूर्लोक आइवीचेरुपृष्ठं यावलोकः । सर्वत्र चतुर्थी सप्त्यम्यर्थे गटव्या | व्यत्ययो बहुलमिति सूत्रात् ॥ १२ ॥ सहुतकृतः स्थ सुहुतमकार्ष्ट ॥ १३ ॥ भाष्यम् – हेऽङ्गारा यूयं सुहृतकृतो हविर्देव्यप्रज्वालकाः स्थ भवध । यूयं सुद्भुतं सुट्टु हुतं यथा स्यात्तथा हविरकार्ष्ट कृतवन्तः ॥ १३ ॥ अग्निहोत्रचन्द्रिका | प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टतं रक्षो निष्टप्ता अरातयः ॥ १४ ॥ भाष्यम् – स्रुक्स्रुवोरन्तर्भूतं रक्षो मलिनिमरूपं प्रत्युष्टं दग्धं भवतु | तथाऽरातयः शत्रवोऽपि प्रत्युष्टा दग्धा भवन्त्वित्यर्थः ॥ १४ ॥ ओमुन्नयानि ॥ १५ ॥ भाष्यम् - ऊर्ध्वं प्रापयाणि ॥ १५ ॥ ओमुन्नय ॥ १६ ॥ भाष्यम् – ऊर्ध्व प्रापय ॥ १६ ॥ भूरिळा भुव इळा स्वरिळा वृष इळा ॥ १७ ॥ भाष्यम् — अत्र स्रुचीडापात्रत्वमतिदिश्य भूर्भुवः स्वरिति लोकत्रयात्मकत्वमेव स्तूयते । वृधो वृद्धिकारिण्यः संतत्यादिवृद्धिकारिणीत्यर्थः । आर्षं बहुवचनम् ॥ १७ ॥ रजतां त्वाऽग्निज्योतिषं रात्रिमिष्टकामुपद्धे स्वाहा ॥ १८ ॥ । - भाष्यम् - रजतां रजतवर्णायमानां त्वा त्वामग्निज्योतिषमग्न्युद्दीपनकर्त्री रात्रिं राज्यामिष्टकामिष्टकाबदग्न्याधारभूनां समित्काष्ठे ह्यनिर्गुढस्तिष्ठति । उपदधे जुहोमि स्वाहा स्वाहेति प्रदानार्थकमव्ययम् । स्वाहा देवहविर्दाने " इत्यभिधानमालायाम् । अहोरात्राण्येवेष्टकारूपेण समाम्नातास्तत्तिरीयै:- यत्सायं प्रातराग्निहोत्रं जुहोत्याहुतीष्टका एव ता उपधत्ते यजमानोऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर्यत्सायं मातर्जुहोत्यहोरात्राण्येवाऽऽत्वेष्टकाः कृत्वोपत्ते (तै० संहितायाम् ३ | ४।१०) । भाष्यम् — अग्निहोत्री कालद्वयेऽग्निहोत्रं जुहोतीति यत्ताः सर्वा आहुतिरूपा इष्टका एव यजमान उपधत्ते । यद्यप्यत्र मृन्मया इष्टका न सन्ति तथाऽपि यः पुरुष आहिताग्नि- वसि एतस्याहोरात्राण्येवेष्टकाः संपद्यन्ते । अतो यदि सायं प्रातर्नियमेन जुहोति तदानी - मनुष्ठानेनाहोरात्राण्येव प्राप्तकालरूपा इष्टकाः कृत्वोपधानं कृतवान्भवति ॥ (३।४। १० ) ॥ १८ ॥ विद्युदसि विद्य मे पाप्मानमनौ श्रद्धा ॥ १९ ॥ भाष्यम् – हे देवते त्वं विद्वियोगहेतुरसि । अतो मे पाप्मानं विद्य वियोजय । अग्नावग्निसाध्ये कर्मणि अग्निहोत्रे मे श्रद्धा च'स्तु ॥ १९ ॥ अग्निहोत्रचन्द्रिका | भूर्भुवः स्वरोमग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा || २० || भाध्यम् – भूर्भुवः स्वः, महाव्याहृतयः । एताभिर्व्याहृतिभिः पृथिव्यन्तरिक्षयुलोक अभिधेयाः । ब्रह्मक्षत्रविशो वा वर्णाः । अन्नप्रजापशवो वा । ओङ्कारः सर्वदेवतावा- चकः । ओङ्कारः सर्वदेवन्य इति कात्यायनानुक्रमणात् | अग्निज्योतिज्योतिरमिः स्वाहा । नमःस्वस्तिस्वाहास्त्रधाल॑वपड्योगाच्च । इति पाणिनिसूत्र प्रथमस्थाने चतुर्थी | अग्निर्ज्योति ज्योतिरग्निरति मन्त्राभ्यासः । अभ्यासे भूयांसमर्थं मन्यन्त इत्यभिप्रायः । अथ कोऽर्थः | अग्नये ज्योतिने स्वाहा सुहुतमस्तु । ७० अथवा — स्वस्थाहानमस्तु । हानं हा न हा अहाः स्वस्थाहाऽपरित्याग आत्मनो द्रव्यस्य वेति । अथवा—योऽग्निज्योतिज्योतिश्चाग्निस्तस्मै स्वाहा | तैत्तिरीयैरयं मन्त्र एवं व्याख्यातः- अग्निज्योतिरित्याह । अग्नितोधाः । ज्योतिरनिः स्वाहेत्याह | प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति । अग्निज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । रेत एक तद्द्वाति ॥ २० ॥ पशून्मे यच्छ ॥ २१ ॥ --- भाष्यम् – हे गार्हपत्य पशून्प्राम्यानारण्यान्हविः साधनभूतान्मे मह्यं यच्छ देंहि । यज्ञा- र्थमेव हि पशबो याच्यन्ते । श्रावितोऽयमर्थस्तैत्तिरीयैः- “ ग्राम्याश्च मे पशक आरण्याश्च न्यज्ञेन कल्पन्ताम् " इति ॥ २१ ॥ पशुभ्यस्त्वा ॥ २२ ॥ भाष्यम् – हे पाणिगतलेप त्वा त्वां पशुभ्यः कृते यच्छामीति शेपः ॥ २२ ॥ स्वधा पितृभ्यः ॥ २३ ॥ भाष्यम्–इमा आपः पितृभ्यः पितॄणां कृते दत्ताः सन्विति शेषः ॥ २३ ॥ वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धा ॥ २४ ॥ भाष्यम् – हे देवते वृष्टिश्छेदन हेतुरसि । अतो मे पाप्मानं वृश्च च्छिन्धि | अप्सु चापूशब्दः कर्मनामसु पठितो निघण्टौ । शास्त्रीयकर्मानुष्ठाने श्रद्धाऽस्तु ॥ २४ ॥ तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्त्रद्वा सीद ॥ २५ ॥ भाष्यम्–हे समित्तेन ऋपिणा मन्त्रदर्शिना | तेन ब्रह्मणा मन्त्रेण । तया देवतया' तया त्वदभिमानिन्या देवतया | अङ्गिरोभिरिवोपहिता सत्यग्निमती त्वं धुवा निश्चल्य सती सीदोपविश बनावित्यर्थः ॥ २५ ॥ अग्निहोत्र चन्द्रिका | ता अस्य सूदीहसः सोमं श्रीणन्ति पृश्नयः | जन्मन्देवानां विशस्त्रिष्वारोचने दिवः || २६ || ७१ भाष्यम्—दिवो रोचने स्वर्गस्य प्रकाशकेऽस्य जन्मनि यजमानस्य जन्मनि निमित्त- भूते संति देवानां संबन्धिन्थो विशः प्रजारूपाः पृश्नयोऽल्पगोसदृशाः सूददोहसोऽन्नस्य दोहयित्र्यस्ता इष्टकाः सोमं श्रीणन्ति पक्कं कुर्वन्ति । कदा त्रिषु सवनेषु | तस्मादस्य समिदुपधानस्य सोमसाम्यं प्रदर्शितं भवति ॥ २६ ॥ भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः ॥ २७ ॥ भाष्यम्- हे भगॠति समिन्त्रं महाव्याहृ यात्मिका । अतस्त्वां याचे शोभनप्रजाः प्रजाभिः स्यां भवेयम् । शोभनवीरश्च वीरैः शोभनपोषश्च पोपैः । पोपो भूगोहिरण्य- धान्यादिभिः । वीरैः पुत्रैरिति वा । सुवीरः शास्त्रीयमार्गवर्तिशोभनपुत्रयुक्तो भवे- यम् ॥ २७ ।। अनि दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ||२८|| भाष्यम् –अग्नेर्दूतत्यभेतन्मन्त्रव्याख्याने तैत्तिरीय ब्राह्मणे समाम्नायते-अग्निर्देवानां दूत आसीदुशनाः काच्योऽसुराणामिति । तादृशं देवदूतमग्निमस्मिन्कर्माणि वृणीमहे संभजामः । कीदृशं होतारं देवान माह्व:तारम् । विश्ववेदसं सर्ववनोपेतम् । अस्य प्रवर्तमानस्य यज्ञस्य निष्पादकत्वेन सुक्रतुं शोभनकर्माणं शे.भनयज्ञं वा देने २८ ॥ अग्निमग्नि हवीमभिः सदाऽऽहवन्त विश्पतिम् | हव्यवाहं पुरुमियम् ॥ २९ ॥ भाष्यम् – यद्यप्यग्निः स्वरूपेणैक एत्र तथाऽपि प्रयोगभेद। दाहवनीयादिस्थानभेदात्पाव- कादिविशेषणभेदाद्वा बहुविधत्वमभिप्रेत्याग्निमग्निमिति वीप्सा । तं हवीमभिराह्न नकरणैर्म- त्रैः पेः सदाऽऽहवन्त निरन्तरमनुष्ठ तार आह्ननन्ति । कीदृशं विशतिं विशां प्रजानां होत्रा- दौनां पालकं हव्यवाहं यजमानसमर्पितस्य हविषो देवान्प्रति वोढारम् । अत एव पुरुप्रियं बहूनां प्रीत्यास्पदम् ॥ २९ ॥ अग्ने देवाँ इहाऽऽवह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः ॥ ३० ॥ भाष्यम् --हेने जज्ञानोडरपोरुत्पन्नस्त्वं वृक्तर्हिम आस्तरणार्थं छिनेन बर्हिषा युक्ताय । तं यजमानमनुग्रहीतुमिह कर्मणि हविर्भुजो देवानावह । नोऽस्मदर्थं होता देवानामाह्वाता त्वमीड्यः स्तुत्योऽसि ॥ ३० ॥ ताँ उशतो विवोधय यदग्ने यासि दूत्यम् । देवैरासत्सि वर्हिषि ॥३१॥ भाष्यम् --हेऽग्ने यचस्मात्कारणाइये यासि देवानां दूनकर्म प्राप्नोषि तस्मात्का७२ अग्निहोत्रचन्द्रिका | रणादुशतो हविः कामयमानांस्तान्देवान्हविः स्त्रीकारार्थं विबोधय | विषोभ्य च बर्हिष्यस्मि न्कर्मणि तैर्देवैः सहाऽऽससि आसीदाऽऽगत्योपविश ॥ ३१ ॥ घृताहवन दीदिवः प्रतिष्म रिषतो दह । अग्ने त्वं रक्षस्विनः ॥ ३२ ॥ भाष्यम् - हे घृताहवन घृतेनाऽऽमान दीदिवो दीपमानाग्ने त्वं रक्षस्त्रिनो रक्षोयुक्तां न्रितो हिंसकाञ्छत्रून्प्रत्यस्माकं प्रतिकूलान्दह स्म सर्वथा भस्मी कुरु ॥ ३२ ॥ अग्निनाऽग्निः समिध्यते कविगृहपतिर्युवा । हव्यवाङ्जुह्वास्यः ॥ ३३ ॥ भाष्यम् -- अग्निराहवनीयाख्यस्तस्मिन्प्रक्षिप्यमाणेनाग्निना निर्मथ्येन प्रणीतेन वा सह समिभ्यते सम्यग्दीप्यते । कीदृशोऽग्निः कविर्मेधावी | गृहपतिर्यजमानगृहस्य पालकः । युषा नित्यतरुगः । हव्यवाड्ढविपो बोढा | जुद्द स्यो जुहूरूपेण मुखेन युक्तः ॥ ३३ ॥ आयुषे त्वा प्राश्नामि । अन्नाधाय त्वा माश्यामि ॥ ३४ ॥ भाग्यम् – हे हविर्द्रव्याऽऽयुष आयुषो वृद्ध्यै त्वा त्वां प्राश्नामि भक्षयामि । हे हवि- ईव्यान्नाधायानं च तदाद्यं चान्नाद्यं तस्मै खाद्यान्नका निमित्तं त्वां भक्षयामि ॥ ३४ ॥ गृहपतये स्वाहा ॥ ३५ ॥ भाष्यम् - गृहपतये गृहपतिना संयुक्ताय गार्हपत्याय स्वाहा दत्तमस्तु ॥ ३५ ॥ अग्नये संवेशपतये स्वाहा ।। ३६ ॥ भाष्यम् – संवेशपतये कर्मणामधिपतये | वेशशब्दः कर्मनामसु पठितो यास्केन निघण्टौ ॥ ३६ ॥ अमयेऽन्नादायानपतये स्वाहा ॥ ३७ ॥ भाष्यम् – अन्नादायामये योऽयमन्वाहार्यपचनोऽस्ति एष तेषामाहितानां चाग्नीनां मध्येऽतिशयेनान्नादः । अन्नपतयेऽन्नस्वामिने स्वाहा दत्तमस्तु | वेदिता स्वयमन्नादो रोग- राहित्येन भोक्तुं समर्थोऽन्नतिरन्नस्वामी च भवति । तथा प्रजया हि पुत्रादिरूपया सहा- नाद्यं प्राप्नोति ॥ ३७ ॥ सर्पदेवजनेभ्यः स्वाहा ॥ ३८ ॥ भाष्यम् – सर्पा देवजना गन्धर्वास्तेभ्यः स्वाहा हविर्दत्तमस्तु ॥ ३८ ॥ ऋतुभ्यः स्वाहा । दिग्भ्यः स्वाहा | सप्तऋषिभ्यः स्वाहा | इतरजनेभ्यः स्वाहा ॥ ३९ ॥ भाष्यम् –ऋत्वभिमानिदिगभिमानिदेवताभ्यो दत्तमस्तु । कश्यपादिसप्तऋपिभ्यः । इतरजनेभ्यो देवजनेभ्यो य इतरे तेभ्यश्च दत्तमस्तु ॥ ३९ ॥ अग्निहोत्रचन्द्रिका | पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहा || ४० ।। - भाष्यम् – अग्नये स्वाहेति दत्तमुदकरूपं हविः पृथिव्यां जुहोमि प्रक्षिपामि वैश्वा- नरो विश्वान्नरानितो लोकादमुं लोकं नयति । हेतुकर्तृत्वेन सर्वासु प्रवृत्तिष्चयमेव नरा- `न्नयति । यथा पञ्चाग्निव्यिायामुच्यते- ७३ “ अपि वा सति तस्मिम्सर्वाः प्रवृत्तयः फलवत्यो नराणां भवन्तीति हेतुकर्तृत्वेन सर्वासु प्रवृत्तिष्वयमेव नरान्नयति प्रवर्तयतीति वैश्वानरः " 1 अथवा - “ विश्व एनं नरा नयन्तीति वा " कर्मकारकम् । स नीयमानस्तासु तासु क्रियास्वङ्गभावं नरैः कर्म संपद्यते । अपि वा विश्वानर एव कश्चित् स्यात् । से पुनः कस्मात् । प्रत्यृता सर्वाणि भूतानि विश्वानि ह्यसौ भूतानि प्रति ऋतः प्रविष्ठ इत्यर्थः । तस्य विश्वानरस्यापत्यं वैश्वा- नरः ॥ ४० ॥ प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहा || ४१ || भाष्यम् – प्राणामृतयोरभेदः । यतोऽमृतं जलम् | प्राण. श्व जलमयाः | आपोमयाः प्राणा इति श्रवणात् ॥ ४१ ॥ दीदिहि दीदाय दीदिदाय ॥ ४२ ॥ भाष्यम् – हे आहवनीयगार्हपत्य दक्षिणाग्नयो यूपमेस्मभ्यं प्रजावित्तादि दत्तेत्यभ्य- र्थना ॥ ४२ ॥ प्रातःकाले त एव मन्त्राः परं यत्र व वाऽस्ति विशेषस्तमिमं प्रदर्शयामः | हरिणी हरिद्वर्णाम् । सूर्यज्योतिषं सूर्यज्योतिष इव प्रदीप्ताम् | अहो दिवसे । भूर्भुवः स्वरों सूर्यो ज्योतिज्यो॑तिः सूर्यः स्वाहा || ४३ ॥ भाष्यम् – इति प्रातरग्निहोत्र हे ममन्त्रः सायंहोममन्त्रद्व्याख्येयः । सूर्यसंबन्धि तेज रात्रावग्निं प्रविशतीति सायमनियतिरिति मन्त्रो युक्तः । उदयकालेवनितंबन्धि ज्योतिः सूर्यं प्रविशति तस्मात्प्रातः सूर्यो ज्योतिरिति मन्त्रः । ‘‘अग्निं बाबाऽऽदित्यः सायं प्रविशाते तस्मादग्निर्दुरान्नक्तं ददृशे । उभे हि तेजसी संप- द्येते | उद्यन्तं बाबाऽऽदित्यमग्निरनुसमारोहति तस्माद्भूम एवाग्नेर्दिवा ददृशे” । इति तित्ति- रिश्रुतेः ॥ ४३ ॥ इत्यग्निहोत्रमन्त्रभाष्यम् || अग्निहोत्रचन्द्रिका । अथ समारोपप्रयोगमन्त्रभाष्यम् | अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जाननग्न आसीदाथा नो वर्धया गिरः | ( ऋ० सं ३|१|३३) ॥ १ ॥ भाष्यम् – हेऽग्नेऽयं गार्हपत्यप्रदेशस्ते योनिस्तव स्थानम् । स च योनिरृत्विय ऋतुसंबन्धात्सर्वस्मिन्नप्यृतावनेन होमनिष्पत्तेः । यतो गार्हपत्यप्रदेशाज्जात उद्भूतस्त्वमरोचथा दीप्यसे तं प्रदेशं जानन्मम स्थानमित्यवगच्छन्नासीद प्रतितिष्ठ | अनन्तरमस्माकं गिरो वार्णांवर्धयेत्यर्थः ः । अथवा–यतो यस्मादरणिस्थानाज्जात उत्पन्न: सन्दीप्यसे तमरणिप्रदेशं स्थानभूतं जानंस्तत्रारण्योरासीदेति ॥ १ ॥ या ते अग्ने यज्ञिया तनूस्तयेयारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमानः ॥ २ ॥ भाष्यम्–हेऽग्ने ते तव यज्ञिया तनूर्यज्ञयोग्या या तनूस्तया तन्वा सहेहाऽऽगच्छ । 'आगत्य चाऽऽत्मानमारोह | त्वं मदीयात्मा सन्मच्छरीरमारोह । किं कुर्वन् ( अस्माकम् ) नर्या नरस्य योग्यानि बसूनि धनानि पुरूणि बहून्यच्छाऽभिमुखानि कृण्वंस्त्वं यज्ञस्व रूपो भूत्वा यज्ञनिर्वाहकं मद्देहं योनिं स्वं स्थानमासीद प्राप्नुहि । हे जातवेदो भुवः सका- शादाभिमुख्येन जायमानस्त्वं स्वां योनिमाप्नुहीत्यर्थः ॥ २॥ प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । मजां पुष्टिं रयिमस्मास घेह्यथा भव यजमानाय शं योः ॥ ३ ॥ भाष्यम्–हे आतबेदः पुनरपि त्वं प्रत्यवरोहारण्योः सकाशाद्भूमाववतर । अवतीर्य च प्रजानन्नस्य देवस्येदं हविरिति प्रकर्षेण जानन्नोऽस्मदीयं हव्यं देत्रेभ्यो वह प्रापय । प्रजा- दिकमस्मासु संपादय । अथानन्तरं यजमानाय स्वस्तिकरो भव | सर्वथा यजमानसहिता- नामस्माकं स्वस्ति कुर्वित्यर्थः ॥ ३ ॥ इति समारोपप्रयोगमन्त्रभ।ष्यम् । अग्निहोत्रचन्द्रिका | प्रवासोपस्थानमन्त्रभाष्यम् | शंस्य पशून्मे पाहि ॥ १ ॥ भाष्यम् – हे शंस्य ऋत्विग्भिः प्रशंसनीयरूपत्वाच्छंस्य आहवनीयस्तत्संबुद्धिः । मे मम पशून्पाहि रक्ष । शंसु स्तुततॊ ॥ १ ॥ नर्य प्र॒जां मे पाहिं ॥ २ ॥ अथ ७५ भाष्यम् – नर्य नरेभ्यो मनुष्येभ्यो हितो मार्हपत्यस्तत्संबुद्धिः । मे मम प्रजां पाहि गोपाय ॥ २ ॥ अथर्व पितुं मे पाहि ॥ ३ ॥ भाष्यम्-हेऽथर्व चतुर्वेदप्रवर्तकाचार्य रूप दक्षिणाने पितुं पालक मे मम प्राणं पाहि रक्ष । अत्राथर्थशब्दनुवटमहीधरावेवं व्याचख्यतुः- अथर्वाऽतनवानथर्वः “ अत सातत्यगमने " सततं हि दक्षिणाग्निर्गार्हपत्यस्थानं गच्छति । अथर्व इति वाजसनेयिनः समामनन्ति । निरुक्तकारस्त्वेवं निरुक्तयांबभूव - अथर्वाणोऽथनवन्तः । थर्वतिश्चरतिकर्मा तत्म- तिषेधः ॥ ३ ॥ इमान्मे मित्रावरुण गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पूनानभिरक्षत्वस्माकं पुनरायनात् ॥ ४ ॥ भाष्यम् – हे मित्रावरुणा एतन्नामकौ देवौ युवं युवां म इमान्संनिकृष्टान्गृहाञ्शालां गोपायतं रक्षतम् । किं चास्माकं पुनरायनान्मम यावत्पुनरागमनं तावद्यथाऽविनष्टाः केनाप्यविहृताः पशवः स्युस्तथैनान्पशून्पूषा फलयित्री देवता रक्षतु ॥ ४ ॥ मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे | तत्त्वं चिभृहि पुनरा ममैतोस्तवाहं नाम बिभराण्यग्ने ॥ ५॥ भाष्यम् – ब्राह्मणस्य नामद्वयं विद्यते । देवदत्तयज्ञदत्तादिकमेकमुपाध्यायदीक्षितादि- कमपरम् । अत एव श्रूयते - " तस्माविनामा ब्राह्मणोऽदकः " इति । तत्राध्यापनादेरूवं प्रवृत्तत्वादुपाध्यायादिकं चरमम् । अग्रे जन्मकाले मातापितृभ्यां कृतत्वाद्देवदत्तादिकं प्रथमम् । हे जातवेदो मम यत्प्रथमं नाम तत्त्वं धारय । किन्तं कालम् । पुनरा ममैतो- रस्मदीयपुनरागमनात् । अहमपि तव नाम धारयाणि । त्वमत्र वैकल्यं निर्हरन्मदीयं कार्यं कुरु | त्वन्नामधारिणो मम गन्तव्यदेशे वैकल्यमेव न संभवतीत्यर्थः ॥ ५ ॥ मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुन अरातयः ( ऋ० ८ । १ । १९ ) ॥ ६॥ ७६ अग्निहोत्रचन्द्रिका | भाष्यम् – हे इन्द्र वयं गौपायनाः पथः समीचीनान्मार्गान्मा प्रगाम मा परागच्छाम । असमातिगृहमेत्र गच्छाम । मा च सोमिनोऽसमातेर्यज्ञात्प्रगाम | माऽस्थुर्मा तिष्ठन्तु नोऽ- स्माकमन्तर्मार्गमध्येऽरातयः शत्रवः । यद्वा सोमिनः सोमवतो यागान्मा प्रगाम ॥ ६ ॥ यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतं नशीमहि ॥ ७ ॥ भाष्यम्—योऽयमग्न्याख्यस्तन्तुराहवनीयादिरूपेण विस्तृतो यज्ञस्य प्रसाधनः प्रक- र्षेण साधयिता देवैः स्तोतृभिरृत्विग्भिविस्तारितो वर्तते वेद्यां तमाहुतं सर्वतोमानं नशीमहि प्राप्नुयाम । नशतिर्व्याप्तिकर्मा ॥ ७ ॥ ममो न्वाहुवामहे नाराशंसेन सोमेन | पितॄणां च मन्मभिः ॥ ८ ॥ - भाष्यम् – वयं बन्धुश्रुतबन्ध्वादयो मनः सुबन्धोः संबन्धि मायाविभिरपहृतं नु क्षिप्रमा- हुवामहे । केन साधनेनेति तदुच्यते । नाराशंसेन नराशंसचमसगतेन सोमेन | नरैः शस्यन्त इति नराशंसाः पितरः । तेषां चमसानां कम्पनमेव होमः । तथाविधेन सोमेन पितॄणा- मङ्गिरसां मन्मभिर्मननीयैः स्तोत्रैश्च ॥ ८ ॥ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे | ज्योकूच सूर्य दृशे ॥ ९ ॥ भाष्यम्—हे सुबन्धो ते मनः पुनरैत्वभिचरतः सकाशात्पुनरागच्छतु । किमर्थ मित्युच्यते । क्रत्वे कर्मणे लौकिक वैदिक विषयाय दक्षाय बलाय च । यद्वा क्रत्वे दक्षाय प्राणाय प्राणो वै दक्षोऽपानः क्रतुरिति श्रुतिः । जीवसे जीवनाय च । ज्योक्च चिर- कालं सूर्यं दृशे सूर्यं द्रष्टुमसन्तं चिरजीवनायेत्यर्थः ॥ ९ ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ १० ॥ भाष्यम्-~~-नोऽस्माकं पितरः पितृभूता अङ्गिरसस्तेषां जनः संघ इत्यर्थः । स च जीवं नातं प्राणादीन्द्रियसंघातं पुनर्ददातु । तथा दैव्यो जनः । जनशब्दः संघवचनः । देवानां संघोऽपि जीवं नातं च ददातु । वयं च तदुभयं सचेमहि प्राप्नुयाम ॥ १० ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः | प्रजावन्तः सचेमहि ॥ ११ ॥ भाष्यम् – हे सोमदेव वयं बन्ध्वादयस्तव व्रते त्वदीये कर्मणि । व्रतमिति कर्मनाम । तव तनूषु त्वदीयेष्वङ्गेषु च मनो विनतस्तात्पर्ययुक्तां बुद्धिं धारयन्तः प्रजावन्तः प्रजाभिः पुत्रपौत्रादिभिर्युक्ताः सचेमहि संगच्छेमहि । जीवं नातं चेति शेषः ॥ ११ ॥ । सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः संपिवृक्त | भगो मे अग्ने सख्येन मृध्या उद्गायो अश्यां सदनं पुरुक्षोः ॥ ( ऋ० ३ | ३ | २७ ) ॥ १२ ॥ भाष्यम् --- हेऽमेऽस्माकं पन्था मार्ग: सदा सर्वदा सुगः सुखेन गन्तुं शक्यः अग्निहोत्रचन्द्रिका । पितुमानन्नवांश्चास्तु । हे देवा मध्वा माधुर्योपतेनोदकेनौषधी: संपिपृक्त संपर्चयत सेच- यतेत्यर्थः । हेऽग्ने त्वया सख्ये संजाते सति मे मम भगो धनं न मृध्या न विनश्यतु । किं च रायो धनस्य पुरुक्षोर्बह्नन्नस्य च सदनं स्थानमुदश्यां प्राप्नुयाम् ॥ १२ ॥ इहैव सन्तत्र सन्तं त्वाऽग्ने हृदा वाचा मनसा वा बिभर्मि । तिरो मा सन्तं मा महासीयोतिषा त्वा वैश्वानरेणोपतिष्ठते ॥ १३ ॥ ७७ भाष्यम्–हेऽग्न इहैव देशे सन्नहं तत्र तत्र गृहविशेषे सन्तं त्वामग्ने हृदा प्राणेन घाचा मनसा च बिभर्मिं धारयामि | ग्रामान्तरे गतस्यापि मम मनोवाक्प्राणादयो भव: द्विषयदेशवर्तित्वेन तिरोभूय सन्तमवस्थितं मा मां मा महासीर्मा परित्यजन्तु । वैश्वानरेण सर्वमनुष्य हितेन ज्योतिषा युक्तं त्वामुपतिष्ठत उपतिष्ठे सेव इत्यर्थः ॥ १३ ॥ अपि पन्थामगन्महि स्वस्ति गामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु । ( ऋ० ४।८ । १३ ) ॥ १४ ॥ भाष्यम् – पन्थां पन्थानं मार्गमप्यगन्महि अपि गताः प्राप्ताः स्मः । कीदृशम् । स्वस्ति गां सुखेन गन्तव्यमनेहसं पापरहितम् । येन पथा गच्छन्विश्वाः सर्वा द्विषो द्वेष्ट्रीः प्रजाः परिवृणक्ति परिवर्जयति बाधते वसु धनं च विन्दते लभते तादृशं पन्था- नमित्यर्थः ॥ १४ ॥ विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रति वेशा रिषाम ॥१५॥ भाष्यम् - - हेऽग्नेऽनातुरेण पीडारहितेन मनसा विश्वदानीं सर्वदा नित्यकालं ते स्वदर्थमाभरन्त आहरन्तः सन्तोऽत एवास्माकं वेशा निवासस्थानानि मा प्रतिरिषाम मा हिंसीः । त्वदर्थ समिदाद्याहरतोऽस्मान्परिपालयेत्यर्थः ॥ १५ ॥ नमस्ते अस्तु मीळुषे नमस्त उपसद्वने | अग्ने शुम्भस्व तन्वः सं मा रय्या सृज ॥ १६ ॥ भाष्यम् - - हेऽग्ने मी हळुषे धनप्रापकाय सुखरूपाय वा ते तुभ्यं नमोऽस्तु | नमस्त उपसद्वन उपसद्वते हेऽग्नेऽस्माकं तन्वः शरीराणि शुम्भस्व भासयस्व प्रकाशय । तथा च मा मां रय्या धनादिना संसृज संगमय । धनमृक्सामयजूरूपं नापयेत्यर्थः ॥१६॥ मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः । ते बिभ्रुवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेदः ॥१७॥ भाष्यम् - हे जातवेदो मम देवदत्तादि नाम तव च वयादि नामेत्येवं ये नामनी अग्निहोत्रचन्द्रिका | विपरिवृत्यान्योन्यवाससी विपर्ययेण वसानाविवेदानमिवां चरावः । अत ऊवं हे जात. वेदस्ते पूर्वोक्ते ना आवयोस्तन्वौ देवदत्तवह्न्यादिनामनी यथायथं त्वदीयं वह्न्यादि नाम तवैव मदीयं च देवदत्तादि नाम मदीयमव यथा भवति तथा बिभूवः परिदधाव है । एवं सति कुशलं जीवनं भवति । दक्षसे कुशलाय जीवसे जीवनायाऽऽयुर्वृद्धिधनादिसं- पत्त्या प्रशस्तजीवनं च भवति ॥ १७ ॥ ७८ अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नमभिसह आयच्छस्व ।। १८ ॥ भाष्यम् – प्रत्यागत आहवनीये समिधमादध्यात् । हे आहवनीय यं त्वामगन्माऽऽऽ गन्माऽऽगता वयम् । विश्ववेदसं सर्वतोधनम् । अस्मभ्यं षष्ठयर्थे चतुर्थ्यस्माकम् । वसुवित्तममतिशयेन धनस्य वेदितारम् । स त्वं हे भगवन्नने सम्राट् | राजू दीप्तौ । सम्यग्दीप्तिमन् । अभिद्युम्नं द्युम्नं द्योततेर्यशो वाऽन्नं वा द्युम्नं द्योततेर्यशो वाऽन्नं वा ” । इति निरुक्ते । अभिसहः । सह इति बलनाम निघण्टौ । आयच्छस्व । यमे- रेतद्रूपम् । एतदुक्तं भवति - अस्मानभ्यन्नं यशो वा बलं वा गृह्णीष्वाऽऽगमयेत्यर्थः । यद्वा–अस्मान्द्युम्नमभि बलं वाऽभियच्छस्त्र स्थापयस्व समर्पय आयच्छतिः स्थाप- नार्थः ॥ १८ ॥ <= अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व ॥ १९ ॥ भाष्यम् – योऽयमग्निगृहपतिर्गार्हपत्याख्यः प्रजायाञ्चातिशयेन धनस्य वेदिता तमेतं याचे । हेऽग्ने गृहपतिर्गृहस्य पतिः पालकः । शेषं पूर्ववत् ॥ १९ ॥ अयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभिद्युम्नमभिसह आयच्छस्व ॥ २० ॥ भाष्यम् –योऽयमग्निः पुरीष्यः पशव्यः “ पशवो वै पुरीषम् ” इति श्रुतिः । रयिमान्धनवान्पुष्ट॑र्वर्धयिता । तमेतं प्रत्यक्षीकृत्य याचे । हेऽमे पुरीष्य द्युम्नं बलं च प्रत्यस्मान्निधेहि ॥ २० ॥ इमान्मे मित्रावरुणौ ग्रहानगुपतं युवम् । अविनष्टानविहतान्पूनानभ्यराक्षीदाऽस्माकं पुनरायनात् ॥ २१ ॥ भाष्यम् – हे मित्रावरुणावादित्यवरुणौ युवं युवामजूगुपत क्षणः कृतवन्तः । तथा पूषा देवताऽविनष्टानविहृतानिमान्मे गृहानेना नेतानस्माकं पुनरायनात्पुनः, आ, आयनात्पु- नरागमनपर्यन्तमभ्यराक्षीद्रक्षणमकरोत् । तस्मात्रयाणां युष्माकमुफ्कृतीः स्मरामि ॥ २१ ॥ अग्निहोत्रचन्द्रिका | भूर्भुवः स्वः ॥ २२ ॥ भाष्यम् - एतावत्कालं कृतं वाग्यमनं लोकत्रयप्रापकं भवत्वित्यर्थः ॥ २२ ॥ मनो ज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं साममं दधातु । या इष्टा उषसो या अनिष्टास्ताः संतनोमि हविषा घृतेन स्वाहा ॥ २३ ॥ ७९ भाष्यम् — उद्वासनापराधपरिहाराय मनो माननीयमग्नेर्ज्योतिर्हव्यमाज्यं सेत्रताम् । विच्छिन्नमिमं यज्ञं संदधातु । या उपसः प्रातः कालोपलक्षिता आहुतयः । उष इति हाम- कालोपलक्षणम् । तेन सायंतना अपिगृह्यन्ते । इष्टा इतरैर्यजमानैरनुष्ठिता मया त्वन्तरितास्ताः सत्र आहुतीरनेन वृतेन हविषा संदधाम्यविच्छिन्नाः करोमि ॥ २३ ॥ गृहा मा विभीतोप वः स्वस्त्येवोऽस्मासु च मजायध्वम् । मा च वो गोपती रिषत् ॥ २४ ॥ भाष्यम्-हे गृहा गृहस्थाः प्राणिनो मा बिभीत भीर्ति मा कुरुत | वो युष्मानस्मासु च ‘स्वस्त्येवोपप्रजायध्वम् । यथाकल्याणं वर्तन्ताम् । वो युष्मान् गोपतिर्यजमानो मा रिषन्मा हिंसीत् ॥ २४ ॥ गृहानहं सुमनसः प्रपद्येऽवीरघ्नो वीरवतः सुवीरान् । झां चहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानि ॥ २५ ॥ भाष्यम् – गृहानहं प्रपद्ये । की हृशान्सुमनसो गृहेष्ववस्थिता मां दृष्ट्वा सुमनसो भवन्तीति गृहाः सुमनस इत्याह । अवीरघ्नो वीराः पुत्रा अतद्धननस्वभावोऽहं वीरवतः सुवीराञ्ञ्ज्ञोभनरक्षकपुरुषयुक्तानिरामन्नं वहन्तो घृतमुक्षमाणा ब्राह्मणेषु भुखानेषु यत्र घृत- मुक्ष्यते तत इत: सिच्यते ते गृहा उच्यन्ते । घृतमुक्षमाणा इति द्वितीया प्रथमा । प्रपद्य च तेष्वेवंभूतेषु गृहेष्वहं सुमना भूत्वा संविशानि प्रविशामि ॥ २५ ॥ शिवं शग्मं शंयोः शंयोः ॥ २६ ॥ भाष्यम् – शिवं शग्मं द्वे अनेते सुखस्य नाम्नी । अनेकप्रकारं सुखं भवत्विति शेषः । कस्य शंयोः । शमिति सुखनाम । " इंदंयुरिदं कामयमानः " सुखकामस्य | शं कामयत इंति शंयुः । शिवमैहिकं सुखम् । शग्ममामुष्मिक सुखम् । शंयोरिषभ्यासोऽत्यादरार्थः || २६॥ अभयं वोऽभयं मेऽस्तु ॥ २७ ॥ भाष्यम् – हेऽग्नयो मत्तः सकाशाद्वो युष्माकमभयमस्तु । युष्मत्सकाशान्ममाष्यभ यमस्त्विति ॥ २७ ॥ इति प्रवासोपस्थानमन्त्रभाष्यम् । अग्निहोत्रचन्द्रिका | अथ पिण्डपितृयज्ञविधानम् | अथ दशमे पिण्डपितृयज्ञ उच्यते । तत्राऽऽदौ कालविशेषं विधत्ते--- इन्द्रो वृत्र हत्वा । असुरान्पराभाव्य | सोऽमावास्यां प्रत्यागच्छत् । ते पितरः पूर्वेद्युरागच्छन् । पितॄन्यज्ञोऽगच्छत् । तं देवाः पुनरयाचन्त । तमेभ्यो न पुनरददुः । तेऽब्रुवन्वरं वृणामहै । अथ वः पुनर्दास्यामः । अस्मभ्यमेव पूर्वेयुः क्रियाता इति ( १ ) तमेभ्यः पुनरददुः । तस्मात्पितृभ्यः पूर्वेद्युः क्रियते । यत्पितृभ्यः पूर्वेद्युः करोति । पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः मतनुते । इति ॥ ८० सायणभाष्यम् – इन्द्रः पुरा युद्धे वृत्रं हत्वा तदीयानसुरांश्च पराभूतान्कृत्वा पश्चा- दमावास्यायागदिनं प्रति स्त्रगृहे समागच्छत् । शुक्लप्रतिपदि ह्यमावास्यायागः क्रियते । ततः पूर्वेद्युः पितर आगतास्तैः पितृभिः सह यज्ञोऽपि गतः । तं पितृभिः सहावस्थितं यज्ञं देवाः स्वार्थमयाचन्त । पूर्वमस्मदीयो यज्ञ इदानीं भवत्समीपमा गतः । पुनरस्मभ्यमेव यज्ञो दातव्य इति । ततः पितरस्तमदखा तद्दानार्थमुत्कोचमपेक्षितवन्तः । पूर्वेयुर्दर्शदिनेऽस्मदर्थं कर्म कर्तब्यम् । ततः प्रतिपद्यनुष्ठेयं दर्शपूर्णमासाख्यं यज्ञं दास्याम इति प्रत्यजानन् । ततो देवैस्तथेत्यङ्गीकृते तं यज्ञं दत्तवन्तः । तस्मात्पित्रर्थं कर्म पूर्वेधुः पूर्वदिने कुर्यात् । तथा कृते तेन मूल्येन यज्ञं पितृभ्यो निष्क्रीय यजमानस्तमनुष्ठातुं प्रवर्तते ।। कालं विधाय होममन्त्रं विधत्ते - सोमाय पितृपीताय स्वधा नम इत्याह । पितुरेवाधि सोमपीथमवरुन्धे । न हि पिता प्रमीयमाण आहेष सोमपीथ इति । इन्द्रियं वे सोमपीथः । इन्द्रियमेव सोमपीथमवरुन्धे । तेनेन्द्रियेण द्वितीयां जायामभ्यनुते ( २ ) | इति । सायणभाष्यम् –पितृभ्यः पीतोऽमृतत्वेन परिणतो यः सोमस्तस्मै सोमायेदं स्वध' दत्तम् । नमस्कारोऽपि कृत इत्यमुं मन्त्रं होमकाले ब्रूयात् । अनेन होमेन स्वकीयस्य पितु रघ्युपारै यत्सोमपानं पूर्वं वृत्तं तत्स्वयं प्राप्नोति । पितुः संबन्धि गृहक्षेत्रादिकं यथा होम. मन्तरेण प्राप्नोति तद्वत्तदीयं सोमपानमपि प्राप्नोतीति चेन्मैवम् । गृहादिवदसमर्पितत्वात् । प्रमीयमाणः पिता पुत्रमाहूयेदं गृहमिदं क्षेत्रं तत्रेति यथा ब्रूते तथा सोमपानमिदं तत्रेति न हस्ते समर्पयति । तस्माद्धोमेनैव सोमपानफलं संपादनीयम् । नचैतत्प्रयाससाध्यं सोम- पानं मा भूदेवेति शङ्कनीयम् । सोमपानस्थेन्द्रियवृद्धिरूपत्वेनावश्यं पापणीयत्वात् । पूर्वं स्वस्मिन्विद्यमानेनेन्द्रियेणैकां जायां भोक्तुं समर्थः । तृप्रसादलब्वेन विन्द्विषेण द्वितीया- मपि भोक्तुं समर्यो भवति ॥ अग्निहोत्रचान्द्रका | ८१ एतद्वेदनं प्रशंसति --- एतद्वै ब्राह्मणं पुरा वाजश्रवसा विदामकन् | तस्मात्ते द्वे द्वे जाये अभ्या- क्षत । य एवं वेद । आभि द्वितीयां जायामश्नुते । इति ॥ सा० भाष्यम् - वाजोऽन्नं तद्दाननिमित्तं श्रवः कीर्तिर्यस्य महर्षेरसौ वाजश्रवास्तस्य `पुत्रा वाजश्रत्रसाः । ते च पुरा " सोमाय पितृपीताय " इति मन्त्रस्य व्याख्यानरूपमेत- विदित । तस्माद्वेदनìत्ते महर्षयः प्रत्येकं जायाद्वयमभिप्राप्तवन्तः । तस्मा दन्योऽपि विदित्वा द्वितीयां जायां प्राप्नोति ॥ अथ द्वितीयहोममन्त्रं विधत्ते- अग्नये कव्यवाहनाय स्वधा नम इत्याह । य एव पितॄणामग्निः । तं श्रीणाति । इति ॥ सा० भाष्यम् - कव्यं पित्र्यं हविहतीति कन्यवाहनः | तस्य च पितृसंबन्धोऽन्य- त्राप्याम्नातः - “ त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यत्राहनः पितॄणाँ सह रक्षा असुराणाम् " इति । तस्मादेतन्मन्त्रहोमेन तं पित्र्यम में परितोषयति || शाखान्तरगतेन—“ यमायाङ्गिरस्वते पितृमते स्वधा नमः " इति मन्त्रेणैकामाद्भुतिम- भिप्रेत्य त्रित्वं विदधाति - तिस्र आहुतीर्जुहोति । इति ॥ सा० भाष्यम्-तथा च सूत्रकारण स्पष्टमुक्तम्- ' सोमाय पितृपीताय स्वधा नमः , इति प्रथमां दक्षिणाग्नौ जुहोति ' यमायाङ्गिरस्वते पितृमते स्वधा नमः' इति द्वितीयामग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् । इति ॥ यदुक्तं सूत्रकारण-- सव्यं जान्याच्यावाचीनपाणि: सक्कदाच्छिन्ने बर्हिषि दक्षिणापवर्गन्निडान्ददाति | इति ॥ तदिदं विधत्ते-- त्रिनिंदधाति । इति ॥ तदेतदाहुतित्रयं पिण्डत्रयं च मिलित्वा प्रशंसति -- षट्पद्यन्ते ( ३ ) | षड्वा ऋतरः । ऋतूनेव श्रीगाति । इति ॥ ८२ अग्निहोत्रचन्द्रिका | यदुक्तं सूत्रकारेण -- " मेक्षणमुपस्तीर्य तेनाचदायाभिवार्य " इति । तस्य मेक्षणस्याग्नौ प्रहरणं विधत्ते- तूष्णीं मेक्षणमादधाति । अस्ति वा हि षष्ठ ऋतुर्न वा । इति ॥ सा० भाग्यम् – मेक्षणशब्देन प्रादेशमात्रा समिदुच्यते । हविरवदानसाधनं मेक्षणं मन्त्रमन्तरेणाग्नौ प्रक्षिपेत् । शास्त्रेषु पष्ठ ऋतुरस्तीत्येकः पक्षः । षड्वा ऋतवः " इति श्रुतेः । नास्तीत्यपरः पक्षः । “ पञ्चर्तवी हेमन्तशिशिरयोः समासेन " इति श्रुत्य- न्तरात् । अतस्तूष्णीं समिदाधाने पक्षद्वयमप्यनुसृतं भवति । तत्र समिधः प्रक्षिप्तत्वाद- स्तित्वपक्षोऽङ्गीकृतः । मन्त्रराहित्यादभावपक्षोऽङ्गीकृतः ॥ आहुतित्रयं पिण्डत्रयं च प्रकारान्तरेण प्रसंसति - देवान्वँ पितृन्त्रतान् । मनुष्याः पितरोऽनु प्रपिपते । तिस्र आहुतीर्जुहोति । त्रिर्निधाति । षट्संपद्यन्ते । पड्वा ऋतवः । ( ४ ) ऋतवः खलु वै देवाः पितरः । ऋतूनेव देवान्वितन्मीणाति | तान्मीतान् | मनुष्याः पितरोऽनु प्रपिपते | इति ॥ सा० भाष्यम् – द्विविधा हि पितरो देवात्मका मनुष्यात्मकाश्च । पितृलोकस्वामिनो देवात्मका:

। मृताः सन्तो भोगात्तल्लोकं प्राप्ता मनुष्यात्मकाः । तत्र देवात्मकेषु पितृषु

मीतेषु ताननु मनुश्यात्मकाः पितरः प्रपिपते प्रीता भवन्तीति युक्तम् । तदर्थमादौ तिस्र आहुतयः पश्चात्पिण्डत्रयम् । किं चे भयमेलनेन पसंपत्त्या तत्संख्याका ऋतवः संपद्यन्ते । ऋत्वभिमानिनश्च देवाः पितरः । ततश्च संख्यामःत्रेण देवपितृष्ठ प्रीतेषु पश्चान्मनुष्यपितरः प्रीता भवन्ति ॥ विधत्ते-- सकृदाच्छिनं वर्हिति । सदिव हि पितरः । इति ॥ - सा० भाष्यम् - पिण्डानामचस्ता चर्हिरारतीयते तदेकप्रयत्नेनैव च्छेदनीयम् । न तु लवनकाले दात्रस्य पुनःपुनर्व्यापारः | एकेनैत्र दृढेन व्याप.रेण यावदवाच्छिन्नं ताव- देत्राऽऽनेतत्र्यम् । यस्नात्पितरः सकृन्मरणेनैव पितृत्वं प्राप्नुवन्ति । न तु तत्प्राप्तये पुन:- पुनन्तेि || पिण्डदानस्य त्रित्वं प्रशंसति -- त्रिनिंदधाति | तृतीये ना इतो लोके पितरः | तानेव प्रीणांति | इति ।। अग्निहोत्रचन्द्रिका | ८३ सा० भाष्यम् – इतो भूलोकादा रम्यान्तरिक्षलोकमतिक्रम्य यस्तृतीयो लोकस्तत्र पितरो वर्तन्ते । अतस्त्रित्वेन तान्परितोषयति ॥ विधत्ते-- पराङग वर्तते ( ५ ) ह्लीका हि पितरः । इति ॥ सा० भाष्यम् – दक्षिणाभिमुखः पिण्डं दत्त्वा पिण्ड निरीक्षणं परित्यज्य पराङ्मुखो भवेत् । पितॄणां लज्जाशीलन्चात् । लोकेऽपि हि भुञ्जानाः प्रभवो नान्यैवी॑क्ष्यन्ते ।। विधत्ते-- ओष्मणो व्यावृत उपास्ते | उष्मभागा हि पितरः । इति ॥ सा० भाष्यम् – औष्ण्यवशास्पिण्डेषु योऽयमा निर्गच्छति तस्याऽऽ व्यावृतो याक- दुपरमस्तदुपरमपर्यन्तं तथैत्र स्थित्वा सेवेत | पितॄणामृष्मभागिस्बेन तच्छान्तिपर्यन्तं तद्भो- जनकालःवात् || अथ विचारपूर्वकं पिण्डशेषस्य पात्रगतस्याऽऽघ्राणं विधत्ते ब्रह्मवादिनो बदन्ति | माश्यां ३ न माझ्या ३ मिति । यत्मानीयात् । जन्यमन्नमद्यात् । प्रमायुकः स्यात् यन्न प्राश्नीयात् । अहविः स्यात् ( ६ ) पितृभ्य आवृश्च्येत । अवद्येयमेव | तन्नेव प्राशितं नेवाप्राशितम् । इति । | सा० भाष्यम् - विचारार्था प्लुतिः । प्राशनपक्षे बीजभक्षणवददनीयस्याभावात्क्षुधितो यजमानो म्रियेत । अप्राशनपक्षे तु सर्वत्र हविः शेपस्य भक्षणदर्शनाददं हविरेव न स्यात् । अतोऽयं पितृभ्योऽत्रच्छिद्येत । अतो दोषद्वयपरिहाराय पात्रगतमन्नमवजिघ्रदेव । तदवघ्रातं प्राशितमिव न भवति निगरणाभावात् । अप्राशित मिव न भवति तदीयग- न्धस्यान्तः प्रवेशात् ।। यदुक्तं सूत्रकारेण– –“ वाससो दशां छिन्वा निद्वाति” इति । तदेतद्विधत्ते — चीरं वा वै पितरः प्रयन्तो हरन्ति । वीरं वा ददति | दशां छिनत्ति । हरणभागा हि पितरः | पितॄनेव निरवदयते । इति ।। सा० भाष्यम् – पिण्डरूपमन्नं भुक्वा यदा पितरः 'स्वस्थाने प्रयान्ति तदानीमस्य वीरं पुत्रं विद्यमानम्पहरन्ति वाऽविद्यमानं दति वा । पक्षद्वयमपि संभाव्यते । वैकल्ये पुत्रं मारयन्ति । साकल्ये पुत्रं प्रयच्छन्ति । अत्र वैकल्यस्य दुष्परिहत्वात्पुत्रप्रत्याग्ना- · J अग्निहोत्रचन्द्रिका | यत्वेन वस्त्राग्रभीषत्सुत्रं छित्सा पिण्डेषु निदध्यात् । यस्मादपहरणमेव पितरो भजन्ते तस्मा- त्पितॄन्निःशेषभागदानेन विसर्जयति ॥ तत्रैव कंचिद्विशेषं विधत्ते- उत्तर आयुषि लोम च्छिन्दीत | पितॄणा ह्येतर्हि नेयः । (७) इति ॥ सा० भाष्यम् – पञ्चाशत्संवत्सरपरिमितं पूर्वमायुरवशिष्टं तूत्तरम् । तस्मिन्त्रयसि वस्त्रदशा न च्छेत्तव्या । किंतु स्वकीयं लोम च्छित्त्वा तत्र निदध्यात् । यस्मादयमास- नमरण चापितॄणामपि समीपवर्ती तस्मात्तस्मिन्वयस्येतदुचितम् ॥ विधत्ते- 2 नमस्करोति । नमस्कारो हि पितॄणाम् । इति || सा० भाष्यम् – अत्यन्तं प्रिय इति शेषः || तन्त्र मन्त्रे विनियु- नमो वः पितरो रसाय | नमो वः पितरः शुष्माय | नमो वः पितरो जीवाय | नमो वः पितरः स्वधायें | नमो वः पितरो मन्यवे | नमो वः पितरो घोराय | पितरो नमो वः । य एतस्मिँल्लोके स्थ ( ८ ) | युष्मास्तेऽनु । येऽस्मिँल्लोके । मां तेऽनु । एतस्मिल्लीके स्थ | यूयं तेषां वसिष्ठा भूयास्त | येऽ स्मिँल्लोके । अहं तेषां वसिष्ठो भूयासमित्याह । वसिष्टः समानानां भवति । य एवं विद्वान्पितृभ्यः करोति । इति ॥ सा० भाष्यम् – हे पितरो वो युष्माकं यो रसो युष्माभिर्भुज्यमानः क्षीरादिस्तस्मै नमोऽस्तु । एवं सर्वत्र योज्यम् । शुष्मशब्दो बलवाची । जीवो देहाध्यक्षः । स्वधा तदीया स्त्री । पितरो हि स्ववायां प्रीतिं कुर्वन्ति । मन्युः कोपः । घोरो मारणादिव्यापारः । हे पितरो यूयमेतस्मिँलोके स्थितास्तेभ्यो युष्मभ्यं नमः । ये तु युष्मत्तोऽन्ये परकीयपितरोऽ स्मिल्लकै वर्तन्ते ते सर्वे मामनुवर्तन्ताम् | ये यूयं परकीयैः पितृभिः सहास्मिँल्लोके स्थितास्ते यूयं तेषां परकीयपितॄणां वसिष्ठा अतिशयेन निवासहेतवो भूयास्त | ये तु मनुष्या अस्मिल्ले के बर्तन्ते तेषां सर्वेषामहं युष्मत्प्रसादादतिशयेन निवासहेतुर्भूयासम् । इत्येतं मन्त्रं नमस्कुर्थन्पठेत् । यः पुमानेवं नमस्कारमन्त्रं विद्वान्पित्रर्थं पिण्डदानं करोति स एव समानानां मनुष्याणामतिशयेन निवासहेतुर्भवति ॥ पिण्डपितृयज्ञं प्रशंसति --- एष वै मनुष्याणां यज्ञः ( ८ ) | देवानां वा इतरे यज्ञाः । तेन वा एच- पितृलोके चरति । इति ॥ . अग्निहोत्रचन्द्रिका | ८५ - सा० भाष्यम् - द्विविधानां पितॄणां मध्ये ये मनुष्याः पितरस्तेषामेव पिण्डपितृयज्ञः ॥ ये तु देवास्तेषां दर्शपूर्णमासादिका इतरे यज्ञाः । तस्ना देतेन पिण्डपितृयज्ञेनैष पुरुषः पितृलोके चरति ॥ अथ " प्रजापते न त्वदेतानि " इति मन्त्रेण गार्हपत्यदेशं प्रत्य गमनं विधत्ते- यः पितृभ्यः करोति । स ईश्वरः प्रमेतोः । प्राजापत्ययर्चा पुनरैति । यज्ञो वै प्रजापतिः । यज्ञेनैव सह पुनरेंति । न प्रमायुको भवति । इति ॥ सा० भाष्यम् –यः पुमान्पित्रर्थमुक्तं कर्म करोति स पितृप्रियत्वात्सहसा मर्तु सुस- मर्थो भवति । तत्परिहाराय प्राजापत्यमन्त्रेण गार्हपत्यदेशं पुनरागच्छेत् । प्रजापतेर्यज्ञस्र- ष्टृत्वेन यज्ञरूपत्वाद्यशेनैव सह पुनरागतो भवति । अतो न म्रियते ॥ - एतदेव समन्त्रकं पुनरागमनं प्रशंसति - पितृलोके वा एतद्यजमानश्वरति । यत्पितृभ्यः करोति । स ईश्वर आर्ति- मार्तोः । प्रजापतिस्त्वा वैनं तत उन्नेतुमर्हतीत्यादुः । यत्प्राजापत्ययर्चा पुनरैति । प्रजापतिरेचैनं तत उन्नयति । नाऽऽर्तिमार्च्छति यजमानः । ( १० ) । इति ॥ सा० भाष्यम्-पितृभ्यः करोतीति यदस्त्येतेन यजमानः पितृलोक एव संचरति | अत: स यजमानो मनुष्यलोके निस्पृहत्वादत्र पीडां प्राप्तुं प्रभवति । तमेनं प्रजापतिरेक तत आर्तेरुद्धर्तुमर्हतीत्येवमभिज्ञा आहुः । अतः प्राजापत्यमन्त्रेणाऽऽगच्छन्तं प्रजापतिरुद्ध- रति । सोऽप्याति न प्राप्नोति ॥ (१० ब्रा० १ । ३ । १० ) । इति ॥ इति पिण्डपितृयज्ञविधानम् । अथ पिण्डपितृयज्ञसूत्रम् | अमात्रास्यायामपर।ह्णे पिण्डपितृयो दक्षिणाग्निरे कोल्मकं प्रदक्षिणा प्रणयेद्ये रूपाणि प्रति- मुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टॉल्लोकात्प्रणुदात्वस्मा- दिति सर्वकर्माणि तां दिशमुपसमाधायोभौ परिस्तीर्य दक्षिणाः प्र गुदक्प्रत्यगुदग्वैकैकशः पात्राणि सादयेच्चरुस्थली शूर्पर फ्योलखलमुसलस्वध्रुवकृष्णाजिनसकृदाच्छिने ममेक्षण कम- ण्डलून्दक्षिणतोऽग्निष्टमारुह्य चरुस्थाली हीणां पूर्णा निभृजेत्परिसन्नान्निध्यात्कृष्णाजिन उलूखलं कृत्वेतरान्पत्न्यवहन्यादविवेचमबहतान्सकृत्प्रक्षाल्य दक्षिणामौ श्रपयेदर्वागतिप्रणी- तात्स्फ्येन लेखामुलिखेदपहता असुरा रक्षांसि बेदिषद इति तामभ्युक्ष्य सकृदाच्छिन्नैरव स्तीर्याऽऽसादयेदभिवार्य स्थालीपाकमाज्यं सर्पिरनुत्पूतं नवनीतं वोपूतं ध्रुवायामाज्यं कृत्वा दक्षिणत आञ्जनाभ्यञ्जनकशिपूपवईणानि प्राचीनावी ती ममुपसमाधाय मेक्षणेनाऽऽदाया८६ अहोचन्द्रिका | वदानसंपदा जुहुयात्नोनाय पितृनते स्वधा नमोऽमचे कव्यवाहनाय स्वधा नम इति स्वाहाकारण वा पूर्व यज्ञोपवीती मेक्षणमनुप्रय प्राचीनावती लेखां त्रिरुइकेनोपन - येच्छुन्धन्तां पितरः शुन्वन्तां पितामहाः शुन्धन्तां प्रपितामहा इति तस्यां पिण्डान्निपणीया. परराचीनपाणिः पित्रे पितामहाय प्रपिता महायैतत्तेऽसौ ये च त्वामत्रान्विति तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानर्चयेत्तदर्थत्वात्सर्वेभ्य एव निरृणीया- दिति तैललिः क्रिगुणत्व दपि जीवान्त आ त्रिभ्य: प्रेतेभ्य एव निटणीयादिति गौतमः क्रिया ह्यर्थकारितोपाय विशेषो जीवभूतानां न परेभ्योऽनधिकारान्न प्रत्यक्षं न जीवेभ्यो निटणीय न्न जीवान्तर्हितेभ्यो जुहुयाजवेभ्यः सर्वहुतं सर्वजीबिनो नामान्यविद्वां-- स्ततपितामहप्रपितामहंति ॥ ६ ॥ निवृताननुमन्त्र्येतात्र पितरो मादयध्वं यथाभ्यगमावृप यध्वमिति सव्यावृदुदङ्ङ्गवृत्य यथा- शक्त्यप्राणन्नःसित्वाऽभिपर्यावृत्यामी मदन्त पितरो यथाभागमावृषायीपतति चरोः प्राणभक्षं भक्षयेन्नित्यं निनयनमसाबभ्यड्वा सावड्वेति पिण्डेष्वभ्यञ्जनाञ्जने वासो दच्चादशामूर्णास्तुकां वा पञ्चाशद्वर्षताया ऊर्ध्वं स्वं लोनेतद्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युङ्क्ष्वमित्यथैनानु - पतिष्ठेत नमो वः पितर इपे नमो वः पितर ऊर्जें नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय | स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवावो जीवन्त इह सन्तः स्याम । मनोऽन्वाहुवामह इति च तिसृमिरचैनान्प्रवाहयेत्परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः । दत्त्वःयास्मभ्यं द्रविणेह भद्रं रवि च नः सर्वधरं नियच्छतेयनिं प्रत्येयादग्ने तमद्याश्वं न स्तोमैरिति गार्हपत्यं यदन्तरिक्षं पृथिवीमत द्यां यन्मातरं पितरं वा जिहिंसिम । अग्निर्मा तस्मादेनसो गार्ह त्य: प्रमुञ्चतुं करोतु म. मनेनसं पोरं मे दत्त पितर इति पिण्डानां मध्यमं पत्नी प्राशयेदाधत्त पितरो गर्न कुमारं पुष्करस्रजम् | यथाऽयमरपा असदित्यस्त्रि- तरावतिप्रणीते वा यस्य वा गन्तुरन्नकाम्याभावः स प्राश्नीयान्महारोगेण वाऽभितप्तः प्राश्नी.. यादन्यतरां गतिं गच्छत्येत्रमनाहिताग्निर्नित्ये श्रपयित्वाऽतिमणीय जुहुयाद् द्विवत्पात्राणामुत्स- र्गस्तॄणं द्वितीयमुद्विक्ते ॥ ७ ॥ इति पिण्डपितृयज्ञसूत्रम् | अग्निहोत्रचन्द्रिका | अथ ज्ञाप्यवृत्तिसमेतं पिण्डपितृयज्ञमूत्रम् | अमावास्यायामपराह्णे पिण्ड पितृयज्ञः ॥ १ ॥ दे० भाष्यम् – अमावास्यायां वा यजमानाधिकारादिहयज्ञशब्देऽपि प्रयोगसंज्ञा विधी- यते । याजमानस्यात् । अथवाऽग्निहोत्रादनन्तरं दर्शपूर्णमासयोरिग्याकालो भवति तौ च्याख्यातौ तयोरिज्याकाले पितृयज्ञो विधीयते तदङ्गत्वादमावास्यायां तिथाबह्नश्चतुर्थ- भागं दर्शयति । तस्नादर्शाङ्गं भवति । अङ्गत्वादृष्टचन्द्रायामपि क्रियते पितृयो याबापू- थिव्यावयने कुण्डपायिनामयने च क्रियते । एवं बौधायनोऽपि प्रवत्ततोऽन्येषां तुल्याङ्गं स्वकालविधानाच्चन्द्रादर्शने दृश्यमाने तु नान्येशं क्रियते । अक्रियमाणेऽपि दर्शः क्रियते कुण्डपायिनामयनादिषु च न क्रियते || १ || वृत्तिः—अमावास्याशब्दः प्रतिपत्पञ्चदश्योः संधिवचनोऽप्यत्रापराह्न शब्दसमन्वयात्तद्व- त्यहोरात्रे वर्तते । तस्यापराह्णेऽह्नश्चतुर्थे भागे पिण्डपितृयज्ञः कर्तव्य औपबसथ्येऽहनि यज- नीये चेत्स्वार्थ एव दक्षिणाग्निः प्रणीयते । यदा पुनरहोरात्रसं तिथिसंधिः स्यात्तदौपच सध्य एवाहनि क्रियते ॥ १ ॥ दक्षिणाशेरेकोल्सुकं माग्दक्षिणा प्रणयेद्ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परा पुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्मणुदात्वस्मा- दिति ॥ २ ॥ 1 दे० भाष्यम् - दक्षिणा मेर्दशर्थे बिहारः क्रियते । एवं बिहार एवं चोदना दक्षिणाम्नेस्तस्मा दक्षिणाग्नेरेकोल्नुकग्रहणःद्विशाखं न भवति प्राग्दक्षिणस्यां दिशि प्रणयेचे रूपाणीत्यनेन मन्त्रेण । कर्मादाचेवातिप्रणयनोपदेशादतिप्रणीत इह प्रधानः प्रधानत्वादविशेषत्र वनाच्चा- तिप्रणीते होममन्येषां हुत्वाऽतिप्रणयनम् | नचापसंधानं न च परिस्तरणं पश्चाद्दक्षिणाग्नेः स्थालीपाकस्य सदनाद्येपां दक्षिणाम होमस्तेषां हुवाऽतिप्रणयनं चोपलंधानं न च परि- स्तरणम् ॥२॥ वृत्तिः– एकोल्मुकमेकतः प्रदीप्तमुल्मुकं प्रारदक्षिणा माग्दक्षिणस्यां दिशीत्यर्थः । दक्षिणाग्नेः सकाशादेकोल्मुकं गृहीत्वा तस्मादेव प्राग्दक्षिणस्यां दिशि प्रणयेत् 'ये रूपाणि ' इत्यनेन मन्त्रेण || २ || सर्वकर्माणि तां दिशम् ॥ ३ ॥ दे० भाष्यम् – आसादनहोम निपरणोपस्थानादीनि तां दिशं प्रारदक्षिणां दिशमभि कर्तव्यानि नित्या इत्येतस्यापवादः । सर्वग्रहणार्हपत्यपस्थानस्यापि प्राप्तिः ॥ ३ ॥ अग्निहोत्रचन्द्रिका | वृत्तिः - अविशिष्टदिक्कानि सर्वाणि कर्माणि तामेव प्राग्दाक्षणां दिशमभिमुखानि कर्तव्यानि ॥ ३ ॥ उपसमाधायोभौ परिस्तीर्य दक्षिणानेः प्रागुदक्प्रत्यगुदग्वकैकशः पात्राणि सादयेच्चरुस्थात्लिशूर्पस्फ्योलूखलमुसलस्रुव ध्रुवकृष्णाजिनसकृदाच्छिन्नेथ्ममेक्षण- कमण्डलून् ॥ ४ ॥ दे० भाष्यम् - उपसमाधाय सुसमिद्धं कृत्वोभौ परिस्तीयभावनी दक्षिणाम्यति- प्रणीतौ परिस्तरणं कृत्वा परि समन्ततः स्तरणं तद्गृह्ये वश्यति । अतिप्रणीताधिकारादु भावित्युच्यते तत्र दक्षिणाम्न्यतिप्रणीतयोः परिस्तरणम् । विहाराङ्गानुक्रमादतिप्रगीतस्य चा प्रथमं प्रधानत्वात्प्रधाने होमो भवति दक्षिणाग्न वा स्माद्दाक्षतणाग्नेः प्रागुदीच्यां. दिश्येकैकमेकैकशः पात्राणि यानि वक्ष्यामस्तानि सादयेन्स्थापयेत्कानि चरुस्थालीस्येत्रमा- दीनि । उभयोरधिकारादक्षिणा त्याह । द्वन्द्व पात्राणि प्रयुक्तीति प्रकृतौ तस्मादेर्केक- मित्याह । एकैकशोबचनात्प्रोक्षणादिपात्रसंस्कारः प्राप्तः पात्राणि वक्ष्यन्ते चरोः स्थाली चरुग्रहणादाज्यस्थ'ल्याः प्रतिहः शूपं स्फ्योवहननार्थमुलूखलं मुसलं च स्रुवश्च ध्रुवा च कृष्णाजिनं च समूलं बर्हिः सदाच्छिन्नं भवति सकृच्छिन्न इध्मः पञ्चदशो भवति आघारसमिधावनूयाजकी चार्थाल्लुप्यन्ते । मेक्षणं होमार्थं कमण्डलुरुदकार्थम् ॥ ४ ॥ वृत्तिः– उभयोर युपसमाधानं परित्तरणं च कर्तव्यं मध्यगतस्योभा बितिशब्दस्य विशेषसंबन्धे कारणाभावात् । पात्राणीति चरुस्थाल्यादीन्युच्यन्ते । तेन शब्देन संव्यवहा- राथ चरुवपणार्था स्थाली चरुस्थाली चरुस्थालीध्रुवाशब्दयोश्छन्दसं ह्रस्वत्वम् | एकेन्द्र प्रयत्नेन च्छिन्नाः कुशा: सदाच्छिन्नाः ॥ ४ ॥ दक्षिणतोऽग्निष्ठमारुह्य चरुस्थालीं श्रीहीणां पूर्णा निमृजेत् ॥ ५ ॥ - दे० भाष्यम् – दक्षिणतो दक्षिणाग्न्यधिकारस्तस्माद्दक्षिणा नदक्षिणतो दक्षिणस्य दिश्यग्निउं शकटं प्रांगेव स्थापितं भवति तमारुह्य चरुस्थाली त्रीहीणामेव न यवानां पूर्णां सर्ती निमृजेत्पाणिना निमाटिं शिष्टानपनयति ॥ ५ ॥ - वृत्तिः - निमृज्यादिति प्राप्ते निमृजेदिति च्छान्दसः | अग्निसमीपे तिष्ठतीत्यग्निष्ठ शकटम् । प्रयाणकाले वाऽग्नयो यत्र तिष्ठन्ति तदग्निष्ठम् । दक्षिणत आरुह्य तत्रैव शूर्पे स्थाळी निधाय ब्रीहिमिरपुरयेत् तां पुर्णां निमज्यायपरितनाद्विलदेशाच्छ्पपरि पतन्ति ॥ ५ ॥ १ अभावः । अचन्द्रिका | परिसन्नान्निध्यात् ॥ ६ ॥ - दे० भाष्यम् - परिमन्नान्निध्याचे परिशीणस्ताञ्शकटे निदध्यात् । एवमनुष्य- माने परिसन्न/नामेबाबहननादिसंस्कार : मानति तूष्णीं निभृजेत् ॥ ६ ॥ वृत्तिः—स्थास्यास्यदेशाच्छ्रे ये पतन्ति तान्त्रीही परिसन्नाञ्शकटे निद- भ्यात् ॥ ६ ॥ कृष्णाजिन उलूखलं कृत्वेतरान्पत्स्यवहन्यादविवेचम् ।। ७ ।। दे० भाष्यम् दक्षिणत इत्यधिकारोऽदक्षिणतः प्रत्यगुदग्ग्रीवमुत्तरलोमकृष्णाजिनना- स्तीर्य तस्मिन्नुलखलं कृत्वा स्थापयित्वेतरान्स्थास्यन्तर्गतान्त्री हीन्यान्यवन्यान्निस्तुषाकु- र्याप रेसन्नाधिक'रादितरानिति । इतरग्रहणं कर्तुरावकारात्पन्नीग्रहण मविवेचनविविध्याविवि- ब्येमे व्रीहय इमे तण्डुला इति विवेकमकृत्वाऽहननम् ॥ ७॥ वृत्तिः–कृत्वा निध।येत्यर्थः । इतरान्स्थ ल्यन्तरगतानित्यर्थः । अविवेचम् । अत्रिवि- घ्याविविध्येत्यर्थः ॥ ७ ॥ अवहतान्सकृत्मक्षाल्य दक्षिणामौ श्रपयेत् ॥ ८ ॥ दे० भाष्यम् - पुनरवहननग्रहणात्फ ली करणप्रतिपेचस्तस्मात्तथाऽवहन्यते यथाऽमी कृता एव भवन्ति सकृत्प्रक्षालनमित्युक्तमन्येषा व्रीहिमिश्रा नेव सकृत्प्रक्षाल्य ततः प्रक्षालनमन्यत्र दक्षिणाझौ स्थाढीपाकं श्रपयेद्दक्षिणाग्न्यधिकारे पुनर्दक्षिणान्निग्रहणं नियमार्थं तेन दक्षिणाम होमो नातिप्रणीते ॥ ८ ॥ वृत्तिः—अत्रहतेष्वबहतवचनं फली करगनिवृत्यर्थम् | दक्षिणाग्न्यधिकारेऽपि दक्षि णाम्नौ श्रपयेदिति श्रपणवचनं वचनाहते गार्हपत्य एव श्रपणनितिज्ञापनार्थम् ॥ ८ ॥ अर्वागतिप्रणीतात्स्फ्येन लेखामुल्लिखेदपहता असुरा रक्षांसि वेदिषद इति ॥ ९॥ दे० भाष्यम् - अगतिप्रणीताद तिप्रणीतादग्रव, देशे स्फोन वत्रेण लेखामुलिखे- दपहता इत्येतेन मन्त्रेण दक्षिणाग्न्यधिकारादतिप्रणीतग्रहणम् ॥ ९ ॥ वृत्तिः–दक्षिणाग्न्यतिप्रणीतयोरन्तरल उल्लिखेदित्यर्थः ॥ ९॥ तामभ्युक्ष्य सदाच्छिन्नैरवस्ती र्याऽऽआसादयेदभिघार्य स्थालीपाकमाज्यं सर्पिरनुत्पूतं नवनीतं वोत्पूनं ध्रुवायामाज्यं कृत्वा ॥ १० ॥ दे० भाष्यम् – तामभ्युक्ष्य तां लेखामुदकेन / भ्युक्ष्यानन्तरं सदाच्छिनैस्तृणैरव- स्तीर्याऽऽसनं कृत्वाऽनन्तरं वैद्य मासादयेत्तमभिघार्थ स्थली पाकमासादयेल्लेखाधिकारे पुन स्तामिन्याह तो नामिति बीप्स यत्र लेखाद्वयं भवति पितृभ्यो दद्यास्त्रीभ्यश्चेत्यत्राऽऽज्यं १२ ९० अग्निहोत्रचन्द्रिका | सर्पिर्घृतं तदाज्यसंज्ञं भवति तच्चोत्पूतं भवति नवनीतस्योत्पवनं कर्तव्यभेकपवित्रेण सकृदुत्पवनं तूष्णीकं मन्त्रोपदेशाभाव त् । गृह्योपदिष्टो विधिरिह न प्राप्नोति यदि प्रामु यादवदानसंपदा जुहुयादिति न वक्तव्यं ध्रुवायामाज्यं कृत्वा तदाज्यमन्यस्मिन्पात्रे संस्कृ त्योत्पूयानुत्पू वा ततो ध्रुत्रायामाज्यं कृत्वा ध्रुवामासादयेत्पुनराज्यग्रहणाद्धौवमपि बाऽऽज्याभिघारणप्रत्यभिघारणार्थं च भवति कृत्वेति साकाङ्क्षत्वाद्वाक्यस्याऽऽसादयेदित्य- भ्याहारो भवति ॥ १० ॥ - - वृत्तिः—आज्यं सर्पिरियादिर्ध्रुवायामाज्यं कृवा दक्षिणत इत्येवमन्तः पदसमूह आसा- दयेदभिघार्येत्यस्मात्पुरस्तादर्थतो द्रष्टव्यः । तेनायमर्थः - तां लेखामभ्युक्ष्य सकृदाच्छिन्नैरव- स्तीर्याऽऽज्यं सर्पिगृहीत्वा ध्रुवायां कृत्वा दक्षिणतो दक्षिण निर्धाय तेनाऽऽज्येन स्थाली- पाकमभिघार्य दक्षिणःग्नेः पश्चादासादयेत् । यदि नवनीतमाज्यकायार्थं स्यात्तदाऽस्य विला- पनमात्रं कृत्वाऽस्मिन्पात्र अ.नीय पवित्राभ्यां तूष्णीमुत्पूय ततो ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेनैवाय तेनाभिघार्येयादि समानम् द्वितीयाज्यग्रहणस्थेदं प्रयोजनं पात्रान्तरस्थ- मुत्पूय पश्चाद्भुत्रायां ग्रहगमित्येव नर्थम् । पूर्वमग्रहणं का लक्षणार्थम् । सर्पः पक्कं नव- नीतमपक्कन् ।। १० । दक्षिणत आञ्जनाभ्यञ्जनकशिपूपबर्हणानि ॥ ११ ॥ दे० भाग्यम् – दक्षिणतो लेख. या दक्षिणतो दक्षिणस्यां दिश्यञ्जनादीनि स्थापये- दञ्जनं त्रैककुदं श्रुतःञ्जनं वाऽन्यत्र दक्षिणादिषु प्रयुक्तत्वाल्लौकिकं वा भवति । अविशेष. बचनादम्पञ्जनं जर्णिं घृतं भवति ।' आयुतं पितॄणाम् ' इति श्रुतिः। उपबणं शिरो- पधानं भवति । एतानि दक्षिणत उपकल्पयेत् ॥ ११ ॥ वृत्तिः——दक्षिणत इत्यत्रापि संबध्यते विशेषाग्रहणादपेक्षित्वाच्च । अञ्जनादीनि च दक्षिणतो दक्षिणाग्नेनिंदध्यात् । पूर्वसूत्रे यथाक्रमेण सूत्रप्रणयनं दक्षिगत इत्यस्योभया- र्थत्वायैव ॥ ११ ॥ प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनाऽऽदायावदानसंपदा जुहुयात् सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति ।। १२ ।। दे० भाष्यम् – प्राचीनावीती प्राचीनावीतमाचारशास्त्रसिद्धं प्राचीनावती भूत्वा इध्म इन्धनसिद्ध्यर्थमुपसन्नः सव्यं जान्वाच्य समस्तं तूष्णीमाधाय प्रक्षिप्य मेक्षणेन चरोरादायावदानं गृहीत्वाऽवदानसंपदा मध्यात्पूर्वार्धच्च हविषोऽवद्यात प्रत्यभिचार्य हवि- रवत्तं चैपोऽवदानधर्म इति तयाऽत्रदानसंपदाऽऽदाय जुहुयादेवंभूत इति स्रुवेणाऽऽ- दाने प्राप्ते मेक्ष गेनाऽऽदाये युच्यते तत्राभिधारणप्रत्यभिवारगे स्रुषेण कर्तव्ये प्रतिषेधाद्गृह्य- विहितो विधिरिह न प्राप्नोति तस्मादवदानसंपद्विवीयत सोमाय पितृमत इत्येताभ्यां द्वे अग्निहोत्रचन्द्रिका | ९१ आहुती भवतः स्वाहाकारान्त इति प्राप्त स्वधा नम इति विधीयते पिव्यायामप्येक एक वषट्कारः स्वाहाकारः स्त्रयमपवाद उत्तरत्र स्वाहाकारेण वा जुहुयात् ॥ १२ ॥ । वृत्तिः—इघ्नः पञ्चदशसंख्याकः | नेक्षणेनाऽऽदाय तेनैव जुहुयादवदानसंपदा । अव• दानसंपन्नामोपस्तरणं द्विरवदानं प्रत्यभिचारणं च | त्येन्थंभूतं जुहुयात् | नात्र स्वाहा - कारः स्वधा नमःशब्दस्य प्रदानार्थ-वात् ॥ १२ ॥ स्वाहाकारेण वाऽग्निं पूर्व यज्ञोपवीत ॥ १३ ॥ दे० भाष्यम् – यदा स्वाहाकारेण तदाऽजुहुयात् । अनन्तरं सोममिपसमा- धानादि यज्ञोपवीती वा भवति । अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति विक सोऽयं व्यवस्थितोऽथाग्नौ जुहोति यथोक्तं पुरस्तादिति प्राप्त आभ्युदयिके यज्ञोपवीती भवति । जुहुयाज्जीवेभ्य इत्येतस्मिन्पक्षे स्वाहा कारेण होमो भवति यज्ञोपवीती वा ॥ १३ ॥ वृत्तिः-

- स्वधा नमः शब्दस्य स्थाने स्वाहाशब्दं वा कृत्वा जुहुयात् । अस्मिन्पक्षे

मन्त्रविपर्ययो व्यत्यासो यज्ञोपवीतत्त्वं च भवति । अग्निं पूर्वमिति 1: ' अग्नये कव्यवाहनाय ' इत्येतं मन्त्रं पूर्वं कुर्यादित्यर्थः ॥ १३ ॥ मेक्षणमनुप्रहृत्य प्राचीनावीती लेखां विरुद्केनोपनयेच्छन्थन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति ॥ १४ ॥ - ५० भाष्यम् – मेक्षणानुप्रहरणं तदनु मेक्षणमग्नौ होमान्त एत्र प्रहृत्य प्रक्षिप्या- नन्तरं यज्ञोपत्रीतपक्षेऽपि प्राचीनावी ती भृत्वा लेखां त्रिषु स्थानेषूइकेनोप समीपे निन- येत्तिञ्चेच्छुन्धन्तामित्येतैत्रिभिर्भन्त्रैर्भेक्षणमनुप्रहः यै तस्माःसंबन्धवचनाद्धोमस्य पिण्डदानस्य यज मान एत्र कर्ता भवति । अन्येषां तु होमान्तमध्वर्युः कुर्यादित्युक्तं नामान्यविद्वांस्ततपिता- महप्रपितामहेति वचनाद्यजमानः कर्ता भवति ॥ १४ ॥ वृत्तिः प्राचीनादीतीग्रहणं स्वाहाकारपक्षेऽपि मेक्षणानुपहरणोत्तरफालं प्राचीनावी- तित्वप्रापणार्थम् । उभयस्मिन्पक्षेऽपि मेक्षणमग्नावनुप्रहर्तन्यमेव । त्रिभिर्मंन्त्रै स्त्रिर्निनयेत्पिण्ड स्थानेषु ॥ १४ ॥ तस्यां पिण्डानापराचीन पाणिः पित्रे पितामहाय प्रपितामहायैतत्तेऽसौ ये च त्वामत्रान्विति ॥ १५ ॥ - दे० भाष्यम् – पिण्डदानभेतस्यां लेखायां चरोरूष्माणं गृहीत्वा त्रिः पिण्डान्निवृणीया- निक्षिपेत्पराचीनपाणिर्यस्य स्रोऽयं पराचीनपाणिः । पराचीन पाणिर्भूत्वाऽन्तरेण ङ्गुष्ठमङ्गुलीश्च पितृतीर्थं तेन निटणीयात्पित्रे प्रथमं पिण्डं निपूणीयात्पितामहाय द्वितीयं प्रपितामहाय तृतीयमेतत्त इत्यनेन मन्त्रेणासावित्यष्टम्या विभक्या नाम गृह्णीयादेतत्ते भवत्रात ये ९२ अग्निहोत्रचन्द्रिका | च त्वामत्रान्विति । एतत्ते भवत्रात इत्येव गृह्णाति । यदि द्विपिता स्यात्तदैकैकस्मिन्पिण्डे द्वौ द्वावुपलक्षयेदियुक्तमन्येपामस्माकमपि श्राद्धे वक्ष्यति ॥ १५ ॥ वृत्तिः—अधिकृतायां लेखायां लेखासंप्रत्ययार्थं तस्यांग्रहणं क्रियते नाधिकाराल्लेखा संबन्धोऽस्तीतिज्ञापनार्थम् । तेन हविरासादनमग्नेः पश्चादिति साधितं भवति तथैवोक्तं च । निवृणीयाद्दद्यादित्यर्थः । निपरणं पित्र्येणैव तीर्थेन । पाणेरुत्तानत्वमजहदेव पित्र्येग तीर्थेन यदा कुर्यात्तदा पराचीनपाणिर्भवति । अनावित्यस्य स्थाने संबुद्ध्यन्तानि पित्रादीनां नामानि गृह्णीयात् ॥ १५ ॥ एवमविशेषेग पिण्डदानमुक्तन् । तत्राऽऽचार्या विप्रतिपद्यन्ते - तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानर्चये- त्तदर्थत्वात्॥ १६ ॥ दे० भाष्यम् –तस्मै तस्मा इत्याचार्यपक्ष इयं विचारणा | तस्तै तस्मै निघृणीयादेपां त्रयाणां प्रेताः सुर्भचेयुरिति गाणगारिराचार्यो मन्यते प्रत्यक्षमितरानर्चयेत् । प्रेतेभ्यो निवृते जीवेभ्यः प्रत्यक्षमर्चयेत्पूजयेद्गन्धमाल्यवृपदीपाच्छादनभोजनैः । कस्मादेतत्तदर्थत्वा- क्रियायाः । पित्रर्थे हि सा पितृमीणनार्थत्वात् । न च जीवा निपरणेन प्रत्यक्षार्चनेन तु प्रीयन्ते तस्मात्तप्रीणनार्थत्वात् ॥१६ ॥ जीवानां च प्रेतानां च निपरणमुक्तं तत्प्रतितितौलिराचार्य:- येतेभ्य एव निष्णीयादिनि तौल्वलिः क्रियागुणत्वात् । अपि जीवान्त आ त्रिभ्यः पितृभ्य एव निवृणीयात् ॥ १७॥ दे० भाध्यम् – मेतेभ्य एव निवृणीयान जीवभ्य इत्येव तौल्बलिराचार्यो मन्यते । कस्माद्धेतोः क्रियागुणत्वाकियाय: कर्मणि गुणभृता: प्रेता न जीवा गुणभृता निप- रणेन गुणभूताः प्रीयन्ते । तस्माक्रियागुणत्वात्प्रेतेभ्य एव निपरणम् | अपिशब्दः समुच्चयार्थ: । त्रयोऽधिकृता अपि जीवो न विद्यते तस्माज्जीवान्तात्प्रभृति त्रिभ्य एतेभ्यः पितृभ्य एव निष्पृणीयादिति तौल्य लिरिति वर्तते । त्रिग्रहणमधिकृतेभ्योऽपि भवति त्रिभ्यो दद्यादिति श्रुतिः सप्तपुरुषाणामितो विज्ञायते ॥ १७ ॥ सर्वेभ्य एव निपूणीयादिति गौतमः क्रिया द्यर्थकारिता ॥ १८ ॥ - दे० भाष्यम् – जीवानां प्रेतानां च निपृणीयादिति गौतमो मन्यते सर्वेभ्य एत्र प्रेतेभ्यो जीवभ्यो निवृणीयादिति गौतम आचार्यो मन्यते कस्माद्धेतो; क्रिया हार्थकारिता ह्रीति हेत्वर्थे । क्रिया हि यस्मादर्थकारिता ॥ १८ ॥ अग्निहोत्रचन्द्रिका | ९३ तस्मै तस्मा इत्यारभ्यार्थकारितेत्यन्तानि त्रीणि सूत्राणि भाष्यकारोऽ- बीभषत् । तानि प्रादर्शयम् । वृत्तिकारस्त्विमानि सूत्राण्यन्यथैवावीत- द्यथा तथा व्याख्यानेऽपि न कांचिदपि शास्त्रार्थहानिं पश्यामः | यद्यपि न शास्त्रार्थहानिस्तथाऽपि भाष्यवृत्तिकारयोर्ब्रन्थं न वयमन्यययितुं प्रभवाम इति तथैव तद्ग्रन्थं निर्दिशामः | परं: यथावद्भेदं सौलभ्ये नावगमयितुं पार्थक्येन वृत्तिकारग्रन्थमुपनिवघ्नीमः । तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानर्च येत्तदर्थत्वात् । वृत्तिः—त्रयाणां मध्ये प्रेतानां पिण्डदानं जीवनां प्रत्यक्षार्चनमिति गाणगारेर्मतं पितृप्रीत्यर्थत्वात्कर्मण इति । सर्वेभ्य एव निवृणीयादिति तौलवलिः क्रियागुणत्वात् । वृत्तिः– पित्रादिभ्यस्त्रिभ्यः प्रेतेभ्यो जीवद्भ्यश्च सर्वेभ्यो निपरणं तौरवलिर्मन्यते । क्रिया- यामुद्देशकारकत्वेन च गुणभृताः पितरो न तेषां प्रीतिः शस्त्रनो लाकतोऽवगम्यत इति । अपि जीवान्त आ त्रिभ्यः प्रेतेभ्य एव निवृणीयादिति गौतमः क्रिया ह्यर्थ- कारिता | - वृत्तिः— आदिमध्यान्तशब्दैः पितृपितामहप्रपितामहा उच्यन्ते | जीवोऽन्तो यस्य स जीवान्तः । अपिशब्देन जीवादिर्जीवमध्य इत्यपि लभ्यते जीवसर्व इति च । अत्र त्रयाणा- मेकस्मिन्द्वयोः सर्वेषु वा जीवत्सु वा यावदर्थ पररान्पित गृहीत्वा तेभ्यस्त्रियो दयादिति गौतमो मन्यते । क्रिया ह्यर्थकारिता | मरणपदार्थप्रवृत्ता यस्मात्क्रियेत्यर्थः 1 1 उपायविशेषो जीवमृतानाम् ॥ १९ ॥ दे० भाष्यम् – एत उक्तपक्षा: सदोषा इदानीमन्य उपायविशेषो जीवानां च मृतानां च वक्ष्यते । प्रतिज्ञानमेतत् ॥ १९ ॥ वृत्तिः–पित्रःदीनां जीवानां मृतानां च पिण्डदान उपायविशेषो वक्ष्यत इत्यर्थः ॥१९॥ न्यस्ता पक्षान्द्पवितुमाह - - न परेभ्योऽनधिकारान्न प्रत्यक्षम् | न जीवेभ्यो निवृणीयात् ॥ २० ॥ दे० १० भाष्यम्-न परेभ्योऽनधिकारात्पित्रे पितामहाय प्रपितामहायेत्येत एवाधिकृता न परे । न प्रत्यक्षं गाणगारिणा प्रत्यक्षमितरान र्चयेदिति तदपि न कस्मादनाधिकारादेव । अनधिकृतं हि प्रत्यक्षमर्चनं होमोऽधिकृतो निपरणं च न जीवेभ्यो निपृणीयात् । यदुक्तं सर्वेभ्य एव निवृणीयादिति तपक्षे जीवान्तर्हितेभ्यस्तदपि न कस्मादनविकारादेव सर्वजीविन ९४ अग्निहोत्रचन्द्रिका | इति वचनान पित्रे दानं जीवते: । तदपि न कस्मादनधिकारादेव । अनधिकृतं हि प्रत्यक्षमर्चनं होमोऽधिकृतो न निपरणं न च जीवेभ्यो निपूणीयात् । यदुक्तं गौतमेन तत्सर्भेभ्य एव नितॄणीयादति । तःपक्षे जीवन्तर्हितेभ्यः । तदपि न कस्मादनधिकारादेव सर्वद्भुतं सर्वजीवित इति वचनान्न पित्रे दानं जीवते । न जोवान्तर्हितेभ्यः । तौल्वलिपक्ष एव विशिष्टः । अप्रतिषेध एव निवृणीयादिति तस्मिन्पक्षे जीवितान्तर्हितेभ्यश्चैतेभ्यो निपरणे प्राप्ते प्रतिषेधः ॥ २० ॥ i ● वृत्तिः— गौतमगाणगारितौल्बलीनां कमेण दूषणानं ॥ २० ॥ न जीवान्ताहतेभ्यः ॥ २१ ॥ दे० भाष्यम् – जीत्रेनान्तर्हिता जीवान्तार्हताः प्रेतास्तेभ्यो न दद्यात्कस्मादनधिकारादेव पिन र जीवति पुत्रोऽनधिकृतो भवति । पितवोत्तरेषां ददाति न पुत्रः | होमान्तं कृत्वा विरमति । अन्येषां पुनरुक्तं येभ्य एव पिता ददाति तेभ्यः पुत्रो ददाति । तदप्युक्तं तौल्बलिना। एवं सर्व इभे पक्षा आरम्य प्रतिषेधाद्विकासिता भवन्ति ॥ २१ ॥ } वृत्तिः - जीवव्यवहिलेभ्यो नर्थः सर्वव्यापीदं दूपणम् । सर्वज्ञान- धिकारादित्ययमेव हेतुः । अनधिकारादयोग्यत्वादित्यर्थः । कचिद्विध्यभावात्कचिनिषेधाद- योग्यत्वभवगम्यते ॥ २१ ॥ जुहुयाज्जविभ्यः ॥ २२ ॥ दे० भाष्यम् - इदानीमुपायविशेषो जीवमृतानां वक्ष्यते तत्रलिपक्षे जीवान्तर्हितेभ्यः प्रतिषेध उक्तो जीवान्तर्हितेषु जीवपितृकस्य ' आ त्रिभ्यो दद्यात् ' इति श्रुतिः। तस्मा- दिदमुच्यते प्रेतेभ्यो दद्याज्जुहुयाञ्जीवेभ्य: प्रेतेभ्यो येऽन्तरास्तत्र जीवा इत्येतेभ्यो दद्यात्प्रे- तेभ्यो दद्यार्ज्जीवेभ्यो होमदर्शनाज्ञ्जीत्रेभ्यः सर्वत इति न्यायेन जीवेभ्यः पाणिना तूष्णीमे- बानौ जुदुथादेवं विधिना जीवानां च प्रेतानां च विधिः कृतो भवति । एप विविविशिष्ट उपाय उक्तः ॥ २२ ॥ 6 वृत्तिः - अयमुपाय विशेष उच्यते-जीवेभ्यो जुहुयात्प्रेतेभ्यो निवृणीयादित्यर्थः । ' न जीवन्तमतीत्य दद्यात् ' इत्यत्रापि निपेषोऽस्ति । तेन जीवपितुर्जीव पितामहस्य जीवोभ- यस्य वाऽयमपि पक्षो नास्ति । तत्र होमान्तमनारम्भो वा ॥ २२ ॥ अथ सर्वेषु जीवत्सु कथमित्याह - सर्वहुतं सर्वजीविनः ।। २३ ।। दे० भाष्यम् – सर्वेषु जीवसु जुहुयादेवाऽऽहुती हुत्वा सर्वमन्ना अनुप्रहरेद्धोमान्तं सर्व- अग्निहोत्रचन्द्रिका | ९५ नीविन इति सिद्धम् । सर्बहुत निति वचनाज्जीवानां होन उपदिशे भवति सर्वजीविनाने तद्भवत्यन्येषामप्युक्तं जीवपितृकस्य होनान्तमनारम्भो वा ॥ २३ ॥ -- वृत्तिः – सर्वहुतमिति । सर्वे पिण्डा होता इत्यर्थः । पिण्डहोमो निपरणमन्त्रेण स्वाहाकारान्तेन कर्तव्ञः । अत्रदुषणीयपक्षाणामुपन्यासे प्रयोजनं सपिण्डीकरणे पितामहे जीवति पितरे ते संबन्नरादिषु कालेषु तस्यावश्यकर्तव्यत्वात्तत्रैपां पक्षाणामुपयोग इत्येवमर्थम् । एवमादीन्यन्यान्यपि प्रयोजनानि चिन्त्यानि ॥ २३ ॥ नामान्य विस्तापितामहमपितामहेति ॥ २४ ॥ - दे० भाग्यम् - नामान्यविद्वांस्तत पितृणामप्यविभवतीति तत पितामहप्रपिता महेती- त्येतैर्नामभिः पिण्डाजुहुयाद्वैतत्ते तत ये च स्वामत्रान्ति एतते पितामह इति एतत्ते प्रपितामहेति ॥ २४ ॥ , , वृत्तिः - पित्रादीनां नामाज्ञाने ततादयः शब्दा नामस्थाने प्रयोक्तव्याः ॥ २४ ॥ - निवृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमावृषायध्वमिति ॥ २५ ॥ - दे० भाष्यम् – निताननुमन्त्रयेत निपरणं कृतं येनां ते निवृताः । तान्त्रिपृताननु- मन्त्रयेत् । अत्र पितर इत्येतेन मन्त्रेण ॥ २५ ॥ वृत्तिः - निपूर्णानिति प्राप्ते निवृतानित छान्दो निर्देशः । निपूर्वानेव पिण्डाननुमन्त्रयते न हुतानित्येवमर्थं निवृतानित्युच्यते । तेन सर्वहोम इदमनुमन्त्रणं न भवति । अस्मिन्प्रक- रणे यद्यपि पिण्डानामेवानुमन्त्रणमुपस्थानं प्रवाहणं च विधीयते तथाऽपि मन्त्राणां पितृलि- सत्वात्पिण्डा एव पितर इति कृत्वा पितर एवैतैमन्त्रैरभिधातव्याः ॥ २५ ॥ सव्यावृदुदङ्ङावृत्य यथाशक्त्यप्राणनासित्वाऽभिपर्यावृत्यामीमदन्त पितरो यथाभागमातृषायीषतेति ॥ २६ ॥ दे० भाष्यम् सव्यावृत्सव्यं बाहुमन्त्रावर्तते सव्याहृदुदगुदीची दिशमावृत्य यथा शक्ति- स्तावत्प्राणमनुगच्छन्सन्नासित्वोच्छ्वरय ततः पिण्डानभिपर्यावृत्य ' अमीमदन्त' इत्येतेन मन्त्रेणानुमन्त्रयेत्पिण्डान्सव्यावृदित्येतेनैव सिद्ध उदङिति वचनाद्या दिगुदीची तां दिश- मावृत्यानुच्छ्रसन्न.तंचरेत् ॥ २६ ॥ वृत्तिः – अनुमन्त्रयेतेति शेषः । सव्यावृदुदङ ङित्येतावतत्र सव्या वृत्त्वोदङ्मुखत्वयोः सिद्धयोरावृत्येति वचनमावृत्यैवोच्छ्वासो न पूर्वमित्येतदर्थम् । यथाशक्यनुच्छ्वसन्नासित्वा पुनरभिपर्यावृत्यामी मदन्तेत्यनुमन्त्रयते । आवृषायीपतेति यकारः पठितव्यः । व्यक्तिस्तु प्रमादजा ॥ २६ ॥ . अग्निहोत्रचन्द्रिका | चरोः प्राणभक्षं भक्षयेत् ॥ २७ ॥ - दे० भाष्यम् – तस्यैकदेशं गृहत्वैकं प्राणभक्षं भक्षयेनासिकस्थेन न चक्षुः प्राणस्तेन नासिकस्थेन भक्ष्यते गन्धः स प्राणभक्षो गन्धोपादनं प्राणभक्षो न प्राणभक्ष: प्राणभक्षं भक्षयेत्तेन विधिना भक्षं कुर्यादित्यर्थः ॥ २०॥ वृत्तिः--तृष्णीमेवात्र प्राणभक्षणे कार्यम् ॥ २७ ॥ नित्यं निनयनम् ॥ २८ ॥ दे० भाष्यम् - नित्यं निनयनं नित्यमुक्तं निनयनलेखां त्रिरुदकेनोपनयेदिति तदेवेह पुनः कर्तव्यमित्यर्थः। निननननन्यन्न वियते तस्माद्रुपनयनमेत्र निनयनमग्निहोत्र- होमे निनयनमस्तिं तःप्रकरणान्तरत्वान्न गृह्यते ॥ २८ ॥ वृत्तिः– यदुदको पनयनमुक्तं झुन्वन्तां पितर इत्यादिनन्त्रकं तदत्र निनयनमित्युष्यते । तदत्र कर्तव्यमित्यर्थः ॥ २८ ॥ असावभ्यङ्क्ष्वासावचेत पिण्डेभ्यञ्जनाञ्जने ॥ २९ ॥ दे० भाष्यम्-अतःबम्नछ्त्रानावश्येतौ मन्त्रावताभ्यां नाम गृहीत्वा दद्यादिति चक्ष्यति । अभ्यञ्जनं दद्यादनावित्यष्टम्याचिभक्त्या नाम गृह्णीयाद्भवदत्ताभ्यङ्क्ष्व भवत्राता- ह्चेति ॥ २९ ॥ वृत्तिः -- दद्यादिति शेषः ॥ २९ ॥ वासो घादशामूर्णास्तुकां वा पञ्चाशद्वषताया उर्व स्वल्लोमैतः पितरो वासो मा नोऽतोऽन्यत्पितरो युध्वमिति ॥ ३० ॥ दे० १० भाष्यम् - वासो दद्यापिण्डेषु वासो दद्याद्वास इत्युक्ते वस्त्रमान्तो दशा भवति वस्त्रान्तं दद्यादृर्णास्तुकां वा दद्यात् । ऊर्जास्तुकोणतन्तुः । एकामेव त्रिषु दद्यात्पञ्चाशद्वर्षाणि यजमानस्य भवन्ति तस्य पञ्चाशद्वर्यताया ऊर्ध्वमुपर्युत्तर आयुषि स्वलोम यजमानो दद्यादूर्ध्वं नाभेरित्युक्तमन्येषामधं नाभेः इमश्रुकेशेभ्योऽन्यत्र दद्य.त्पूर्व आयुषि उक्तो विकल्प उत्तर आयुष्पविकल्पस्तल्लुम भवति स्वग्रहण ऊर्गाधिकारादूर्णलोम प्राप्नोति एतद्वः ' इति मन्त्रेणा एतेनैव सर्वाणि दशादीनि दद्यादिह स्वग्रहण द्यजमानः कर्ता भवति नाध्वर्युः ॥ ३० ॥ 6 वृत्तिः – एतेष मन्यतमद्रत्र्यं वासो पिण्डेषु दद्यादित्यर्थः | दशा वस्त्रस्पान्तप्रदेशः । ऊर्णास्तुकां वाऽबिले मानि । पञ्चाशद्वर्षाणि यस्य स तथोक्तस्तस्य भावः पञ्चाशद्वर्षता | पञ्चाशद्वर्पतायाः पञ्चाशदर्भेष्वती जीवन्स्त्रीयमेव लोन वासोर्थ दद्यात् । मन्त्रस्वयमेत्र सर्वेषु द्रव्येषु सकृदेव भवति ॥ ३० ॥ अग्निहोत्रचन्द्रिका | अथैनानुपतिष्ठेत नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय | स्वधा वः पितरो नमो वः पितरो नम एना युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम ॥ ३१ ॥ दे० भाष्यम् – अथैनाननन्तरमेतान्त्रिण्डानुपतिष्ठेतोपस्थानं कुर्यान्ननो वः पितर इत्ये- तैर्मन्त्रैः पिण्डा उपलक्षणं पितृणामेवोपस्थानं येषां च निपरणं येषां च निनयनं येषां च दानं मन्त्रलिङ्गादन्यथाऽत्रैतान्प्रवाहयेदिति प्रवाहणं नोपपद्यते ॥ ३१ ॥ - वृत्तिः – इतिकार/ध्याहारेण सूत्रच्छेदः | सन्तः स्यामेति मन्त्रः पठितव्यो विकारं वर्जयित्वा ॥ ३१ ॥ मनोन्वाहुवामह इति च तिसृभिः ॥ ३२ ॥ दे० भाष्यम् – मनोन्त्राहुवामह इत्येताभिश्च तिसभिरुस्थानम् ॥ ३२ ॥ वृत्तिः - उपतिष्ठेतेति शेषः ।। ३२ ।। अथैनान्मवाहयेत्परेतन पितरः सोम्यासो गम्भीरैभिः पथिभिः पूर्विणेभिः । दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छतेति ॥ ३३ ॥ दे० भाष्यम्--अथैनानुपस्थानादनन्तरमैना न्यण्डानुपलभ्न पितॄन्यवाहयेद्विसर्जयेश- रेतनेत्यंतेन मन्त्रेण । उपस्थानस्य प्रवाहणमिति विशेषसंज्ञा यथास्थितस्य प्राप्नोति । अग्न्युपस्थान उपस्थानसंज्ञा मन्त्रस्य न प्राप्तोत्यविकाव्यवायात् ॥ ३३ ॥ वृत्तिः--अत्रापि पिण्डस्थान्पितॄनेव प्रत्राहयेत् || ३३ ॥ अग्निं प्रत्येयादने तमद्याश्वं न स्तोमैरिति गार्हपत्यं यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिर्हिसिम | अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेनसमिति ॥ ३४ ॥ -- दे० भाग्यम् - अग्निं प्रत्येयादझिं दक्षिणामि प्रत्येयापति निवृत्य गच्छेद्गत्वोपतिष्ठे ताग्ने तमद्येति प्रत्येयादिति वचनादाग्नेयत्वाच्च मन्त्रस्योपस्थानमेव गमनार्थे सति गमनलिङ्गेन भवितव्यं यथा मा प्रगामेति सूक्तस्य यथेतिवचनास्पञ्चाक्षरः पादो दशाक्षरो वा भवति वक्ष्यति पञ्चाक्षरेण विग्रहो दशाक्षरेणेति विकल्पः प्रत्येयादित्यनुच्यमाने गत्योपस्थानं न प्राप्नोति तत्रैव कुर्यादा।दुपकारित्वाद्गार्हपत्यं प्रत्येयादिति वर्तमानेऽन्योन्यं गत्वा गार्हपत्यमु पतिष्ठते यदन्तरिक्ष मित्येतयर्चा प्राचीनावीत्येव भवत्यधिकाराचा मन्त्रान्तो न भक्षजव उत्तरो मन्त्रः ॥ ३४ ॥ ९८ अग्निहोत्रचन्द्रिका | वृत्तिः- प्रत्येयादेति वचनसामर्थ्यादक्षिणामुखेनात्र - किंचिदनुव्रजनं कर्तव्यम् । अनिं प्रत्येयादमे तमद्याश्वं न स्तोमरस्य विशेषत्रचनेन दक्षिणाग्निमेवेतरयोर्विशेषाभिधानात् । प्रत्येयादिति शेयः ॥ ३४ ॥ वीरं मे दत्त पितर इति पिण्डानां मध्यमम् ॥ ३५ ॥ दे० भाष्यम् - वीरं मे दत्त इत्येतेन मन्त्रेण गृहीत्वा पिण्डानुपतिष्ठते । पष्ठं वचनमुत्तर- सूत्रार्थम् ॥ ३५ ॥ वृत्तिः–आदर्दीतेति शेषः || ३५ ॥ पत्नीं माशथेदाधत्त पितरो गर्ने कुमारं पुष्करस्रजम् | यथाऽयमरपा अस- दिति ॥ ३६ ॥ दे० भाष्यम् – मध्यमं पिण्डानां मध्यमं पिण्डं पत्नी प्रश्नयादाघत्तेत्येतेन मन्त्रेण प्राश- चेत्कर्ता वा जपति मन्त्रं मध्यमभावेऽर्थात्प्राशनं भवति ॥ ३६ ॥ वृत्तिः - तमेव मध्यममिति शेवः | पत्न्येव मन्त्रं ब्रूयादाधत्तेति ॥ ३६ ॥ अस्विरी || ३७ || वृत्तिः–प्रक्षिपेदित्यर्थः ॥ ३७॥ अतिमणीत वा ॥ ३८ ॥ वृत्तिः - प्रक्षिप्य दाहयेत् ॥ ३८ ॥ - यस्य वाऽऽगन्तुरन्नकाम्याभावः स प्राश्नीयात् ॥ ३९ ॥ दे० भाष्यम् – अथवाऽऽगन्तुरन्नकाम्याया अनेच्छाया भाव आगन्तुर्भवति स इतरौ प्राश्नीयाद्यस्य चेति वचनाद्यस्य कस्यचिद्भवति न यजमानस्यैत्र ॥ ३९ ॥ वृत्तिः—आगन्तुरभिनथो निर्निमित्त एवानेच्छा भयो यस्य स वेतरी प्राश्नी- यात् ॥ ३९ ॥ महारोगेणं वाऽभितप्तः माश्रीयादन्यतां गतिं गच्छति ।। ४० ।। दे० भाष्यम्——महारोगेण वाऽमिततो रोगो महारोगो दुश्चिकित्सो भवति तेन वाऽभिततोऽमिपीडितः प्राश्नीयादितरौ पिण्डौ । महारोगः क्षयव्याधिः कुष्टव्याधिरन्ये चैत्रं- विधाः । अत एवमन्यतरा गतिरधिकृनाया अन्या गतिर्यान्यवरा नामान्यतरां गति गच्छत्यजो भवतीत्यर्थः ॥ ४० ॥ - वृत्ति:-क्षयकुष्ठादिनाऽशक्यवारहरेशातिपीडितः । श्रीयादेत पूर्वे अग्निहोत्रचन्द्रिका | णास्य संबन्धनिवृश्यर्थम् । तेनायतरामित्यत्रैव भवति । अन्यतरां गतिं गच्छतीत्यर्थः सद्य एवारोगो भवेम्रियेत वेति ॥ ४० ॥ एवमनाहिताभिनित्ये ॥ ४१ ॥ दे० भाष्यम् ––एबमनाहिताग्नि उक्तः पिण्डपितृयज्ञ आहित,ग्नेरेबमेतेनैव विधि• नाऽनाहिताग्नेरौप सनोऽम.वास्यायां पिण्डपितृयज्ञः भवति नित्ये ।। ४१ बृत्तिः--अनहिता,निरप्येवं पिण्डपितृयज्ञ कुर्यान्नित्य औपासन इत्यर्थः ॥ ४१ ॥ श्रपयित्वाऽतिमणीय जुहुयात् ॥ ४२ ॥ दे० भाष्यम् – श्रपयित्वा गृझे श्रति वा पाठः । औपासनो गृह्यसंज्ञो भवति पाणिग्रहणादिगृह्यमिति बन्चनान्निथ्यो वा भवति नित्यानुगृहीतः स्यादिति वचनान्नित्ये श्रप- यित्वा नित्यो गृझ औपातनो निम्यादतिमणयनं कृत्वा नित्य एवाग्नौ अपयित्वाऽतिप्रणी- तेऽग्नौ जुहुयादिति सूत्रार्थः । तत्र दक्षिणान्नौ श्रपयेदित्युक्तम् । अनाहिताग्नेस्तु दक्षिणाभिर्न विद्यते तस्मान्नित्ये श्रपणं विवीयते दक्षिण, नेरेको मुकमित्युक्तम् । दक्षिणाग्नेरभावा- नित्यादतिप्रणयनं लाघवार्थं विधीयतेऽन्यथा गुरु स्यान्नित्या तिप्रणीय नित्ये अपयि. त्वाऽतिप्रणीते जुहुयादिति वक्तव्यं भवति तद्गुरु भवति जुहुयादित्युक्तेऽतिप्रणीते होमो विधीयते प्राक्सिद्धत्वादिह विद्यत इह विहितोऽपि विधिस्तत्रापि भवति ॥ ४२ ॥ ५ वृत्तिः--तस्यायं विशेषो हविः श्रपणं कृत्वाऽतिप्रणयनं कर्तव्यम् । तस्यैवातिप्रणी. तस्योपसमाधानं परिस्तरणं च कृत्वा ततोऽर्जागतिप्रगीतादित्यादि समानम् । जुहुयादित्य यमनुवादः । अयं चात्र विशेषः । यदन्तरिक्ष येतस्मिन्मन्त्रे गार्हपत्यशब्द उद्धर्तव्यस्तच्छ. ब्दंप्रवृत्ति निमित्तस्य संस्कारस्यात्राभावादिति ॥ ४२ ॥ द्विवत्पात्राणामुत्सर्गः ॥ ४३ ॥ दे० भाष्यम् – द्विवःपत्रःणां पात्राणां स्थल्यादीनां च द्वे द्वे पात्रे गृहीत्वोत्सर्गों नाम नयनं देशान्तर स्थापनं यथाशेवं होतृचमस आनयोत्सृजेदिति ॥ ४३ ॥ वृत्तिः --द्विश इत्यर्थः ॥ १३ ॥ तृणं द्वितीयमुद्रिक्ते ॥ ४४ ॥ दे० भाष्यम् – उक्तिमतिरिक्तं स्वाद्वितीयं पात्रं न विद्यते तस्यातिरिक्तस्य तृणं द्वितीयं भवति तृणेन सह तत्पात्रमुत्सृजति ॥ ४४ ॥ इति पिण्डपितृयज्ञसूत्रभाष्यम् । वृत्तिः --एकस्यातिरिक्तस्य तृणेन द्वित्वं संपाद्योत्सर्गः कर्तव्य इत्यर्थः ॥ ४४ ॥ इति पिण्डपितृयज्ञसूत्रवृत्तिः । अग्निहोत्रचन्द्रिका | अथाऽऽश्वलायन पिण्डपितृयज्ञसंभारस्मरणपट्टिका | १ दंपती - कर्मानुष्ठानार्थम् । २ शराब: – एकोल्मुकप्रणयनार्थम् । - ३ दर्भाः – परिस्तरणाद्यर्थम् । ४ काष्टानि ५ चरुस्थाली अग्न्युपसमिन्धनाद्यर्थम् । – चरुश्रपणार्थम् । ६ शूर्पम् - निर्वापार्थम् । - ७ स्फ्यः —लेखाकरणार्थम् । } श्रीश्यावहननार्थम् । ८ उलूखलं---- ९ मुसलं च- १० स्रुवः – आज्यग्रहणार्थम् । ११ ध्रुवा—आज्यवारणार्थम् । १२ कृष्णाजिनम् – श्रीह्यवघातार्थम् । १३ सकदाच्छिन्नकुशाः - पिण्डदानार्थम् । १४ ब्रीहयः – चर्बर्थम् । १५ पञ्चदशेष्मानि- होमार्थम् । १६ मेक्षणम् – चवदानार्थम् । १७ आज्यम्—उपस्तरणाभिघारणार्थम् । - उदकग्रहणार्थम् । १८ कमण्डलुः -- - १९ अञ्जनम-- २० अभ्यञ्जनम्- २१ कशिपूपबर्हणे --- पिण्डेषु दानार्थम् । २२ वासश्च - २३ पितृपितामहप्रपितामहानां नामानि – पिण्डनिपरणार्थम् । साङ्गपिण्डपितृयज्ञविधायकवाक्यानि तु निर्दिष्टसूत्रब्राह्मणाभ्यामधिगन्तुं सुलभानीति न तदर्थ पृथग्यत्नः क्रियते । इत्याश्वलायन पिण्डपितृयज्ञसंभारस्मरणपट्टिका | अग्निहोत्रचन्द्रिका | अथ पिण्डपितृयज्ञप्रयोगः । आहिताग्निः-- अपराह्न आचम्य -- - १०१ ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ पिण्डपितृयज्ञं करिष्ये । स्वयोनितो दक्षिणाग्निम,नीय प्रज्वल्य दक्षिण | मेरे कोल्मुकं माग्दक्षिणा प्रणयेत् । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्मणुदात्वस्मात् । इत्यतिप्रणीय दक्षिणाग्न्यतिप्रणीतावुपसमाधायोभौ परिस्तीर्य दक्षिणामे: मागुदक्म- सगुदग्वैकैकशः पात्राणि सादयेत् । चरुस्थालिशूर्पस्फ्योलूखलमुसलस्रुवध्रुवकृष्णाजिनसकृदाच्छिन्नेध्ममेक्षण- कमण्डलून् । एत्रमासाद्य दक्षिणाग्नेर्दक्षिणतोऽग्निष्ठं शकटमारुह्य तत्रैव शूर्पे चरुस्थाली विधाय ब्रीहिभिः प्रपूर्य पूर्णां निमृज्य स्थाल्पास्यदेशाच्छूर्योपार ये पतन्ति तान्त्रीही परिसन्नाञ्श- कटे निधाय कृष्णाजिन उलूखलं कृत्वा स्थाल्यन्तर्गतान विविच्या विविच्य पत्न्यवहन्या- त्ततः सकृत्प्रक्षाल्य दक्षिणामौ श्रपयेत् । ततो दक्षिणाग्न्यतिप्रणीतयोरन्तराले स्फ्येन लेखामुलिखेत् अपहता असुरा रक्षांसि वेदिषदः । इति । तामभ्युक्ष्यसकृदाच्छिन्नैरवस्तीर्याऽऽज्यं गृहीत्वा ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेनाऽऽज्येन स्थालीपाकमभिघार्य दक्षिणाग्ने: पश्चादासादयेत् । यदि नवनीतम्राज्य कार्यार्थं स्यात्तदाऽस्य विलापनमात्रं कृत्वाऽन्यस्मिन्पात्र आनीयैकपवित्रेण सकृत्तूष्णीमुत्पूय ततो ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेन स्थालीपाकं स्रुषेण - भिघार्य ( दक्षिणत आञ्जनाभ्यञ्जनकशिपूपबर्हणानि सादयेत् ) । दक्षिणाग्नेः पश्चादा- साद्य प्राचीनावीतीध्ममुपसमाधाय मेक्षणं स्रुवेणोपस्तीर्य द्विरवदाय प्रत्यभिधार्य मेक्षणे- नाऽऽदाय जुहुयात् । सोमाय पितृमते स्वधा नमः | सोमाय पितृमत इदं न मम | इति दक्षिणाग्नौ प्रथमाहुतिं सव्यं जान्वाच्य जुहुयात् । ततः- अग्नये कव्यवाहनाय स्वधा नमः | इति दक्षिणानावेव द्वितीयाहुति हुत्वा यज्ञोपवीती मेक्षणं दक्षिणानावनुप्रहृत्य माची- नावती लेखां त्रिरुदकेनोपनयेत् महोत्रचन्द्रिका | शुन्धन्तां पितरः । शुन्धन्तां पितामहाः | शुन्धन्तां प्रपितामहाः । इति । तस्यां पिण्डान्निपूर्णाीया पर चीनपाणिः- एतत्ते पितः - शर्मन्ये च त्वामत्रानु । A एतत्ते पितामह - शर्मन्ये च त्वामत्रानु | - एतत्ते प्रपितामह – शर्मन्ये च त्वामत्रानु । एवं निपूताननुमन्त्रयेत | १०२ अत्र पितरो मादयध्वं यथाभागमावृषायध्वम् | इत्यनुमन्त्र्य सन्यांवृदुदङःबृत्य यथाशक्त्यप्राणन्नासित्वाऽभिपर्यावृत्य अमीमदन्त पितरो यथाभागमावृषायीपत | इत्यनुमन्त्र्य चरो: प्राणभक्षं भक्षयित्वा सुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः । इत्यपो निनीय - पितः – शर्मन्नभ्यङ्क्ष्व । पितामह - शर्मनभ्यश्च । प्रपितामह - शर्मन्नभ्यक्ष ! पितः - शर्मन्नक्ष्य | पितामह शर्मनइक्ष्व | प्रपितामह - शर्मन्न इत्यभ्यञ्जनाञ्जने दत्त्वा | एतद्द्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युध्वम् । इति वासो दद्यादशमणीस्तुकां वा पश्चाशद्वर्षताया ऊर्ध्वं स्वं लोम | अथैनानुपतिष्ठत - नमो वः पितर इषे नमो वः पितर ऊर्जे नमो व पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितसे रसाय । स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम । मनो न्वाहुवामहे नाराशंसेन सोमेन | पितॄणां च मन्मभिः । आत एतु मनः पुनः क्रत्वे दक्षाय जीवसे | ज्योक्च सूर्य दृशे । पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं व्रातं सचेमहि । १ समचित्यस्य पश्चात् तत्तनाम वक्तव्यम् यथा देवदत्तशर्मन, इति । अथैनान्प्रवाहयेत् - - अग्निहोत्रचन्द्रिका | ओहैः । इति । परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः । दत्त्वायास्मभ्यं द्रविणेह भद्रं रथं च नः सर्ववीरं नियच्छत | इति । अग्नि प्रत्येयातू - अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदि स्पृशन् | ऋठ्या मा त १०३ गार्हपत्यं प्रत्येयात- यदन्तरिक्षं पृथिवीमु॒त द्यां यन्मातरं पितरं वा जिहिंसिम | अनिर्मातस्मादे- नसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेनसम् । इति । वीरं मे दत्त पितरः । इति पिण्डानां मध्यमं पिण्डमादाय पत्नी प्राशयेत् । आघत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथाऽयमरपा असत् । इति पत्न्येव मन्त्रं ब्रूयात् । इतरौ पिण्डावप्सु प्रक्षिपेत् । अतिप्रणीते वा प्रक्षिप्य दाहयेदित्यादि सूत्र एव स्पष्ठमुक्तं तद्वत्कृत्वा पात्राणां द्विवदुत्सर्गः । यद्येकमेबाबशिष्टं स्यात्तहिं द्वित्वसंपादनार्थं तृणेन सह तदुःसजेदिति । आचम्यानेन पिण्डपितृयज्ञाख्येन कृतेन कर्मणा परमेश्वरः प्रीयताम् । इति पिण्डपितृयज्ञप्रयोगः । अग्निहोत्रचन्द्रिका | अथ पिण्डपितृयज्ञमन्त्रभाष्यम् । ये रूपाणि प्रतिमुञ्चमाना असुरा: सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्मणुदात्वस्मात् ॥ १ ॥ भाष्यम् – ये पितृरूपाण्यात्मनि प्रतिमुञ्चमानाः | प्रतिपूर्वो मुञ्चतिर्बन्ध वर्तते । आत्मनि बघ्नन्तोऽसुराः सन्तो भवन्तः स्वधया पित्रयेणान्नेन हेतुभूतेनास्माभिरेतत्वादि तब्यमिते चरन्ति संचरन्ति । किं च परापुरः पराकान्ताः पुरः पर/पुरः शरीराणि महान्तीति निपुरो निकृष्टाः पुरो निपुरः सूक्ष्माणि शरीराणि ये भरन्ति बिभ्रति धारयन्ति । अग्निस्तानसुराँल्लोकात्स्थानात्प्रणुदातु प्रणुदतु प्रेरयत्वस्मात्पितृलोकात्प्रकर्त्रेणापसारयत्वि- त्यर्थः ॥ १ ॥ अपहता असुरा रक्षांसि वेदिषदः ॥ २ ॥ भाष्यम् –वेद्यां सीदन्ति वेदिषदस्तादृशा असुरा अपहता वेदिसकाशादपगताः । तथा रक्षांति वेद्या अपहतानि | अमुरत्वं रक्षत्वं चेतिजातिविशेषौ देवविरोधिनौ ॥ २ ॥ सोमाय पितृमते स्वधा नमः ॥ ३ ॥ भाष्यम् – पितृमान्पितृसंयुक्तस्तस्मै सोमनामकाय देवाय स्वधा हविर्दत्तम् ॥ ३ ॥ अग्नये कव्यवाहनाय स्वधा नमः ॥ ४ ॥ भाष्यम्- [– कवयः क्रान्तदर्शिनः पितरस्तेषां संबन्धि कव्यं हविस्तद्वोदुमधिकारो यस्यास्ति स कव्यवाहनस्तस्मा अग्नये स्वधा हविर्दत्तमस्तु ॥ ४ ॥ - . शुन्धन्तां पितरः | शुन्धन्तां पितामहाः | शुन्धन्तां प्रपितामहाः ॥ ५ ॥ भाष्यम् - पितृपितामहप्रपितामहाः शुद्धा भवन्त्यित्यर्थः ॥ ५ ॥ एतत्तेऽसौ ये च त्वामत्रानु ॥ ६ ॥ - भाग्यम् – असावित्यस्य स्थाने पितृपितामहप्रपितामहानां संबुद्धयन्तानि नामानि वक्तव्यानि । हे पितस्ते तुभ्यमेतत्पिडीकृतमन्नं दत्तं ये चान्येऽत्र स्वामनुवर्तन्ते तेभ्योऽ- ध्येतद्दत्तम् ॥ ६ ॥ अत्र पितरो मादयध्वं यथाभागमावृषायध्वम् ॥ ७ ॥ भाष्यम् – हे पितरो यूयमत्रास्मिन्बर्हिषि मादयध्वं हृष्टा भवत । ततो हविषि यथा- भागं स्वं स्वं भागमनतिक्रम्याऽऽवृषायध्यं समन्ताद्वृषवदाचरत । यथा वृपः स्वाभीष्टघासं प्राप्य तृप्तिपर्यन्तं स्त्री करोति तद्वत्स्वी कुरुत | आङपूर्वावशब्दात् ' कर्तुः क्यङ्सलो- प' ( पाe सू० ३ । १ । ११ ) इनि क्यङ् ततो लोट् ॥ ७ ॥ अग्निहोचन्द्रिका | अमीमदन्त पितरो यथाभागमापायीपत || ८ || भाष्यम् – पितरोऽमीमदन्त । यान्तिप्रति मादयध्वमिन्युक्तं ते पितरोऽमीमदग्न हृष्टाः । यथाभागमावृपायीषत । स्वं भागमनतिक्रम्य चुपवस्वी चक्रुः | लुङि रूपम् | स्वं भागं जरित्यर्थः ॥ ८ ॥ असावभ्यवासावव ॥ ९ ॥ भाष्यम् --असावित्यस्य स्थाने संयुद्धयन्तं नाम निर्दिश्य.भ्यङ्ग्वाभ्यञ्जनं कुरु । अभ्यञ्जनकरणं नाम नवनीतेन पिण्डलेपनमित्यर्थः । तद्वदेवानं कुरु ॥ ९ ॥ एतद्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युवम् ॥ १० ॥ भाष्यम् - - हे पितर एती युष्माकं वामोऽनोऽन्यद्धे पितरो भवदानकर्मणि मां मा युध्वं मा नियोजयध्वम् ॥ १० ॥ नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय | स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम ॥ ११ ॥ - भाष्यम् – हे पितरौ वो युष्माकं येडनं भुज्यमानं तस्मै नमोऽस्तु | एवं सर्वत्र योज्यम् | ऊर्ज ऊनाम रसः | शुष्मशब्दो बलत्राची | घरो मारणादिव्यापारः | जीयो देह|ध्यक्षः । रसो नामान्तर्गतो मधुरिमोच्यते । स्वधा तदीया स्त्री पिनरो हि स्वधाय प्रीतिं कुर्वन्ति । नमो वः पितरः । हे पितरौ यूयमेतस्मिलोके स्थितास्तेभ्यो युष्मभ्यं नमः । नम एता युष्माकम् । एतैतानि नमो नमांसि युष्माकं युष्मभ्यं वो युष्माकं जीवा अस्माकं जीवा इहास्मिँल्लाके जीवन्त एव स्याम भवेम ॥ ११ ॥ मनो न्याहुवामहे नाराशंसेन सोमेन | पितॄणां च मम्मभिः॥ १२ ॥ सा० भाष्यम् – नु क्षिप्रं मन आहुवामह आह्वयामः । पितृयज्ञानुष्ठानेन चित्तं पितृलोकं गतमिबाऽऽसीदत आहूयते । यद्वा मनो मनोभिमानिदैवतमा ्यामः । केन साधनेन सोमेन स्तोत्रेण । कथंभूतेन नाराशंसेन शंसः प्रशंसनं नराणां योग्यः शंसो नराशंसस्त- संबन्धी नाराशंसस्तेम | स्तोत्रं द्विविधं दैत्रं मानुषं च । यत्र देवाः स्तूयन्ते तदैवं यत्र च मनुष्याः प्रशस्यन्ते तम्मानुषप् | तथाविधेन स्तोत्रेणेत्युक्तं भवति । किं च पितॄणां

  • अञ्जनं नाम त्रैककुई किकुये

पदम् । यदि त्रैककुदं नाविगच्छेधेनै। केन चाअनेनाञ्जतेति बाजसनेयकम् ( आप० श्रौ० स् १० । ७ । २ । ३ ) अग्निहोत्रचन्द्रिका | च मन्मभिः । पितरो यैः स्तोत्रैर्मन्यन्ते ते मन्मानस्तैस्ता दृशैः स्वोत्रैराह्वयामः ॥ १२ ॥ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे | ज्योक्च सूर्य दृशे ॥ १३ ॥ सा० भाष्यम् –आ त एनु : आगच्छतु मनः किमर्थं क्रत्वे ऋत ऋतुः संकल्पो यज्ञो वा । दक्षाय दक्षः संकल्पः समृद्धिसाहो वा ' स यदेव मनसा कामयत इदं मे स्थादिदं कुर्वीयेति स एव ऋतुरथ यदाऽस्मै तत्समृध्यते स दक्ष : ' इति श्रुतिः | जीवसे जीव. नाय । ज्योनिपातश्चिरवचनः । चिरं सूर्य दृशे द्रष्टुन् ॥ १३ ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं त्रातं सचेमहि ॥ १४ ॥ सा० भाग्यम् – हे पितरो भदनुज्ञया दैव्यो जनो देवसंबन्धी पुरुषो नोऽस्मभ्यं मनः पूर्वोक्तं चित्तं पुनर्भूयो ददातु प्रयच्छतु प्रेरयत्वित्यर्थः । तथा सत्यनुष्ठानं कृत्वा भवत्प्रसा- दाज्जीवं जीवनवन्तं शतं पुत्रपश्वादिकं गणं वयं सचेमहि सेवेमहि । सचतिः सेवनार्थः ॥ १४ ॥ परेनन पितरः सोम्यासो गम्भीरभिः पथिभिः पूर्विणेभिः । दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छत ॥ १५ ॥ भाष्यम् - हे सोम्याः पितरः पश्थिभिः परेतन परावृत्य गृहान्गच्छत । कीदृशैः पथिभिर्गम्भीरेभिः सुलभान्नतोयैः । पूर्विणेभिः पूर्वकृतैः प्रहतैः । किंचास्मभ्यामह भद्रं रथिं द्रव्यं सर्ववीरं सर्वं वीर्यवन्त्रियच्छत ददतेत्यर्थः ॥ १५ ॥ अग्ने तमग्राश्वं न स्तोमैः क्रतुं न भद्रं हृदि स्पृशम् । ऋथ्यामा त ओहै: ( ऋ० सं० ३ | ५ | १० ) ॥ १६ ॥ - सा० भाष्यम् – हेऽग्नेऽद्यःस्मिन्नहनि वयमृत्विगादयते - त्वदीयैः । ओहैरिन्द्रादिप्रापकैः स्तोभैः स्तोत्रसमूह्रैस्तं प्रसिद्धं स्वामृध्यामम् समर्धयामः । कीदृशं त्वामश्वं न वोढारमश्वमित्र तथा हबिपो बाहकं ऋतुं न कर्तारमित्रोपकर्तारमित्यर्थः । तथा भद्रं भजनीयं हृदिस्पृशं हृदयांगममतिशयेन प्रियमित्यर्थः ॥ १६ ॥ यदन्तरिक्षं पृथिवीमत द्यां यन्मातरं पितरं वा जिहिंसिन । अग्रिम तस्माइनसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेनसम् | १७ ॥ · भाष्यम् - पृथिव्यादी. कान्मनसा जिहिसिम हिनतुमिच्छेम सन्मातरं पितरं वा हिंसितुमिच्छेमेति यत्तस्मात्सर्वस्माइनसः पापागार्हपत्योऽग्नेर्मा मां प्रमुञ्चतु मामनेनसं सर्वपाप रहितं करोतु ॥ १७ ॥ वीरं मे दत्त पितरः ॥ १८ ॥ भाष्यम् - पितरः पितृपितामह पितामहा मेमवीरं वीरं पुत्रं दत्त ददत ॥ १८॥ अग्निहोत्रचन्द्रिका | १०७ - आपत्त पितरो गर्भ कुमारं पुष्करस्त्रजम् | यथाऽयमरपा असत् ॥ १९ ॥ भाग्यम् – हे पितरो कुष्मत्प्रसादा कृतग्ण्डप्राशनेन पुष्करन्जं संपूर्णस्वर्णाद्यलंकृतं कुमारमेव गर्भमाधत्त यथाऽनी कुमार इह परलोडरपा अलं पातीयलंपा: कुलभूषणो यथा स्यात्तथाऽसन्स्यात् । कुलरक्षणाणलं भवेत्तथाऽऽवत्तेति वा । प्रजातन्तुं मः व्यवच्छेत्तीरितिशासनानुनरणेनेव कुलभूषणमिति यावत् ॥ १९ ॥ इति पिण्ड पितृयज्ञमन्त्रभाष्यम् | अथाऽऽग्रयणब्राह्मणं सभाष्यम् । अथाऽऽग्रयणप्रस्तावे यदुक्तं सूत्रकारेण .. निम्तं हविरुपसन्नमप्रीक्षितं भवत्यथ पञ्चा- ज्यानीर्जुहोति शतायुधाय शतवीर्यायेति" इति तदिदं विधत्ते ब्रह्मवादिनो बदन्ति यदर्थमासा मासा ऋतवः संवत्सर ओषधी: पचन्त्यथ कस्मादन्याभ्यो देवताभ्य आग्रयणं निरूप्यत इत्येता हि तदेवता उदजयन्यहतुभ्यो निर्वपेद्देवताभ्यः समदं दध्यादाग्रयणं निरुप्यैता आहुती- जुहोत्यर्धमासानेव मासानुतन्त्संवत्सरं श्रीणाति न देव- ताभ्यः समदं॑ दधाति । इति | [ तै० सं० ५ काण्डे पप्रा० ७ अनु० २ ] ब्रह्मवादिनः परस्परभेवं विचारयन्ति - अर्धमासमासर्तुसंवत्सररूपा देवता ओपधीनां परिपाकं संपादयन्ति । एवं सति ता देवता उपेक्ष्यान्याभ्य इन्द्राग्न्यादिभ्यो देवताभ्य आग्रयणाख्यं नृतनधान्यरूपं हविः कस्मात्कारणान्निरुप्यत इति । तत्राभिज्ञा एवमुत्तरमाहुः । यस्मादेता इन्द्राग्न्यादयो देवता इतरैदैवतैः सह समयं कृत्वा तत्र तत्रौषविविषय उत्क- र्पेण जयं प्राप्तास्तस्मादिन्द्र्ाग्न्यादिभ्यो निर्वापो युक्तः । एतच्च राजस्थप्रकरण आग्रय- णविधौ स्पष्टमाम्नातम् . देवा वा ओपधीष्वाजिमयुः । ता इन्द्राग्नी उद्यताम् इति । एवं सति जेतॄनिन्द्राग्न्यादीनुपेक्ष्य यद्यूतुमासादिदेवताभ्यो निर्वपेत्तदानीमेतासां तासां च देवतानां कलहं संपादयेत् एवं तपधिपरिपाकहेतॄनामृतुमासादिदेवतानां परितोष: कथमिति चेच्छ्यताम् । इन्द्राग्न्यादिम्य अग्रमणं निरुप्य शतायुधायेत्येता अञ्यान्याहुतीर्मासादिदेवताभ्यो जुहुयात् | तेनार्धमामादिदेवताः प्रीणयति । ततो देव- तानां कलहं च न करोति । यदपि सूत्रकारेणाऽऽग्रयणप्रस्तावे विहितम् “ भद्रान्नः श्रेयः समनैष्ट देवा इति यजभानभागं प्राश्नाति " इति तं विधि मन्त्रव्याख्यानरूपार्थवादेनोन्नपतिअग्निहोत्रचन्द्रिका | भद्रानः श्रेयः समनैष्ट देवा इत्याह हुताद्याय यजमानस्यापराभावाय । इति । [ तै० सं० ५ काण्डे प्रपा० ७ अनु० २ ] यजमानो भक्षणकाले भद्रादित्यादिमन्त्रं पठेत् । अयं च मन्त्रो हुलशेषस्यादनाय समर्थः ः । अत्रीमहीति मन्त्रलिङ्गात् । हुतभक्षगेन यजमानः पराभूतो न भवति । एतच ब्राह्मणमामयणविधिसमीपे नेतव्यम् । ऐन्द्रामं द्वादशकपालं वैश्वदेवं यरुं प्रथमजो वत्सो दक्षिणा सौम्य श्यामाकं चरुं वासो दक्षिणा [ तै० सं० १ काण्डे प्रपा० ८ अनु० १ ] । १०८ हविर्द्व(स्त्र)ये दक्षिणाद्वये श्रृयमाणेऽपि कर्मैकवत्तिद्धयर्थमाग्रमणतां संवरूपां विधातुं प्रस्तौति - यावतीजा ओषधीनामतानामाश्नन् | ताः पराभवन् । [ तै० प्रा० का० १ प्र० ६ अ० १ ] इति । याबस्य ओपर्धानां संबन्धिन्य इति शेषः । विधत्ते- आश्रयणं भवति हुताद्याय | यजमानस्या पराभवाय " ( ९) । [तै० झा० का ० १५० ६ अ० १ ] इति । द्यावापृथिव्यमेककपालम् । [तै० सं० १ काण्डे प्रपा० ८ अ० २] | द्यावापृथिव्यदेवतां प्रशंसति- द्यावापृथिव्य एककपालो भवति । मजा एवं प्रजाता द्यावापृथिवीभ्या- मुभयजः परिगृह्णाति [० १० प्रा० का० १ १० ६ अ० २ ] इति । अलंकरणकाल आज्येनैककपालमभिपूरयतत्यापस्तस्त्रेन यदुक्तं तदिदं द्वेधा प्रशस्य विधत्ते-- “यजमानो वा एककपालः | तेज आज्यम् । यदेककपाल आज्यमान- यति । यजमानमेव सा समर्धयति । यजमानो वा एककपालः । पशुक आज्यम् । ( ४ ) यदेककपाल आज्यमानयति । यजमानमेव पशुभिः समर्घ- यति " । [ ते ० 1० ब्रा० का० १ प्र० ६ अ० ३ ] इति । विशेषान्तरं विधातुं प्रस्तौति-- " यदल्पमानयेत् | अल्पा एनं पशवोऽभुञ्जन्त उपतिष्ठेरन् । चळवारयेत् । बहव एनं पशषो भुञ्जन्त उपतिष्टेन " | [ते० प्रा०का० १प्र०६अ० ३] इति । अग्निहोत्रचन्द्रिका | भुञ्जतः क्षीरदानादिना पाढयन्तेऽनुञ्जन्त इति तद्विप+यः | नानपायेतृत्वं चेत्युभौ दोषौ । बहुवं पालयितृत्त्रं चेयुभौ गुणों तत्र गुणसंपादनेन प्रशंसन्विधत्ते--- बह्वानीयाऽऽविःपृष्ठं कुर्यात् । हवनं पशवो भुञ्जन्त उपतिष्ठन्ते ” । [ तै० ब्रा० का ० १ म० ६ अ० ३ ] इति । बह्वाज्ये पुरोडाशस्य पृष्टमश्रिमृज्य यथा दृश्यते तथा वह्नज्यमानयेत् । तथासत्याज्यस्य बहुत्वात्पशूनामल्पःवदे।पो न भविघ्नति । पुरोड शपृष्टस्याऽऽविर्भूतत्व दपालयितृत्वमपि न भवति । कृत्स्नस्यापि पुरोङा शस्य होम वितुं प्रस्त-- " यजमानो वा एककपालः | पककपालस्यावद्येत् । ( ५ ) यजमानस्या. बद्येत् | उवा माद्येयजमानः | प्र वा मीयेत " [ते०ज्ञा०का० १५०६अ०३ ] इतरपुरोडाशेषु भक्षणाद्यर्थमवशेष्य किंचिदेवावदीयते तद्वत्तत्र: प्यवदानेन यजमान- स्थावयवश्छिद्येताथवोन्मत्तो भवेत् । यद्वा प्रमयेत । कृस्त्रहोमं विधत्ते-- “ सकृदेव होतव्यः | सकूदिव हि सुवर्गो लोकः | " [ तै० ब्रा० का० १ भ० ६ अ० ३ ] इति । सकृदेव कृत्स्न एत्र | स्वर्गलोकस्य सकृत्वमखण्डितत्वम् । एककपाले पूर्धमानीतस्य बह्वाज्यस्य होमं विधत्ते-- " हुत्वाऽभिजुहोति । यजमानमेव सुदर्गे लोकं गमयित्वा | तेजसा समर्थ- यति । " ( तै० ब्रा० का० १ ० ६ अ ३ ) इति । ० आदौ पुरोडाशं हुत्वा तस्योपर्याज्यं जुहुयादित्यर्थः । चोदकप्राप्तेनाऽऽहवनीयहोमेनैककपालं प्रशंसति " यजमानो वा एककपाल: | सुवर्गों लोक आहवनीयः । यदेककपाल- माहवनीथे जुहोति । यजमानमेव सुवर्ग लोकं गमयति । " [ ते० प्रा०का० १ प्र० ६ अ० ३ ] इति । कयाचिदुपपत्त्या पुरोडाशस्य चोदक प्राप्तं स्रुचा होममपोद्य हस्तेन होमः प्रसक्तस्तद्वा- ( स्तं वा ) रयितुं स्रुचा होमस्य प्रतिमसवं विधत्ते - - “ यद्धस्तेन जुहुयात् | सुवर्गालोकाग्रजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्टयै | " [ तै० ब्रा० का० १ प्र० ६ अ० ३ ] इति । अवविध्येत्प्रच्यावयेत् । पुरोडोशो येन संनिवेशेन पात्रेऽवस्थितस्तेनैव संनिवेशे नागौ ११० अग्निहोत्रचन्द्रिका नस्य स्थितिः शाग्वान्तरे विहिता स्रुचा हृयमानत्ववाङ्मुखो वहौ पतंदतस्तद्विरोकं परिहर्तुं हस्तेन होतव्यमित्येषा मन्दानामुपपत्तिः । हुतस्य पुरोडाशस्य नैश्चयं विधातुं प्रस्तांति -- " यत्प्राद्येत । देवलोकमभिजयेत् | यदक्षिणा पितृलोकम् | यत्प्रत्यक् । ( ७ ) | रक्षासि यज्ञ न्युः | यदुदङ् | मनुष्यलोकमभिजयेत् । " [ ते ० ब्रा० का० १५० ६ अ० ३ ] इति । यद्यपि लोकादिजयो न स्वरूपेण दोषस्तथाऽप्यधिककलभावनायां सत्यां तावन्मात्रत्वं दोष एव । विधत्ते- - “ प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनुमति तिष्ठतः । द्यावापृथिवी ऋतवः । ऋतून्यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः | तस्मात्प्रतिष्ठितो होतव्यः (८) । " [तै० ब्रा० का० १४०६ अ० ३ ] इति । प्रागादिदिक्षु पतनपरिहारेण होमस्थान एवं प्रतिष्ठितो निश्चलो यथा भवति तथा होतव्यः | ऋतव इत्यादिष्वनुप्रतितिष्ठन्तीत्यादिकं द्रष्टव्यं तस्मादिति पूर्वस्य विधेरुपसंहारः । तदेतदुक्तं कृत्स्नहोमादिकमापस्तम्बेन स्पष्टनुदाहृतम् -- “ उपांशु प्रचरति सर्वहुतमपर्यावर्तयन्नजं प्रतिष्ठितं न इस्तेन जुहुयात् " इति । [ आप० श्रौ० सू० ६ | ३० । १ । ] 1 स्रुचाहो मेऽप्यपर्यावृत्ति संप्रदायविद एवं संपादयन्ति । शिक्ये पुरोडाशमवस्थाप्य बाम- हस्तेन शिक्याग्रं धृत्वा दक्षिणहस्तेन स्रुचमधस्ताद्धारयित्वा तया स्रुचा होमं कुर्धन्वाम- हस्तेन शिंक्यमीष द्रुद्धृत्य वहाँ स्थापयेदिति । इत्याग्रयणब्राह्मणं सभाष्यं समाप्तम् । अग्निहोत्रचन्द्रिका | अथाऽऽग्रवणसंभारम्मरणपट्टिका | १ जायापती- फर्मानुष्टानार्थम् । २ ऋत्विजः– याजनार्थम् । ३ दर्भाः–प्रस्तराद्युपयोगार्थम् । ४ समिधः–अग्निसमिन्वनार्थन् । ५ पुराणत्रीहयः~पुरोडाशार्थम् । ६ नत्रीयः——चरुपुर्डाशार्थम् । ७ नबश्यामाकाः–चर्बर्थन् । ८ शूपत्रयम् – निर्वापार्थम् । ९ स्थ लीद्वयम्–चरुश्रपणार्थम् । १० एकविंशतिः कपालानि पुरोडाशाधिश्रवणार्यम् । ११ पयः वैश्वदेव वरुपचनार्थम् । - १२ पात्रीत्रयम् –पुरःणनवत्र हिश्यामाकनिर्वापाद्यर्थम् । १३ उत्पत्रनपात्रम् – क्षीराद्युपत्रनार्थम् । १४ आशयपात्रम् - द्यावापृथिव्येककपालस्थापनार्थन् । १५ आज्यम् - होमाद्यर्थम् । १६ प्रथमजगोवलः—–दक्षिणादानार्थम् । १७ वासश्च दक्षिणार्थम् । १८ शुद्धोदकम् - आचमनाद्यर्थम् । प्राकृतात्संभारादयमुक्तो विशेषः । अपरं येन चान्येनार्थी भवति तदपि प्रयुञ्जीत । आग्रयणबिधिबाक्यानि निर्दिष्ट तैत्तिरीय त्राह्मगाश्वलायन पस्तम्बसूत्रैरवगन्तुं मुशकानीति न तदर्थं पृथग्यत्नः क्रियते । इत्याग्रयणसंभारस्मरणपट्टिका | अथाऽऽश्वलायनीयमाग्रयणीयसूत्रम् | आग्रयणं श्रीहिश्यामाकयवानां सस्यं नाश्नीयादग्निहोत्रमहत्वा यदा वर्षस्य तृप्तः स्यादथाऽऽग्रयगेन यजेतापि हि देवा आहुस्तृप्तो नूनं वर्षस्याऽऽग्रयणेन हि यजन इत्यग्निहोत्रीं बैनानादयित्वा तस्याः पयमा जुहुयादपि वाऽक्रिया ११२ अहोचन्द्रिका | यवेष्विष्टिस्तु राज्ञः सर्वेर्पा चके श्यामाकेष्ट्यां सौम्यश्रुः सोम यास्ते मयो- भुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेळाया नित्यं जपमुक्त्वा सव्ये पाणों कृत्वेतरेणाभिमशेजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय | भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितवा विशेह शं नो भव द्विपदे शं चतुष्पद इति प्राश्याऽऽचम्य नाभिमालभेतामोऽसि माण तदृतं ब्रवीभ्यमाऽसि सर्वानसि भविष्टः । स मे जरां रोगमपनुय शरीरादमाम एधि मामृथाम इन्द्रेत्येतेन भक्षिणो भक्षान्सर्वत्र नव- भोजनेऽथ त्रीहियवानां धाय्ये विराजावभीन्द्रविन्द्राशी वा विश्वे देवाः सोमो यदि तत्र श्यामाको द्यावापृथिवी | आघाये अग्निमिन्धते सुकर्माण: सुरुचो देवयन्तो विश्वे देवास आगत ये के च ज्मा महिनो अहिमाया मही द्यौः पृथिवी च नः प्रपूर्वजे पितरा नव्यसीभिरिति ॥ २९ ॥ इत्याग्रयणसूत्रम् । अथ भाष्यवृत्तिसमेतमाग्रयणसूत्रम् | आग्रयणं व्रीहिश्यामाकयवानाम् ॥ १ ॥ १० भा० - नित्यानि कर्मण्यग्न्याधेयादीन्यधिकृतानि | इदमपि नित्यं प्रति. संवत्सरे नवसस्य अ.ग्रयणं भवति । आग्रयणमिति कर्मणः संज्ञाऽविक्रियते । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्सर्वमाग्रयणस्य विधानमाग्रयणकाले नवानां सस्यानां निर्वपेयुरित्युक्ते सर्वसस्यग्रहणं स्यात्सस्यं नाश्श्रीयादग्निहोत्रमहुवेति वचनात्सर्वसस्याना मात्रणे प्राप्त इष्टि नियमः क्रियते । व्रह्मदीनां मेवाणं भवति नान्यस्येति । तत्र पूले कष्टानां त्रीहिभिराग्रवणभर्फले कृष्टानामारण्यानां च शामाकैरित्यन्येषाम् ॥ १ ॥ वृत्तिः -- अग्रेऽयनं मक्षणं येन कणा तदाग्रयणम् । प्रथम द्वितीययोर्हस्वदीर्घत्व व्यत्ययः । एषां त्रयाणां द्रव्याणां संक्सरे प्रथमनिष्पन्नानामाग्रयणं नाम कर्म कर्तव्य- मित्यर्थः । व्रीहिशब्दस्य प्रथमनिपातो ब्रीहीणां प्रावान्यस्थापनार्थम् । तेन कालचोदना व्रीह्याग्रयणस्यैव भवति । श्यामाकशब्दस्य मध्यनिपातो ब्रीहिकालाद्यवकालो भिन्न इति ज्ञापयति ॥ १ ॥ सस्यं नाश्रीयादग्निहोत्रम हुत्वा ॥ २ ॥ दे० भा०-सम्यं नाश्री पाह्यादिलस्यजातं सर्व नाश्री यादग्निहोत्रमत्वाऽनि ष्ट्वेन्यर्थः । इश्र्त्रा तञ्जयादित्यर्थदापन्नम् | नस्यग्रहणास स्नानां प्रतिषेत्रोऽन्यथाइवि अग्निहोत्रचन्द्रिका | ११३ कृतानामेव स्यात् । अनिष्ट्वेति वक्तव्येऽग्निहोत्रग्रहण मिष्टपक्षप्रदर्शनार्थम् । अनिष्ट्वा प्राशने महान्दोषः श्रूयते तस्मान्सूत्रारम्भः । “ हरितयवशाकशमीधान्यानां नवानां फला- नामनिष्ठेऽपि प्राशने याथाकामी " ( आप० श्र० सु० ६ | ३१ । ७ । ) इत्युक्त- मन्येषाम् ॥ २ ॥ वृत्तिः--सस्यं नवनिष्पन्नं तन्नाश्नीयादाग्रयणेनानिष्ट्वा । यद्यग्रयणेनानिष्ठवतो नव- निष्पन्नेनाशनेन विना निर्वाहो न स्यात्तदा तेषां द्रव्याणां तत्कालनिष्पन्नेन सायंप्रातर- ग्निहोत्रं हु॒त्वाऽश्नीयात् । ततः काल आगत अग्रवणं कुर्यात् | अग्निहोत्रमहुत्वा नानी- यादितिवचनादाग्रयणेनानिष्ट्वाऽप्यग्निहोत्रं हुवातो न दोष इति गम्यते । सस्यग्रहणं व्रीह्याद्यन्यदपि यन्नवनिष्पन्नं तस्य सर्वस्य प्रतिषेधार्थम् ॥ २ ॥ यदा वर्षस्य तृप्तः स्यादथाऽऽग्रयणेन यजेत ॥ ३ ॥ दे० भा०. यदा वर्षस्य निष्पन्नेनेट्वेज्यायां प्राप्तायां यदा यस्मिन्काले वर्षस्य लोकस्तृप्तः स्यात्तृप्तिं प्राप्नोत्यलं दृष्ट्येति । अथ तदानीमैत्राऽऽग्रयणेन यजेत ॥ ३ ॥ वृत्तिः–यदा वर्षतृप्तिर्लोकस्य भवति तदाऽऽग्रयणेन यजेत । अनेन प्रकारेण श्रीह्या ग्रयणस्य शर काल उक्तो भवति ॥ ३ ॥ --- अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याऽऽग्रयणेन हि यजत इति । अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा जुहुयात् ॥ ४ ॥ दे० भा०—–कस्माद्धेतोः । अपि हि देवा आहुरप्येवं किल देवता आहुस्तृप्तो लोको नूनं वर्षस्याऽऽग्रयणन यस्माद्यजत इति कस्माच्छरदि श्यामाकैवहिभिर्यजेत । अन्येषां तु “ वर्षासु श्यामाकैः शरदि ब्रीहिभिः ” । ( आप० श्रौ० सु० ६ | ३१ । १४ | ) इत्युक्तम् । व्रीहिभिरिष्ट्या ब्रीहिभिरेव यजेताऽऽयवेभ्यः " ( आप० श्री० सू० ६ । ३१ । १३ ) अग्निहोत्रं वोक्तं नाश्रीयादग्निहोत्रमहुवेतिः । तस्मान्न यवाग्वा- दिभिरग्निहोत्रं होतव्यं भवति । कामादृतेऽपि हि सर्वाणि नित्यानि काम्यानि चेसे- तस्मादथवा पयसा होम इत्येतस्मिन्पक्ष इदमुच्यते । अग्निहोत्री गौस्तां वैं नानादयित्वा तस्यां परिणतेषु घासेषु यत्पयस्तेन पयसा जुहुयात्सायंप्रातर्नियकल्पः । वर्षहोमे वेदं भबति । याशब्दो विकल्पार्थः । यवाग्वादिभिः पयसा वेति वचनात्सस्यभूतानेव । अन्ये- बामप्युक्तम्- “ अपि वाऽग्निहोत्री व्रीहिस्तम्बं यवस्तधं वा ग्रासयित्वा तस्याः पयसा सायंप्रानर्जुहुयात् " ( आप०००६ | ३०।१४। नम्या इति वचनाद्वी- } अग्निहोत्रचन्द्रिका | ह्यादिषु विपरिणतेषु यत्पयो भवतीति भवति । तत्र श्यामाकानामग्निहोत्रहोमो न भवति । श्यामाकेष्ट्यामित्यत्रेष्टिप्रहणाद्द्द्रोहियवानामेव भवति । अध्वर्यूणामप्युक्तम् “ नीहिस्तम्बं यवस्तम्बं वा " इति ॥ ४ ॥ वृत्तिः – अथाऽऽग्रयणेन यजेतेतीष्टिरेवाऽऽग्रयणशब्देनोक्ता | इदानीमिदमप्युच्यते । अग्निहोत्रोमार्था धेनुरग्निहोत्रीत्युच्यते । तां बीहिश्यामाकयवानामन्यतममाशयित्वा तस्याः पयसा सायंप्रातरनिहोत्रं जुहुयात् । इष्टि: प्रथमकलास्तदसंभवेऽयमनुकल्प इति द्वावे- बाऽऽग्रयणकल्पावत्रोच्येते ॥ ४ ॥ अपि वा क्रिया यवेषु ॥ ५ ॥ दे० भा० – आग्रयणस्यापि वा क्रियाऽक्रिया वा विकल्पः । यवेषु पक्षेषु क्रियाव चनाद्यवानामाग्रयणविकल्पः । अग्निहोत्रहो मेष्टिस्थालीपाकादि सर्वेषां पक्षेषु विकल्पः | अन्यथा यत्रेष्टिरित्युक्तेऽधिकारादमिहोत्रस्यैव विकल: स्यात् । यवानामिति वक्तव्ये यत्रे- ष्विति सप्तमीवचनाद्यवेषु निष्पन्नेष्विति वेणुयवेष्वपि विकल्पं दर्शयति कदाचिन्निष्प- यन्त इति निमित्तसप्तमी प्रयुज्यते । " वेणुयवेषु पक्केषु वेणुयवानुद्धर्तवा इति संप्रेष्यति " ( आप० श्रौ० सू० ६ । ३१ । ९ । ) ॥ ५ ॥ वृत्तिः——यवैराप्रयणस्य क्रिया वा भवेदक्रिया वेति विकल्पः ॥ ५ ॥ इष्टिस्तु राज्ञः || ६ || दे० भा० - - इष्टिरेव राज्ञां भवति । इष्टिरुत्तरे वक्ष्यते । तुशब्दोऽग्निहोत्रादिव्यावृ- त्यर्थः ॥ ६॥ वृत्तिः—त्रयाणां वर्णानामविशेषेण कलद्वये प्राप्ते राज्ञो विशेष उच्यत इष्टिरेव नान्य इति ॥ ६ ॥ सर्वेषां चैके ।। ७ ।। दे० भा० – सर्वेषां वर्णानां चैक इष्टिं मन्यन्तेऽग्निहोत्रहोममग्निहोत्रिणाम् । स्थाली- पाकं वा । इष्टिरेवान्येषाम् ॥ ७ ॥ वृत्तिः— सर्वेषामपि वर्णानामिष्टिरेवैत्येकॆ मन्यन्ते ॥ ७ ॥ - श्यामाकेष्ट्यां सौम्यश्वरुः ॥ ८ ॥ दे०भा० - – श्यामाकानामि.ष्टिविधि | अधिक रसूत्रमेतत् । इष्टयधिकां रेषु पुनरिष्टिग्रहणाच्छ्यामाकानामिष्टिरेत्र नान्येयामिति । सौम्यक्षरुः | सोमोऽस्य देवता अग्निहोत्रचन्द्रिका | ११५ सौम्यश्चरुर्न पुरोडाशः । चरुर्जीहिजः । इष्ट्यामेव चरुर्भवति नैकाग्निविधाने | अनाहिता- मेराप्रयणस्थालीपाक इति ॥ ८ ॥ - वृत्तिः--श्यामाकाग्रयणेष्ट्यां सोमदेवन्यश्चरुर्भवति । कालो वर्षर्तुः । शास्त्रान्तरे दर्शनात् ॥ ८ ॥ सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेळाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत् । प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय ॥ ९ ॥ दे० भाष्यम्-सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्येते याज्या- नुवाक्ये सोमस्य शेषं पौर्णमासेन । अवान्तरेळाया नित्यं जपं नित्यमन्त्रजपमिळे भागमि- त्युक्त्वा ततः सव्ये पाणौ तामवान्तरेळां कृत्वेतरेण दक्षिणेन पाणिना तामवान्तरेळामाभ- मर्शयेत् । प्रजापतये त्वेत्येतेन मन्त्रेण जपमुक्त्वेति सिद्धे नित्यवचनाद्यो यत्र नित्यो मन्त्र- स्तत्र तं जपित्वेति भवति । अग्निहोत्रहोमादिषु सर्वाधिकारादितरेणेत्युच्यते ॥ ९ ॥ - वृत्तिः— इतिकाराभ्याहारेण सूत्रच्छेदः । नित्यजपशब्देनेळे भागमिति मन्त्र उच्यते । तस्यानित्यत्वे सत्यपि नित्यवचनमेतेन भक्षिण इति विध्यतिदेशे तद्वर्जितस्य प्रापणा- र्थम् ॥ ९ ॥ भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पद इति माश्याऽऽचम्य नाभिमालभे- तामोऽसि प्राण तदृतं ब्रवीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगमपन्थ शरीरादमा म एघि मामृथाम इन्द्रेति ॥ १० ॥ दे० भाष्यम्—इतरेणैव तामवान्तरेळां प्राश्य तत्त आचम्य नाभिमालभेतामोऽसी- त्येनेन मन्त्रेण । अभिमर्शनानन्तरं नाभिमालभेतेत्यनुच्यमाने प्राशनं न प्राप्नोति तस्माप्राश्येत्युच्यते । सिद्धम्य प्राशनस्य पुनर लम्भादाचमनलोपे प्राप्त आचम्येत्यु- च्यते ॥ १० ॥ वृत्तिः– स्मृतिप्राप्तस्याऽऽचमनस्य विधानं यस्मिन्देश आचमनं कृतं तस्मिन्नेत्र देशे स्थितस्य नाभ्यालम्भनसिद्धयर्थम् ॥ १० ॥ एतेन भक्षिणो भक्षान्सर्वत्र नवभोजने ॥ ११ ॥ दे० भाष्यम् – एतेन होतुर्बिंधानेन भक्षिणो ब्रह्मादयः श्यामाकानिळाभक्षान्भक्ष- येयुः । सर्वत्राग्निहोत्रहोम एकाग्निविधाने च नवभोजने चान्नप्राशनेष्ववान्तरेळायामुक्तो अग्निहोत्रचन्द्रिका | विधिरन्यत्र भक्षे न प्राप्नोति । होतुरुक्तो विधिरण्यन्यस्य न प्राप्नोति । तस्मादतिदेशः क्रियते । इष्ट्यधिकारात्सर्वत्रग्रहणमग्निहोत्रादिष्वपि प्राप्त्यर्थमिळाया अधिकारादन्येष्वपि प्राशनेषु प्राप्त्यर्थं नवभोजन इष्टिर्भवति ॥ ११ ॥ वृत्तिः—– एतेन विधानेन सर्वभक्षेषु सर्वे भक्षिणः सर्वान्भक्षान्मक्षयेयुः । सर्वत्रवचनं प्रकरणादुत्कपार्थम् । नवभोजनवचनं लौकिकेऽपि नवभोजने प्रापणार्थम् । सर्वत्रवचना- प्रकरणादुत्कृष्टमपि नवभोजनवचनाल्लौकिक एव व्यवतिष्ठते । वैदिकेऽग्निहोत्रहोमे ‘“ नवानां सवनीयान् ” इत्यत्र च न प्राप्नुयात्तत्रापि प्रापणार्थं भक्षवचनम् ॥ ११ ॥ " अथ व्रीहियवानां धाय्ये विराजौं ॥ १२ ॥ ६० 9 भाष्यम् – अथ व्रीहियवानामाग्रयणं त्रीहिश्यामाकयवानामित्युक्तम् । तत्र श्यामाकेष्टिरुक्ता पूर्वे हि ते पच्यन्ते । अथ ब्रीहियवानामिष्टिर्वक्ष्यते । ब्रीहांणां यवानां च वक्ष्यमाणेष्टिर्भवति । शरदि ब्रोहीणां वसन्ते यवानां समानेष्टिर्घाय्ये अस्यामिष्टौ विराजौ धाय्ये संयाज्ये भवतः ॥ १२ ॥ - 66 वृत्तिः— अथानन्तरं त्रीहीणां यवानां चाऽऽग्रयणेष्टिरुच्यते । तत्र त्रीह्याग्रयणस्य काल उक्तः । वसन्तो यवाग्रयणस्य | तत्र हि तेषां प्रथमः पाक इति तन्त्रे विशेषाभा- बादुभयोः सहवचनं तयोर्धाय्ये विराजौ च भवतः | इतरत्पौर्णमासं सन्त्रं वैराजम् " इत्येतावतैबोक्तेऽपि तावन्मात्रबिकारसिद्धौ सत्यां धाय्याविराग्रहणं विकल्पेन वृधन्वतो- रपि प्रापणार्थम् ॥ १२ ॥ अग्नीन्द्राविन्द्राग्नी वा विश्वे देवाः सोमो यदि तत्र श्यामाको द्यावा: पृथिवी ॥ १३ ॥ दे० भाष्यम्-तस्याभिष्ट्यां देवताऽग्नीन्द्राविन्द्रासी वा विश्वे देवाः । विश्वे देवा द्वितीया सोमस्तृतीया देवता यदि तत्र श्यामाकश्चरुः समानतन्त्रो भवति द्यावापृथिवी च देवता चतुर्थी भवति समानतन्त्रपक्षे ( इन्द्राग्नी विश्वे देवाः सोमो द्यावापृथिवी ) नानात- न्त्रपक्षे तृतीया भवति (इन्द्राग्नी विश्वे देवा द्यावापृथिवी ) द्यावापृथिव्योरनन्तरे सौम्य- मित्येके ॥ १३ ॥ वृत्तिः—आद्ययोर्विकल्पेनैका देवता गृह्यते । यदि श्यामाकाग्रयणमस्यामेवेष्टौ समा- नतन्त्रेण क्रियते तदा सोमस्तृतीयो भवति ॥ १३ ॥ आघाये अग्निमिन्धते सुकर्माणः सुरुषो देवयन्तो विश्वे देवास आगत ये के वज्मा महिनो अहिमाया मही यौः पृथिवी च नः प्रपूर्वजे पितरा नव्यसीभि- रिति ॥ १४ ॥ अग्निहोत्रचन्द्रिका | दे० भा० - आघाये सुकर्माण इत्यग्नीद्वयोर्याज्यानुवाक्ये इन्द्राग्योर्दष्टियामुक्ते । विश्वे देवासो ये के चेति विश्वेषां देवानाम् | मही द्यौः पृथिवी च नः प्रपूर्वजे इति द्यावा- पृथिव्योः । इति याज्यानुवाक्या: शेषं पौर्णमासेन ॥ १४ ॥ इति देवत्रातभाष्यम् । बृत्तिः~~इन्द्र।ग्न्योः सोमस्य चोक्ता याज्यानुबाक्याः॥ १४ ॥ इति वृतिः | इति देवत्रातभाष्यगार्ग्यनारायणवृत्तिभ्यां समेतमाग्रयणसूत्रम् | एवमाप्रयणसूत्रमाश्वलायनीयं यद्यप्यस्ति समान्नातं तथाऽपि न तावता समाम्नातेनेष्टिः कर्तुं सुशकाऽतश्चेष्ट्यर्थमवश्यमापस्तम्बसूत्रं शरणीकरणःयम् । भवितव्यं च प्रयोगेण प्रयोग शास्त्रानुसारिणाऽतस्तदर्थमंत्राऽऽपस्तम्ब सूत्र लिखन मप्रासङ्गिकं न भवेदेति सदस्यत्र रुद्रभट्टकृत- सूत्रदीपिकया सह प्रस्तावयामः । ततः परं यथाक्रममाप्रयणप्रयोगमन्त्रभाष्यादि लिखामः । तत्र स्वशाखोक्तानाग्रयणानुकल्पानवगन्तुमस्ति स्वप्रयोगशास्त्रापेक्षा | नवीनं चात्र देव- त्रातभाष्यं संगृहीतमिति स्वशाखीय सूत्र लिखनमपि सम्पगित्युत्पश्यामः । ११८ अग्निहोत्रचन्द्रिका | अथाऽऽपस्तम्बीयाग्रयण श्रौतसूत्राणि प्रारभ्यन्ते । नानिष्ट्वाऽऽग्रयणेनाऽऽहिताग्निर्नवस्याश्नीयात् ॥ १ ॥ व्रीहीणां यवानां श्यामाकानामित्यग्रपाकस्य यजेत ॥ २ ॥ अमावास्यायां पौर्णमास्यां वा ॥ ३ ॥ आमावास्यं तन्त्रम् ॥ ४॥ सप्तदश सामिधेन्यः ॥ ५॥ निर्वपणकाल आग्नेयमष्टाकपालं निर्वपति पुराणानां श्रीहीणाम् ॥ ६॥ यथा दान्तेनादान्तं संयुनक्ति तादृक्तदिति विज्ञायते ।। ७ । येन यज्ञेनेर्सेत्कुर्यादेव तत्राऽऽग्नेयमष्टाकपालमिति विज्ञायते ॥ ८ ॥ नवानामितराण्येन्द्रा द्वादशकपालमाग्नेन्द्रं वा वैश्वदेवं पयसि चरुं सौम्यं श्यामाकं चरुं द्यावापृथिव्यमेककपालम् ॥ ९ ॥ पुरस्तात्सौम्याद्यावापृथिव्यमेके समामनन्ति ॥ १० ॥ निरुमं हविरुपसन्नमप्रोक्षितं भवति । अथ पञ्चाज्यानीर्जुहोति शतायुधाय शतवीर्यायेति ॥ ११ ॥ पुरस्ताद्वा स्विष्टकृतः ॥ १२ ॥ प्रोक्षादि कर्म प्रतिपद्यते ॥ १३ ॥ एकमुलूखलं मुसलं प्रतिवीजं वा ॥ १४ ॥ सर्वेषु हविष्कृवहननमन्त्रः ॥ १५ ॥ तुषोपवपनम् । १६ ॥ उत्तममोप्य वाचं विसृजते ॥ १७ ॥ एषोऽन्येषां नानाबीजानां समवेतानां कल्पः ॥ १८ ॥ अलंकरणकाल आज्येनैककपालमभिपूरवति ॥ १९ ॥ आविः पृ (पृष्ठं वा कृत्वाऽऽसादयति || २० || मचरणकाल उद्धृत्य बर्हिषदं कृत्वा जुह्वामुपस्तीर्याऽऽ- धायाऽऽशयमन्वानीयाभिघार्योपांशु प्रचरति ॥ २१ ॥ सर्वहुतमपर्यावर्तयन्न प्रतिष्ठितं न हस्तेन जुहुयात् ॥ २२ ॥ यदि हुत: पर्यावर्तेत स्रुचोऽग्रेण कल्पयेत् ॥ २३ ॥ न पाणिना ॥ २४ ॥ वरे दचे कल्पयितव्यः २५ ॥ आधायाभिघार्य पुनर्हेतव्य इत्येके ॥ २६ ॥ अग्निहोत्रचन्द्रिका | ११९ अपि वा नैककपालं कुर्वीताऽऽज्येन द्यावापृथिवी यजेत ॥ २७ ॥ ये प्राचीनमेकाष्टकाया बत्सा जायन्ते तेषां प्रथमजं ददाति । वास: श्यामाके ॥ २८ ॥ भद्रान्नः श्रेयः समनैष्ट देवा इति यजमानभागं माश्नाति ॥ २९ ॥ सर्वेषां वा भक्षाणां मन्त्रवनां प्रत्यास्त्राय: स्यात् ॥ ३० ॥ अग्निः प्रथमः मानातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामा- कानाम् ॥ ३१ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ३२ ॥ अपि वाऽमावास्यायां पौर्णमास्यां वाऽऽग्रयणेष्टिमन्वायातयेत् ॥३३॥ अपि वाऽमावास्यां पौर्णमासीं वा नवर्यजेत ॥ ३४ ॥ अपि वाऽग्निहोत्रीं त्रीहिस्तम्बं यवस्तम्बं वा ग्रासयित्वा तस्याः पयसा सायं प्रातर्जुहुयात् ॥ ३५ ॥ अपि वा नवानां यवाग्वा सायं प्रातर्जुहुयात् ॥ ३६ ॥ अपि वा नवानां गार्हपत्ये स्थालीपाकं श्रपयित्वाऽऽहवनी ये जुहुयादाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यः ॥ ३७॥ अपि वा नवानां चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भो- जयेत् ॥ ३८ ॥ एवं यवैर्यजेत ॥ ३९ ॥ तत्राsऽग्नेयश्यामाकौ न भवतः ॥ ४० ॥ य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । एतमु त्यं मधुना संयुतं यवं सरस्वत्या अधिमनावचठ्ठेषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः । इति यजमानभागं प्राश्नाति । सर्वेषां वा भक्षाणां मन्त्रवतां प्रत्याम्नायः स्यात् ॥ ४१ ॥ सिद्धमिष्टिः संतिष्ठते || ४२ ॥ यदि नानातन्त्रां श्यामाकेष्टिं कुर्वीत | श्यामाकानुद्धर्तवा इति संप्रेष्यति ॥ ४३ ॥ तस्याः सप्तदश सामिधेन्यः ॥ ४४ ॥ सन्तावाज्यभागौ विराजौ संयाज्ये ॥ ४५ ॥ अग्निहोत्रचन्द्रिका | त्वमग्ने स प्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञा वितन्वते । सोम यास्ते मयोभुव इति सन्तौ । भेद्धो अग्न इमो अग्न इति विराजौ ॥ ४६ ॥ वासो दक्षिणा दधिमन्थो मधुमन्थो मधुपर्कों मधुग्लुन्थो बभ्रुर्वा पिङ्गलः ॥ ४७ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ४८ ॥ हरितयवशाकशमीधान्यानां नवानां फलानामनिष्टेऽपि प्राशने याथाकामी ॥ ४९ ॥ वेणुयवानामिष्टिमेके समामनन्ति ॥ ५० ॥ वेणुयवेषु पकेषु वेणुयवानुद्धर्तवा इति संप्रेष्यति ॥ ५१ ॥ तस्या एतदेव तन्त्रमेषा देवता ।। ५२ ।। आग्नेयी मैत्रावरुणी प्राजापत्या वा ॥ ५३ ॥ स प्रत्नवदिति द्वे धाय्ये चतस्र आज्यभागयोर्दशहविषां द्वे स्विष्टकृतः ॥ ५४ ॥ व्रीहिभिारष्ट्वा श्रीहिभिरेव यजेताऽऽयवेभ्यो दर्शपूर्णमासावेवं यवैरा व्रीहिभ्योऽपि वा । व्रीहिभिरेवोभयत्रैते ह वै सूपचरतमा भवन्तीति बहुवृचब्राह्मणम् ॥ ५५ ॥ वर्षासु श्यामाकैर्यजेत शरदि ब्रीहिभिर्वसन्ते यवैर्यथर्तु वेणुयवौरीति विज्ञायते ।। ५६ ।। इत्यापस्तम्बीयाग्रयणसूत्राणि समाप्तानि | अग्नैहोत्रचन्द्रिका । अथाऽऽपस्तम्बी चाय पणश्रौतसूत्राणि सभाष्याणि | नानिष्ट्वाऽऽग्रयणेनाऽऽहिताग्निर्नवस्याश्चीयात् ॥ १ ॥ १२१ उक्तः प्रवासः । अथाऽऽग्रगमारते | यंत्र नत्रसपान मसको देवानीयते तदा अयणं नाम नित्यं कर्म। तेनानिष्ट्वा सर्वमेव सस्यं नाश्रीयात् । यदप्ययज्ञियं कोद्रवादि तदपि नाश्नीमादेव नवस्येति सामान्य निर्देशानवानां फल. नामनिटेऽपीति लिङ्गाच । आश्वलायनस्तु प्रागाग्रयणान्न बैतनिक्षेत्राशन ननुजानाति । यदाह सस्यं नाश्रीयाद ग्निहोत्रमद्दुत्वा यदा वर्षस्य तृप्तः स्वादथाऽऽयं वर्णन यजेतेति ॥ १ ॥ श्रीहीणां यवानां श्यामाकानामित्यप्रपाकस्य यजेत ॥ २ ॥ धागस्वासामेवौषची नामग्र राकेण भवति नान्यातामि यर्थः । अग्रे पच्यत इत्यप्रनाकः | प्रथमपक्कमन्त्रमिति यावत् ॥ २ ॥ अमावास्यायां पौर्णमास्यां वा ॥ ३ ॥ यजेतेत्यनुषङ्गः । यदिष्ट्या.दविधिसिद्धस्यापि पर्वणो विधानमामावास्वतन्त्रत्वादान स्याऽऽमावास्यैककालत्वभ्रम नरासार्थन् । अनावस्यापर्णादांच प्रतिपपञ्चदश्योः संधिमानहोरात्र उच्यते तत्रैव तयोः । अतः स एव तावद्विकृतीनां य.गकालः । तास्तु प्रकृति नंनिप ते तदनुरोधेन नेतन्याः । यथोक्तं सयापार जाभ्यां दर्शना सयोर्विकृतेश्च संनिपाते तत्र दर्शपूर्ण न. सौ बळी यांसाविति तत्रेयं विरोधगतिः -- यदा संधिमदहरुपवतथं करोति तदा विष्ट प्रकरुपत्रासः । यदा यजनीयं तदा प्रकृ त्येष्ट्वा विकृत्या याग इति । सत्यापढनु कष्टी प्रऽऽह-अनबस्सं पैौर्णनासीं वा संस्थाप्य यजेेति । ऋतुनोतरत्र विवास्पति तेन च पर्व: सनुबधः ॥ ३ ॥ आमावास्थं तन्त्रम् ॥४॥ ऐन्द्राग्नस्य मुख्यत्रादेव सिद्धे पूर्णमानराणां हविनां भूयस्त्वत्वर्गमासतन्त्रस्यश- ङ्कापनयनार्थ आरम्भः | तेन च भूपत्वं बलन देति ज्ञातिं भवति ॥ ४ ॥ सप्तदश सामिधेन्यः ॥ ५॥ समिन्धनार्था ऋचः सामिवेन्यस्ता अग्रवगे भवन्ति ॥ ५ ॥ निर्वपणकाल आग्नेयमष्टाकपालं निर्वगते पुरागानां श्रीहीणाम् ॥ ६ ॥ ब्रीहीणां संवन्धिनं व्रीमियभिव्यर्थः ॥ ६ ॥ अग्निहोत्रचन्द्रिका | यथा हानाहानदेति विज्ञायते ॥ ७ ॥ यथा दान्तेन बल बर्देन नहानं बलवई योजयति कर्षक शाकटिको वा तादृ गेव नवानां हविषां पुराणेन सह निर्वामिनर्थः । अत एत्रोपपत्तिवचनादर्शपूर्णमास- योरन्यायायनान आप्रवणे पृथगाग्नेयं नेच्छन्ति तत्र दान्तादान्तयोरसंभवादनाग्रयणह- विघ्वाच्चाऽऽग्नेग्रस्न | तत्र च लिङ्गम ग्रयणदेवताभ्यः स्विष्टक चतुर्थाभ्य इति । भारद्वाजस्तु स्वतन्त्राग्रयणेऽप्याहापि वा नवान्येव निर्वपेन्नाऽऽयमिति ॥ ७ ॥ १२२ येन यज्ञेनेर्सेत्कुर्यादैव तत्राऽऽग्नेयमष्टाकपालमिति विज्ञायते ॥ ८ ॥ न केवलमाग्रयणे किंतु सर्वत्रैवेष्टिमात्रे येनाधिंतुमिच्छति तत्राऽऽयं मुख्यं समानतन्त्रं च निर्वपेदित्यर्थः ॥ ८ ॥ नवानामितराण्यैन्द्रानं] द्वादशकपालमानेन्द्रं वा वैश्वदेवं पयसि चरुं सौम्यं श्यामाकं चरुं द्यावापृथिव्यमेककपालम् ॥ ९ ॥ श्यामाकमपि नवानामेब ॥ ९ ॥ पुरस्तात्सौम्यायावापृथिव्यमके समामनन्ति ।। १० । गतः ।। १० ।। निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ पञ्चाज्यानीर्जुहोति शतायुधाय शतवयियेति ।। ११ ।। निरुप्तं हविरित्यादि गुरुसूत्रकरणमाग्रयणं निरूम्यैता आहुर्त र्जुहोतीति ब्राह्मणव्याचि ख्यासयेति द्रष्टव्यम् । सूत्रं चैतद्व्याख्यातमाधाने । अज्या नयः शतायुधानेत्यादयो भद्रान्न इत्यन्ताः ॥ ११ ॥ पुरस्ताद्वा स्त्रिष्टकृतः ॥ १२ ॥ नारिष्टेभ्य उपरिष्टाज्जुहोत्यागन्तुकचात् | आत्रयणं निरुप्येति यागानुवादोऽयं न निर्वापमात्रस्येति भावः ॥ १२ ॥ प्रोक्षादि कर्म प्रतिपद्यते ॥ १३ ॥ गतः ॥ १३ ॥ एकमुलूखलं मुसलं प्रतिवीजं वा ॥ १४ ॥ अत्रोलूबलमुसलमात्रग्रह गाद्वयोरेवायं नानात्वविनान्येषान् । अतः शूर्पादीन्येकै- कानि भवन्ति । सत्याप ढस्त्वा हैकमुलूवलं मुलं चूकृष्ण जिनं चति । प्रदर्शनार्थ- मेतद्विभुनामय भारद्वाजस्वाह ऋणि शर्मागपुनके बनि पदाअग्निहोत्रचन्द्रिका | १२३ विति । तत्र शूपकत्वे प्रदेशभेदेन निर्वापायौ विवेकपरापवने तु सामर्थ्यात्पात्रान्तरे न्चैकैकस्य बीजस्य भवतः । तथा उपद्यधिवापः पर्यायेण पात्रीकृष्णाजिनयोः प्रस्कन्दनं संत्रापश्च प्रदेशभेदेनेत्यादि द्रष्टव्यम् | बीजसंस्कारेषु संभवतां तन्त्रःत्रमितरेपामावृत्तिश्च यथा- यथमनुसंधातव्ये । तत्राऽऽह भारद्वाजः - आ तन्त्रिभावादकैकं बीजमपवर्जयेदिति ॥ १४ ॥ सर्वेषु हविष्कृदवहननमन्त्रः ॥ १५ ॥ यदा पहननार्थो हविष्कृन्मन्त्रस्त दलका च बीजे बीज अवर्तते । यदाऽऽहानार्थ- स्तदाऽप्युलुखलैकत्य आवर्तते भिन्नत्वात् । यथा वक्ष्यति हविष्कृदधिरोनुवाक्याम- नोतस्याऽऽत्रू तिर्भिन्नकालेष्विति । भिन्नकालता च तत्र कर्मणः काण्डानुसमयेनैवानुष्ठेयत्वात् । तथा च भारद्वाजोऽपि वैकस्मिनुखले पूर्व परमपहन्यात्तत्राऽऽयपनप्रभृतयो विथेचनान्ता मन्त्रा बीजं बीजमभ्यार्तेरनिति | यदा तूलूखलभेदस्तदा न हविष्कृदाहानमावर्तते काल- ब्यवेतत्वःत्कालाव्यवा५श्च तत्र कर्मणा समानजातीयन्थायतः प्रवृत्तिसिद्धेः । तथा चैकै- कस्मिन्कृष्णाजिने ॠण्युलुखलान्यधिवर्तयतीति प्रकृत्य भारद्वाजः सर्वाणि हवष्योप्य हवि- ष्कृतमाह्वयति सर्वाण्यवहत्य पदुपले समाहन्त्यनुपूर्व सर्वाणि हवयुद्धपति परापुनाति विविनक्तीति ॥ १५ ॥ तुषोपवपनम् ।। १६ ।। तुषोपवपनमपि सर्वेषु बीजेषु भवत्युलखलाभेदे भेदे च सर्वेषां तुवाणां प्रतिपाद्यत्वात् । तत्र सर्वे तुषाः समावःव्यान्ततः प्रतिपादनीया विभुत्वात् । भारद्वाजश्चाऽऽह सर्वेषामन्तत - स्तुषानुपःपपतीति । प्रक्षालन निनयनमप्येतेनैव व्याख्यातम् ॥ १६ ॥ उत्तममोप्य वाचं विसृजते ॥ १७ ॥ हविष्कृदावृत्युक्तौ तूत्तमं बीजमोप्य यो हविष्कृत्तेन वाचं विसृजते न पूत्रेणेत्यर्थः । अथ पेषणादीनामपि पूर्ववत्तन्त्रावृत्तिभ्यां प्रवृत्तिः । चम्पुरोडाशधमाश्च यथायथं प्रत्ये- तव्याः ॥ १७ ॥ एषोऽन्येषां नानावीजानां समवेतानां कल्पः ॥ १८ ॥ अन्येषामप्येकस्मिंस्तन्त्रे समवेतानां नानाबीजानामेकमुलूवलं मुसलमित्यादिरेष एवं कल्पः प्रयोगः ॥ १८ ॥ अलंकरणकाल आज्येनैककपालमभिपूरयति ॥ १९ ॥ अथोद्वातनकाले पात्र्यां क्रोडं कृत्वा तत्र प्रतिष्ठापित मेककपालमलंकरणका लेऽलंकर • णमन्त्रेणाभि'यति । यथा स निमज्जत्याज्ये तथा कोडं पूरयतीत्यर्थः ॥ १९ ॥ अमित्रचन्द्रिका | आविःपृष्ठे वा कृत्वाऽऽसादयति ॥ २० ॥ अथवा तमावि पृष्ठं प्रकाशपृष्ठं कृत्वाऽनभिपूर्व ततो हवसादयतीत्यर्थ । तथा च व्यक्तं प्रदेशान्तरं यथाऽऽवि.पृष्टं कृत्वा व्यासादिति । अथापरा व्याख्या - उदासनकाले पात्रान्तर उद्व सितमेककप.लमा ज्येनाभिर्यपृष्ठ वा कृत्वा तेनैव पात्रेण सह सादयति । तथा च सत्यापादोऽन्य.स्मिन्पात्र एक कपालमुद्रास्थेत्यादि ।। २० ॥ प्रचरणकाळ उद्धृत्य वर्हिपदं कृत्वा जुह्वामुपस्तीऽऽधायाऽऽशयमन्वानी- याभियायपांशु प्रचरति । २१ ॥ प्रचरणकाले घृत देककालद्धृय बर्हेषि सन्नं कृत्वा तो जुहामुपस्तीर्थ तत्र कृत्स्नं पुरोडाशं तूष्णीं निचाय तस्मिन्घृत आशयितदायमा पश्च. द.नीय सदभिघार्यो- पांशु प्रचरति । द्विर/भिवःरण मिचेके | तदयुक्तमाशयेनैव चतुरूचत सिद्धेः कृत्स्नं वैश्वान रमवदाय द्विरमिघ, येत्यन्यत्र वचनाच ॥ २१ ॥ १२४ समपर्यावर्ततं न हस्तेन जुहुयात् ॥ २२ ॥ सर्बहुतमिति बिस्पष्टार्थम् । अथवा यथाऽस्कन्नः सर्वो हुतो भवति तथेत्यर्थः । अप र्यावर्तयन्यथा हृयमानो द्रुतश्च न पर्यावर्तेत तथा स्रुकफ्र्थेन शनैश्च्याक्येत् ॥ २२॥ यदि हुत: पर्यावर्तेत स्रुचोऽग्रेण कल्पयेत् || २३ || कल्पयॆद्यथास्थानंं प्रतिष्ठःपयेत् । द्रुत इति वचनाद्दुतस्य पर्यावर्तने यद्येककपालः स्कन्देत्पर्यावर्तेतेत्यनेन विधिना कलयेत् ॥ २३ ॥ न पाणिना |॥ २४ ॥ सहकार्यान्तरापेक्षायामपि न पाणिना कल्पयेत् ॥ २४ ॥ वरे दचे कल्पयितव्यः ॥ २५ ॥ कल्पयिष्यमाणेऽध्वर्यवे वरो देय इत्यर्थः ॥ २५ ॥ आघायाभिघार्य पुनर्हेतव्य इत्येके ॥ २६ ॥ अथवा नैव कल्पयितथ्यः किंतूद्धृत्य स्रुच्याधायाभिघार्य पुनराश्राबणा दिविधिना होऊन्यः ॥ २६ ॥ अपि वा नैककपालं कुर्वीताऽऽज्येन द्यावापृथिवी यजेत ॥ २७ ॥ उभयोरपि पक्षयोर्वेशेषिकमेव हुतानुमन्त्रणं न प्राकृतमिति दर्शितं याजमाने ॥ २७ ॥ अग्निहोत्रचन्द्रिका | १२५ ये प्राचीनमेकाष्टकाना वत्सा जायन्ते तेषां प्रथमजं ददाति । वासः श्यामाके ।। २८ ।। एकाऽष्टका वक्ष्यते या मध्याः पर्णतिय अनि तया: ये जमा- नस्य गोषु वसा जतःः पूर्वमरेप प्रथमजंसः श्यम के चरौ निमित्तभृते । तयोश्च भिमर्शन द वृहः प्रकृतवे दर्श: ।। २८ । भद्रान्नः श्रेयः समष्ट देवा इति यजमानभार्ग ति ॥ २९ ॥ प्रत्याग्नान.त्म.कृामन्त्रः निवर्तते ॥ २९ ॥ सर्वेषां वा भक्षाणां मन्त्रां प्रत्यान्नायः स्यात् ॥ ३० ॥ न केवलं यजमानभागमात्र चैकिंतु ये यजमानस्यां वा मन्त्रवन्तो भक्षा इडा प्राशिनादिविषयास्तेषां सर्वेन.मपि मन्त्रस्यायं प्रय,म.य. सत् ॥ ३० ॥ अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामःकानाम् ॥ ३१ । झ्यामाकानां यजमानभागं पृथगनेनन्द्रेण प्रश्नति सर्वेषां वैयदि एर्ववत् ॥ ३१ ॥ सिद्धमिष्टिः तिष्ठते ३५ ॥ गतः ॥ ३२ ॥ अनि वाऽमावास्यायां पौर्णनास्यां वाऽऽग्रयणेष्टिमन्वायातयेत् || ३३ ॥ अथाऽऽपत्स्वनुग्रह.र्थम प्रयणस्थानुकला उपदिशन्ते तेषामुत्तरोतरकल्पस्यानुकल्प व- मापत्तारतम्यानुसारित्वं च बोद्धव्यम् । तत्रानापद्यपि कचि कपिटीप, समर्थ्यावतिष्ठते तं तं विषयविशेषं तत्र तत्र को प्रशयिष्यामः । तत्र यः कचिपा पृथग ग्रा- णेष्टिं निर्व॑प्तुं न शक्नुयात्स तां दर्शपूर्णम. सय रन्तर मन्त्रायातयेत् । तेकतन्त्र एग्रन- हवी॑ष्यनुनिर्व॑पेदित्यर्थः । तत्र चाज्य, न्यादिवेशे पिकविरोधकार्यन् । पुराणवणं तु नैच्छन्ति तच्च दर्शितभेत्र प्राक् | दक्षिणास्तु समुच्चीयन्ते वास: यामक इति लिङ्गात् । अक्षणे तु नवस्य पृथक्कृतस्य भक्षणं मन्त्रभेदात् ॥ ३३ ॥ अपि वाऽमावास्यां पौर्णमासी वा नवैर्यजेत ।। ३४ ॥ पूर्वकल्पस्याव्यशक्तौ दर्शपूर्णमासय रन्यतरमेव नवैर्यजेत | तत्र तु सर्वस्यापि वैशेषि- कस्य निवृत्तिः । अथ यत्र क्रिया दर्शपूर्णमासव्यतिरिक्तेष्ट नां यथा ताभ्यां संवत्सर मिट्या तत ऊर्ध्वमन्यानि कर्माणि कुरुत इति तत्रायमेव पश्चो व्यवसामर्थ्यात् ॥ ३४ ॥ १२६ अग्निहोत्रचन्द्रिका | अपि वाऽग्निहोत्रीं श्रीहिस्तम्बं यवस्तम्बं वा ग्रासयित्वा तस्याः पयसा सायं तर्जुहुयात् ॥ ३५ ॥ व्र ह्य.ग्रयणवले सर्व.हिकं त्रीस्तम्वं यत्रणक.ले यवस्तत्रं च प्रातरेव गां ग्रास चिया -क्षणमपीनायास्तस्याः पया सायंजु दरेधुः प्रातश्च । तत्र व्रीहियवनियमा- च्छ्यामाकांनां निवृत्तिः ॥ ३५ ॥ अपि वा नवानां यवाग्वा सायं मा र्जुहुयात् ॥ ३६ ॥ पूर्वेणायं पक्षो व्याख्यातस्तुल्य विकल्पश्च सर्वत्र ॥ ३६॥ अपि वा नवानां गर्हपत्ये स्थालीपाकं श्रपयित्वऽऽहवनीये जुहुयादाग्रयण- देवताभ्यः स्त्रिष्टकृच्चतुर्थाभ्यः । ३७ ॥ स्विष्टकृञ्चतुर्थाभ्य इति वचनाच्छ्यामाकदेवतायाः सेमस्य निवृत्तिः । स्थालीपाक इति बचनाच्च पावणप्रकृतिको यजनानकर्तृकश्च | अथ यदा संवत्सरे पवमानहविषामु त्कर्षस्तदाऽयमेत्र पक्षः सामर्थ्यात् ॥ ३७ ॥ अपि वा नवानां चतुःशराबमो नं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् ||३८|| पुरुषाशनपर्याप्तग्राहिणा महता शरावेण चतुर्वारं निरुप्तमोदनं लौकिकेऽसौ पक्त्वा चतसृणामासां देवतःनामर्थे चतुरो ब्राह्मणाम्भोजयेत् । अथ यदोत्सृष्ट्याग्निर्यजभानस्तदाऽय- मेव पक्षः सामर्थ्यात् ॥ २८ ॥ एवं यवैर्यजेत ॥ ३९ ॥ वसन्ते यत्रानामग्रपाकेणाप्येत्रं श्रीह्म, ग्रयणस्य सानुकल्पस्याऽऽवृता यजेत । तत्र त्वाह भारद्वाजो न यवानामाग्रयणं विद्यत इत्यै डुलोमिरिति । तथाऽपि वाऽक्रिया यवेष्वित्या - वलायनः ॥ ३९ ॥ तत्राऽऽग्नेयश्यामाकौ न भवतः ॥ ४० ॥ तत्र यवाग्रयणे पुराणाग्नेयश्यामाकचरू न भवतः ॥ ४० ॥ य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । एतमु त्यं मधुना संयुतं यवं सरस्वत्या अधिमनावचठ्ठेषुः । इन्द्र आसीत्सरिपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यजमानभागं मानाति । सर्वेषां वा भक्षाणां मन्त्रवतां प्रत्याम्नाय: स्यात् ॥ ४१ ॥ पूर्ववद्व्याख्या ।। ४१ ॥ गतः । ४२ ॥ यदि नानातन्त्रां ध्यति ॥ ४३ ॥ अग्निहोत्रचन्द्रिका | सिद्धमिष्टिः संतिष्ठते ॥ ४२ ॥ १२७ श्यामाकेष्टिं कुर्वीत श्यामाकानुद्धर्तवा इति संमे यो ब्र'ह्यःमयणे श्यामाकश्चरुरुक्तस्तं यदि पृथक्तन्त्र कुत तदा वर्ष सु श्यामाकसस्ये पक्के सति श्यामाक नुद्धर्तवा उद्धार्याऽऽहरेतेति कर्मकरान्यजमानः संप्रेति श्यामाकसस्य इत्यपि संप्रैषावयव इति न भ्रमितव्यं विपर्ययस्यैवोत्तरत्र व्यक्तवात् । यथा वेणुयके वेणुयवानुद्धर्तवा इति संप्रेष्यतीति ॥ ४३ ॥ तस्याः सप्तदश सामिन्यः ॥ ४४ ॥ सप्तदशवचनमज्यान्यादेः सर्वस्यापि विशेषस्य प्रदर्शनार्थम् | तन्त्रं त्वस्याः पौर्णमासम झीषोमीयविकारत्वात् ॥४४॥ सन्तावाज्यभागौ विराजौ संयाज्ये ॥ ४५ ॥ सद्वन्तावस्तिधातुमन्तौ ॥ ४५ ॥ त्वमग्ने समथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्त्र | सोम यास्ते मयोभुव इति सद्वन्तौ । मेद्धो अग्न इमो अग्न इति विग़जौ ॥ ४६ ॥ गतः ॥ ४६ ॥ वासो दक्षिणा दधिमन्थो मधुमन्थो मधुन मधुग्लुन्थो बभ्रुर्वा पिङ्गलः ॥ ४७ ॥ बाससः पुनरुपादानमुत्तरैर्विकल्पार्थम् । सर्विरादिसंनुका: सक्तवो नन्थः । स दध्ना संयुक्तो दधिमन्थ: मधुना मधुनन्थः मधुपर्क गृह्ये व्याख्यास्यति । अनिश्चतितमधुर्मधु- कोशो मधुग्लुन्थः । मधुमिश्रं गुडमित्यन्ये । बभ्रुः कपिल: । पिङ्गलः पि.क्षः । एवं द्विरूपो गौर्वेत्यर्थः ॥ ४७ ।। सिद्धमिटि: संतिष्ठते ।। ४८ ॥ गतः ॥ ४८ ॥ हरितयवशाकशमीधान्यानां नवानां फलानामनिष्टेऽपि प्राशने याथा- कामी ॥ ४९ ॥ पूर्वत्रानिष्वाऽऽग्रयणेनेत्यनेन प्राग.ग्रवणस्यानिनवस्व. शनं प्रतिषिद्धम् । तत्र केषां- चिदशनमनेनाभ्यनुज्ञायते । हरितयवा ननम सस्यविशेषास्तथा शाकाः शमीधान्यानि कोशी१२८ चिन्द्रिका | धान्यानि । तेषां जम्बादिकलानां च नवानामनिष्टेऽप्याग्रयणे याथाकाम्यं भक्षणे भवति । ।। ४९ ।। वेणुपवा नामिष्टियेके समामनन्ति ॥ ५० ॥ वेणु, भैरप्पाप्रवणं कैश्चिद्वत्रीने ।। ५० ।। बेणुयश्रेषु एतेषु येशुाव.नुद्वा ते ॥ ५१ ॥ माखातः । ५१ ॥ तस्या एतदेव त मेषा देवता ॥ ५२ ॥ यच्छय म.केश्र्यमुक्तं सनःशस मियातिदेव, स्पास्तन्त्रं देवताऽपि तत्रत्यः सोम एवेनर्थः ॥ ५२ ।। आग्रेयी मैत्रात्ररुगी प्राजापत्या वा ॥ ५३ ॥ इष्टि.रिति शेषः ॥ ५३ ॥ अथ सर्वस्यैवाऽऽस्स हाँत्र विक रमाह- " स प्रत्नवदिति द्वे घाट चतस्त्र आउभागयोदश हविष द्वे स्विष्टकृतः ॥५४॥ स प्रत्नवदेति परम्यानुवाकया भवनः । ततः पराश्चतस्त्रो व्रीहि- यत्र प्र णोर ज्यभाग,र्था अनु. कास्तम्ब दिनो द्वे अग्नवस्य पर द्वेश्यामा- केष्ट्य तु सायुक्तम् । याज्यस्तु एवं सर्वन | परास्तु दश प्रधानह ६िषां याः ।नुत्र.क्यास्त श्च श्रथ.लिङ्गं गृह्यनेन तु क्राशः सम्पयोः प्राथम्यात् । तत: परे द्वे च ॥ २४ ॥ श्री मिष्टा मरेव यजेताऽऽ यवेभ्यो दर्शपूर्णमायरा ब्रीहि भ्योऽनि वा श्रीहिनिकोयनेते ह वै सूचचरतमा भवन्तीति वचत्र ह्म- णम् ॥ ५५ ॥ दर्श र्णनासयोत्रे॑ है.न्यव.वेति व्रीहि ः सर्वलं विकल उक्तः इदानीं शाखा - न्तर्र्यो विनिवेशः पक्षे यवबावश्च प्र.शी । ब्रह्मणेष्व व्रीहिमिरेव दर्श पूर्ण नासौ यजेताऽऽ यत्र ऋण त् । एवं यवणारा श्री.ग्रणयः | अपि वा हिभिरेव यजेोभयोः कालयोः । यत एते सूनचरतमाः मुखेनातेपियन्ते च न यवव- दुःखेन तस्माद्नं, हिभिरेव निःयं यजेत दर्शनालावे व वनः नातिहोत्रायें · । तण्डुलेष्वयं नियमः । दर्शपूर्णमासाभ्यामेव तद्विकागश्च व्याख्याताः ॥ ५५ ॥ अग्निहोत्रचन्द्रिका | १२९ वर्षासु श्यामार्केयजत शरदि त्रीहिभिर्वसन्ते यवैर्यथर्तु वेणुयवैरिति विज्ञा- यते ॥ ५६ ॥ यदि नानातन्त्रा श्यामाकेष्टिस्तदाऽनया वर्षासु यजेत । ततः शरदि केवलैव्रहिभिः । समानतन्त्रत्वे तूभयैः शरदि । ततो वसन्ते यवैः । वेणुयवैस्तु यथर्तु यजेत । ते ह्यनि- यतकालनिष्पत्तयो यस्मिन्नेवर्तौ निष्पद्यन्ते तस्मिन्नेव यजेतेत्यर्थः ॥ ५६ ॥ इति रुद्रभट्टकृतसूत्रदीपिकया सहितमापस्तम्बीयाग्रयणसूत्रम् | अथाऽऽपस्तम्बसूत्रानुसारि आग्रयणप्रयोगः | यजमानः—शरद्यमात्रास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वाऽऽचम्प दर्भेष्वा- सीनो दर्भान्धारयमाणः पवित्रपाणिः पन्या सह व्रीहिश्यामाकाभ्यां तन्त्रेणाऽऽग्रयणेन यक्ष्ये । इति प्रथमाग्रयणे संकल्पयेत् । द्वितीयाग्रयणे तु आग्रयणेन यक्ष्ये । इति संकल्पयेत् । विद्युदसि० । ऋत्विग्वरणम् | अद्य यज्ञाय | आग्रयणीय हविः । इति विशेषः । अध्वर्युः – आमावस्यं तन्त्रं कुर्यात् । सप्तदश सामिधेनीः | वेदं कृत्वा वेदिम् । यस्य कस्यचिद्यज्ञियकाष्ठस्योपवेषम् | अलंकारपरिस्तरणे | यजमानः— देवा देवेष्विति जपेत् । अध्वर्युः – पात्रासादनं विशेषयेत् । * एकविंशतिः कपालानि । द्वे स्थाल्यौ स्फ्येन सः द्वंद्वमासादयेत् । + शूर्पत्रयम् । एकमुलुखलमेकं मुसलम् | © पात्रीत्रयम् । आज्य- स्थाल्या सहाऽऽशयपात्रम् | प्रणीताप्रणयनेन सहोत्पवनपात्रम् | प्रातर्दोहपात्रान्वाहार्य - स्थालीबर्जमितराणि प्राकृतानि पाय व 1 इति गृत्रियमादत्ते । निरस्तमिति तन्त्रेण निरसनम् । निर्वपणकाले ‘ अग्नये जुष्टं निर्वप'मि ' इति पुराणानां श्रीहीणाम् ।

  • आश्वलायनसूत्राध्यायिनो विशेषं तत्र तत्र टिप्पण्यां प्रदर्शयाम: | इतरत्सर्वमाप-

स्तम्बेन समानम् | त्रयोदश कपालानि |+शूर्पद्वयम् | पात्रीद्वयम् । 1. बेपाय वामिति ! अग्निदेवतैवाऽऽश्वलायनयानां न सूत्रिता तस्मात्सर्वत्राग्निदेवताकपुराणनीहितन्त्रं तेषां नास्ति । १३० अग्निहोत्रचन्द्रिका | ५ पवित्रे प्रक्षाल्यान्यस्मि निधाय देवस्य खेसनद्रुय इन्द्राग्निभ्यां जु निर्वपाभि ' तथा देवस्य त्वेयनुदय ' विश्वेभ्यो देत्रेभ्यो जुष्टं निर्वपामि' र्झ नवानां श्रीहीणाम् । पवित्रे प्रक्ष. ल्यान्यस्मिञ्शूर्ये निधाय देवस्य त्वेत्यनुद्रुत ' सोमाय जुष्टं निर्वामि ' इति नवानां श्यामाकानाम् । पत्रित्रे प्रक्षाललेन्द्र निविश्वेदेव निरुप्त निधाय देवस्य त्वेत्यनुद्रुय ' द्यावापृथिवाभ्यां जुष्टं निर्मपामि' इति नवान व्रीहीणाम् | तत्व इदं देवानामियाद्या सादनकालेऽग्ने हव्य रक्षस्त्रेन्द्राग्नी हव्य५ रक्षेश श्वेदेवा हव्य५ रक्षध्वं सोम हव्य र रक्षस्त्र द्यावापृथिवी हव्य५ रक्षेथामित्यासादयेत् अध लौकिकमाभ्यं पञ्चचारं जुह्वां गृहीत्वा पञ्चाज्यानीर्जुडुवात्तत्र मन्त्राः S www. शतायुवाय शतवीर्याय शतोतयेऽभिमातिषाहे । शर्त यो नः शरदो अजीतानिन्द्रोने पदतिदुरितानि विश्वा स्वाहा || यजमानः — इन्द्रायेदं न मम । - अध्वर्युः– ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति तेषां यो अज्यानिमजीतिमाबहात्तस्मै नो देवाः परिदत्तेह सर्वे स्वाहा ॥ यजमानः – देवेन्च इदं न मम । अध्वर्युः— ग्रीप्मो हेमन्त उत नो वसन्तः शरद्वषः सुवितं नो अस्तु । तेषामृतूना शतशारदानां निवात एवामभये स्याम स्वाहा ॥ यजमानः – ऋतुभ्य इदं न मम । अध्वर्युः -- इदुबत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः । तेषां वसुमतौ यज्ञियानां ज्योगजीता अहताः स्याम स्वाहा || यजमानः – वत्सरेन्य इदं न मम । अध्वर्युः – भद्रान्नः श्रेयः समष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्त्र शं तोकाय तनुत्रे स्योनः स्वाहा || यजमानः – देवेभ्य इदं न मम । अध्वर्युः - सशूकायामित्यादिप्रोक्षण मिमन्त्रणःन्तं कृत्वा देवस्य त्रेत्यनुद्रुत्य, अग्नये व जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्यो वो जुष्टं मोक्षामि सोमाय वं जुत्रं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । शुन्धध्वमिन्य. रम्य प्रस्कन्दत्तुत्रानुम न्त्रणं कृत्वा वायु विविनक्विति विविध्य देवो वः सवितेति मन्त्रेण पाय पुराण तण्डुलप्रस्कन्दनान्तं कृत्ला नवत्रीह्यवहननार्थमुखलं प्रात्याग्नेस्तनूरसत्याचारभ्याऽऽग्नी अग्निहोत्रचन्द्रिका | ध्रप्रैषवर्जं पात्र्यां नवतण्डुलप्रस्कन्दनान्तं श्यामाका वहननार्थमुलूखलं प्रक्ष. ल्यान्नस्तनूरसत्या- द्यारभ्याऽऽग्नीध्रभैषवर्जं प्रस्कन्दच्छ्यामा कतुपाननुमन्त्र्य समाहतान्सर्वास्तुपान्मध्यमपुरोडा- शकपाल ओष्य रक्षसां भागोइतीति निरसनं कृत्वा वायुर्वी विनिकिति विविच्य देवो वः सवितेति मन्त्रेण पत्र्यां श्यामाकान्प्रस्कन्दयित्वा अधेन व ' इति मन्त्रेण पात्रीस्थान्पुराणनवतण्डुल,ञ्याम. कांश्च तन्त्रेणावेदय त्रिष्फलीकतेचा इति पत्नी संप्रेष्यति । - पत्नी - पुराणनवीही नवश्रामाकान्क्रमेण देवेभ्यः शुन्धध्वमित्यारम्य देवेभ्यः शुम्भ- ध्वमित्यन्तेन मन्त्रेण सुफली कृतान्कुर्यात् । अध्वर्युः— फलीकरणं प्रज्ञातं निधःय सर्वतण्डुलान्क्रमेण पार्थक्येन प्रक्षाल्य प्रक्षा• लितमुदकमेकीकृत्य त्रिष्फली क्रियमाणानामिति निनयनमन्त्रगोत्करे तन्त्रेण निनीय यथा- भागं व्याबर्तघ्त्रमिति नब.श्यामाकवर्ग तण्डु अन्चिभज्येदमिन्द्र, ग्न्योचव्यापृथिज्योरिति पेषणा- र्थानिदं विश्वेषां देवानामिति चर्चर्थान मिमृश्य कृष्णाजिनादानादि अणूनि कुरुतादित्यन्त- माग्नेयस्य कृत्वा पुनर्नवानां कृष्णाजिनादानादि कृत्वा देवस्य त्वेत्यनुद्रुत्येन्द्राग्निभ्यां जुष्ट- मधिवपाभि द्यावापृथिवीभ्यां जुष्टमविवामि धान्यमतीत्यादि अणूनि कुरुतादित्यन्ते पिष्ट लेपं प्रज्ञातं निदध्यात् । अग्नेयस्याटो कपालान्युपधः यैन्द्राग्नस्य चाष्टा दुधाय तूष्णी चत्वार्युपधाय वैश्वदेवसैौम्यथोः स्थ.सौ क्रमेण ध्रुवोऽसीति मन्त्रेगोपचाप द्यावापृथिव्यमेक- कपालमुपधाय भृगूणामङ्गिरसां तपसा तप्यस्वेति मन्त्रेणैककपाले वेदेनाङ्गासनपुह्य मदन्ती• रधिश्रयति । पत्र्यां देवस्येत्यनुत्याग्नये जुष्टं संवपामीति मन्त्रेण पुराणपिष्टं समोप्यान्य- स्मिन्पात्रे देवस्य त्वेयनुद्रत्येन्द्र या जुटं संगपनि द्यावापृथिवीयजुष्टं संवपाभीति पिष्टानि समोप्य प्रोक्षणीबपिष्टानि कणोत्पूय श्यामाकतण्डुलांश्चोत्पूय देवस्त्या सविता पुनाविति मन्त्रेण पय उत्पूय तूष्णीं वैश्वदेवस्थाल्यामासिच्या पश्चोत्पूय सौम्यस्थाल्यामासि- श्चत्यपः । मखस्य शिरोऽसीत्याग्यं पिण्डं कृत्वा पुनर्भखस्य शिरोऽसीत्यनेन नवानां पिण्डं कृत्वा यथाभागं व्यावतेंथामिति विभज्येदमिदं द्यावापृथिव्योरित्यभिमृदय घर्मोऽ- सीत्येतेन मन्त्रेणाऽऽग्नेयमधिश्रित्य तेनैव मन्त्रेणैन्द्र ग्नमधिश्रित्य वैश्वदेवचरुस्थाल्यां तेनैव मन्त्रेण तण्डुलानोप्य तैनैव मन्त्रेण सौम्यस्थाल्यां श्यामाकतण्डुलानोप्य तेनैव मन्त्रेणैकक- पालमधिश्रयति । क्रमेण पुरोडाशानाभेव प्रथनं कृत्वा सर्वाणि हीषि त्रिः पर्यग्नि कृत्वाऽऽग्नेयमभिघार्य तूष्णीमितराण्यभिचार्याऽऽग्नेयमैन्द्राग्नं च पाज्यां प्रतिष्टाप्या विकृतप्राकृतेनं मन्त्रेण वैश्वदेवचरुं सौम्यं चरुं चौद्वास्य ( विहितस्य प्रथनस्याभावादा भुवनस्येत्यूह मन्ये वर्णयन्ति । आशयपात्र एककपालमुद्दास्यालंकरणमन्त्रेणाभिपूर्य यथा स पुरोडाश १३२ अग्निहोत्रचन्द्रिका | आज्ये निमज्जति तथा क्रेडं पूरयतीत्यर्थः । ) प्रियेण नाम्ना प्रिय सद आसीदेति मन्त्रेण सर्वाणि हर्वार्ऽयपरेण स्रुच आसादयति । यजमानः – यज्ञोऽसीत्या मयं यज्ञ इति सर्वाणि यो नः कनीय इत्यैन्द्राग्नं ममाग्ने वर्च इत्यनुवाकेनग्नहोंतेति पञ्चहोत्रा चाऽऽसन्नान्यभिमृशेत् | आग्नेय ऐन्द्राग्नश्च प्रकृति- वद्यागः कार्यस्तयोर्यागानुमन्त्रणादि प्राकृतमेव । अध्वर्युः---* “ विश्वेभ्यो देवेभ्योऽनुब्रू ३ हि " इति पुरोनुवाक्यां संप्रेष्य विश्वा- J न्देवान्यजेति याज्यां संप्रेष्य वषट्कृते जुहुयात् । यजमानः – विश्वेभ्यो देवेभ्य इदं न मम । - विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयम् । इति वैश्वदेवं हुतमनुमन्त्रयते । अध्वर्युः—सोमायानुन्नु ३ हीति पुरोनुवाक्यां संप्रेष्य सोमं यजेति याज्यां संप्रेष्यं बषट्कृते जुहुयात् । यजमानः - - सोमायेदं न मम । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । इति सौम्यं हुतमनुमन्त्रयते । अध्वर्युः – एककपालमचरणकाले घृतादेककपालमुद्धृत्य बर्हिषि सन्नं कृत्वा जुह्वामु- पस्तीर्य तत्र कृत्स्नं पुरोडाशं निधायाऽऽशयाज्यं पश्चादानीय सकृदभिघार्य द्यावापृथिवी- भ्यामित्युपांशु अनुब्रूहीत्युच्चैः पुरोनुवाक्यां संप्रेष्य द्यावापृथिवी इत्युपांशु यजेत्युच्चैर्वषट्कृते. यथा हूयमानो हुतश्च न पर्यावर्तेत यथा स्रुकूपार्श्वन शनैर्जुहुयात् । यजमानः- द्यावापृथिवीभ्यामिदं न मम् । द्यावापृथिव्योरहं देवयज्ययोभयोलोंकयोर्ऋध्यासम् । इत्येककपालं हुतमनुमन्त्रयते । अत्रैव संप्रदायविदः संपादयन्ति । अध्वर्यु: -- शिक्ये पुरोडाशमवस्थाप्य वामहस्तेन शिक्यामं धृत्वा दक्षिणहस्तेन स्रुचमधस्ताद्धारयित्वा तथा स्रुचा होमं कुर्वन्वामहस्तेन शिक्यमषदुद्धृत्य बहौ स्थापये- दिति । एककपालहोमे सर्वत्रैवं विभावनीयम् | न पार्वणहोमोऽत्रास्ति तथा चातुर्मास्या- न्तर्गतवैश्वदेवपर्वोक्ताः प्रसूमयाभिहोमादयो धर्मा न सन्ति सूत्रकारेणासूत्रितत्वादिति ज्ञेयम् । स्विष्टकृतमिष्ट्वाऽऽग्नेयं पुरोडाशं विरुज्येतरविरविरुज्य प्रत्येकं प्राशित्रमत्रदाय ब्रह्मणे परिहरेत् ।

  • आश्वलायनस्य तु—विश्वान्देवान्सोममुपांशु विद्यात् । अग्निहोत्रचन्द्रिका ।

१३३ -

  • ब्रह्मा - मित्रस्य त्वा चक्षुषा प्रेक्ष इत्यारगदव्धेन त्या चक्षुषऽवेक्ष इन्यवेक्ष-

णान्तं कृबा देवस्य त्वेत्येतेन सावित्रेण मन्त्रेणःङ्गुष्ठेने पमध्यमया चङ्गु-याऽऽदाग्नेस्वाऽऽ- स्येन प्राश्न.मीति मन्त्रे पुरण वि. प्राणित्रं प्र..ऽऽचम्यनन्द्रनं पाशित्रन् । T. भद्रान्नः श्रेयः सम्नैष्ट देवास्वा वसेन समशीमहि त्वा । स नो मयोभूः पि-े वःबिशस्त्र शं तोक य तनु स्वोनः ।। इति प्रः श्याऽऽचम्य श्यामाकं गृहीत्वा । अग्निः प्रथमः प्राश्नात सहिदहः । शिवा अस्मभ्योषधीः कृणोतु विश्वचणिः || इति श्यामाकं प्राश्याऽऽचम् या अस्वन्तरेत्यादि प्रकृतिवत्सर्वं कुतू । = अध्वर्यु: - इडावदाने पुरणनूतनहचिष क्रमेण पृथक्पृथगिनन् । इडा- भक्षणकाल इडे भागांमेति मन्त्रेण पुराणावदानं प्राइसैद्रम वैश्वदेवं च भद्रान इति मन्त्रेण प्राश्याऽऽचम्य श्यामाकमग्निः प्रथमः प्राश्नाविति मन्त्रेण माझ्याऽऽचम्य वाग्यत आस्त आ मार्जनात् ।

  • आश्वलायनब्रह्मा-- - प्राशित्रभक्षणे त्रिस्य त्व चुक्षुन प्रतीक्ष इन्चारभ्य कुशेषु

प्राग्दण्डं निधायेत्यन्तं प्रकृवित्कृत्व प्राशित्रम गनङ्गुठोपकानिटिकाभ्यां गृह त्वा सव्ये पाणौ कृत्वः प्रजःनतये त्वा ग्रहं गृह्ण मि मह्यं श्रियै ह्यं यश- मह्यमन द्यायें ने मन्त्रेगाऽऽ- भिमृश्याग्नेष्ट्वाऽऽस्थेन प्रश्ननि बृहस्पति मन्त्र जपा | भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समर्श महि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पं ॥ इति प्राश्याऽऽचम्य । अमोऽसि प्राण तदृतं ब्रर्थीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगम-नुद्य शरीरादमा म एधि म मृथाम न्द्र । इति नाभिमालभ्य सत्येन पर्यन्तं प्रकृतिवन् । ळभअणं तु कृतिवदेव । यद्य ६व “इड मेके पूर्व समामनन्ति " एतं रक्षम युपगच्छेयुस्तदा ( इडा या ऊर्ध्वं प्राशित्रभक्षणपक्षे ) इळयामेवार्य भक्षणविशेषो न प्राशित्रे तदा माशि - त्रभक्षणं तु प्रकृतिवदेव कार्यम् । अग्रवणत्रयपक्षेऽप्येवमेवाऽऽग्रयणद्वयपक्षेऽप्येवमेव कार्यम् । इडाभक्षण आश्वलायनीयस्य यजमानग्य विशेष:- - - इळाभागं गृहीत्वा सव्ये पाणी कृत्वा प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्न।द्यायेति मन्त्रेण दक्षिणहस्तेनाभिमृश्य१३४ अग्निहोत्र चन्द्रिका | एवं ब्रह्माऽऽग्रीधो यजमानश्च तत आदक्षिणाकालं प्रकृत्या समानं भवति । यजमानः – दक्षिणाकाले वत्सं वासश्चान्तर्वेदि संस्थापयेत् । -

  • ब्रह्मा - ब्रह्मणी ब्रह्मणी स्थो ब्रह्मणे वां मा मा हिसिष्टमहुते मा शिवे

भवतम् । इत्यभिमृरोत् । यजमानः – ब्रघ्न पिन्वस्त्रेत्यारम्यामुष्मलोक इत्यन्तमुच्चार्य - सहस्रधारे उत्से अक्षीयमाणे ते दध्नतुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां वत्सवासोभ्यामतितराणि मृत्युम् । इत्यभिमृश्येमे वो वःलवाससी प्रतिगृह्णमिति दद्यात् । अध्वर्यनभूतय ऋत्विजः - देवस्य + त्वा सवितुः प्रसवेऽश्विनोर्वाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि | राज त्वा वरुणो नयतु देवि दक्षिणे रुद्राय गाम् ॥ अग्रे प्रकृतिबद्वतः गृहीत्वा पुनर्देव याद देवि दक्षिण इत्यन्तमुक्त्वाग्ना स्त्वा कृन्त- न्नतःपसख्या तन्त्रतं वरूत्रयस्त्वा वयसो नाय वसः । तेनामृतत्वमश्पामत्यादिप्रकृतिमन्त्रै- र्वासो गृह्णरन् । ततः प्रकृय़ा समानम् । यजमानः - संयज्ञपतिराशिषेति मन्त्रेण पुराणभागं प्राश्य भद्रान्नः श्रेय इति मन्त्रेणै न्द्र.नं वैश्वदेव चैककृत्य म्याग्निः प्रथमः प्रश्नलिति मन्त्रेण श्यामाकं प्राश्याऽऽ- चःमेत् । तत एककपाले वासनेऽध्वर्युवजनानयोः- यद्धर्मे कपालमु चिन्वन्ति वेधसः | पूष्णस्तदपि व्रत इन्द्रवायू विमुञ्चता- मिति जपे विशेषः | त्रिष्णुक्रमादि यज्ञशंचमवर्जं ब्राह्मणतर्पणान्तं प्राकृतं कुर्यात् । भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदेशं चतुष्पदे || इति प्राश्य : ऽचम्य । अमोऽसि प्राण तदृतं ब्रबीम्यमाऽसे सर्वानसि प्रविष्टः । स भे जरां रोगमपनुद्य शरीरादमा म एधि मामृथाम इन्द्र ॥ इति नाभिमालम्याप उपस्पृशेत् ।

  • आश्वलायनीयब्रह्मणो वत्सवाससोः स्पर्शो नास्ति । + आश्वलायनीयब्रह्मा दक्षिणा-

ग्रहणं प्रकृतिवत्कुर्यात् । होता- अग्निहोत्रचन्द्रिका | अथाऽऽग्रवणहौत्रनयोगः । --- " अग्निः पवक ईडयः " इत्यन्तं प्रकृ िवदेव कुर्यात् । अग्रे शोचिष्केशस्तमीमहों ३ पृथुपाजा अमर्त्यो घृतनिर्गिवस्त्र हुा. | अनिर्य- ज्ञस्य हृव्यवों३ तं सवाघो यतः स्रुच इत्याधिया यशवन्तः । आचक्रुरग्निमूतयों ३ समिद्धो अग्न आहुत देवान् । इत्यादि प्रकृतिवत्कुर्यात् । - आवाहनकाले – अग्निमग्न आ३वह | सोनमा३वह । इन्द्वानी आ वह । ( उपांशु + ) विश्वान्देवान्, आश्व | ( इत्युच्च: ) । ( उपांशु X ) सोमम्. आ३वह ( इत्युच्चे: ) ( उपांशु ) द्यावापृथिवी, आ३वह ( इत्युच्चैः ) | देवाँ आज्यपाँ आ३वह । इत्यादि उत्तमप्रयाजपर्यन्तं प्रकृतिवःकुर्यात् । = उत्तमप्रयाजे ये३ यजामहे स्वाहा स्वाहा नोमं स्वाहेन्द्र ग्नी स्वाहा विश्वान्देवा नित्युपांशु = स्वाहेत्युच्चैः सोममित्युपशु स्त्र हेचैयुच्चै देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्तु चौपड् वावृधन्धन्तौ वाऽऽज्यभागौ कुर्यात् । प्रधानयागकाले । १३५ ॐ इन्द्राशी अवसागतमस्मभ्यं चर्षणी सह। मानो दुःईन् | ये३ यजामह इन्द्राग्नी गीर्भिर्विशः प्रम तमिच्छनान ईड्डे रथि यशसं पूर्वमानम् | इन्द्राशी वृत्रणा सुवचा म नो नव्येभिस्तिरतं देष्णैत्र३ षट् । ( उपांशु ) विश्वे देवास आगत शृणुता म इमं हवम् । एदं बहिर्निषीदतो३म् । (उच्चैः ) ये३ यजामहे । ( उपायु x ) विश्वान्देवान् ।

  • आपस्तम्बीययजमानस्यात्र विशेषः । अग्निमा ३वह । + उच्चैः । x उच्चैः ।

उच्चैः । ÷ स्वाहाऽग्निम् । - उच्चैः। X उच्चैः – उच्चैः । ॐ अग्नेर्याज्यापुरोनुवाक्ये प्रकृतित्रत् । १३६ अग्निहोत्रचन्द्रिका | ये के च ज्मा महि नो अहि माया दिवो जज्ञिरे अपां सधस्थे । ते अस्मभ्यमिपये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवा३ (उच्चैः )वौ ३- षट् । ( उपांशु # ) सोम यास्ते मयोभुव ऊतपः सन्ति दाशुषे । ताभिर्नोऽ- विता भव. ३म् । ( उच्चैः ) ये३ यजामहे (उपांशु + ) सोम या ते धामानि दिवि या पृथिव्या या पर्वतेष्वोषधीष्वप्सु | तेभिर्नो विश्वैः सुमना अहेळन्राजन्त्सोम प्रति हव्या गुभाय ३ (उच्चैः ) वौं३षट् । ( उपांशु ) मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतानो भरीमभिः ॐ ३ । (उचैं: ) ये३ यजामहे ( उपांशु ) द्यावापृथिवी- प्रपूर्वजे पितरा नव्यसमिभिः कृणुध्वं सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथा३म् । (उच्चैः ) वॉ३ट् | अथ स्विष्टकृद्यागे---- अग्ने दीदिहि पुरो नोऽजया सूयविष्ठ | त्वां शश्चन्त उपयन्तु वाजो३न् । ( उपांशु ) ये ३ पजामहे ऽसिंस्विष्टःमान्य सोमस्य प्रिया घामान्ययाळिन्द्राग्योः प्रिया घामान्य (शु) विश्वे दवानां ( उच्चैः ) प्रिया धामान्य गट् ( उपशु 4 ) सोनस्य ( उबै: ) या धामा- न्ययाट् ( उपाशु ) द्यावापृथिव्योः (उच्चः ) निया घामान्ययाद् देवानामा- ज्यपानामित्यादि० जुषतं हविरिभो अग्ने वीत नमानि हव्या जत्रो वक्षि देवताति- मच्छा । प्रति न ई सुरभीणि व्यन्तु३ वौ३ षट् ।

  • उच्चैः । + उच्चैः । × लग्नेः प्रिया धामानीन्दारयोः । न उच्चैः । ↓

उचैः t अग्निहोत्रचन्द्रिका | १३७ इळां प्रकृतिबदुपहुयेळाभक्षण इळे भागमितिमन्त्रं जपिवावान्तरेळां सव्ये पाणौ कृत्वा ' प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय | इति मन्त्रेण दक्षिणपाणिनाऽभिमृश्य दक्षिणहस्ते गृहस्थी भद्रान्नः श्रेयः समनेष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे । इति मन्त्रेग भक्षयित्वाऽऽचम्य अमोऽसि प्राण तहतं ब्रवीग्यमासि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एवि मा मृथाम इन्द्र || इति मन्त्रेण नाभिमालभ्याप उपस्पृशेत् । दक्षिणाग्रहणं प्रकृवियत् । सक्तवाके – अग्निरिदं हविरजपत० कृत | सोय इदं हविरजुषत० कृत | इन्द्राग्री इदं हविरजषेतामवतां यह ज्यायोऽक्रानाम् | (+ उपांशु ) विश्वे देवाः ( उच्चैः ) इदं हविरजुपन्तावीवृधन्त महो ज्यायोsक्रत ( x उपांशु ) सोम इदं हविर्जुषतावीब्रुधत महो ज्यायोऽकृत । ( उपांशु ) द्यावापृथिवी इदं इत्रिर्जुषेतामवीवृधेतां महो ज्यायोऽक्राताम् | देवा आज्यपा इत्यादि सर्वमासमाप्ति प्रकृतिवत्कुंर्यात् । इत्याग्रयणहाँत्र प्रयोगः । ० अथाऽऽग्रवणानुकलाप्रयोगः | यजमानः – शरद्यमावास्यायां पौर्णमास्यां वाऽऽचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ सायमग्निहोत्रं नवसस्यनिष्पन्नय- वावा होण्यामि | नत्रसस्यं त्रीह्यादिरूपं लौकिकेतिकर्तव्यतयाऽऽवृहत्य तण्डुलान्निष्पाद्य पयोवद्येचा गूमधिश्रित्याज्यल्प शुद्धोदकं स्रुत्रेण शान्तिरियादिमन्त्रेण प्रतिषियद्यदि प्रतिपेचनर्मुप- क्रमे कृतं स्यात् । अन्यत्सर्वं होमकुर्यात् । एवमेव प्रतिपदि प्रातः कुर्यात् | भक्षणं स्वेवं विशिष्या दुभयत्राग्निहोत्र

  • अग्निरिहवि०कृत । तत इन्द्राग्न्योः । + उच्चैः। × उच्चैः ।

· अग्निहोत्रचन्द्रिका | गारी एवं विनै मयं पये मानन्नाचाय | इते राज्ञीन होन लुक्थन मृश्य दक्षिणहस्ते प्रथमाहुतिं निधाय भद्रानः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे ॥ इति प्रथमां प्राश्याऽऽचम्य द्वितीयाहुतिं दक्षिणहस्ते निचाय भद्रान्न इति पूर्वोक्त- मन्त्रेण माझ्याऽऽचम्य अमोऽसि प्राण तदृतं ब्रवीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुछ शरीरादमा म एधि मा मृथाम इन्द्र || इति नाभिमालभ्याप उपस्पृश्य सर्पदेवजनेभ्यः स्वाहेत्यादि नित्याग्निहोत्रवत्सर्वं कार्यम् । अथ द्वितीयानुकल्पमयोगः । -- यजमानः – अग्निहोत्रीं गां त्रीहिश्यामाकयवानामन्यतममाशयित्वा तस्याः पयसा सायं प्रातरग्निहोत्रं जुहुयात् । प्राशने तु पुर्वानुकल्पप्रयोगोऽनुसंधेयः । इति । इत्याग्रयणानुकल्पयोगः । अथैतरेय ब्राह्मणोक्तमाग्रयणप्रायश्चित्तम् । तदाहुर्य आहिवाग्निराग्रयणेनानिष्ट्वा नवान्नं प्राश्नीयात्का तत्र प्रायश्चिति रिति सोऽग्नये वैश्वानराय द्वादशकपाले पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये वैश्वानरो अजीजनत्पृष्ट दिवि पृष्टो अग्निः पृथिव्यामित्याहुतिं वाऽऽहवनीये जुहुयादग्नये वैश्वानराय स्वाहेति सा तत्र प्रायश्चित्तिः । ( ऐ० व्रा० ३२।८) । - सा० भा० – गृहेषु नत्रधान्ये समागते सत्याप्रयगेष्टिं कृत्वा पश्चान्ऋत्राचं भोक्तव्यं तस्या इष्टेरकरणे वैश्वानरगुगयुक्त ऽग्निः पुरोडाशदेवता || ३२ । ८ ॥ अस्थाः प्रायश्चितेष्टेः प्रयोगोऽध्वर्युमूत्रादवगन्तनः । अत्र तु पूर्णाहुतिमयोग एत्र लिख्यते । अथ पूर्णाहुतिप्रयोगः | यजमानः——प्रातरग्निहोत्रं हुत्वा तमग्निमपवृज्य अग्निहोत्रचन्द्रिका | आग्रयणमकृत्वा नवान्नप्राशनजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वानरेष्टिस्थाने पूर्णाहुतिं होष्यामि । इति संकल्प्याध्वर्युं वृणुयात् । अस्मिन्पूर्णाहुतिहोमेऽध्वर्युं त्वामहं वृणे । - अध्वर्युः— वृतोऽस्मि कर्म करिष्यामीत्युक्या गर्हपत्यादाहवनीय प्रणीय ( नात्र दक्षिणाग्निप्रणयनम् ) पवित्रे कृत्वा लौकिकमाज्य जहां चतुर्गृहीतं गृहीत्वा अग्नये वैश्वानराय स्वाहा । इत्याहवनीये जुहुयात् । - अग्नये वैश्वानररायेदं न मन । १३९ यजमानः-- आचम्यानेन पूर्णाहुतिहोमेन श्रीभगवान विपरनेश्वर प्रीयताम् । तत आहवनीया से रपवर्गं कृत्वाऽऽचामेत् । इत्याग्रयणप्रायश्चित्तम् । अथाऽऽग्रवणमीमांस | तैत्तिरीयब्राह्मणे तावदाजसूयप्रकरण आग्रयणं समानातम, सेत तत्र दक्षिणात्वेन वत्स वाससी श्रूयेते- प्रथमजो वत्सो दक्षिणा वासो दक्षिणा ॥ इति । प्रकृतिवृद्धिकृतिः कर्तव्येव्यतिदेशतः प्राकृतो विध्यन्तोऽप्वामयणेष्ट्यां प्राप्नोति । तत्रान्वाहार्यस्य विध्यन्तःपातित्वात् । तथा च प्रकृतौ " यदन्वाहार्यमाहरति " आहर तिरत्र दानार्थकः । एवं च साक्षाद्विकृतावुक्तं दक्षिणाद्रव्यं प्राकृतेनातिदेशप्राप्तेन समुच्ची - यत इति समुच्चय एवाभ्युपगन्तव्यः । इममेव समुच्चयपक्षं सूत्रयामास बौधायन:- अन्वाहार्यमासाद्य प्रथमजं वत्सं ददाति ( बौ० श्रौ० सू० ३ | १२ | १३ ) सोऽयं समुच्चयः कैश्चन सूत्रकारैर्न सृत्रितस्तदर्थं संशय उपपद्यते समुचयोऽनुष्ठेयो न वा । तदपाकरणायावश्यं मीमांसया भवितव्यमिति भगवाञ्जमि.निर्देशमलक्षणे सूत्रयांचभूव । तदेवात्र निर्दिशाम :- बासो वत्सं च सामान्यात् । ( पू० मी० १० । ३ । ३४ ) । V.com अग्निहोत्रचन्द्रिका | सूत्रार्थ:– आप्रयणे प्रथमजो वत्सो दक्षिणेत्यत्र बाधायान्वाहार्यस्यापि समुच्चय इति पूर्व सिद्धान्तमाह - - वास इति । यथा पुनराधेय दक्षिणा प्राकृतदक्षिणां बाधत एवं बालो वःसं च सामान्य:देककार्यकारित्वत् ॥ ४ ॥ अयमर्थविवैकोऽत्रानुसंधेयः । समु- ज्वयविधाबसामर्थ्याद्दक्षिणयोश्चानत्यर्थत्व मने का कार्यत्व नैककार्यत्वाद्वैकुतीभिः प्राकृतीनां बाधः । वानो वसं च समानकार्यकारित्वात्प्राकृत दक्षिणां वाधत इत्यर्थः । अर्थापत्तेस्तद्धर्मः स्यानिमित्ताख्याभिसंयोगात् । ( पू० मी० १०/३/३५ ) । सूत्रार्थः——तत्रैबान्बाहार्यधर्मा मन्त्रादयो न सन्ति | प्रकृताव न्याहार्योदेशेन प्रवृत्त- त्वादिति पूर्वपक्षे सिद्धान्तमाह - अर्थेति । अर्थस्य प्राकृतमन्त्रायुदेश्य दक्षिणाया आपत्तेः स्थाने पतितत्वात् । तद्धर्मोइन्वाहार्य धर्मो वासोवत्से स्यात् । वासो दक्षिणेत्यस्य मन्त्रनि- मित्तस्य दक्षिणाख्या दक्षिणानाम्नाऽभिसंयोगात् । संयुक्तत्वात् । वासोवत्समन्वाहार्य- धर्मकं स्यादन्वाहार्यकार्यपरिक्रयनिमित्तकदक्षिणाशब्दसंयोगादित्यर्थः । (१०/२/३५) अनेन न्यायेनान्थेऽपि पाकादयो धर्माः प्राप्नुयुरित्याह दाने पाकोऽर्थलक्षणः । ( पू० मी० १० | ३ | ३६ ) । सूत्रार्थ:-तत्रैव बस्ते प्राकृतकप्रतौ सिद्धान्तमाह - दान इति । अर्थः श्रौतस्तस्य बत्सशब्दस्य लक्षणे लक्षकः पाको संवेदतो दाने दानसाधनबत्से निवर्तत इति शेषः । कसे पाके सति दक्षिणासाधनं न वसस्तस्य नष्टत्वात् । किंतु मांसं वत्सपदस्य लक्षणा- पत्तिरिति भावः । अयमर्थ :- अन्वा हार्यपाको वत्से कर्तव्यो नेति संशये चोदकानुग्रहाय चक्त्वा वसं तदीयं मांसं दक्षिणात्वेन देयमिति मन्यते । श्रुतं तु वत्सद्रव्यं पाकेन नश्ये- दश्रुतं च मांस दीयेत वत्सशब्दो का मांसलक्षणार्थ: स्यात् । नचैतन्न्याय्यम् । तस्मान्न वत्सस्य पाक इति । प्रकृतौ दानेऽन्वाहार्यसिद्धयर्थं पाकोऽर्थसिद्ध इह तु न तथेति नासौ कर्तव्यः । ( १० । ३ । ३६ ) पाकस्य चालकारितत्वात् । (५० मी० १० | २ | ३७)। सूत्रार्थ:--अथ वासति पाक: स्यान्नेति संशये विरोधाभावाःपच्येत प्रयोजनाभावा- त्त्वपाकः । प्रकृतौ हि दक्षिणाभूतान्नसंपत्त्यर्थकः पाको नादृष्टार्थस्तस्मान्न वाससः पाकः | ( १० । ३ । ३७ ) B तथाऽभिधारणस्य । ( पू० मी० १० | ३ | ३८ ) । सूत्रार्थ:--अभिघारणमम्वाहार्यधर्मः किं बासोबत्से कर्तव्यं न वेति: प्रकृतावदृ ष्टार्थत्वादिहाविरोवा कर्तव्यम् | नैवम् | स्वादिमार्थं हि तद्दृष्टैनैवान्नानासुपकरोति । न च अग्निहोत्रचन्द्रिका | १४१ वासोवत्सयोः स्त्रादिम्ना प्रयोजनमस्ति । अतोऽभिघारण निवृत्तिः । ( १० । ३ । ३८ ) । इत्याग्रयणमीमांसा | अथाग्निहोत्रम यश्चित्तविधायक मैतन्यत्राह्मणं सभाष्यम् । अथाग्निहोत्रे बैकल्पनिमित्तं प्रश्नपूर्वकं प्रायश्चित्तं विधीयते – यस्याग्निहोत्र्युपावसृष्टा दुधमानोपविशेत्का तत्र मायचित्तिरिति तामनिम- न्त्रयेत । इति । - सा० भा० – अग्निहोत्रार्थं संप.दिता गौरी | सा चे.प.वसृष्टा दोहनार्थं वन्सेन संयोजिता । ऊर्ध्वं दुयमाना सती दोहनमध्ये यद्यप विशेत्तदानी शास्त्रीयस्य दोहनस्य विन ष्टत्वाद्यस्य यजमानस्य तत्राग्निहोत्र्युपवेशने प्रायश्चित्तरपेक्षिता सा च कीडशीति प्रश्नः । तामग्निहोत्रीं वक्ष्यमाणेन मन्त्रेणाभिमन्त्रयेतेति प्रायश्चित्तविधिः । तत्र मन्त्रं दर्शयति --- यस्माद्भीषा निषीदसि ततो वो अभयं कृषि पशुत्रः सर्वान्गोपाय नमो रुद्राय मी इति । इति । सा० भा० – हेऽग्निहोत्र त्वं यस्माद्विरोविनः शङ्कयनान्मनसा स्वर्यमणाद्यान• देर्भीमा भयेन निमीदस्युपविशसि ततो भयहेतोः सकाशात्रोऽस्माकमभयं कृषि कुरु । तथा नोऽस्माकं सर्वान्पशून्गोपाय रक्ष महळुणे तेचनसमर्थाय रुद्राय पशुस्वामिने नमोऽस्तु । इतिशब्दो मन्त्रसमःम्त्यर्थः । अभिमन्त्रणादुर्ध्वं तस्या अग्निहोत्र्या मन्त्रान्तरेणोत्थापनं विधत्ते-- तामुत्थापयेत् । इति । सा० भा० - तत्मिनुत्थापने मन्त्रनाह - उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भाग मित्राय वरुणाय चेति । इति । सा० भा० --- अदितिरदीना देवी देवता रूपाऽग्निहोत्र्युदस्थादस्थितवत्युत्थाय च यज्ञ- पतौ यजमान आयुरवात्संपादितवती । कीदृश्यग्निहोत्री | इन्द्र मित्रवरुणानामपेक्षितं हृदि भगं कृण्णती संपादयन्ती | इतिशब्दो मन्त्रसमाप्त्यर्थः । १४२ अग्निहोत्रचन्द्रिका | उत्थापनानन्तरकर्तव्यं दर्शयति --- अथास्या उद्पात्रमूधसि च मुखे चोपगृह्णीयादथैना ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिः । इति । सा० भा० > -- अस्या अग्निहोत्र्या ऊबसि उदकपात्रग्रहणं नाम जलस्योत्क्षेपणं मुखे गृहीत्वा जलं पाययित्वा तादृझ्या ब्राह्मणाय दानं यदस्ति सा तत्र वैकल्ये प्रायश्चित्तिरव- गन्तव्या | अथ दोहनकाले ध्वनिकरणे प्रायश्चित्तं विधत्ते-- यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां द्द वा एषा यजमानस्य प्रतिख्याय वाश्यते तामन्त्रमप्यादयेच्छान्त्यै शान्तिर्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिः । इति । सा० भा० - - वाश्येत हम्भा (हुम्ब ) रवं कुर्वीत तदानीमेवाग्निहोत्री स्वकीयामशनाय क्षुधां यजमानस्य प्रतिख्याय प्रख्यापनार्थं वाश्यते ध्वनि करोति । तस्मात्तामग्निहोत्री वाश्यमानामन्नमप्यादयेत् । अपिशब्दात्तृणादिकमपि । तच्च भक्षणं क्षुधाशान्त्यै संपद्यते । अन्नं शान्तिहेतुरिति प्रसिद्धम् । सूयवसादित्यादिर्मन्त्रः | हेऽग्निहोत्री भगवती पूज्या वं सूयवसाद्भूयाः । सुष्ठु यवसं तृणं सूयवसं तदत्ति भक्षयतीति सूयवसात् । तादृशी भवेति मन्त्रार्थः । मन्त्रेणान्नमादयेदिति यदस्ति सैव तत्र ध्वनौ प्रायश्चित्तिर्दृष्टव्या | दुह्यमानस्य क्षीरस्याग्निहोत्र्या: स्थानचलनेन भूमौ पतने प्रायश्चित्तं विधत्ते - यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेत् । इति । सा० भा० – स्पन्देत किंचिच्चलेत् । सा चलन्ती यदि तत्र भूमौ स्कन्दयेदीपत्क्षीरं पातयेत्तक्षीरं हस्तेन स्पृष्ट्वा मन्त्रं जपेत् । तं मन्त्रं दर्शयति - यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः | पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति | इति । सा० भा०—अथेदानीं यदुग्धं क्षीरं पृथिवीमसृप्त प्राप्नोत् । यच्चौषधीः पतितं तृणजातमत्य सृपदतिशयेन प्रामोत् । यदपि तत्क्षीरं विन्दुरूपमापो भूमिष्ठं जलं प्राप्नोत् । अग्निहोत्रचन्द्रिका | १४३ आप इति द्वितीयार्थे प्रथमा । तत्सर्वमस्मदीयेषु गृहेष्वघ्न्यायामस्मदीयायां धेन्वां बसेष्व- स्मदीयेषु मयि मदुदरे वाऽस्तु तिष्ठतु | पृथगन्वयार्थ पयःशब्दावृत्तिः । इतिशब्दो मन्त्र- समाप्त्यर्थः । उक्तप्रायश्चित्तादृर्ध्वं होमं विधत्ते--- तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यद्यलं होमाय स्यात् इति । सा० भा० – तत्र दोहनपात्रे यत्क्षीरं भूमौ पतित्वा परिशिष्टं स्यात्तयदि होमायालं पर्याप्तं भवेत्तदानीं तेन जुहुयात् । C अपर्याप्ताबुपायान्तरमाह-- यद्यु वै सर्वे सिक्तं स्यादथान्यामाहूय तां दुग्ध्या तेन जुहुयादा त्वेन श्रद्धायै होतव्यं सा तत्र प्रायश्चित्तिः । इति । सा० भा० -- यधु वै यदि च सर्वं दुह्यमानं क्षीरं सिक्तं भूमौ पतितं स्यात्तदानी- मन्यां कांचिद्गामाहूयाऽऽनीय तां दुग्ध्या तीयेन क्षीरेण जुहुयात् । यद्यन्याऽपि न लभेत तदानीमप्यग्निहोत्रं न परित्याज्यम् । किंवा श्रद्धायै होतव्यम् । आङोऽत्राभिविधिरर्थः । आ श्रद्धायाः श्रद्धासहितं सर्ववस्तुजातं होतव्यं होमयोग्यम् । अयमर्थः – दधियवाग्वा- दीनां मध्ये येन केनापि द्रव्येण होतव्यम् । सर्वालाभे स्वन्ततः श्रद्धामपि जुहुयात् । अहं श्रद्धां जुहोमीति संकल्प श्रद्धाहो | अग्निहोत्रस्य नित्यत्वात्सर्वात्मना परित्यागो न युक्त इति । वेदनपूर्वकमनुष्ठानं प्रशंसति - सर्वे वा अस्य बर्हिष्यं सर्वे परिगृही। य एवं विद्वानग्निहोत्रं जुहोति ।। २७ ।। इति । सा० भा० - विदित्वाऽनुष्ठातुरस्य पुरुषस्य सर्वनपि बर्हिष्यं यज्ञयोग्यम् । अतः सर्वं द्रव्यमनेन होमार्थं परिगृहीतं भवति । एकादशे प्रश्नोत्तरे दर्शयति - तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वाऽपहरेयुर्वा का तत्र प्रायचित्तिरित्या- ज्यस्यैनानि यथादेवतं परिकल्प्य तयाऽऽज्यहविषेष्ट्या यजेतातोऽन्यामिष्टिमनु- लवणां तन्वीत यज्ञो यज्ञस्य प्रायश्चित्तिः ॥ ४ ॥ इति । सा० भा० – पुरोडाशदधिपय रूपाणि हवींपि सर्वाणत्युच्यन्ते | आज्यस्य संबन्धी- न्येतानि त्रीणि हवींपि तत्तद्देवतामननिक्रम्य तदनुसारेण परिकल्प्याऽऽज्यह विर्युक्तया अग्निहोत्रचन्द्रिका | तयेष्ट्या यजेत | इष्ट्वा च तत्तदूर्ध्वमन्यामिष्टिमनुल्त्रणामन्यूनानधिकां यथाशास्त्रं तन्वीत विस्तारयेत् । यथाशास्त्रमनुष्ठितो यज्ञः पूर्वस्य विकलस्य यज्ञस्य प्रायश्चित्तिः । द्वादशे प्रश्नोत्तरे दर्शयति तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत का तत्र प्रायश्चित्तिरिति सर्वमेवैन - तस्रुच्यभिपर्यासिच्य प्राङदेत्याऽऽहवनीये हैतां समिधमभ्यादधात्यथोत्तरत आहवनीयस्योग्णं भस्म निरूह्य जुहुयान्मनसा वा प्राजापत्यया वर्चा तद्भुतं चाहुतं च स यद्येकस्मिन्नन्नीते यदि द्वयोरेष एव कल्पस्तच्चेद्व्यपनयितुं शक्नु - यान्त्रिः पिच्चैतदृष्टमदुष्टमभिपयसिच्य तस्य यथोनीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिः । इति । सा० भा०- अग्निहोत्रार्थं पयो गार्हपत्ये पाकार्यं यदधिश्रितं तद्यदि किंचिदमेध्यं यज्ञान है केशकीटादिकमा पद्येत प्रामुयात्तदानीमेतद्धविः सर्वमप्यग्निहोत्रहवण्यां स्रुचि साकल्येन सिक्वा प्राङ्मुख उद्वेन्योत्थायाऽऽहवनीयं प्रति गत्वा तस्मिन्नेतां निन्यां सभिधमादयात् । अथानन्तरमाहवनीयस्योत्तरभागे किंचिदुष्णं भस्म ततो निःसार्य तस्मिन्मनसा नित्याग्नि- होत्रमन्त्रमनुस्मृत्य बाचा वा प्रजापते न त्वदेतानीति मन्त्रमुच्चार्य जुहुयात् । तदेतद्भस्मन उष्णत्वाद्भुतमपि भवति । अग्निराहित्यादहुतेमपि भवति । न केवलमधिश्रित एवामेध्यपात एतत्प्रायश्चित्तं किं तार्है चतुरुन्नयनावस्थायां यद्येकस्मिन्नुन्नीते यदि वा द्वयोरुन्नी तयोरमेध्य- पातस्तदानीमेप एव कल्यः प्रकारः । उन्नयनं नामाग्निहोत्रहवण्यां सेचनम् । तत्केशकीटादि 1 टूपितमग्निहॊत्रहबण्यामुन्नीतं यद्यपनेतुं शक्नुयात्तदानीमेतद्दुष्टं निःपिच्य निःसार्थ स्थाल्या. मत्रस्थितमदुष्टं क्षीरमग्निहोत्रहवण्यामभिपर्यासिय यथोनीती स्यादुन्नीती येन प्रकारेण भवति तेन प्रकारेण जुहुयात् । अदुष्टं द्रव्यान्तरमधिश्रयणा दिना संस्कृत्य जुहुया. दिव्यर्थः । त्रयोदशे प्रश्नोत्तरे दर्शयति- ताहर्यस्याग्निहोत्रमधिश्रितं स्कन्दति वा विष्यन्दते वा का तत्र प्रायश्चित्ति- रिति तदद्भिरुपनिनयेच्छान्त्यै शान्तिर्वा अपोऽथैनदक्षिणेन पाणिनाऽभिमृश्य जपति । इति । - 4 सा० भा० – अग्निहोत्रद्रव्यं गार्हपत्ये पाकार्थमधिश्रितं सदा चिकन्दति स्खलति क्षीरबिन्दुरधः पततीत्यर्थः । विष्यन्दते विशेषेण स्यन्दनं दाहाधिक्न स्थालीमुखस्योप- र्युद्गननं तत्स्कन्नं विष्यन्दितं वा द्रव्यं दक्षिणेन पाणिना स्पृष्ट्वाक्ष्यमाणं मन्त्रं जपेत् । अग्निहोत्रचन्द्रिका | तं दर्शयति- दिवं तृतीयं देवान्यज्ञोऽगात्ततो मा द्रविणमाष्टान्तरिक्षं तृतीयं पितॄन्यज्ञोऽगा- ततो मा द्रविणमाष्ट पृथिवीं तृतीयं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमाष्ट। इति । - सा० भा० - अस्य स्कन्नस्य विष्यन्दितस्य वा पयसस्तृतीयमंशस्वरूपं दिवं स्वर्ग- लोकमगात्प्राप्नोतु । तेन यज्ञोऽपि देवान्प्राप्नोतु । प्रापणाद्वैकल्यपरिहारे सति मामग्निहो- त्रिणं द्रविणमाष्ट धनं प्राप्नोतु । तथैवापरं तृतीयं द्रव्यांशस्त्ररूपमन्तरिक्षमगात् । तेन यज्ञोऽपि पितॄन्प्राप्नोतु । ततः प्रापणान्मां वनं प्राप्नोतु । पुनरव्यपरं तृतीयं द्रव्यांशस्वरूपं पृथिवीमगात् । तेन यज्ञोऽपि मनुष्यानगात् । ततस्तदुभयप्रापगान्मां द्रविणं धनमाष्ट प्राप्नोतु । मन्त्रान्तरजपं विधत्ते- ययो रोजसा स्कभिता रजांसीति वैष्णुवारुणीचं जपति विष्णुर्वे यज्ञस्य यद्दुरिष्टं पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै | इति । सा० भा०-ययोरोजसेव्यायसूत्रे पठिता | तस्याश्चतुर्थपदे विष्णू अगन्त्ररुणा पूर्वहूताविति श्रुतवादियं विष्णुवरुणदेवताका यज्ञस्य यहुरिष्टमङ्गबैंकल्पं तथ्मयित्वा विष्णुः पाति । यज्ञस्य यत्स्विष्टं यथाशास्त्रमनुष्ठितमङ्गं तद्वरुणः पाति । फलनतिषेधनिवारणं तत्प्रतिपालनम् । तस्मादयं जपस्तयोरुभयोर्दुरिष्टस्त्रिष्ट योर्यथोक्तप्रकारेण शान्त्यर्थं संपद्यते । उत्तरवाक्यमुपसंहरति - - सा तत्र प्रायश्चित्तिः । इति । चतुर्दशे प्रश्नोत्तरे दर्शयति तदाहुर्यस्याग्निहोत्रमधिश्रितं माडुदायन्स्खलते वाऽपि वा भ्रंशने का तत्र प्रायश्चित्तिरिति स यद्युपनिवर्तयेत्स्वर्गाल्लो काद्य जमानमावर्तत्रैवास्मा उपवि ष्टायैतमग्निहोत्रपरीशेषमाहरेयुस्तस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र माय- चित्तिः । इति । सा० मा० - अग्निहोत्रद्रव्यं गर्हप येऽधिश्रितं पाकादुर्धमादाय प्राङ्मुख आहवनीयं प्रत्युदायन्नु॒द्गच्छन्नध्वर्युर्थदा भवति तदानीं तद्व्यं स्खलते यद्वा भ्रंशते । बिन्दुपतनं १ ययोरोजसा स्कमिता रजांसि वीर्येभिवरतमा शविष्ठा | या पत्येते अप्रतीता सहोभिर्विष्णू अगन्त्ररुमा पूर्वहूतौ । ( आश्व० श्र० स० ५ / २० ) १३ अग्निहोत्रचन्द्रिका | ‘स्खलनं साकर्त्येन द्रव्यपतनं अंशः । पुनरग्निहोत्रस्थाल्या द्रव्यं ग्रहीतुं सोऽध्वर्युर्योद पश्चिमामुखी निवृत्तो भवेत्तदानीं स्वर्गप्राप्तं यजमानं तस्माल्लोकादावर्तयेत् । अतो निवृत्ति - मकृत्वा स्स्वलनभ्रंशदेश एवोपविष्टायास्मा अध्वर्यवे स्थालीगतमग्निहोत्रद्रव्यशेषमन्ये पुरुषा आहरेयुस्तस्य द्रव्यस्य स्वीकारेणाध्वर्युर्यथोनीती स्यात्तथा जुहुयात् । उन्नीतमुन्नयनं स्थालीगतस्य द्रव्यस्याग्निहोत्रहवण्यां चतुर्वारं प्रक्षेपश्चतुरुन्नयतीति श्रुतत्वात् | उन्नयनादि- संस्कारपूर्वकं जुहुयादित्यर्थः । पञ्चदशे प्रश्नोत्तरे दर्शयति- तदादुरथ यदि स्रुग्भिद्येत का तत्र प्रायश्चित्तिरित्यन्यां स्रुचमाहृत्य जुहुया - दथैनां स्रुचं भिन्नामाहवनीयेऽभ्यादध्यात्माग्दण्डां प्रत्यकपुष्करां सा तत्र प्राय: चित्तिः । इति । . सा० भा० - स्रुगग्निहोत्रहवणी तद्भेदे स्रुगन्तरेण हुत्वा भिन्नां स्रुचमाहवनीये प्रक्षि पेत् । तदानीं तदीयो दण्डः प्राच्यामवस्थितस्तदीयं पुष्करं बिलं प्रतीच्यामवस्थितं यथा भवति तथा प्रक्षिपेत् । षोड़शे प्रश्नोत्तरे दर्शयति - - तदाहुर्यस्याऽऽहवनीये हाग्निर्विद्येताथ गार्हपत्य उपशाम्येत्का तत्र मायश्चि- चिरिति स यदि प्राञ्चमुद्धरेत्माऽऽयतनाच्च्यवेत यत्प्रत्यञ्चमसुरवद्यज्ञं तन्वीत य॒न्मन्थेद्भ्रातृव्यं यजमानस्य जनयेद्यदनुगमयेत्प्राणो यजमानं जह्यात्सर्वमेवैनं सह भस्मानं समोप्य गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत्सा तत्र मायचित्तिः ।। ५ ।। इति । सा० भा० – प्रतिदिनमाहवनी याग्निर्होमोर्ध्वमुपशाम्यति । गार्हपत्याग्निस्तु सर्वदा धार्यते । तस्माद्गार्हपत्यात्तत्तद्धोमकाल आहवनीयार्थमग्निं विहरेदित्येषोऽनुष्ठानक्रमः । एवं सति यदि कदाचिदाहवनीयस्य स्थानेऽग्निरनुपशान्तो विद्येन तदानी गार्हपत्यश्चोपशाम्येत् । तत्र तस्य वैकल्यस्य परिहाराय पक्षाः पञ्चविधाः संभवन्ति । विद्यमानमाहवनीयं गार्ह- पत्यतया संभाव्य ततोऽपेि पूर्वदेश आवहनीयं कर्तुं तस्मात्पूर्वसिद्धाहवनीयात्प्राश्चमग्नि- मुद्धरेदिति प्रथमः पक्ष: । तस्मिन्पक्षे यजमान आयतनात्स्वकीयस्थानात्प्रच्यवेताऽऽह- वनीयस्थानात्प्रच्युतत्वात् । अथ गार्हपयार्थं पूर्वसिद्धादा हवनीयात्प्रत्यञ्चमग्निमुद्धरेदिति द्वितीयः पक्षः । तस्मिन्दितीयप यज्ञ एनोडमुरयज्ञसमानः स्यात् । असुरयज्ञश्च शाखा- न्तरे तानसुरान्प्रकृत्यैवमाम्नायते –'त आहवनीयमग्र आदवीत । अय गार्हपत्यम् । अथान्वाहार्यपचनम् । ' इति । तदीयदोषोऽपि तत्रैवाऽऽम्नातः ' भद्रा भूवा परा भवि + अग्निहोत्रचन्द्रिका | ब्यन्ति ' इति । गार्हपत्यार्थमः प्रमथनं कर्तव्यमिति तृतीयः पक्षः । तदानीं विद्यमान आहचनीये तद्विरोधिनोऽग्न्यन्तरस्य मथनाद्यजमानस्य शत्रुमुवादयेत् । पुनराधानं कर्तुं विद्यमानमाहवनीयमनुगमयेदुपशमयेदिति चतुर्थः पक्षः । तस्मिन्पक्षे विद्यमानस्य विना- शनात्प्राणो यजमानं परित्यजेत् । आहवनयिगतं भस्मसहितं सर्वमध्यग्निं कस्मिंश्चित्पात्रे प्रक्षिप्य नीत्वा गार्हपत्यस्थाने प्रक्षिप्यानन्तरं ततो गार्हपत्यप्राश्चमाहवनीयमुद्धरेदिति पञ्चमः पक्षः । अस्मिन्पक्षे दोपाभावात्व प्रायश्चित्तर्भवति । सप्तदशे प्रश्ने,त्तरे दर्शयति तदाहुर्यस्याग्नावग्निमुद्धरेयुः का तत्र प्रायश्चित्तिरिति स यद्यनुपश्येदुदूय पूर्व- मपरं निदध्याद्यद्य ( इय ) नानुपश्येत्सोऽग्नयेऽग्निवतेऽष्टाकपालं पुरोळाशं निर्व- पेत्तस्य याज्यानुवाक्ये अग्निनाऽग्निः समिध्यते त्वं ह्यग्ने अभिनेत्याहुतिं वाऽऽह वनीये जुहुयादग्नयेऽग्निवते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० भा० - सायंप्रातराहवीयेऽग्नौ स्थित एव सति पुनरपि गार्हपत्याग्नि य उद्धरेयुस्तदानीं मुद्धतस्याग्नेः प्रक्षेपात्पूर्वमेव विद्यमानस्याग्नेर्देर्शने तं पूर्व विद्यमानमग्निमुह्य तस्मद।हवनीयस्थानादुद्धृत्य तस्मिन्स्थाने पुनरपरमिदानीमानीतमग्नि निदध्यात् । यद्यदि तु * विद्यमानं नानुपश्येत्तदानीमानीतमग्नि तत्र प्रक्षष्य पश्चादग्निद्वयमवगत्याग्निवतेऽग्नयें. देवतायै पुरोडाशं निरुप्य तस्यैते याज्यानुवाक्ये कुर्यात् । अग्निनाऽग्निरिति पुरोनुवाक्या । त्वं ह्यग्ने अम्निनेति याज्या | सोऽयमेकः पक्षः | दर्विहोमवद्याज्यानुवाक्ये परित्यज्याग्न येऽग्निवते स्वाहेति मन्त्रेणाऽऽहवनीय आज्यं जुहुयादिति द्वितीयः पक्षः । अष्टादशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्य गार्हपत्याहवनीयों मिथः संसृज्येयातां का तत्र मायश्चित्तिरिति सोऽग्नये वीतयेऽष्टाकपाळं पुरोळाशं निर्वषेत्तस्य याज्यानुवाक्ये अग्न आयाहि वीतये यो अग्निं देववीतय इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये वीतये स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० भा० - अग्न्युद्धरणादूर्ध्न व्यवस्थितयोराहवनीयगार्हपत्ययोः सतोर्यदि गार्हपत्य गतोऽङ्गार आहवनीये प्रमादात्पतेदाहवनीयगतो वा गार्हपत्ये पतेत्सोऽयं. मिथः संसर्गः || तत्र प्रायश्चित्तार्थस्य पुरोडाशस्य वीतिगुणयुक्तोऽग्निर्देवता । अन्यत्पूर्ववयाख्येयम् । एकोनविंशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्य सर्व एवाग्नयो मिथः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये

  • मूलस्थद्यत्यव्ययार्थप्रदर्शकस्तुशब्दः । अग्निहोत्रचन्द्रिका |

विविचयेऽष्टाकपालंपुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये स्वर्णवस्तोरुपसा- मरोचि त्वामग्ने मानुषीरीळते विश इत्याहुति वाऽऽहवनीये जुहुयादग्नये विवि- चये स्वाहेति सा तत्र प्रायचित्तिः । इति । १४८ - सा० भा०— आहवनीयगार्हपत्यदक्षिणाग्नीनां सर्वेषां परस्परसंसर्गे सति विविचि- गुणयुक्तोऽग्निः पुरोडाशदेवता । अन्यत्पूर्ववयाख्येयम् । विंशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्याग्नयोऽन्यैरग्निभिः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽनये क्षामवतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अक्रन्ददग्निस्तनयन्निव औौरधा यथा नः पितरः परास इत्याहुतिं वाऽऽहवनीये जुहुयादमये क्षामवते स्वाहेति सा तत्र प्रायश्चित्तिः ॥ ६ ॥ इति । सा० मा० - यस्याग्निहोत्रिण: संबन्धिन आहवनीयाद्यभ्नयोऽन्यदीयैरावनी यादि- भिकिकाग्निभिर्वा संसृज्येरंस्तस्य प्रायश्चित्ती ये पुरोडाशे क्षामवगुणयुक्तोऽग्निर्देवता । अन्यत्पूर्ववद्व्याख्येयम् । एकविंशे प्रश्नोत्तरे दर्शयति- तदाहुर्य॑स्याग्नयो ग्राम्येणाग्निना संदरन्का तत्र प्रायश्चित्तरिति सोऽनये संवर्गायाष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये कुवित्सु नो गविष्ट- ये मा नो अस्मिन्महाधन इत्याहुतिं वाऽऽहवनीये जुहुयादमये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० मा० - ग्राम्योऽग्निर्महानसादिगतः । स कदाचित्प्रमादेन प्रवृद्धो ग्रामगतानि गृहाणि दहन्नग्निहोत्रशालागताना हवनीयादीनानीन्सम्यग्दहति तदानीं प्रायश्चित्तस्य पुरोडा- शस्य संवर्गगुणयुक्तोऽग्निर्देवता । अन्यत्पूर्ववत् । द्वाविंशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्याग्नयो दिव्येनाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नयेऽ- प्सुमतेऽष्टाकलं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अप्स्वरने सघिष्टव मयो दधे मेधिर: पूतदक्ष इत्याहुतिं वाऽऽहवनीये जुहुयादs सुमते स्वाहेति सा तत्र प्रायश्चित्तिः ॥ इति । सा० मा० - दिव्याग्निवैद्युतः । अशनिपाते सति तदीयेनाग्निनाऽऽहवनीयादीनां संसर्गे प्रायश्चित्तपुरोडाशस्याप्सुमानग्निर्देवता | अन्यत्पूर्ववत अग्निहोत्रचन्द्रिका | त्रयोविंशे प्रश्नोत्तरे दर्शयति- तदा हुर्यस्याग्नयः शवाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये शुचयेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अभिः शुचिव्रततम उदग्रे शुचयस्तवेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये शुचये स्वाहेति सा तत्र माय- चित्तिः । इति । सा० भा० - प्रेतदहनाय प्रवृत्तोऽग्निः शवाग्निस्तत्संसर्गे पुरोडाशस्य शुचिगुणयु क्लोऽग्निर्देवता । अन्यत्पूर्ववद्व्याख्येयम् । चतुर्विशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्याग्नय आरण्येनाग्निना संदरन्का तत्र प्रायश्चित्तिारीत समे बाssरोपयेदरणी बोल्मुकं वा मोक्षयेद्यद्याहवनीयाद्यदि गाईपत्यायाद न शक्नुयात्सोऽग्नये संवर्गायाष्टाकपालं पुरोळाशं निर्वपेत्तस्योक्ते याज्यानुवाक्ये आहुतिं वाऽऽहबनीये जुहुयादये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः ॥ ७ ॥ इति । सा० भा० -- दाबाग्निररण्यादागत्याग्निहोत्रशाला दहन्नाइवनयादीन्यदा सभ्य- ग्दहति तदानीं तद्दहनात्पूर्वमेवाग्नीनरणी द्वयोररण्योः सह समारोपयेदेव । तदशक्तौ गार्हपत्याहवनीयादुल्मुकं मोक्षयेत् । सहसोल्मुकमादाय परितो गच्छेत् । समारोपणं बोस्मुकमोचनं वेति पक्षद्वयस्याग्निदाहत्वरया यदा न शक्तिस्तदा संवर्गगुणयुक्तोऽग्निः पुरोडाशदेवता । तदीययाज्यानुवाक्ये च पूर्वमेवाभिहिते । अष्टाविंशे प्रश्नोत्तरे दर्शयति-- तदाहुर्यस्य सर्व एवामय उपशाम्येरन्का तत्र प्रायश्चित्तिरिति सोऽप्रये तपस्वते जनद्वते पावकवतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये आयाहि तपसा जनेष्वा नो याहि तपसा जनेष्वित्याहुतिं वाऽऽहवनीये जुहुया- दग्नये तपस्वते जनद्वते पावकवते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० भा० – आहवनीयगार्हपत्यदक्षिणाग्नीनां सर्वेषामुपशान्तौ तपस्वज्जनद्वत्पाव- क्लबद्गुणत्रययुक्तोऽग्निः पुरोडाशदेवता । त्रयस्त्रिंशे प्रश्नोत्तरे दर्शयति तदाहुर्य आहिताग्निर्यादि प्रातरस्नातोऽग्निहोत्रं जुहुयात्का तत्र प्रायश्चित्तिारैति १५० अग्निहोत्रचन्द्रिका | सोऽये वरुणायाष्टाकपाल पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वं नो अग्ने बरुणस्य विद्वान्स त्वं नो अग्नेऽवमो भवोतीत्याहुतिं वाऽऽहवनीये जुहुयादग्नये वरुणाय स्वाहेति सा तत्र प्रायश्चित्तिः ॥ इति | सा० भा० -आहिताग्नेः स्नानमन्तरेणाग्निहोमे वरुणगुणकोऽग्निः पुरोड शदेवता । चतुस्त्रिंशे प्रश्नोत्तरे दर्शयति- तदाहुर्य आहिताग्निर्यदि सूतकानं मानीयात्का तत्र प्रायश्चित्तिारीत सोऽग्नये तन्तुमतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये तन्तुं तन्वन्रजसो भानुमन्विाक्षानहो न ह्यतनोत सोम्या इत्याहुतिं बाऽऽहवनीये जुहुयादमये सन्तुमते स्वाहेति सा तत्र मायश्चित्तिः । इति । सा० भा० – आहिताग्नेः सूतकान्नप्राशने तन्तुमद्गुणकोऽग्निर्देवता । पञ्चत्रिंशे प्रश्नोत्तरे दर्शयति- - . तदाहुर्य आहिताग्निजींबे मृतशब्दं श्रुत्वा का तत्र प्रायश्चित्तिरिति सोऽग्नये सुरभिमतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अनिता न्यसदद्य- जयान्साध्वीमकर्देववीतिं नो अग्रेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये सुरभिमते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । 6 - सा० भा०— आहिताग्निः स्वस्मिञ्जीवत्येव स्वकीयमरणशब्दं यदा द्वेषिमुखाच्छृणुया- सदानीं सुरभिमद्गुणयुक्तोऽनिर्देवता । षट्त्रिंशे प्रश्नोत्तरे दर्शयति— तदाहुर्य आहिताग्नियस्य भार्या गौर्वा यमौ जनयेत्का तत्र प्रायश्चित्तिरिति सोऽनये मरुत्वते त्रयोदशकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेवेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० मा० - आहिताग्निर्योऽस्ति तस्येत्यस्मिन्नर्थे यस्येतिशब्दः प्रयुक्तः । तस्याऽऽहिता- नेर्भार्या वा तद्गृहावस्थिता गौ यमावपत्यद्वयं सह जनयेत्तदानीं मरुत्वद्गुणयुक्तोऽग्निर्दे- वता | एतद्ब्राह्मणोक्तं प्रायश्चित्तं सूत्रोक्त प्रायश्चित्तेन सह विकल्पते । पूर्णाहुतिप्रयोगस्तु अग्रे निर्दिष्टरीत्याऽऽकलनीयः । इष्टिपक्षमनुष्ठातॄणां याज्यापुरानुवाक्या लिख्यन्ते । अन्यः अग्निहोत्रचन्द्रिका १५१ प्रयोगस्त्वाश्वलायनीयैः पौर्णमासप्रकृतिकोऽनुष्ठेयः । स तु प्रकृतेरवगन्तव्यः । विस्तरभिया नेह तन्यते । इति प्रायश्चित्तविधायकमैतरेयब्राह्मणं सभाष्यम् । अथाग्निहोत्रप्रायश्चित्तसूत्रं सभाष्यं वृत्या समेतं च | विध्यपराधे प्रायश्चित्तिः ॥ १ ॥ दे० भा० - समाम्ना तमग्न्याधेयादिकर्म, द्रव्यमन्त्रक्रियासमुच्चितं कर्म विधिरुच्यते । तस्य विधेरयथाकरणमकरणं वाऽपराधो विधेरपरावो विध्यपराधस्तस्मिन्विध्यपराध उत्पन्ने प्रायश्चित्तं कर्म क्रियते । दोष निर्हरणार्थमित्येतदधिकृतं वेदितव्यम् । इत उत्तरं यवक्ष्यामः पञ्चभिः खण्डैरन्याहिताग्ने प्रयाणोपपत्तावित्येवमादिष्वमुष्मिकर्मणीदं प्रायश्चित्त मिति वक्ष्यति । तेनैव सिद्ध इदं सूत्रं न वक्तव्यम् । तथाऽप्यषिद्यमानेऽविज्ञातं प्रायश्चित्तं कर्त व्यम् । अविज्ञाते भूर्भुवः स्वरित्याहवनीय एवेति ॥ १ ॥ ना० वृ० – प्रायश्चित्तिरित्यधिकारोऽयमाऽध्यायपरिसमाप्तेः । विधिशब्देन विहितमु च्यते । अपराधोऽन्यथाभावोऽभावो वा विहितस्याकरणेऽन्यथाकरणे च प्रायश्चित्तिः कर्तव्या । प्रायो विनाशश्चित्तिः संध'नम् । विष्टसंधानं प्रायश्चित्तरित्युक्तं भवति । त्रिव्यपराधे प्राय श्चित्तिरितिवचनादपराधे सति तदर्थतया विहितमस्ति चेत्तदेव कर्तव्यम् | तन्नास्ति चेद्- व्याहृतिहोमः कर्तव्यः । “तस्मादेषैव यज्ञे प्रायश्चित्तिः कर्तव्या" इति वचनात् । विध्य- पराध इतिवचनाद्विधिसंपादने प्रायश्चित्तिर्नास्ति । यथा यदि वाऽस्याग्निहोत्र उपसन्न इत्याद्यन्तरागमननिषेधावसरे यजमानस्यान्तरागमनं विहितं तस्मिन्गमन इत्यर्थः । कालश्च प्रायश्चित्तानां नैमित्तिकत्वान्निमित्तानन्तरं कर्तव्यानीत्युत्सर्गः ॥ १ ॥ शिष्टाभावे प्रतिनिधिः ॥ २ ॥ दे० भा० - शिष्टस्य निर्दिष्टस्य चोदितस्प श्रीह्यादिद्रव्यस्य कर्मणि प्रयुक्तस्य तरिम- न्व्यापन्ने तदेव पुनरानयितव्यम् । तस्य चेपुनरभावो भवति व्रोहयो न विद्यन्ते ततस्तत्स रूपमन्यन्नी वारद्रव्यं प्रतिनिधिर्भवति । तत्प्रतिनिधाय तत्कर्म समापयितव्यम् । द्रव्याभावे प्रायश्चित्तं न हूयते प्रतिनिधिरेव भवति । ब्रह्मभावे विद्यमाना अपि यत्राः श्रौता न प्रति- निधीयन्ते । यथा नोष्क्षीरेण जुहुयात् । अयज्ञिया वै मापा वरटा कोद्रवाश्चेति | रूपा मान्याभावे कार्यसामान्यात्प्रतिनिधिर्नीचाराभावे प्रियंग्त्रादीनामपि पिण्डा: पुरोडाशकार्ये १५२ अग्निहोत्रचन्द्रिका | समाना भवन्ति । सर्पिषोभावे पयसा दध्ना वा तत्कार्यं क्रियते युपाञ्जनं तु तैलेन क्रियते । स्वाम्यग्निदेवत|शब्दः कर्मदिग्देशकालेषु प्रतिनिधि निर्वृत्तः । काम्यं कर्म विगु णमफलं भवति । तस्मात्प्रतिनिधिना समाप्य पुनर्यजेत । विगुणमपि नित्यं फलाय भवति तस्मात्प्रतिनिधिना समाप्य न पुनर्यजेत । यत्रानां सरूपा गोधूमः । श्रीहीणां सरूपग नीवारा: । खदिरस्य सरूपो बदर: | पलाशस्य निश: । रूपतश्च सामान्य: प्रतिनिधिः कर्तव्यः ॥ २ ॥ ना० वृ० --शिष्टं विहितमित्यर्थः । तस्याभावे प्रतिनिधिरुपादातव्यः । अभाव इत्येतावतैव सिद्धे शिष्टग्रहणं यत्कार्यार्थितया यच्छिष्टं तस्य स्वरूपसत्तायामपि तत्कार्या- शक्तौ प्रतिनिधिरुपादातव्य इत्येवमर्थम् । अर्थद्रव्ययोर्विरोधेऽर्थो बढीयानित्ययमपि न्यायोऽर्थ. दत्र व्युत्पादितो भवति । इदं चापरम् । कार्यसामर्थ्य सति न गुणसंपादनार्थ- मुपादातव्य इति व्यतिरेकाल्लभ्यते । अत्रापि न्यायान्तरं व्युत्पादितं भवति । द्रव्यगुणवि. रोधे द्रव्यं बलीय इति । प्रतिनिधीयत इति प्रतिनिधिः । एतदुक्तं भवति – यत्कायार्थ - तया यद्विहितं तस्य तःकार्याशक्तौ तस्य यत्प्रतिरूपं तत्तत्कार्यकरणायोपादातव्यमिति । अनेन प्रकारेण सदृशप्रतिनिधिरुक्तो भवति । न्यायादेवायमर्थो लभ्यते । शिष्टाभावे प्रतिनिधिरिति वचनस्येदं प्रयोजनं प्रतिनिधिप्रयोगेऽपि विहितस्वरूपापचाराद्विध्यपराधशङ्का- निवृत्त्यर्थम् । अतस्तत्र प्रायश्चित्तिर्न कर्तव्या । विधिशक्तिरेव तत्रैवंरूपा विपरिणमते नात्र विध्यपराधोऽस्तीत्येवमर्थं सूत्रप्रणयनम् ॥ २ ॥ आहवनीयमत्रदीप्यमानमर्वाक्शम्यापरासादिदं त एकं पर ऊत एकमिति संवपेयदि त्वतीयात् । यदि वाऽन्यस्याग्निषु यजेत | यदि वास्यान्योऽग्निरनी- न्व्यवेयाद्यदि वाऽस्याग्निहोत्र उपसन्ने चक्रीवच्छ्वा पुरुषो वा विहारमन्तरिया- दिष्टिः ॥ ३ ॥ - दे० भा० – यद्याहवनीयोऽग्निरवर्दी प्यमानो गच्छेद हिर्गच्छेदित्यर्थः । तमाहवनीयम- वदीप्यमानमर्वाक्शम्यापरासात् । शम्या शकटलिङ्गं भवति । सा शम्या प्रक्षिप्ता यस्मि- न्देशे पतति स देशः शम्यापरासः । तस्मादेशादर्वागिदं त एकं पर ऊन एकमित्येतयर्चा तमग्नि संवपेत् । संवपनमेकीकरणं सर्वमग्निमाहवनीय एकीभावं कुर्यात् । आहवनीयग्रह- ण/दन्यस्याग्नेर्न भवत्यर्वाक्शम्यापरासादेत द्विधानं तस्मादन्यद्वक्ष्यति यदि सतीयाद्यदि शम्यापरासादग्निरतीयात्तथा सतीष्टिः पाथिकृती तां वक्ष्यति । यदिशब्दोऽनित्यभावे तुश- ब्दोऽधिकृतव्यावृत्त्यर्थः । यदिशब्देऽप्रयुज्यमाने यदि त्वतीयाच्छम्यापरासमग्निस्ततोऽस्मि- निमित्त इष्टिः | अन्यस्य यजमानस्याग्निषु विपर्यासेन यजेनाग्निहोत्रं जुहुयात् । एक- स्मिन्नगारेऽग्निहोत्रसमचाये विपर्यासो भवति । एतस्मिन्निमित्त इष्टि पाथिकृत वक्ष्यति सा अग्निहोत्रचन्द्रिका | १५३ कर्तव्या भवति । बास॑ब्दः समुच्चयार्थः । एतस्मिंश्च निमित्ते पाथिकृती वक्ष्यमाणा भवति यदिशब्दस्य प्रयोजनमेवोक्तं बाशब्दस्य समुच्चयार्थ इति । अस्येत्पनुच्यमानेऽत्याग्नयो न संबध्यन्ते । यदि वाऽस्याग्निरग्यात् । यदि चास्य यजमानस्याग्नीनन्योऽग्निर्लो- किको ब्यत्रेयादंन्तरेण गच्छेत् । गत एव स्मिन्निमित्ते पाथिकृती खावश्यते । इतः प्रभृतिषु योगेषु यदिशब्दश्चेन्न प्रयुज्यते ततोऽयमर्थो भवयग्न्यादिभिश्चेवायो भवति । अस्येति यदि नोच्यतेऽस्याग्नयो न संवध्यन्ते । अन्यथाऽस्य वाऽन्थस्य वाऽग्निनाऽन्तरेण व्यवायेऽपि प्रायश्चित्तं स्यात् । यदि वाऽस्याग्निहोत्र उसने यदि चास्य यजमानस्या ·ग्निहोत्र उपसन्न आहवनीयसमीपे कुशेपसाचे पसन्ने हविवि । अस्मिन्काले चेत्कृतन्य वाये मायश्चित्तं भवति । चक्रीच्या पुरुषो वा पुरुष इत्युक्त पुरुषः स्त्री वाऽपि भवति । चेतिग्रहणादेतेषां यक्किंचन विहारमन्तरियाइन्तरा मध्येनेयागच्छेत् । तत एतेषु वक्ष्यमाणा पाथिकृतीष्टिर्भवति यदिशब्दोक्तं प्रयोजनम् | अश्यैत्युत्तरसूत्रार्थन् ॥ ३ ॥ 4 16 ना० ३० —आहवनीयस्यैकदेशः समस्तो वा यद्यायननायकायापा हेदेर्बहिर्गच्छेत्तदा तम् “ इदं त एकम् " इत्यायने संत्रपेत् । ततः समस्ताभिर्व्याह- तिभिर्होमः कर्तव्यः । अग्नीनां सर्ववेदसंबन्धित्वात् । सर्वत्र विनष्टसंधानं द्विविधम् । आयतनादपगतस्य पुनः प्रक्षेपात्सेन्द्रियं संधानं तत्रैव व्याहृतिभिहोंमादतीन्द्रियम् । अतो यत्र यागो हे मो जपो दानं दक्षिणा रूपब्राह्म गभोजनं चास्ति तत्र तैरेवातीन्द्रियसंचानांशः सिध्यति । यत्र त्वेषामन्यतमं नास्ति तत्र व्याहृतिहोमनातीन्द्रियांशसंधानं कर्तव्यन् । आहत्रनीयग्रहणादग्न्यन्तरे नैतत्प्रायश्चित्तम् । तत्र तूष्णीं प्रक्षिप्य व्याहृतिहोमः कर्तभ्यः । तस्य च विध्यपराधस्वात् । दीप्यमानवचनं यावत्प्रायश्चित्तकालं जीवत एवैतत्प्रायश्चित्तं भवति न विस्फुलिङ्गमात्रस्येत्येवमर्थम् | उक्तं शम्यापरास देशमनतिक्रान्तस्य | अतिक्रान्तस्ये- दमुच्यते । यदि त्वतीयाच्छम्पापरासदेशमित्यर्थः । अन्यस्यान्निषु यागं कुर्यादस्याग्नि- ध्वन्यो वा यजेत । अस्य,ग्नीनन्यो वाऽग्निर्व्ययात् । यद्यग्निहोत्रद्रव्ये कुशेषूपसादिते चक्रीवद्रयशकटादि श्वा पुरुषो मनुष्यजाति: सर्वाग्नीनां मध्येनातिक्रामेत् । एतेषु निमि विष्टिं कुर्यात् ॥ ३ ॥ यदि चाश्वे प्रमीयेत ॥ ४ ॥ दे० मा० - यदि चाव्वेऽध्वनि प्रवासे यजमानः प्रमीचेत तस्मिन्निमित इष्टिर्भवति । यदि त्वतीयादियत आरभ्य यानि निमित्तान्यनुकान्ताम्येतस्मातेषु सर्वेष्विष्टिर्भवति । १५४ अग्निहोत्रचन्द्रिका | अनुयोगं चकारः समुञ्चयार्थः कृतस्तस्मात्सर्वेषु निमित्तेषु समानप्रायश्चित्त मिष्टिः सा वक्ष्यते ॥ ४ ॥ अग्निः पथिकृत् ॥ ५ ॥ - तस्यामिष्टौ पथिकदग्निर्देवता ॥ ५ ॥ दे० ऋ० - २ ना० वृ० -तस्यामियं देवता | अग्निः पथिकद्गुणकः ॥ ५ ॥ वेत्था हि वेधो अध्वन आदेवानामपि पन्थामगन्मेति 1 अनड्वान्द- क्षिणा ॥ ६ ॥ दे० ० भा०— - वेत्था हि वेवो अध्वन आदेवानामपि पन्थामगन्मेति पथिकदग्र्या- उपानुवाक्ये भवतः। अनड्वान्दक्षिणा भवति । वोढुं समर्थोऽनङ्वान्भवति पञ्चवर्षो भवति । अस्या इष्टेः शेषं पौर्णमासेन दोषनिर्हरणार्थं प्रायश्चित्तं तच्चानन्तरं दोषात्कर्तव्यम् । इष्टिस्तु यस्मिन्कर्मणि चोदिता तत्कर्म परिसमाप्यान्ते कर्तव्यम् । कर्ममध्ये न क्रियते । “विवा एतस्य यज्ञश्छिद्यते यस्थ तन्त्रे प्रततेऽन्यतन्त्रं प्रतायते " इति श्रुतेः । तस्मादेवं क्रियते । आ प्रायश्चित्तसमाप्तेस्त एवम्झनो भवन्ति तत्संस्कारत्वात्प्रायश्चित्तस्य तदधिकृतं कर्म संस्क्रि- यते प्रायश्चित्तेन ॥ ६॥ ना० दृ० – शकटवहनसमर्थो बलीवोंऽनड्वान्दक्षिणा ॥ ६ ॥ व्यवाये त्वनग्निना गिष्टेगा॑मन्तरेणातिक्रमयेत् ॥ ७ ॥ दे० भा० – व्यवाये विशिष्टविधिरुच्यतेऽनग्निनाऽग्रिव्यवायं च ज्ञात्वाऽन्येन व्यवाये चक्रीवच्छ्वा पुरुषो भवति तेन व्यवाये प्रागिष्टे: प्राक्प्रायश्चित्तेष्टेर्गामन्तरेणातिकमयेद्वि- हारमध्ये न गां गमयेत् । येन मार्गेण पुरुषादयो गतास्तेन गां गमयित्वाऽनन्तर मिष्टिं कुर्यात्तुशब्दोऽधिकृयर्थः । बहूनि कर्माण्यधिकृतानि व्यत्राये तु विशेष उच्यते नान्येषु । अनभिनेति वचनादग्नित्र्यवायेषु न भवति नान्यो विशेषः । प्रागिष्टेरितिवचनादिष्टिश्च भवति विशेपविधिश्च प्रागिष्टे ख्यनुच्यमान इष्टेरपवादः स्यात् ॥ ७ ॥ - ना० दृ० – अग्निचक्रीवच्छ्वपुरुषवाय इष्टिक्वा । तत्राविर्जितैरन्यैर्व्यवाये गवा- तिक्रमणं भस्म राज्युकराजिभ्यां संतानमनुगमयित्वा प्रणयनमुपस्थानमिति विशेषः । श्वव्यवाथे त्वयमध्यपरो विशेषः भस्मता शुनः पदं प्रतिवत् " इति । एते पदार्था निमित्तानन्तरमेव कर्तव्याः । ततो वर्तमानं कर्म समाप्येष्टिः कर्तव्या | दर्विहोममध्य एष अग्निहोत्रचन्द्रिका | १५५ विधिः । इष्टिमध्ये तु तदेव तदेव तन्त्रमुपजीव्य तत्रैव पाथिकृती कर्तव्या । ग्रामिष्टेरिति वचनं पूर्वोक्ताया अपीष्टेः प्रागेवैते पदार्थाः कार्या इत्येवमर्थम् ॥ ७ ॥ भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति ॥ ८ ॥ दे० भा० - प्रागिष्टेरिति वचनाच्छुनो व्यवाये विशेषविक्रुिच्यते । प्राष्टेिः शुनः व्यवाये भस्मना शुनः पदं मार्गं प्रतिवपेत् । तस्मिन्मार्ग इदं विष्णुविचक्रम इत्येतयर्चा भस्म विकिरेत् । अस्मिन्कर्मणि न गामन्तरेणातिक्रमथेद्भस्नना प्रतिवपनमेव | यथेष समु च्चय इष्ट: स्यात् । भस्मना च शुनः पदं प्रतिवपेदिति ब्रूयात् । चकार समुच्चयार्थं कुर्यात् ॥ ८ ॥ 66 ना० दृ० - शुनो यानि पदानि तानि भस्मना प्रतिवरदित्यर्थः । प्रतिपदं मन्त्रा- वृत्तिः ॥ ८ ॥ गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च संतनुयाचन्तुं तन्वत्र- जसो भानुमन्विहीति ॥ ९ ॥ दे० भा० — गार्हपत्याहवनीययोरन्तरमन्तराचं भस्मराजिर्मस्मरखोदकरा जिरुदकचारो- भयोर्भस्मराज्या च संतनुयात् । गार्हपत्यादारभ्य यावदाहवनीयं प्राप्नोति । तन्तुं तन्वन्र- जसो भानुमन्विहीत्येतयर्चा भस्मराजिं हरदेतेनैव मन्त्रेणोदकधारां हरेत् । प्रतिद्रव्यमावर्त- येन्मन्त्रम् । भस्मराज्योदकधारया च संतानं कुर्यात् । ॥ ९ ॥ ना० वृ० – प्रतिरा|जे मन्त्रावृत्तिः ॥ ९ ॥ - अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणीयोपतिष्ठेत । यदग्ने पूर्वप्रहितं पदं हि ते सूर्यस्य रश्मीनवाततान । यत्र रविष्ठामनुसंभवैतां सं नः सृज सुमत्या वाजवत्या | त्वमने सप्रथा असीति च ॥ १०॥ ३० भा० --तत आहवनीयमग्निमनुगमयेदुपशमयेत् । तत आहवनीयं पुनर्गार्हपत्या- त्प्रणीयोपतिष्ठेत प्रणीतमाहवनीयमुपतिष्ठते । यदग्न इत्यनेन मन्त्रेण यथासमा नातेन त्वमध्ने सप्रथा इत्येतयर्चा चोपतिष्ठेत | तत उपस्थानानन्तरमिष्टिः पाथिकृती क्रियते । चशग्द: समुच्चयार्थः । अत्राऽऽहवनीयस्यानुगमनं दृष्ट्वा ब्रूमः । आ प्रायश्चित्त समातेस्त एवाग्मयो भवन्तीति ॥ १० ॥

- ना० ० – राजिभ्यां संतानं कृत्वाऽऽहवनीयमनुगमयेत् । ततः प्रणीयोपतिष्ठेत । “ यदग्ने पूर्वम् ” “ त्वमग्ने समथा अति " इति च द्वाभ्याम् । चशब्दः पूर्वान्त अग्निहोत्रचन्द्रिका | 6 , इतिकाराभावात् त्वमन्ने सप्रथा अस इत्यस्य पूर्वमन्त्रशपाशङ्कानिवृत्त्यर्थः । इष्टेरपि स एब बिहारः | प्रायश्चित्त उत्पन्ने पूर्वप्रवृत्ता अग्नयो नापवृज्यन्त इत्यस्यार्थस्य साधनार्थ- मुत्तरत्र वक्ष्यति “ अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणयेत् | " इति ॥ १० ॥ अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं तूष्णीं सर्वहुतं जुहुयुरा समवायात् ॥ ११ ॥ -- दे० भा० - अध्वेऽध्वनि प्रवासे प्रम, तस्य यजमानस्य प्रागिष्टेरित्यनुवर्तते । अभि- वान्यो वत्सो यस्या गोः साऽभिवान्यवत्साऽन्यकत्समभिगताः तस्याः पयसाऽग्निहोत्रं सायं प्रातस्तूष्णीममन्त्रं सर्वद्दुतं जुहुयुः । द्वितीयाहुत्यां सर्वमत्र हूयते प्राशनार्थं नावशिष्यते । कियन्तं कालमा समवायादा यजमानेन समवायादा शरीराणामाहर्लोराहृतेषु शरीरेषु पाथिकृतीमिष्टिं कृत्वा ततः पितृमेधोक्तेन विवाने संस्कारं कुर्यात् । अथ समिधं धार- यति । “ उपरि हि देवेभ्यो धारयति " इति श्रुतेः । होमे प्रजापति ध्यायेत् । सर्बहु- तमितिवचनात्प्राशनं न क्रियते । प्राशनाभावाच्च निनयनमपि न विद्यते तत्संबन्धात् । उक्तो हि तत्संबन्धः “ भक्षयित्वाऽस्यात्ममपः स्रुचा निनयते " इति । पयसाऽग्निहोत्र - मितिवचनात्पयसः संस्कारादि यत्कर्म तदेव क्रियते । पयसः संस्कारात्प्राक्तनं कर्म नात्र विद्यते । परिसमूहनपर्युक्षणै धारा नियना हो मादी तत्वाद्धमान्तेऽषि पर्युक्षणं न क्रियते । अध्वर्यूष्णामप्युक्तम्-प्राशनोत्सेचन परिपेचनानि न विद्यते । ( आप०ौ० सू० १० । ) ॥ ११ ॥ ना० वृ० -पाथिकृतं कृत्वा तस्मिन्नेव बिहारे तूष्णीधर्मकमनिहोत्रं नाम कर्मा- न्तरमनेन विधीयते । तत्सर्वमग्निहोत्रकर्तव्यम् । सर्वहुतत्वं तु विशेषः । अतो. नात्र भक्षोऽस्ति । काटश्च सायं प्रातरेव | साङ्गं प्रधानम् । ष्ण प्रयाने प्रजापतिध्यानं कर्त- व्यम् । अभिवान्यवत्सा नामान्यवत्सेन दोहनीया | अभिवान्यो वत्सो यस्याः साऽभि बान्यबत्सा । अभिवान्योऽभियाचनीय इत्यर्थः । आ समवायादिति । आ शरीरस्याग्निसंब न्धादित्यर्थः ॥ ११ ॥ यद्याहिताग्निरपरपक्षे त्रयीयेताऽऽहुतिभिरेनं पूर्वपक्षं हरेयुः ॥ १२ ॥ दे० भा० – यदीत्यनित्यभावे । आहिता यस्याग्नयः स आहिताग्निः । स यद्यपर- पक्षे प्रमीयते न जीवतीति। अतिभिरेनं यजमानं पूर्वपक्षं शुरूपक्षं हरेयुर्नगेयुः कस्मिन्काले न जीततीसाशा भवति तदानीमेव तृष्णीं वित्या पक्षहोमन्यायेनाहानि अग्निहोत्रचन्द्रिका | १५७ ताबन्ति चतुर्गृहीतानि गृहीत्वैकां समिधमाधाय सायंहोमं जुहुयादेवं प्रातर्होमः | होम- योस्त्वरा चेत्तदानीमेव प्रातर्होमं हुत्वा ततः सायंहोमं जुहुयात्ततः प्रातर्होमं चामावास्यां च कुर्यादित्यर्थः । आहिताग्निग्रहणादनाहिताग्नेरौपासन एप विधिर्न क्रियते । प्रमीयत इतिवचनात्समीपत उ ( प्रमीतस्य ) तो विधिजवतोऽपि न भवति । जीवति तु पुन - र्यथाकालमग्निहोत्रं जुहुयादिव्यन्येपामप्युक्तम् । जीवे चेपुनः काळ इति । पूर्वमेव पूर्वपक्षं हृत एव भवति ॥ १२ ॥ ना० वृ०–यद्याहिताग्नेरपरपक्षे मरणाशङ्का स्यात्तदा तस्य पक्षस्यावशिष्टा आहुतीः पक्षहोमन्यायेन हुत्वाऽमावास्यां च कृत्वा कर्मभिरेवमेनं पूर्वपक्षं नयेयुः । आहिताभित्र- हणमन्या अप्यनाहिताग्नेरपरपक्षाश्रिता या नित्याहुतयस्ताः सर्वा होतव्या इत्येवमर्थम् । एष पूर्वाधिकृतानां कालापकर्पो विधीयते । तेन जीवत एव मरणाशङ्कायामेतदिति गम्यते । मृतस्यानधिकारात् । अत एव पूर्वसूत्रेऽग्निहोत्रनामकं कर्मान्तरमि- व्युक्तम् ॥ १२ ॥ शम्यापरासदेशमनतिक्रान्ताम्नीनां प्रायश्चित्तप्रयोगः । यदा कदा बाऽऽहचनीयस्यैकदेशः समस्तो वा यद्यायतनादुमृप्यार्वा कूशभ्यापरासाद्वे- देर्बहिर्गच्छेत्तदा तम् – इदं त एकं पर ऊत एकं तृतीयेन ज्योतिषा संविशस्त्र | संवेशने तन्व३ श्वारुधि प्रियो देवानां परमे जनित्रे || ( ऋ० सं० ८ । १ । १८ ) । इत्यनयर्चाऽऽयतने संवपेत् । ततस्तस्मिन्नेवाग्नौ भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न मम । इति स्रुवेगाऽऽज्यं जुहुयात् । अग्न्यन्तरे नैतत्प्रायश्चित्तम् । तत्र तृष्णीमायतने मक्षिप्य भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न मम । इति होमः कर्तव्यः । बिस्फुलिङ्गमात्रस्य नैतत्प्रायश्चित्तम् । शम्यापरासदेशमनतिक्रान्तप्रायश्चित्तप्रयोगः । इति अग्निहोत्रचन्द्रिका | अथ पाथिकृतीटिस्थानीय पूर्णाहुतिप्रयोगः | यजमानः– विहाराइहिराचम्य गार्हपत्यस्य पश्चाइर्मेध्यासीनो दर्भान्धारयमाणः पल्या सह संकल्पयेत् । ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं पाथिकृतीष्टिस्थाने पूर्णाहुतिं १५८ होष्यामि । - अस्यां पूर्णाहुत्यामध्वर्युं त्वामहं दृणे । अध्वर्युः – तृतोऽस्मि कर्म करिष्यामि । - यजमानः – अस्यां पूर्णाहुत्यां ब्रह्माणं त्वामहं वृणे । ब्रह्मा-वृतोऽस्मि कर्म करिष्यामि । अध्वर्युः–अग्नीन्परिस्तीर्य ब्रह्माणं : यजमानं चाऽऽहवनीयस्य दक्षिणत उपत्रेश्य पत्नीं च गार्हपत्यस्य दक्षिणत उपवेश्य गार्हपत्स्योत्तरतो दर्भान्स तीर्य स्रुवं जुहूमाज्यस्थाली प्रोक्षणी चाऽऽसाद्य प्रोक्षणी पात्रमुत्तानं कृत्वा समावप्रच्छिन्नायौ प्रादेशमात्रौ दर्भों गृहीत्वा दर्भयोत्रिस्य मध्ये तृणं वा काष्ठं कृत्वा हित्वा पवित्रे कृत्वा ते पवित्रे प्रोक्षण्यां निधा- याप आसिच्य तूष्णीं त्रिरुत्पूय पात्राण्युत्तानानि कृत्वा त्रिः प्रोक्ष्य गार्हपत्य आज्यं विलाप्य पञ्त्रिान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य तृष्णीनुत्पूय ते पवित्रे गार्हपत्ये प्रक्षिप्य दर्भैः स्रुक्स्स्रुवौ संमृज्य स्थाल स्रुस्रुवौ च गृहीत्वाऽऽहवनीयस्य पश्चात् कुशेपुपसाद्याऽऽहवनी• यमिध्मैः प्रज्ञाल्य स्रुवेण चतुर्गृहीतं गृहीत्वा दक्षिणं जान्याच्य यजमानेनान्वारब्धे अग्नये पथिकृते स्वाहा । यजमान:- अग्नये पथिकृत इदं न मम | इति व्यक्त्वाऽऽचम्य अनया पूर्णाहुत्या भगवानग्निरूपपरमेश्वरः श्रीयताम् । इति पूर्णाहुतिप्रयोगः |

  • अग्निहोत्रार्थ प्रणीतेष्वग्निषु वक्ष्यमाणनिमित्तेष्वन्यतमे निमित्ते प्राप्ते तस्मिन्नेवाऽऽहवनीये

पूर्णाहुतिं जुहुयात् । १ अग्नीनां शम्यापरासदेशातिक्रमणम् | २ अन्याग्निषु यजनम् । ३ अस्याग्निष्वन्यस्य यजनम् | ४ अग्निना व्यवायः । ५ चक्रीवच्छ्वपुरुषैर्व्यवायः । अध्वनि यजमानमरणम् । एतेषु निमित्तेषु चक्रीबच्छ्वपुरुपैर ग्निहोत्र उपसन्ने व्यवाये पूर्णाहुतिः । एतनिमित्तं यदा प्राप्नोति तदा पूर्णाहुनिः । इति । अग्निहोत्रचन्द्रिका | अथ व्यवधानप्रायश्चित्त विशेषः । चक्रीवता व्यवाये शुना व्यवाये पुरुषेण व्यवाये गार्हपत्याहवनीयावन्तरेण गामति - क्रम्य गार्हपत्याहचनीययोरन्तरं भस्मराज्योदकराज्या च संतनुयात् । प्रतिराजि मन्त्रावृत्तिः । तत्र मन्त्रः- तन्तुं तन्वब्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुलवणं वयत जोगुवामपो मनुर्भव जनया दव्यं जनम् || १५९ तत आहवनीयमनुगमयित्वा गार्हपत्यात्पुनराहवनीयं प्रणीय तं प्रणीतमाहवनीयमुप- तिष्ठेत । तत्र मन्त्रा:- यदग्ने पूर्व प्रहितं पदं हि ते सूर्यस्य रश्मीनन्वा ततान | तत्र रयिष्ठामनुसंभवता सं नः सृज सुमत्या वाजवन्या । त्वमने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते ॥ इति । शुना व्यवाये त्वयं पुनर्विशेषः - गवातिक्रमणं कृत्वा भस्मराज्युदकराजिभ्यां संतानं कृत्वा शुनः पदं अस्मना पूरयेत् । प्रतिपदं मन्त्रावृत्तिः । मन्त्रस्तु– इदं विष्णुर्विचक्रमे त्रेधा निर्धे पदम् । समूहळमस्य पाँसुरे ॥ तत आहवनीयानुगमनोपस्थानान्तं पूर्ववत् । अत्रैवं क्रतः–१ संकल्पे तत्तन्निमित्तोच्चारः कार्यः । यथा- आहवनीयाग्ने: शम्यापरासदेशातिक्रमणनिमित्त जनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमिति । तत्रैवम् । अतिक्रान्ताग्नेरि॑िं त एकमिति पूर्वोक्तमन्त्रेणाऽऽहवनीयायतने समोप्य ततः संकल्प्य पूर्णाहुतिः । २ अन्याग्निहोमजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमिति ब्रूयात् । सति निमित्त स्वमग्निं प्रणीय पूर्णाहुतिं जुहुयात् । नास्त्यत्रानुगमनप्रणयने । ३ स्वाग्निष्वन्ययजमानकर्तृकहोमजनितप्रत्यवायेत्यादि पूर्ववत् । ४ स्वाग्नीनां मध्येऽन्याग्निव्यवाय जनितप्रत्यवायेत्यादि पूर्ववत् । नात्र गवातिक्रमणादि । ५ अग्निहोत्र उपसन्ने यजमानश्चक्रीवता व्यवाये गानतिक्रमग्य सस्मराज्युदकराजिभ्यां १६० अग्निहोत्रचन्द्रिका | संतानं कृत्वाऽऽहवनीयमनुगमय्य तं पुनर्गार्हपत्याप्रणीयोपस्थाय रजतां स्वेत्यायग्निहोत्रं समाप्य तस्मिन्नेवाग्नौ पूर्णाहुतिं जुहुयात् । तत्रैवं संकल्पः अग्नीनां चक्रीवता व्यवायजनितप्रत्यवायेत्यादि पूर्ववत् । ६ अग्निहोत्र उपसन्ने शुना व्यवाये शुन: पदानि भस्मना पूरयेत् । ततो भस्मराज्यु- दकराज्यादि प्राग्वत् । अत्र गवातिक्रमणं नास्तीति भाष्यकृदस्तीति वृत्तिकृत् । वयं तु गवातिक्रमणं कार्यमित्युत्पश्यामः । ७ पुरुषेण व्यवाये गवातिक्रमणादि प्राग्वत् । ततस्तज्जनितप्रत्यवायेत्यादि पूर्ववत् । मस्मना पदप्रपूरणं तु शुन एव नान्यस्येति ज्ञेयम् | इति व्यवधानप्रायश्चित्तविशेषः । १६१ अग्निहोत्रचन्द्रिका । च्यापन्नानि हवी`षि केचनस्वकीटपतङ्गैरन्यैर्वा वीभत्सैः ।। १३ ।। दॆ० भा०—व्यापत्तौ हि हविषामग्निहोत्रीयपयोयवाग्वादीनां हवी ५ षिकेशनरवकोटप- सङ्गैः संस्पृष्टानि व्यापन्नानि भवन्ति । केशा वालाश्छिन्नानि नखानि कीटोऽमेभ्यः क्रिमिर्यः पिण्डान्नच गच्छति सकीटो भवनि । पतङ्गः कृमिरेव यः पक्षी भवति । मक्षिका मशकांश्च बर्जयित्वैतैः संस्पृष्टानि व्यापन्नानि भवन्ति ॥ १३ ॥ - ना० वृ० – अन्यैर्वा वीभत्सै रिति वचनात्केशादिभिरपि बीभत्सरेवेति गम्यते । तेनाच्युतकेशनखसंसर्गो न दोपाय भवति । तथा कीटपतङ्गैरेवाप्यमेध्यनिवासिभिः संसर्गः । अन्यैर्वा बीभत्सैरित्यनेन च वमनादीन्युच्यन्ते । एतैः संसर्गे हवींषि व्यापना- नीत्यर्थः । बीभत्सैरित्येतावतैवास्मिन्नर्थे सिद्धे केशादीनां पृथग्ग्रहणं केशादिसंसर्गे स्मृत्युक्तः शुद्धयुपायो यः स हविषि न भवतीत्येवमर्थम् ॥ १३ ॥ सिक्तानि च ॥ १४ ॥ दे० भा० — यानि च सिक्तानि क्षरणं प्राप्तानि द्वन्यमाभ्यादि क्षरतीति यावत् ॥ १४ ॥ - ना० वृ० – सिक्तानि च हवींषि दुष्टानि भवन्ति । द्रद्वेषु क्षरणमिति ॥ १४ ॥ अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत गर्ने स्रवन्तमगदमकर्माग्निहोता पृथिव्य न्तरिक्षम् । यतश्श्रुतदभावेव तन्नाभिप्राप्नोति निरृति परस्तादिति ॥ १५ ॥ दे० भा०—अग्निहोत्रद्रव्यमधिश्रितं स्रवद्यदि स्थाली मूलतः स्रवेत्तदाऽभिमन्त्रयेत । तदग्निहोत्रद्रव्यमभिमृश्य मन्त्रयेत् । गर्भ स्त्रवन्तमिति यथासमाम्नातन मन्त्रेणाभिमृश्य यजेत ॥ १५ ॥ -ॐ ना० बृ० – अधिश्रितमग्निहोत्रद्रव्यं स्थालीमूलन यदि स्त्रवति तदाऽनेनाभिमन्त्रयेत गर्भ स्रवन्तमिति ॥ १५ ॥ यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्तामभिमन्त्रयेत यस्मानीषा निषी- दसि ततो नो अभयं कृषि | पशुन्नः सर्वान्गोपाय नमो रुद्राय मीहळुष इति ॥ १६ ॥ दे० भा०—यस्य यजमानस्याग्निहोत्री गौरुपावसृष्टा वत्संन संसृष्टोपावसृष्टा भवत्यु पावसृष्टा दुह्यमाना यद्युपविशेत्ततस्तां गामभिमन्त्रयेताभिमृश्य मन्त्रं ब्रूयात् । आध्वर्यव मिदं कर्म भवति । यद्यपि स्त्रयमग्निहोत्रं जुहोति तथाऽध्यध्वर्युरेवैनत्कुर्यात् । दुह्यमानेत्ये१६२ अग्निहोत्रचन्द्रिका | त्तावतैव सिद्ध उपायसृष्टेतिवचन सवासा गौर्भवतीति दर्शयति । अवासाऽपि दुह्यते । चसोऽत्र नाधिकृतस्तस्मात्तामभिमन्त्रयेतेत्युच्यते ॥ १६ ॥ जा० वृ० – उपावसृष्टा दुह्यमानेत्युभयं विशेषणं वत्ससंसर्गाद्या दोहनपरिसमाप्तेरे- तस्य प्रापणार्थम् । यस्येति ब्राह्मणानुवादः ॥ १६ ॥ अथैनामुत्थाप येदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय चेति ॥ १७ ॥ दे० भा० – अभिमन्त्रणानन्तरं ग. मुत्थापयेत् - उदस्थादिति यथासमा नातेन मन्त्रेण । एनामिति पुनरुच्यते । एनामिति वीप्सार्था ( या ) द्वयोर्दुग्धेन वासेऽग्निहोत्रं जुहुया दिव्यत्र प्रयोजनम् ॥ १७ ॥ ० ना० वृ० – अथेति संबन्धार्थं योऽभिमन्त्रयते स एवोस्थापनमपि कुर्याद्यजमान एवो- भयं कुर्याद्धोमकर्ता वेत्येवमर्थम् ॥ १७ ॥ अथास्या ऊघसि च मुखे चोदपात्रमुपोह्य दुग्ध्वा ब्राह्मणं पाययेद्यस्या- • भोक्ष्यन्स्याद्यावज्जीवं संवत्सरं वा ॥ १८ ॥ दे० भा० – अथास्या उत्थापनादनन्तरमस्या गोरुधः स्तनाधिष्ठानं तस्मिन्नूवसि च मुखे चोदपात्रमुदकपात्रमुप समीप उद्गृह्य धारयित्वा ततो गां दुग्ध्वा ब्राह्मणं पाययेत्तेन जुहुयात् । ब्राह्मणपानमेव होम इत्यर्थः । यस्य ब्राह्मणस्यान्नममोक्ष्यं स्यादमोक्ष्यं भवति कियन्तं कालमुत यावज्जीवं संवत्सरं चा | अथशब्दोऽनुक्रमार्थः । अस्या इति वीप्सायां तदेव प्रयोजनम् । द्विश्चकारकरणांदपुनरुक्तं ब्राह्मणवाक्यत्वात् । दुग्ध्वा तत्पयो ब्राह्मणं पाययेदित्युक्तंम् । ब्राह्मणाय दद्यादिति यावज्जीवं संवत्सरं वेति संवत्सर विकल्पार्थो वाशब्दः ॥ १८ ॥ - ना० वृ० – ऊधः स्तनप्रदेश: | अग्निहोत्र्या ऊबसि च मुखे च समीप उदपात्र- मुठ्ठय ततस्तां दुग्ध्वा तत्पयो ब्राह्मणं पाययेत् । यस्यान्नं यावज्जीवं न भोक्ष्यमाणो भवेत् । य एतत्पयः पिबति तस्यान्नं यावजीवं नाश्रीयादित्यर्थः । संवत्सरं वा नाश्नीयात् । अत्र कालानाम्नानाद्यावज्जीव मित्युक्तवानाचार्यः । संवत्सरं व्रतं नात्येतीति सामान्यानुवादासं- वत्सरवचनम् । अथशब्दः पूर्ववत् ॥ १८ ॥ बाश्यमानावे यवसं प्रयच्छेत्सूयवसाद्भगवतीहि भूया इति ॥ १९ ॥ दे० भा० – उपावसृष्टा दुह्यमाना वा यदि वाश्येत गौः शब्दं करोति तत एत- द्भवत्यधिकारादन्यस्मिन्वा काले कश्यमानायै यत्रमं तृगं प्रयच्छेत् ।यवसं तृगानि भवन्ति । अद्धि नृणनिति मन्त्रे दर्शनात् ॥ १९ ॥ अग्निहोत्रचन्द्रिका | ना० ऋ० - एतदप्युपावसर्गादिदोहनपर्यन्तमेव । वयमानायै शब्द्यन्यै यवसो ( सं ) भक्षः ।। १९ ॥ शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्येन जुहुयात् ॥ २० ॥ - दे० भा० – शोणितं दुग्धं भवति शोणिनं चेद्दुह्यति गौस्तद्दुग्धं गार्हपत्येऽग्नौ संक्षाप्य क्षामं कृत्वाऽन्येन पयसा जुहुयात् । ग र्हपत्यग्रहणान्न लौकिकेऽग्नावहोमार्थत्वा - लौकिके प्राप्ते गार्हपत्ये संक्षाप्य तेनैव जुहुयादिनि प्राप्तेऽन्येन जुहुयादित्युच्यते || २० || - ना० वृ० – संक्षाप्येति यावत्तन्निरवशेपं भवति तावदाहयित्वाऽन्येन द्रव्येण हुन यात् । अत्रान्यवचनात्पूर्वत्र तामन्यां वा पुनर्दुग्ध्वा पयसैव जुहुयात् । तत्रैवं ब्रह्मागम- अथैनां ब्राह्मणाय दद्यात् । इति । तदानं पूर्वोक्तेन सूत्रोक्तेन पयलः पानेन विक- स्यते । दानपक्षेऽन्यामेव दुग्ध्वा जुहुयात् ॥ २० ॥ भिन्नं सिक्तं वाऽभिमन्त्रयेत समुद्रं वः महिणोमि स्वां योनिमपि गच्छत i अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोफ्ताविति ॥ २१ ।। दे० भा० – स्थाली भिद्यते सिच्यते वा पयसो यद्भिनं यच्च सिक्तं तदभिमृश्य मन्त्रं जपेत् । समुद्रं व इत्येतं यथासमाम्नातम् । सर्वद्रव्याणामेत्र विधिरावशषेच- नात् ॥ २१ ॥ ना० वृ० – स्थालीभेदेन विक्षिप्तं द्रव्यं भिन्नमित्युच्यते । विक्षेपात्तदुष्टं भवति 1 सिक्तमिति स्कन्नमुच्यते । स्कन्दने च यावत्स्कनं तावन्मात्रं दुष्टं भवति न पात्रगतं भिन्नसिक्तानि चेति वचनात् । तद्भिनं सिक्तं च समुद्रभित्यनेनामिमन्त्रयेत । ततोऽपोऽ भ्यदहरेयुः । “ अपोऽभ्यबहरेयुः” इत्यस्य वचनस्य प्रकरण विशेषाभावाद्व्यापन्नहवि मात्र मेत्रास्य विषय इति भेदन इदमेवास्मिन्प्रकरणे सर्वावस्थे पयस्यन्येषु द्रव्येषु च | स्कन्ने पुनः पयसि वक्ष्यमाणत्वादिदमभिमन्त्रणं द्रव्यान्तरेष्त्रेवेति स्थितम् ॥ २१ ॥ यस्याग्निहोच्युपावसृष्टा दुह्यमाना स्पन्देत सा यत्तत्र स्कन्द येत्तदभिमृश्य जपे - यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपयदापः | पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति || २२ ॥ दे० भा० – यस्य यजमानस्याग्निहोत्री गौर्योपावसृष्टा बरसेनो पसृष्टा दुह्यमाना यदि स्पन्देत चलेत्सा गौः स्पन्दना द्यध्ययस्तत्र दुह्यमानं यदि स्कन्दयेत्तदभिमृश्य जपेत् - यदद्य दुग्धमित्यनेन यथासमाम्नातेनः मन्त्रेण । यस्येति वचनाद्यद्यपि यजमानो जुहो- त्यन्योऽपि दोहनादि करोति । उपसृष्ठेतिवचनात्लवत्सा भवतीति दर्शयति । दोग्धा अग्निहोत्रचन्द्रिका | पुरुषो यः स्कन्दयेत्तस्मै तन्न भवति । तस्योक्तमेव भिन्नं सिक्तं वाऽभिमन्त्रयेत | समुद्रं व इति तत्रेति बचनाद्दो(दु)हत एतस्यापराध एतत्प्रायश्चित्तम् । दोहनादूर्ध्वं पुरुषापराधे पूर्वोक्तमेव ॥ २२ ॥ 7” ना० वृ० - दोहनावस्थायां पयसि (सः) स्कन्दने " यदद्य इत्यनेनाभिमृशन् स्कन्नमभिमन्त्रयेत " समुद्रं वः " इत्यनेनास्य तुल्यकार्यत्वात् । अत एव समुद्रं व इत्यत्राप्यभिमर्झनं कर्तव्यम् । स्कन्नमभिमन्त्रयेत । दोहनावस्थायां स्कन्न एतद्भवतीत्येता- यदत्र विवक्षितम् । इतराह्मणानुवादः । पयोलिङ्गत्वात्पयस्येवेदं भवति ॥ २२ ॥ अथ प्रायश्चित्तप्रयोगः | होमकर्ता यजमानो वा — अधिश्रितमग्निहोत्रद्रव्यं स्थाली मूलेन स्रवति चेत्तदभिमृश्य जपेत् । तत्र मन्त्रः --- गर्ने स्रवन्तमगदमकर्माग्निर्होता पृथिव्यन्तरिक्षम् । यतश्रुतदनावेव तन्नाभिप्रामोति निर्ऋर्ति परस्तात् ॥ १॥ अग्निहोत्री गौरुपावसृष्टा दुह्यमानोपविशेत्तर्हि तामभिमृश्येमं मन्त्रं ब्रूयात् - यस्माझीषा निषीदसि ततो नो अभयं कृषि | पशुत्रः सर्वान्गोपाय नमो रुद्राय मीळुषे ॥ २ ॥ अथैनामुत्थापयेत् । तत्र मन्त्रः -- उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय च ॥ ३ ॥ अथास्या ऊधःसमीपे मुखसमीपे चोदकपात्रमुपोद्गृह्य तां दुग्ध्वा तत्पयो ब्राह्मणं पाय- येत् । तत्पयो येन ब्राह्मणेन प्राशितं तस्य गृहे तत्स्वामिकमन्नं नाश्नीयात्संवत्सरं याव- ज्जीवं वा । यद्यग्निहोत्री गौरुपावसर्गादिदोहनपर्यंन्तं शब्दं कुर्यात्तर्हि तस्यै यवसं दद्यात् । तत्र मन्त्र:- सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमध्ये विश्वदानीं पित्र शुद्धमुदकमाचरन्ती ॥ ४ ॥ अग्निहोत्रमुद्दिश्य दुग्धं पयः शोणितं दुह्येत्तर्हि तदुग्धं पात्रमध्ये गृहीत्वा गार्हपत्येऽग्नौ निरत्रशेषं दाहयित्वाऽन्येन पयसा जुहुयादिति । अग्निहोत्रचन्द्रिका | १६५ स्थालीभेदेन विक्षिप्तं स्कन्नं वाऽनेन मन्त्रेणाभिमन्त्र्याभिमन्त्रितं तदपोऽभ्यवहरेत् । तत्र मन्त्रः- समुद्रं वः महिणोमि स्वां योनिमपि गच्छत | अरिष्टा अस्माकं वीरा माये गावः सन्तु गोपतौ ॥ ५॥ स्कन्नपयोव्यतिरिक्तोऽयं विधिरिति वृत्तिकृत् । तत्राप्ययमेवेति भाष्यकृत् । दोहनाव स्थायामुपावसृष्टा गौश्चलन्तौ यदि तत्र भूमावीपक्षीरं पातयेत्तर्हि तत्क्षीरं हस्तेन स्पृष्ट्वाऽभिः मन्त्रयेत् । तत्र मन्त्रः --- यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः | पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्माये ॥ ६ ॥ इति प्रायश्चित्तप्रयोगः । तत्र यत्परिशिष्टं स्यात्तेन जुहुयात् ॥ २३ ॥ दे० भा० -- यत्तत्र परिशिष्टं स्यात्परिशिष्टं यद्भवति तेन जुहुयाद्यदि होमाय पर्याप्तं भवति तेन जुहुयात् ॥ २३ ॥ ना० ० - -अर्थप्राप्तस्य विधानं शेषकार्यस्यापर्याप्तावपि तेनैव होमः कर्तव्यः । शेषकार्यस्य भक्षादेर्लोप एव स्यात् । अप्रयोजकत्वाद्रव्यस्येति ॥ २३ ॥ अन्येन वाऽभ्यानीय ॥ २४ ॥ दे० भा० – यदि होमाय पर्याप्तं न भवेदन्येन पयसाऽभ्यानीयाभिपूर्य तु जुहु- यात् । वाशब्देऽक्रियमाणे परिशिष्टं यद्यपि होमाय पर्याप्तं तथाऽभ्यानयनं कर्तव्यमेव स्यात्, " यदुग्धं सर्वं सिक्तं स्याद्यथाऽन्यामाहूय तां दुग्ध्वा तेन जुहुयात् " इति ब्राह्म. णम् ॥ २४ ॥ . ना० वृ० – जुहुयादिति शेषः । होमस्यापर्याप्ताविदं भवति ॥ २४ ॥ एतदोहनाद्या प्राचीनहरणात् ॥ २५ ॥ दे० भा० - एतदन्तै प्रायश्चित्तं दोहनादि कृत्वाऽऽप्राचीनहरणात्समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वेति आ प्राचीनहरणादेतस्मात्प्राचीनहरणाद्भिनं सिक्तं चाभि- मन्त्र्यैतस्मिन्प्राप्त इदमुच्यते । दोहनादीति यदि नोच्यत एतदा प्राचीनहरणादित्युच्यमाने होमकर्माण प्रारब्ध एतस्मात्प्राचीनहरणादिति मर्यादा नाभिविधिः ॥ २५ ॥ अमिहोत्रचन्द्रिका | । ना० वृ० – मर्यादायामयमाकारः । उत्तरत्र तत्रेतिवचनात् । दोहनवचनं पूर्वसूत्रे स्कन्दननिमित्तविशेषस्याविवक्षितत्वसूचनार्थम् । आदिग्रहणमधिश्रितेऽपि पयसि स्कन एतदेव प्रायश्चित्तं न ब्राह्मणोक्तम् । “ अधिश्रितं स्कन्दति वा विष्यन्दते वा " इति । इदं तु द्रव्यान्तरेषु भवति । विष्यन्दने तु पयस्यपीदमेव भत्रति विष्यन्दनेऽधिश्रितेऽन्य- स्यानाम्नानात् । तत्र यत्परिशिष्टमित्यादि द्रव्यान्तरेष्वपि साधारणमन्यस्यानाम्नानात् । उनी - माऽऽहवनीयं प्रतिहरणं प्राचीनहरणमित्युच्यते ॥ २५ ॥ मजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनम् ॥ २६ ॥ दे० भा० – प्रजापतेर्विश्वभूति तन्वं द्रुतमसीत्येतेन मन्त्रेण हूयमानस्कन्नस्याभिमर्श- नम् । तत्रेत्यधिकृते निर्दिश्यते । किमधिकृतं प्राचीनहरणमधिकृतम् ॥ २६ ॥ ना० बृ - इदमपि पयस्येव पूर्वेण संबन्धित्वात् । सत्रेति । प्राचीनहरण इत्यर्थः ॥ २६ ॥ शेषेण जुहुयात् ॥ २७ ॥ दे० भा० – शेषेण होमो न प्राप्नोति । कथं होमार्थमुन्नीतं स्कन्नं सद्धीनं भवति तदर्थमिदं शेषेण जुहुयादिति ॥ २७॥ ना० १० - अन्तरेणापि वचनं सर्वस्य वा प्रधानमात्रस्यैव वा पर्याप्ते शेषेणैव होमो युक्त उक्तत्वाद्द्रव्यस्य वचनमिदानी किमर्थम् । अयमभिप्रायः --अस्ति चेच्छेषः स च होमद्रव्यस्यापर्याप्तस्तथाऽपि शेषेणैव मात्राहीनेनापि जुहुयादिति वचनम् ॥ २७॥ पुनरुन्नीयाशेषे ॥ २८ ॥ दे० भा० – अशेषे पुनरुन्नीय जुहुयात् । सर्वस्याशेषादिदं नाऽऽरम्येत पुनरुन्नयनं न प्राप्नोति होमार्थमुन्नीतं स्कन्नमत इदमाह | यथाऽवदानशेष पुनरायतनादवदान मिति तत्रैव स्थाळीं स्रुचं चाऽऽहृत्योन्नयेत् । न तद्देगं निवृत्योन्नयेत् । यदि निवर्तयेत्स्वर्गाल्लका- उच्यवत इति श्रुतिः ॥ २८ ॥ - ना० वृ० – स्रुग्गतस्याशेषे पुनरुन्नीय जुहुयात् । पुनरुन्नयनेऽयं विशेषः प्राची - नहरणे यावति गते स्कन्नं भवति तावत्येवाध्वन्युपविश्य स्थालीमन्येन प्राचीं नीत्वा तत्रै बोपविष्ट उन्नयेत् । न स्वयं स्रुग्वा प्रत्यग्गच्छेत् ॥ २८ ॥ आज्यमशेषे ॥ २९ ॥ दे० भा० - स्थाल्यामप्यशेपे सत्याज्यं गार्हपत्ये विलाप्याऽऽनीय तदाज्यमुन्नीय जुहुयादशेषाधिकारे पुनरशेषवचनातस्थाल्यामप्यशेषमाज्यं भवति । आज्यग्रहणात्संस्कार अग्निहोत्रचन्द्रिका एव भवति नाग्निहोत्रद्रव्यसंस्कारः सर्पिष इति चोदितं स्यात् । अग्निहोत्रसंस्कारो वा प्रामोति । शब्दान्तरेण चोदितत्वादग्निहोत्रमंस्कारो वा क्रियते । अग्निहोत्रसंस्कारेण संस्कृत्य भिन्नं सिक्कं वाऽभिमन्त्रयेत तस्मादुच्यते ॥ २९ ॥ ना० वृ०- ० – स्थास्यामपि यदा नास्ति तदाऽऽज्यं गृहीत्वा तस्य यथासंभवं संस्कारं कृत्वोन्नीय तेन जुहुयात् ॥ २९ ॥ एतदा होमाद्वारुणीं जपित्वा वारुण्या जुहुयात् ॥ ३० ॥ - दे० भा० – इमं मे वरुण श्रुवीतिजपेत् । ततोऽनन्तरं वारुणा च जुहुयात् । तत्त्त्रा यामीत्येतयर्चा जुहुयात् । नित्यस्य होममन्त्रस्योद्धारो : भवति । अनेन ह्यमान एतद्भवति ॥ ३० ॥ ना० वृ० -- एतदा होमाद्वयोरपि होमयोः प्रधानत्वाद्धोमयपर्यन्तमेतदेव प्रायश्चित्तं भवति । स्रुवपूर्णस्कन्दने पादोन स्रुवपूर्ण स्कन्दने च प्रायश्चित्तम् । ततो न्यूनरकन्दने न प्रायश्चित्तम् । अर्धस्त्रवपूरणे न भवति ततोऽधिके भवति । वारुणी जपित्रा वारुण्या जुहुयात्. । विशेषाभावाद्ये केचन वारुण्यौ भवतः । पूर्वहोमे प्राकृतस्य मन्त्रस्यापत्रादो वारुणी ॥ ३० ॥ अनशनमाऽन्यस्माद्धोमकालात् ॥ ३१ ॥ दे० भा० –यजमानस्य पत्न्याश्चानशनमभोजनं कियन्तं कालमाऽन्यस्माद्धोमकालात् । सायंहोमे चेदा प्रातहमिकालात्प्रातर्होमे चेदा सायंहोमकाल नाश्नीयात् ॥ ३१ ॥ ना० वृ० - यजमानस्येदं न होमकर्तुः । वारुणीजपो वारुणी होमो ऽनशन मित्येतत्रयं शेषेण जुहुयादित्यत्र मात्रापचारहोमे पुनरुन्नीय होम आज्यहोमे च भवति ॥ ३१ ॥ पुनर्होमं च गाणगारिः ॥ ३२ ॥ दे० भा० - पुनर्होमं च गाणगारिराचार्यो मन्यते । तदानीमेत्र पुनरग्निहोत्रं हुत्वा ततोऽनन्तरमनशनं भवति । गाणगारिग्रहणात्सूत्रकारः पुनर्होमं न मन्यतेऽनशनमेव मन्यते ॥ ३२ ॥ - ना० ० – एतेष्वेव त्रिषु पक्षेषु गाणगारि: पुनर्होमं चेच्छति । आचार्यग्रहणं विकल्पार्थम् । पुनहमे पूर्व समाप्य पुनर्विहरणादि सबै क्रियते निमित्त प्रयोगावृत्तिवि धानात् ॥ ३२ ॥ अग्निहोत्रं शरशरायत्सभोषामुमिति द्वेष्टारमुदाहरेत् ॥ ३३ ॥ दे० भा० - अग्निहोत्रद्रव्यमधिश्रितं सच्छरशरायछन्द्रायमानं शरशरेति शब्दं अग्निहोत्रचन्द्रिका | कुर्याच्चेत्ततः समोषामुमिति द्वितीयया विभक्त्या यो यजमानस्य द्वेष्टा यो द्वेष्ठि किमसौ वर्धते किमसौ जानातीति यो द्वेष्टिन प्रशंसति स द्वेष्टा । तं द्वेष्टारमुदाहरेत् । " समोषा- मुकम् " समोष शिरिण्डिकामित्युदाहरेत् । उदाहरेदिति वचनात्तूपांशुत्त्रं न प्राप्नोत्युच्चै- रुदाहरणं भवति ॥ ३३ ॥ ना० दृ० अधिश्रितमग्निहोत्रद्रव्यं यदि शब्दयेत्तदा तद्रव्यं समोषामुमित्यभिमन्त्रयेत । अमुश्त्यिस्य स्थाने यजमानद्वेष्टुर्नाम निर्दिशेत् । अधिश्रितविशेषणं तत्रैवास्य संभवाच्छा- स्वान्तरदर्शनाच्च ॥ ३३ ॥ विष्यन्दमानं मही द्यौः पृथिवी च न इत्याहवनीयस्य भस्मान्ते निनयेत् ॥ ३४ ॥ दे० भा० – विष्यन्दमानं यद्यधिकृतं विष्यन्दति विविधं स्यन्दति सर्वतो विष्यन्द - मानमग्निहोत्रं यत्स्थास्यामत्र शिष्टमिति तन्मही द्यौः पृथिवी च न इत्येतयर्चाऽऽहनीयस्य भस्मान्ते निनयेत् ॥ ३४ ॥ ना० वृ० – उद्भासिते विष्यन्दित एतद्भवति । अधिश्रिते तु ब्राह्मणोक्तमेव ॥ ३४॥ सांनाय्यवद्वीभत्से ॥ ३५ ॥ - दे० मा० – केशादिभिर्बीभत्से सांनाय्येन तुल्यं सांनाय्यवत् । यथा सांना केशा- दिभिर्बीभत्सं प्रजापतिरित्यनयर्चा मध्यमेन पलाशपर्णेनाप्सु जुहुयाद्वल्मीकवपायां वा । एव- मग्निहोत्रद्रव्यं बीभत्सं यदि भवति सांगाय्यत्रदेव जुहुयात् । ततोऽन्येनाग्निहोत्रं जुहु यात् ॥ ३५ ॥ ना० १० – प्रजापत इत्यनयर्चा मध्यमेन पलाशपर्णेन वल्मीके जुहुयादि- व्यर्थः ॥ ३५ ॥ अभिदृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानम् ॥ ३६ ॥ दे० भा० - अग्निहोत्रद्रव्ये संस्कृते यदि वर्षधारा अभिपतन्ति तदाऽभिवृष्टं भवति । तस्मिन्नभिवृष्टे सत्यग्निहोत्रद्रव्ये मित्रो जनान्यातयति ब्रुवाग इत्यनयर्चा समिदाधानं भवति । आहवनीये नित्यस्य समिदावानमन्त्रस्य स्थाने समानजातीयन्यायेन | यजमानस्तु नित्यमेवाऽऽधानमन्त्रमाह । समिदाधानपक्षो विधिर्भवति । शेषं समानम् | अभिवृष्ट एता- वानेत्र विकारः || ३६ ॥ ना० ३० अधिकेयं समित् । उत्तराहुत्यर्थस्नाप्पभिवर्षणसंभवात् । अतः पूर्वाहुल्या प्राराप्यस्मिन्निमित्ने सति निमित्तानन्तरं समिदन्तरमाधेयमेत्र॥ ३६ ॥ अग्निहोत्रचन्द्रिका | यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्या: स्कन्दने ॥ ३७ ॥ दे० भा० - यत्र वेत्थ वनस्पत इत्येतयर्चा समिधानं क्रियते । यद्युत्तराद्दुतिरहुता स्कन्दति । तस्य स्कन्दने सत्याहुतिस्थाने समिधमादध्यात् । न पुनरुन्नयनं क्रियते । एवं प्राशनार्थमपि स्थाश्या न गृह्यते ॥ ३७ ॥ ना० वृ० - समिदाधानमिति शेषः ॥ ३७ ॥ प्रदोषान्तो १६९ ॥ ३८ ॥ 4 दे० भा० - अस्तमिते होम इति होमकाल उक्तः स प्रदोषान्तो भवति | राज्याः प्रथमो यामः प्रदोषो भवति । प्रदोषोऽन्तो यस्य होमकालस्य स प्रदोषान्त: । आ प्रदोष- समाप्तेर्होमकालो भवति । अस्तमितमात्र एव होमकालो भवति । तस्यातिकमे प्रायश्चित्तं स्यात्तस्मादिदमुच्यते प्रदोषान्त इति । तदतिक्रमे तु प्रायश्चित्तं वश्यति ॥ ३८ ॥ ना० वृ० - प्रदोषो नाम रात्रेः पूर्वश्चतुर्थो भागः | मदोषस्यान्तः प्रदाषोन्तः । मदो- षान्तोऽन्तो यस्य स प्रदोषान्तः । प्रदोषान्तान्त इत्यर्थः । स सायंहोमस्य काल: । केषां- चित्पञ्चमीषष्ट्यौ नाडिके प्रदोषशब्देनोच्येते तदन्तो वाऽयं होमकालः ॥ ३८ ॥ संगवान्तः प्रातः ॥ ३३ ॥ दे० भा० - उपोदयं व्युषित उदिते वेत्युक्तो होमकाल: संगवान्तो भवति । अह्नः . प्रथमो यामः प्रातरित्युच्यते । द्वितीयो यामः संगवो भवति । संगच्छन्ति गावो वत्सैः सह यस्मिन्काले स काल: संगवो भवति । आ मध्याह्नाद्भवति । “ मध्यंदिने संगविनी- मायन्ति " ( ऐ० वा० १२ । ७ ) । उदित इति वचनादुदितमात्रे होमकालस्तस्या- तिक्रमे प्रायश्चित्तं स्यात्तस्मादा संगवान्त इति । आ संगवपरिसमाप्तेर्भवति । तस्यातिक्रमे प्रायश्चित्तं वक्ष्यति ॥ ३९ ॥ ना० वृ० – यस्मिन्काले गावो वत्सैः सहाऽऽसते सं संगवः कालः | तावत्पर्यन्तं प्रातर्होमकालः । केचिदह्वस्तृतीयो भाग: संगव इत्याहुः । तदन्तः संगवान्तो दश नाडिका इत्यर्थः । अस्तमित उदिते च विहिते होम एतावति काले क्रियमाणेऽतीत. कालो न भवतीति पुनः कालविधिः ॥ ३९ ॥ तमतिनीय चतुर्गृहीतमाज्यं जुहुयात् ॥ ४० ॥ 6 दे० भा० – तमतिनीय तं कालं प्रदोषं संगवं वाऽतिनीयातिक्रम्य चतुर्गृहीतमाज्यं जुहुयात् । स्रुषेण प्राप्तं चतुर्गृहीतमित्याह । ऐष्टिके कर्मणि प्रकृतमाज्यमस्ति तस्मात्त नाऽऽज्यमिति नोच्यते " स्थात्याः स्रुषेणाऽऽदाय ( आश्वायन श्रौ० सू० १ । अग्निहोत्रचन्द्रिका । ११ । ) इत्युच्यते । तदा होमेष्वाज्ये प्राप्त इह तत्प्रकृतमाज्यं न विद्यते तस्मादाज्य मित्याह ॥ ४० ॥ ना० वृ० – कस्मिन्काले केन मन्त्रेणेत्यत आह


यदि सायं दोषावस्तर्नमः स्वाहेति यदि प्रातः प्रातर्वस्तर्नमः स्वाहेति । अग्निहोत्रमुपसाथ भूर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात् ॥ ४१ ॥ दे० भा० – यदि सायंकालातिक्रमो भवति दोषावस्तर्नमः स्वाहेत्यनेन मन्त्रेण चतुर्गृहीतमाभ्यं जुहुयात् । यदिशब्देऽप्रयुज्यमाने सायंशब्दो मन्त्रादि: स्यात् सायं दोषावस्तरिति । यदि प्रातर्यदि प्रातःकालातिक्रमो भवति ततः प्रातर्वस्तर्नमः स्वाहेत्यनेन मन्त्रेण चतुर्गृहीतमाभ्यं जुहुयात् । अग्निहोत्रमुपसाद्य होमानुक्रमेण पूर्व सायंहोमविधि- रुच्यते सायंहोमेऽग्निहोत्रद्रव्यमुपसाद्याऽऽहवनीयसमीपे कुशेषूपसाघोपसादनं कृत्वा भूर्भुवः स्वर्ज्याहृतीर्जपित्वा समिधमाधायाप उपस्पृश्य वरं दत्त्वा यदस्य गृहे श्रेष्ठं वरं तदध्वर्यवे · दत्त्वा जुहुयात् । उपसाद्य जपित्वा वरं दत्त्वा जुहुयादित्येवोदितेऽप्यसमानकालान्येतान्य. समानकर्तृकाणि च । कथमुपसाद्येतिवचनादुपसाद्य जपो भवति । अध्वर्योरेव भवति । वरं दत्त्वा जुहुयादितिवचनात् । यजमानो वरं ददाति अध्वर्युर्जुहोति । यदि स्वयमेव जुहोति कस्मै वरं ददाति । गौर्वरो भवति । बहुफलत्वात् । अन्येषामप्युक्तम् – “गोर्वे चरो भवति ” ( आप० श्रौ० सू० ५ । ११ । ३९ ) ॥ ४१ ॥ - ना० वृ० – उपसादनवचनं क्रमार्थम् | उपसाद्य जपं च वरदानं च कृत्वा समिदा- धानादि पूर्ववत् | वरदानं याजमानम् । वरशब्देन गोजातिरुच्यते । तं वरं दखा जुहुया- दिति पूर्वकालतामात्रं विवक्षितं नाव्यवधानं कर्त्रेक्यं च ॥ ४१ ॥ इष्टिच वारुणी ॥ ४२ ॥ दे० भा० - अनेन विधिनाऽग्निहोत्रं जुहुयात् । इष्टिश्च वारुणी क्रियते । चशब्दः समुच्चयार्थस्तदानीमेव संस्थितेऽग्निहोत्रे कुर्यात् । त एवाग्नयो भवन्ति । आ प्रायश्चित्त- समाप्तेस्त एवाग्नयो भवन्तीति व्याख्यातम् । अनुगमयित्वा चाऽऽहवनीयमित्यत्र सायंका- - ल।तिनये `तु प्रायश्चित्तं व्याख्यातम् । प्रातःकालातिनये तु तदिदानीं वक्ष्यते ॥ ४२ ॥ ना० वृ०–कर्तव्येत्यर्थः । समाप्तेऽग्निहोत्रहोमे तेष्वेवाग्निष्त्रियमिष्टिः कार्या | उत्तर- त्रानुगमनविधानात् ॥ ४२ ॥ हुत्वा प्रातर्वरदानम् ॥ ४३ ॥ दे० भा० - प्रातरदानं प्रातःकालातिनथे तु चतुर्गृहीत माज्यं हुत्वाऽग्निहोत्रमुपसाद्य आग्नेहोत्रचन्द्रिका | १७१ न्याहृतीर्जपित्वा समिधमाधायाप उपस्पृश्य द्वे आहुती हुत्वा वरं ददाति प्रातहोंमं हुव्वा वरदानं भवति । आहुती हुत्वा च वरदानमितिवचनाज्जपस्तु यथास्थाने भवति । इह प्रातरिति वचनात्पूर्वोक्तावधि सायंहोमे भवति ॥ ४३ ॥ ना० वृ०–प्रातःकाल्मतिपत्तौ विशेषो वक्षसे । होमोत्तरकालं वृष्ट्यन्ते वरदानं कर्त व्यम् ॥ ४३ ॥ अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणयेदिहैव क्षेम्य एघि मा महासीरमुं माऽमुं माऽऽमुष्यायणमिति ॥ ४४ ॥ दे० भा० - अनुगमयित्वा चानेन विधिना प्रातरग्निहोत्रं हुत्याऽऽहवनीयं चानुगमयति । समनुगमयित्वाऽनन्तरं पुनः प्रणयेदिहैव क्षेभ्य एषीत्यनेन मन्त्रेण | चशब्दः प्रातर- धिकारसमुच्चयार्थः । सर्वेषामधिकारादाहवनीयग्रहणम् । अस्मिन्मन्त्रेऽमुमिति निर्देशात् त्रीणि नामानि यजमानस्य नाम नाक्षत्रं प्रवरमिति । तन्नोपपद्यते वचनाभावात् । यथा सूक्तबाके वचनमेषं विहितं तथाऽत्र न विद्यते वचनम् । तस्माद्यथाम्नात एव मन्त्रः प्रयोक्तव्यः । मन्त्रो हि यजमानपत्नी प्रजां च वदति ॥ ४४ ॥ ना० दृ० - समाप्तेऽग्निहोत्रहोम आहवनीयस्यानुगमनं कृत्वा पुनस्तमेवोद्धरेत् इहैव क्षेभ्य एधि " इति मन्त्रेण । मा प्रहासीरभुं माऽऽमुध्यायणमिति पाठः कर्तव्यः । अमुमित्यस्य स्थाने यजमाननाम द्वितीयया निर्दिशेत् । आमुष्यायणशब्दस्य स्थाने गोत्र- नाम मा प्रहासीर्देवदत्तं मा भारद्वाजमिति | पित्रादौ जीवति भारद्वाजायनमिति वदेत् । दक्षिणाग्निश्चाऽऽग्निहौत्रिक एव | आहवनीयस्वानुगमनावधानात् । इदमनुगमनं कस्याऽऽ- हवनीयस्थेति न विभः । आग्निहोत्रिकस्येति चेत् । न समाप्ते महोत्रे तस्य लौकिकत्वा- दनाहवर्नायित्वम् | होमे कृतेऽसमाप्ते च प्रयोगेऽनुगमनमिति चेत् । तथा सति पुनः प्रणयनमदृष्टार्थं स्यात् । अत्रायमभिप्राय: - इष्ट्यर्थ विहृतस्येति तदा पुनः प्रणयेत्तत इष्टि - रिति समन्वयो नोपपद्यते । अत्रायमभिप्रायः - समाप्तेऽग्निहोत्रे लौकिकस्य सतोऽनुगम- नमेव कर्तव्यं नाऽऽयतनाहिस्त्याग इति तदाऽऽहवनीयमिति शब्दो नोपपद्यते । अत एवंवदतः सूत्रकारस्यायमभिप्राय इति वर्णनीयम् । यस्य कस्यचित्कर्मणोऽर्थाय विहृते- ध्वग्निषु यत्किंचिदग्निसाध्यं नैमित्तिकमुत्पद्यते तस्य नैमित्तिकसहितस्य त एवाग्नयो भवेयुः । न पुनः पुनर्विहर्तव्या इति ॥ ४४ ॥ - - तत इष्टिमि॑ित्रैः सूर्यः ॥ ४५.३ दे० भां० - ततः प्रणयनादनन्तरमिष्टिः क्रियते स बक्ष्यते । मित्रः सूर्य इत्येते द्वे देवते भवतः ॥ ४५ ॥ १७२ अग्निहोत्रचन्द्रिका | ना० ० – एते देवते ॥ ४५ ॥ अभि यो महिना दिवं म स मित्र मर्तो अस्तु प्रयस्वानिति संस्थितायां पत्न्या सह वाग्यतोऽग्नीज्ज्वलतोऽहरनश्नन्नुपासीत ॥ ४६ ॥ दे० भा० - अभि यो महिना दिवं प्रस मित्र मर्तो अस्तु प्रयस्त्रानित्येतया याज्यानु- बाक्यया मित्रस्य । सूर्यस्य * शुनासीरीयायाम् । शेषं पौर्णमासेन संस्थितायां तस्यामिष्टौं समाप्तायां पत्नीसहितो यजमानो वाग्यतोऽभाषयन्नग्नीज्ज्वलतः समृद्धाकुर्वन्नहरनश्न - न्नभुञ्जन्कृत्स्नमहरुपासीत । इह पत्न्या सहेतिवचनादर्शितं भवति यद्यजमानस्य व्रतमुच्यते तत्पल्या भवतीति । अनशनमाऽन्यस्माद्धोमकालादित्युभयोरप्यनशनं भवतीति । अहर्म- हणादेतत्सर्वमहन्येव भवति न रात्रौ । अन्यथा प्रायश्चित्तसमाप्तौ सर्व स्यात्तस्माद्रात्रौ भुञ्जीत । न च वाग्यतः । न चाग्नयो ज्वलन्तो धार्यन्ते । आ प्रायश्चित्तसमाप्तेस्त एव । प्रायश्चित्तार्थेष्वेवाग्निषु सायंहोमो हुतस्तस्मादा प्रायश्चित्तसमाप्तेर्धार्यन्ते सायंहोमार्थं ये भवन्ति ते धार्यन्ते ॥ ४६॥ मा० तृ० –समाप्तायामिष्टौ पत्नी यजमानौ यतवाचौ भूत्वा तानेवाग्मीस्ज्वलयस्तावन चन्तः वह शेषमुपासीयाताम् । उपासीत पन्या सहैवं कुर्वन्नम्मीनां समीप आसीते- त्वर्थ; ः ।। ४६ ।। द्वयोर्दुग्धेन वासेऽग्निहोत्रं जुहुयात् ॥ ४७ ॥ दे० मा० - द्वयोर्गबोर्दुग्धेन वासे सायमग्निहोत्रं जुहुयात्तेष्वेवाग्निषु ॥ ४७ ॥ ● ना० १० – वासो रात्रेः पूर्वश्चतुर्थो भागः । द्वयोर्गवोर्दुग्धेन पयसा सायमग्निहोत्र स्वकाले जुहुयादित्यर्थः ॥ १७ ॥ अधिश्रितेऽन्यस्मिद्वितीयमवनयेत् ॥ ४८ ॥ दे० भा० — अधिश्विते तस्मिद्वितीयं पयोऽवनयेत् । द्वयोः सहाधिश्रयणं न क्रियते । द्वयोर्दुग्धेनेति वचनात्सहाधिश्रयणं प्राप्तम् । द्वयोर्दुग्धेनेतिषचनाद्वयोरपि पत्नीयजमानयोः । अग्रे द्रुतशेषप्राशनमुपदिशति । ततो हुतेऽग्निहोत्रे भोजनं न च वाग्यमो न चाग्नयो ज्वलन्त एव धार्यन्त एवाऽऽप्रातः ॥ ४८ ॥ - ना० दृ० - अयमत्र विशेष: - एतस्या गोर्दुग्धं पयोऽधेिश्रित्य तस्मिन्नेव पयसि द्वितीयं गोर्दुग्धमवनयेत् । तेन पयसा होमस्ततोऽग्न्योरपवर्गः ॥ ४८ ॥

  • शुनासीरीयायां तु —तरणिर्विश्वदर्शतः | चित्रं देवानामुदगादनी कमित्युक्ते | अग्निहोत्रचन्द्रिका |

मातरिष्टिः ॥ ४९ ॥ दे० भा० - प्रातरिधिः क्रियते सा वक्ष्यते । प्रातरितिवचनाद्भुतेऽग्निहोत्रे भवति । समानकाले चोदितेष्टिः । पूत्रोक्तत्वादग्निहोत्रं पूर्वं भवति । अनन्तरेष्टिः सा वक्ष्यते ॥ ४९ ॥ १७३ मा० वृ० -- ततः श्वोभूते पूर्वाह्न इष्टिः कार्या । इयमपि प्रातःकालातिप- त्तिनिमित्तैव । प्रातरिति कालनियमात्प्रयोगभेदः । ततो विहरणभेदोऽपराग्न्योरपि भवति ॥ ४९ ॥ अनितभृत् ॥ ५० ॥ दे० भा० - अनिर्ब्रतभृदेवता ॥ ५० ॥ ना० वृ०-व्रतभृद्भुणकोऽग्निर्देवता ॥ ५० ॥ त्वममे व्रतमृच्छुचिरने देवाँ इहाऽऽवह | उपयज्ञं हविश्व नः । ब्रतानि विभ्र- द्व्रतपा अदब्धो यजानो देवाँ अजरः सुवीरः । दधद्रत्नानि सुमुळीको अग्ने गोपाय नो जीवसे जातवेद इति ॥ ५१ ॥ दे० भा० - स्वमग्ने व्रतभूदिति यथासमाम्नाते याज्यानुवाक्ये । शेषं पौर्णन, सेन समाप्तेष्टिः । समाप्तं च कालातिनयप्रायश्चित्तम् ॥ ५१ ॥ ना० वृ – एतत्प्रायश्चित्तं स्त्रकाल एव प्रणीतेष्वमिषु होमकालातिपत्तौ भवति । अप्रणीतेषूक्तका खातिपत्तावत्यम्तापद्यनुवृतप्रायश्चित्तं कृत्वा होमं कुर्यात् । अनापदि मन- स्वतीहोमेनानुद्धृतप्रापश्चितेन च सहितो होमः कर्यः । विहृतेष्वेवाग्निष्वहुतेषु होमान्तरका- लप्राप्ताबुपक्रान्तमेव होमं कालातिपत्तिप्रायश्चित्तसहितं कृत्वा वर्तमानकालीन मनुद्धृतप्राय- श्चित्तसहितं कुर्यात् । अविहृतेषु कालान्तरप्राप्तौ मनस्वतीहोमं कृत्वाऽतिपन्नस्य प्रतिहोमं च कृत्वाऽनुदूतप्रायश्चित्तादि पूर्ववत् । एवमनेककालातिपत्तावपि द्रष्टव्यम् । विहृतेष्वविद्ध तेषु वाऽनेककालातिपत्तौ मनस्त्रतीहोमं प्रतिहोमं चावश्यं कुर्यात् । विहृतेषु तेष्वेवाग्निषु । अविहृतेषु त्वग्नीन्विहृत्य मनस्वत्यादि कृत्वा प्राप्तकालस्य विहरणादि क्रियेत । एवमत्र विचार्य यद्युक्तं तत्कर्तव्यम् । विचारस्याऽऽस्पदमात्रमत्र लिखितमिति मन्तव्यम् ॥ ५१ ॥ अथ प्रायश्चित्तमयोगः । जपानन्तरमवशिष्टेनैव होतव्यं यदि होममात्र पर्याप्तं स्यात् । भक्षणादेर्लोपः । होम- स्यापर्याप्तावन्यदभ्यानीय जुहुयात् । एतत्प्रायश्चित्तं दोहनकालस्कनमार म्योन्नीयाऽऽहवनी- यप्नतिहरणपर्यन्तं ज्ञेयम् । १७४ अग्निहोत्रचन्द्रिका | प्रजापतेर्विश्वभृति तन्वं हुतमसि । इति मन्त्रेण प्राचीनहरणसमये स्कन्नमभिमृश्य शेषेण जुहुयात् । अशेषे प्राचीनहरणे यावति गते स्कन्नं भवति तावत्वेवा ध्वन्युपविश्य स्थालीमन्येन प्राचीं नीत्वा तत्रैबोन्नीय जुहुयान्न स्वयं स्रुम्बा प्रत्यभ्यच्छेत् | यदि स्थाल्यामपि हविर्नास्ति तदा तूष्णीमाज्यमुत्पूयो- नीय जुहुयात् । एतत्प्रायश्चित्तं प्रधानः हुतिद्वयपर्यन्तमेव ततो वारुणी जपेत् । मन्त्रस्तु- इमं मे वरुण श्रुषी हवमद्या च मृळय | त्वामवस्युराचके । सतो होमोऽपि बारुण्यैव नात्र प्राकृतो होममन्त्रः । मन्त्रस्तुं – तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो इविभिः । अहेळमानो वरुणेद्द बोध्युरुशंस मा न. आयुः प्रमोषी: स्वाह्य || - यजमानः – वरुणायेदं न मम । ततोऽनशनमाऽन्यस्माद्धोमात् । स्कन्दने स्वेवम्- पूर्णस्स्रुक्स्कन्दने पादोनस्त्रुवपूर्णस्कन्दने च प्रायश्चित्तं न न्यूनस्कन्दने । न्यूनस्कन्दने तु केवलं प्रजापतेरित्यनेन पूर्वोक्तेन मन्त्रेणाभिमर्शः । अधिश्रितमग्निहोत्रं यदि शब्दयेत्तद्द्रव्यमभिमन्त्रयेत् । तत्र मन्त्रः – समोष देवदत्तशर्माणम् | - देवदत्तेत्यस्य स्थाने द्वेष्टुर्नामोदाहरेत् । उद्वासिते दिवे त्वेत्याद्यनन्तरं स्कलं चेत् - - मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् है पिपतानो भरीमभिः || इत्यनेन मन्त्रेणाऽऽहवनीयस्य भस्मान्ते निन्येत् | बीभत्सं चेत् – मजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् । मध्यमेन पलाशपर्णेन बक्ष्मीकवपायामप्सु वा जुहुय त् । अप्सु चेत्तृष्णम् ॥ अग्निहोत्रग्रव्ये संस्कृते यदि वर्धारा अभिपतन्ति तदा तदग्निहोत्रद्रव्यमभिवृष्टं भवति तस्मिन्नभिवृष्टे कुजेषूपमादनान्तं कृत्वा अग्निहोत्रचन्द्रिका | मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुन ग्राम् । मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुद्दोन || इति मन्त्रेण समिधमादध्यात् । यजमान: - प्राकृतमेव समिदाधानानुमन्त्रणमा | वृत्तिकृत्त इदं समिदाधानमधिकमित्याह । यद्युत्तराहुतिरहुता स्कन्देचदा- यत्र वेत्थ वनस्पते देवानां गुड्या नामानि । तत्र हव्यानि गामय || इति मन्त्रेण समिधमाधाय नित्यवज्जुहुयात् । संपूर्णस्कन्दन आहुतिस्थाने यत्र वेत्थेस नेन मन्त्रेण समिन्मात्रमाघातव्यम् । सायंहोमकालातिक्रमण उपसादनान्तं कृत्वा भूर्भुवः स्वः । इति जपित्वा यजमानः- सायंहोमकालातिक्रमण जनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थवरं दास्ये । इति बरं दद्यात् । बरे दत्ते जुह्वां स्त्रयेण चतुर्गृहीतं गृहीत्वा दोषावस्तर्नमः स्वाहा । १७५ इति मन्त्रेणाऽऽहवनीये जुहुयात् । ततोऽग्निहोत्रहोमः | समाप्तेऽग्निहोत्रहाने तेष्वेवा- ग्निषु वारुण्येष्ट्या यजेत पूर्णाहुति वा जुहुयात् । पूर्णाहुतिप्रयोगस्तु प्रागेनोक्तः । पूर्णाहुतौ मन्त्रस्तु— वरुणाय स्वाहा | यजमानः- वरुणायेदं न ममेति ब्रूयात् । इति सायंका.लिकप्रायश्चित्तविधिः । प्रातःकालिकमुच्यते प्रातर्हत्वा वरं प्रदायाऽऽहवनीयमनुगमयित्वा पुनः प्रणीय इहैव क्षेभ्य एधि मा महासीरमुं माऽऽमुण्यायणम् । इति मन्त्रेण प्रणयेत् । प्रातस्त्वयं विशेषो हुत्वा वरदानम् । प्रातर्वस्तर्नमः स्वाहा | इति प्रातर्होममन्त्रः। इष्ठिरपि पृथगेव | मित्रसूर्यौ देवते | इंष्टिस्याने पूर्ववपूर्णाहुतिः । प्रयोगस्तु गत एव | पूर्णाहुतिमन्त्री तु - मित्राय स्वाहा | सूर्याय स्वाहा । इति । इष्टिकरणपक्षत्रन्यतो ऽवगन्तनः । १७६ अग्निहोत्रचन्द्रिका | पूर्णाहुतौ हुतायाम् (इष्टिकरगपक्ष इष्टिसमाप्तौ ) पत्नीयजमानौ यतवाचौ भूत्वा ताने- वाग्नीज्वलयन्तात्रनश्नन्तावहः शेषमुपासीयाताम् । ततो रात्रौ द्वयोर्गवोर्दुग्धेन सायमग्निहोत्रं स्वकाले जुहुयात् । तत्रायं योगविशेषः - एकस्या गोः पयस्यधिश्रिते द्वितीयं गोर्दुग्धं तस्मिन्नेबावनीय तेन सायंहोमः । दक्षिणाग्न्याहवनीययोरपवर्गः । ततः श्वोभूते पूर्वाह्न इष्टिः कार्या । तत्र देवता ब्रतभृगणकोऽग्निः । तत्स्थाने पूर्णाहुतिर्वा । पूर्णाहुतिमन्त्रस्तु- - अग्नये व्रतभृते स्वाहा । अग्नये व्रतभृत इदं न मम । इति । अन्यः प्रयोगस्तु माग्गत एव । एतावता सायंनिधानोत्तरं होमकालातिपत्तौ प्रायश्चित्तेऽयं क्रमः- १ उपसादनानन्तरं भूर्भुवः स्वाररीते जपः । २ ततो यजमानकर्तृकं वरदानम् । ३ ततश्चर्तुगृहीतहोमः । ४ ततः समिदाधानादि नित्याग्निहोत्रम् | ५ ततस्तेष्वेवाग्निषु वारुगीष्टिः पूर्णाहुतिर्वा । इति सायंकालातिपत्तिप्रायश्चित्तिक्रमः । अथ प्रातःकालातिपत्तिमायश्चित्तिक्रमः | १ प्रातर मिहोत्रमुपसाद्य भूर्भुवः स्वारति जपः । २ चतुर्गृहीतहोमः । ३ ततः समिदाधानादि नित्याग्निहोत्रीयदृष्ट्यन्तम् । ४ ततो वरदानम् | ५ ततो गार्हपत्य होमादि नित्यवत् । ६ तत अहवनीयमनुगमस्य पुनः प्रणीय ततस्तस्मिन्नेवाऽऽहवनीये प्रणीत इष्टिः पूर्णाहुतिर्वा । ७ ततः पत्न्या सह यजमानस्य वाग्यमनम् । ८ ज्वलदग्नीनां समीपेऽनश्न तोस्तयो ६ प यो रासायं वासः । ९ ततः सायमग्निहोत्रं द्वयोर्गवोर्दुग्धेन कार्यम् । १० ततो दक्षिणा ग्न्याहवनीययोरपवर्गः । ११ ततः श्रीभूत इष्टिः पूर्णाहुतिर्वा । इति प्रातःकालातिपत्तिप्रायश्चित्तिक्रमः । अग्निहोत्रचन्द्रिका | एषैवाऽऽऽश्रुपाते । दै० भा० – आर्ध्या दुःखेन पत्नी यजमानयोरपाते सति रोदने सति । अत्यतिबंच- नादाऽश्रुपात एव भवति । हर्षाश्रुपाते न भवति न तत्र प्रायश्चित्तम् । ना० वृ०—आर्खाऽश्रुपाते दुःखेनापते न धूमादिने अर्थः । यद्याइवनीयमप्रणीतमभ्यस्तमियाहुविद्राह्मणोऽग्निं प्रणयेद भर्हिरण्येऽग्रतो १७७ ह्रियमाणे । दे० भा०–यद्याहत्रनीयमुद्धराऽऽहवेनोयमियपराह्न आहेत । उत्सर्गेऽपरा आहेति । उत्सर्गेऽपराह्न इतित्रचनापरायनं यदि तस्मिन्काल आहवनीयममणीतमादित्योऽ- भ्यस्तमियात्तथा सत्यस्तमितेऽपि बहुविवाह गोऽग्निं प्रणयेत् | बहु वेत्तीति बहुवित् । बहु- शब्दो नित्यमधिकृतापेक्षं एव । बहु तु नित्यकर्माधिकृतं याज्ञकर्मविद्यां यो वेत्ति त यहुवि दिव्युच्यते । तस्मादादित्यो न कदाचनास्तमेति मोदेति नियमान्यवस्थितः । तदुध्यते- सूर्य आत्मा जगतस्तस्थुपश्च " इति त्तमेवाऽऽत्मगतं मनसा जानन्पश्यन्तं हवनीयं प्रण- येदिल्येवं विदुषा प्रणीयमानोऽनस्तमित एव प्रणीतो भवति । अग्नावग्निः स्वाहेति निद- घ्यादादित्यमभिमुखं इत्य,दित्येऽसावाहवनीयोऽग्नर्निहितो भवति । अविदुषा तु मणीयमाने प्रथमार्थो न सिध्यति । तस्मादाह - बहुविवाह्मणोऽग्निं प्रणयेत् | बहुविदितिवचन बहुचिदेव प्रणयति नाध्वर्युः । ब्राह्मण झतेवचनान्न क्षत्रियो बहुविदपि प्रणयति । न च वैश्यः । दमैहिरण्येऽग्रतो ह्रियमाणे पुरस्तान्तीयमाने हिरने ब्राह्मणोऽग्निं प्रणयति ज्योतिर्वै हिर- व्यमिति श्रुतिः । ना० वृ० - अग्निहोत्रार्थं विविनाऽनुनमाहनीयं यद्यभ्यस्तमियात्तदा तदानीमेवाऽऽ- नेतुं शक्येषु ब्राह्मणेषु यो बहु वेत्ति तमानीय तेनोद्धरणादि निधानान्तमाहवनीयस्य कार- येत् । अग्नेः प्रणीयमानस्याग्रतो हिरण्यं दसैंरव नयेत् । ब्राह्मणग्रहणं बहुवित्वेऽपि जाय- न्तरनिवृत्त्यर्थम् । अभ्युदिते चतुर्गृहीतमाज्यं रजतं च हिरण्यवदग्रतो हरैयुः । ६० भा० - अभ्युदिते यच्चाहनीयमप्रणीतमभ्युदयादादित्यस्तस्मिन्नम्युदित आज्यं चतुर्गृहीतमाज्यं जुहां गृहीत्या रजतरूपमाभ्यं रजलं च हिरण्यवः परिगृह्या मणीय. म्पनस्याग्रतो हरेयुर्नयेयुस्तस्मिन्नग्रतो ह्रियमाणे बहुविद्राह्मणोऽप्रिणयेत् । प्रकृतमाज्यं न विद्यते तस्मादाज्यमित्याह् । यत्र प्रकृतमस्ति तत्र जुहुयादित्येव ब्रूयात् । यथा “ आग्नीधीय आहुती मुहृति ( आश्वलायन ० ० ५ । १३ । ) चशब्दः समुत्रयार्थः | १७८ अग्निहोत्रचन्द्रिका | आज्यं रजतं चेति हिरण्यत्रदिति चचनाच्छेषमभ्यस्त मितविहितेन समानम् | बहुविद्व ह्मण इत्येवमादि पुनरप्रतो बचनाच्छेषमभ्यस्तमितविहितेन समानम् । बहुविद्राह्मण इत्येव, मादि पुनरमतो वचनादाउपस्याप्यग्रतो गमनं विधीयते । चहुवचनं कर्तृबहुलादाज्य- मेकः प्रणयति । ना० ऋ० – अनुद्धृतमभ्युदिते सति बहुविदग्निं प्रणयेत् । तस्याग्रतश्चतुर्गृहीतमाज्यं नेतव्यं रजतं च । यदि हिरण्यवद्रचनेन रजतस्याप्रतो हरणं प्राप्येत तदा दर्हरणमपि प्राप्नुयादाज्यस्याग्रतो हरणं च न प्राप्नुयात् । अतो दर्भनिवृत्त्यर्थमाज्यस्य प्रापणार्थं चाग्रत इति वचनम् । एत्रं चेद्धिरण्यचद्वचनं पूर्वोक्तस्य बहुविद्राह्मणाग्न्युद्धरणस्य प्राप- णार्थम् । अर्थतदाज्यं जुहुयात्पुरस्तात्प्रत्यङ्मुख उपविश्योषाः केतुना जुषतां स्वाहेति । दे० भा० - अथानन्तरं प्रणयनादनन्तरमेतदाज्य नेतच्चतुगृहीत माज्यमध्वर्युर्जुहुयात् । पुरस्तादाहत्रनीयस्य पूर्वदेशे प्रय़ङ्मुख उपविश्योषाः केतुन जुपतां हेत्यनेन मन्त्रेण । एतदितिवचनादधिकृतं चतुर्गृहीतं भवति । अन्यथा ह्यन्यदाज्यं प्राप्नोति । चतुर्गृहीतं प्रणयनार्थमेव स्याद्रजतवत्स्यात् । सर्वा: प्राङ्मुख इति प्राप्ते प्रत्यङ्मुख इत्याह । प्रणय- नाधिकाराद्यथा गतस्तथैव स्थित्वा जुहुयादिति प्राप्त उपविश्योषा इत्युच्यते | ब्राह्मणोऽभिं प्रणयेदिति ववनात्प्रणयनादन्यत्सर्चमध्वर्युः । ना० वृ० – हिरण्यरजतयोरप्रतो हरशके कार्यम् । अज्यस्य कार्यान्तरमुच्यते- निंहितेऽग्नाबाहबन्तीयस्य पुरस्तात्प्रत्यङ्मुख उपविश्य ' उषा: केतुना इति तदाज्यं जुहुयात् । कालात्ययेन शेषः । दे० आ० – प्रदोषान्तो होमकाल इत्येत्रमादिविधिना शेषो विविख्यातः | अभ्यु - दिते ह्यस्तमिते चोभयत्रापि शेपो विधिः काळाययेत व्याख्यातः । उभयोरधिकारात् । यद्यभ्यस्तमिताधिकारो निवृत्तो बाह्मणोऽग्निं प्रणयेदित्येतदम्युदिते न प्राप्नोति तस्मा- दुभयोरधिकारः | अभ्यस्तमितेऽभिप्रणीव चतुर्गृहीतंहुचाऽग्निहोत्रमुपाय जपित्वा जुहुयादिष्टिश्च वारुणी । अभ्युदंते प्रणयाऽऽज्यं हुन्चा पुनश्चतुर्गृहीतं दुःवोपसाद्य व्याहृतीर्ज.पिचाऽनुगमनमग्नेः प्रतिपिम् | तत इष्टिरित्येवमाद्या प्रायश्चित्तसमाप्तेः सर्वं समानम् 1. ना० दृ० – उभयोः कालयोर मुद्धृतप्रायश्चितशेपः कालाव्ययप्रायश्चित्ताभ्यामेवोक्तः अग्निहोत्रचन्द्रिका | १७९ स्थेन स्वेन कालात्ययप्रायश्चित्तेनाग्निहोत्रमुपना येत्यादि बाणीष्ट्यन्तं सायंकाले भवति । प्रातःकालेऽपि तदाद्यैत्र त्रातभृष्ट्यन्तं भवनि न त्विद्दाग्निरनुगम्यः । - दे० भा० - कालात्ययन शेष इति वचनादनुगमयित्वा चाऽऽहवनीयमित्यनुगमनं प्राप्तं तत्प्रतिषिभ्यते । इह त्वम्युदितेऽग्निर्नानुगमयितव्यः | तुशब्दो व्यावृत्त्यर्थः । इह- वचनात्काल।त्ययेऽनुगमनमेवान्यथा तत्रापि प्रतिषेधः स्यात् । आरम्य प्रतिषेचे विकल्पो भवति । - - ना० १० – प्रातःकालेऽयं विशेषः – अनुगमयित्वा चाऽऽहवनयमिन्येतन्न भवति । तेनाग्निहोत्रार्थेष्वत्रचाग्निषु सायंह|मान्तं भवति । आहवनीये चेद्धियमाणे गार्हपत्योऽनुगच्छत्स्वेभ्य एनमवक्षामेभ्यो मन्ये - युरनुगमयेत्त्वितरम् | दे० भा०—आहवनीयै ध्रियमाणेऽनुपशान्ते चेद्यदि गार्हपत्योऽनुगच्छेदुपशमे (शाम्ये )- ततस्तेभ्य एनं गार्हपत्यमवक्षामेभ्य उल्मुकेभ्यो मन्धेयुः । अनुगमयेचितरम् गार्हपत्यादितरमाहबनीयमनुगमयेदुपशमयेदिति । अन्त्रित्यभावे स्वेभ्य इत्यनुच्यमानेऽन्य- स्याग्नेरवक्षामारम्भात्पूर्वमाहवनीयमनुगमयिःवा गार्हपत्यं मन्थेदिति दर्शितं भवति । तस्मा- दुभयोरनुगतयोरुत्तरेणोपपद्यते । एवं गार्हपत्यं मन्थयेन्चाऽऽहवनीयमिति । तुशब्दोऽवधार- णार्थः । अनुगमयेदेवेतरं बक्ष्यमाणेषु सर्वेषु मन्थनकल्पेषु । ना० वृ० -- विद्यमान आहवनीये गर्हपत्यो यद्यनुगच्छेत्तदा स्वेभ्योऽवक्षामेभ्य एनं गार्हपत्यं मन्थेयुः । तत इतरमनुगमवेत् । आहवनीयमित्यर्थः । गार्हपत्यशब्दादेव गार्ह पत्यप्रत्यथे सिद्धे तत्प्रत्ययार्थमेन मिति वचनं सर्वावस्थस्य मार्हपत्यस्यानुगमने मन्थनेनैवोत्पत्तिं रेवरूपा च सतिज्ञापनार्थम् | तुशब्दादप्ययमर्थो द्योत्यते । गार्हपन्यमनुगतं मन्थनेनैवो- त्पादयेत् । प्रियमाण आहवनीयेऽयं विशेषस्त चानुगमयेदिति । अवक्षामाणि मन्थनसम- थनि काष्ठानि । क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । स गायत्र्या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजाननिति । 1 , दे० भा० - अन्यथा क्षाममन्थन उमावणी संस्पृश्य मन्थयेत् इतो जज्ञे ' इलि मन्त्रं जपित्वा मन्थयेत् | अथ मन्त्रो ( इमं मन्त्रं ) यावन्मन्थथेत्तावज्जपेत् । १८० अग्निहोत्रचन्द्रिका | ना० दृ० – मन्थनसमर्थक्षामाभावे भस्मनाडरणी संस्पृश्यलेपयित्वा ततो मन्धयेत् ‘इतो जज्ञे’ इति मन्त्रेण । मन्थयेदिति णिचः प्रयोगात्प्रकृते कर्मणि यः कर्ता स' एक मन्त्र ब्रूयात् । ये केचनं समर्था मन्थनेयुरित्येवमवगम्यते । अरणीमन्थन एवायं मन्त्री बावक्षा- ममन्थने । यद्युमयोरभिप्रेतः स्यात्पूर्वत्रैव मन्त्रं ब्रूयादनुगमथेस्त्रितर मितित्रत् । तथा च ना कृतम् । तेन पूर्वस्मिन्मन्थने मन्त्रो नास्तीति सिद्धम् । अवरोहणमन्त्रस्तुभयोरपि भवति । अरणीगतावरोहणस्यापि तस्मिन्नेव सूत्रे विवतुमिष्टत्वात् । " माथित्वा मणीयाऽऽहवनीयमुपतिष्ठेताने सम्राळिषे राधे रमस्व सहसे घुम्ना- योर्जेऽपत्याय | सम्राळसि स्वराळसि सारस्वतौ खोत्सौ माक्तामन्नादं त्वान्न- पत्यायाऽऽद्ध इति । - दे० सा० - उभौ कल्पावधिकृत्य विधानान्मधित्वाऽन्यतमेन कल्लेन तदनन्तरं मणीयाऽऽहवनीयमुपतिष्ठेत - अग्ने सम्रळि इत्यनेन मन्त्रेण । मथित्वा प्रणीयेति संबन्ध - बचनाद/हवनयमनुगमय्य मन्थनं भवति | मन्थनादनन्तरमेतत्प्रणयनम् । आहवनीयत्र- हणं गार्हपत्याधिकारात् । % ना० द्द० – मथित्वेति वचनम् ' इतो जज्ञे इत्यस्यः प्रणयनमन्त्रःवशङ्कानिवृ- स्यर्थम् । अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणम् । दे० भा० - अत आहबनीया देवेंके शाखिनोऽन्यमाहवनीयं प्रणयन्ति । दक्षिणम माहवनीयसमीपं नीत्वा प्रत्यग्दक्षिणमाहत्यानन्तरमाहवनीयं प्रणयेत् । आहवनीये चेद्धिय- माण इत्यधिकारादत एत्रेत्यनेनाऽऽहवनीयोऽभिसंबध्यते । एत्रशब्दोऽवषारणार्थ: । आह - वनीयादेव मणयन्ति । एक इतिवचनाद्विकल्पः । अन्वाह्त्येति साकाङ्क्षवचनादक्षि- णाग्निमाहृत्य प्रणयेत् । ना० वृ० अत्रैव विषनेऽयं द्वितीयः कल्पः । प्रियमाण आहबनीये गार्हपत्यानुगमने. सत्यत एवाऽऽहवनी याद्गार्हपत्यभूताइन्य माहवनीयं प्रणयन्त्यके | तथा सति दक्षिणाग्निर- प्यनुहर्तव्यः । सहभस्मानं वा गार्हपत्यायतने निघायाथ माञ्चमाहवनीयमुद्धरेत् । दे० भा० – अयं वा कल्पो भवति भस्मना सहाऽऽहवनीयमुत्य दक्षिणेन विहारं हृम्वा गार्हपत्यायतने निघाय स्थापयित्वाऽथानन्तरं प्रचं पूर्वस्यां दिझ्याहवनीयमुद्धरेत् । प्राञ्चमितिवचनादक्षिणेन विहारमाहृत इति सिद्धम् । दक्षिणेन विहारं हृत्वेति ब्राह्मणवचअग्निहोत्रचन्द्रिका | १८१ नादाहवनीयश्रवणात्तस्य गार्हपत्यसंज्ञा सिद्धा | अन्यथाऽऽहवनीय एवायमेव कल्पो ब्राह्मणे दृष्टः । इतरे प्रतिषिद्धाः । यदि मन्थेद्भ्रातृव्यं यजमानस्य जनयेत् । यदि प्राञ्चमायतना- च्च्यवेत यदि प्रत्यञ्चमसुरवधज्ञं तन्वीत सहभस्मानं दक्षिणेन विहारं कृत्वागा निधायाथ प्राश्चमाहवनीयमुद्ररेत् । एतदेव प्रशस्तमितरे विकल्याः श्रुत्यन्तरेऽपि प्रशस्ताः सर्व एवं कल्पाः । ना० वृ० – इदमपि कल्पान्तरम् । आहवनीयमुद्धरेदित्येता सिद्धे प्राञ्चमितिवच नमाहवनीयात्प्रत्यश्चं गार्हपत्यं प्रणयापि विहारसिद्धिरतीदमपि कल्पान्तरमिति झापनार्थम् । एते चत्वारः पक्षा ब्राह्मणे समुद्दिष्टाः । तत्र निन्दा विध्यन्तरस्तुत्यर्था | अतः सर्वेषां क्वचिच्छास्त्रान्तरे विधानमरतीनि तान्सर्वान्कर्तव्यतया सृचिनवानाचार्यः | सहभस्मान- मित्यस्मिन्पक्षे दक्षिणेन विहारं नीचा गार्हपत्यायतने निधानम् । तत इष्टिर मिस्तपस्याञ्जनद्वान्पावकवान् | दे० भा० - तत इष्टिस्तस्मान्मन्थनाविहारणानन्तरमिष्टिर्भवति मा वक्ष्यते । अधि- कारे पुनस्तत इति वचनात्ततस्ततस्तस्मान्कल्लादिय मिष्टिर्भवति । अन्यथाऽन्त्यादेव कल्पा- दिष्टि: स्यात् । अग्निस्तपस्वाञ्जनद्वान्यावकवानि त देवता । ना० वृ० – एकाऽत्र देवता म चाग्निस्त्रिभिर्गुणैर्युक्तः । आयाहि तपसा जनेष्व पावको अर्चिषा | उपेमां सुष्टुतिं मम | आ नो याहि तपसा जनेष्वने पावक दीद्यत् । हव्या देवेषु नो दधदिति । - दे० भा० - आग्राहीति यथासमाम्नाते याज्यानुवाक्ये । एपाउनुगमनेष्टिरित्युक्त मध्वर्यूणामस्माकमप्युक्तं तत इष्टिरिति । तस्मासर्वेधनुगतेष्वपवे स्तित इष्टिरित योक्ता सा सर्वेषामनुगमन इष्टा । प्रणीतेऽनुगते प्राग्घोमादिष्टिः । दे० भा० -~-प्रणीत आहवनीये होमा प्रागनुगते हामात्पूर्वमुपशान्त इष्टिर्भवति । तस्मात्प्रणीत इत्याहवनीयस्याधिकारः क्रियते । प्रग्घोमादितिवचनाद्धोमादूर्ध्वमनुगमनेऽ- न्यत्प्रायश्चित्तं वक्ष्यति —— अग्नावनुगतेऽन्तराऽऽहुती हिरण्य उत्तरां जुहुयादिति । ततो हिरण्य एव होमशेषं समापयेन्न पुनर्विहरेत् । आ प्राग्धोमादनुगते विह्वयेष्टिं कुर्यात्सा वक्ष्यते । ना० वृ०-—अग्निहोत्रार्थं प्रणीत आहवनीयेंऽनुगतप्रायश्चित्तत्त्रेनेयमिष्टिः कर्तव्या | अग्निहोत्रचन्द्रिका | झाक्पूर्वाहुतिप्रक्षेपांदपवेष्टिः प्रायश्चितिर्भवति । उत्पत्तिस्तु ब्राह्मणोक्ता भवति ' तदानुर्य- स्याग्निमनुदूतमादित्योऽभ्यु दियाद्वाऽभ्यस्त मिशद्वा प्रणीतो वा प्राग्बोमादुपशाम्पेदित्यादि हिरण्यं पुरस्कृत्य सायमुद्धरेद्रजतमन्तर्वाय प्रातरुद्धरेत्' इत्यत्रोक्ता | इयमेवोत्पत्तिरस्मिन्नव सरे ' प्रणीतो वा प्राग्घोमादुपशाम्येत्' इति वचनात् । अग्नाव नुमतेऽन्तराहुती इति वक्ष्यति । उत्तराहुत्या॑ ह्रुतायामग्न्युत्पत्तेः प्रयोजनं नास्ति । एवमग्निहोत्रे निर्वाह इत्यस्मत्सूत्रानुसारेण मन्यामहे । १८२ · अग्निज्योतिष्मान्वरुणः दे० १० भा० -- अग्निर्ज्योतिष्ठान्देवता वरुणो द्वितीया देवता । ना० वृ० - द्वे देवते । ज्योतिष्मानित्यग्नेर्गुणः ।. उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति । सर्वोवेदनुगतानादित्यो - भ्युदियाद्वाऽभ्यस्तमियाद्वाऽग्न्याधेयं पुनराधेयं वा । दे० भा० - उदग्ने वृहन्निति अग्नयोतिष्मतो. याज्यानुवाक्ये वरुणस्पोक्ते करुणप्रघासेषु | शेष पौर्णमासेन । सर्वांश्चेद्नुगतान्सर्वांश्चेदुपशान्तानग्नीनादित्योऽभ्युदियाद्वाऽस्तमियाद्वा तदाऽग्न्याधेयं प्रायश्चित्तं भवति । पुनराधेयं वा भवति । सर्वेनुतेषु मथित्वा प्रणय प्राप्त इदमुच्यते । अन्येषामध्वर्यूणां यजमान एवाग्नयो भवन्तीति वचनादभ्युदितेऽस्तमि- तेऽपि अरण्योः प्रत्यवरोहणं कृत्वा पृथकृत्य जुहुयुः । ना० तृ० - यदि सर्वेष्वग्निष्वनुगतेष्वादित्योऽस्तमुदयं वा गच्छेत्तदाऽग्न्याधेयं पुनराधेयं वा प्रायश्चितं भवेत् | अनयोरेव काल्योः शास्त्रान्तरे गार्हपत्याहवनीययोर्द्वयोरेवानुगतावे- तत्प्रायश्चित्तमुक्तम् । तस्मिञ्झास्त्रे दक्षिणाग्निर्भिन्नयोनिः । अत एवं विनिवेशः । एकयो- निवे सर्वानुगमने मवति भिन्नोनित्वे द्वयोरेबानुगमन इति । अत्राग्न्याधेयपुनराधेयाभ्यां सेष्टिके ते गृश्येते अग्न्युत्पादकत्वसामन्यात् । एतदर्थमेवाऽऽधानाद्द्वादशरात्रमित्यत्र सेष्टि- केऽग्न्याधान आधानशब्दप्रयोगः संव्यवहारार्थ कृतः । तस्मिन्काले सर्वदा सर्व एवाग्नयो विहृता एव प्रायेणाऽऽसते । तत्र केवलगार्हपत्यानुगमने मन्थनेनोत्पाद्य तपस्वतीष्टिः कार्ये- त्युक्तम् । दक्षिणाग्न्यनुगमनेऽप स्वयोनितो विहृत्य सेवेष्टि: कार्या । आहवनीयानुगम- नेऽपि प्रायश्चित्तविशेष उक्तः । द्वयोर्द्वयोरनुगमने तान्येव यथासंभव कर्तव्यानि । अतः सर्वानुगमन इयमवशिष्यले । अतः सर्वशब्दाविवक्षायामपि नैमित्तिकस्य स्वभा वपर्यालोचनया सर्वानुगताचेवैतद्भवतीति मन्तव्यम् । एकयोनित्वे मिन्नयोनित्व उक्तो विनिवेशः । उभयोरनुगमनेऽपि विधीयमानत्याग्न्यावेयस्य सर्वोत्पादकस्वभावात्त्या- गात्तद्विवानसामर्थ्यादेवानष्टोऽपि दक्षिणाग्निर्नष्ट इति गम्यते । विहृतेष्वेवं भवति 1 अविहृतेष्वपि कि गार्हपत्यानुगमने सर्वानुगमोऽस्ति न वा । अस्तीति ब्रूयात् । अग्निहोत्रचन्द्रिका | १८३ 1 1 तत्र हि सर्वेऽग्नयः समवेता इति गम्यते । तनो विहरणदर्शनात् । कथं नत्र समवायः । अङ्गःरसमत्रायस्तावन्नास्ति । कर्मार्थ पृथक्कृतानां कर्मसमाप्तौ तत्रैवःनुगमनदर्शनात् । अथा- यमभिप्रायः- पः - अङ्गाराश्रय यो दक्षियाग्न्याहचनीयाख्यः शास्त्रगम्यः स कर्मसमाप्तौ गार्हपत्याङ्गाराननुप्रविशति । अन्यथः तत उद्धरणविधानं नोपपद्यते । तत्सं सर्गे संसर्गदोपश्च नास्ति । अङ्गारसंसर्गो हि सः । तथा च शास्त्रान्तरे वचनम् । यदि पूर्भोऽनुगतः संत्रर्ध्य पश्चाद्रि स तर्हि गा इत्यवपिन युज्यते | अवि- स्थायां गार्हपत्ये “ गार्हपत्यं प्रज्वल्य " इति सूत्रमयोगान् । तथा च शास्त्रान्तरे सूत्र- कारप्रयोगो मब्रवर्णश्च दृश्यते – गार्हपत्यमभिमन्यते सुगार्हपचमभिमन्यते सुगहिं पत्यः " इति । तेनावगम्यते तत्रानुनवेशोअन्यन्तरस्य नास्तीति । यत्पुनः पश्चाद्धि स तर्हि गतः '” इति तद्रव्यन्यपरन् | यदि हि सर्वदाऽनुगतस्याऽऽहवनीयस्य गार्हपत्यात्म- णयनॆने॑ोत्पत्तिः स्यात्तदैवैतल्लिङ्गमनुप्रवेशस्य तत्र हि शास्त्रे मन्थनादयुत्पत्तिरुक्ता अतोऽस्यायमर्थः—अस्मिन्छनुगमन गार्हपत्यात्प्रणयनेनःपत्तिरुक्ता - तदाऽनुगतेऽन्तरा संच- रणमविरुद्धं मन्थनोत्पाद्येऽनुगतेऽप्यन्तस न संचरितव्यमिति । अतोऽन्यपरत्वा देवास्य वाक्यस्यानुप्रवेशे लिङ्गं न भवितुमर्हति । अतस्तत्र समवायः प्रत्यक्षेण शास्त्रेग वा दक्ष. यितुं न शक्यते । कथं तर्हि तत उद्धृत आहवनीयादिमैत्रति । बचनगम्यो हि सः | वचनमेत्रं भवति ‘ गार्हपत्यं प्रज्ञल्प तता दक्षिणाग्निमुद्धृस गार्हपत्यादाहवनीयं ज्वलन्त- मुद्धरेत् ' इति । तेनाधिकृतन पुरुषेण तनियुक्तेन वाऽग्निहोत्राद्यर्थं स्वकाले यथोक्तेन विधिना य उद्धियंत स एवाऽऽहवनीया दिर्भवति नान्यथा । अन्यथा चेढुद्भियते तझ समोप्य तमग्निं विक्षेपप्रायश्चित्त कर्तव् नान्यत् । अम्पुदितेष्ठौ तु वचनान्मयोद्धृतोऽ. प्याहवनीयादिर्भवति । एवं तर्हि कर्मान्तरालकाले कामौ तिष्ठति । वयमपि न जानीमः क्वासौ तिष्ठतीति । एतःवदत्रावगन्तुं शक्यते । सर्वकर्मार्थमन्नय आहिताः । तत्र गाई- पत्यो यावज्जीवं धार्यते वचनात् । इतरौ तु कर्माण कर्मभुद्धियेते । गतश्रियः सर्वे धार्यन्ते वचनादेव नान्यदतोऽवगन्तुं शक्यते । एवं सति कर्मापूर्ववत्तिष्ठति । यथा यागादिजनितान्यपूर्वाणि यावत्फलभोगसंवन्धं तिष्ठन्ति तथाऽऽहवनीयादिरपि तिष्ठतीति । अतोऽनुद्धतेषु गार्हपत्यानुगमने सर्वनुगमनं नास्तीति । तत्राग्न्याधेयं पुनराधेयं वा न कर्तव्यमिति सिद्धम् । समाळेषु चारणीनाशे । दे० भा० - समारूढेषु चारण्याः समारूढे चाग्निषु यद्यरण्योर्नाशोऽरणीनाशस्त स्मिन्नरणीनाशेऽग्न्याधेयं वा भवति । चशब्दः समुच्चयार्थः । येषां यजमान एवाग्नयो भवन्तीति वचनात्ते अरणी अहृय तयोः प्रत्यवरुह्य मन्यन्ति । · १८४ अग्निहोत्रचन्द्रिका | ना० वृ – अग्निष्चरण्योः समारूढेषु सत्स्वरण्योनशेऽग्न्याधेयं पुनराधेयं वा कर्तव्यम् । अन्यतरारणीबाशेऽपि भवत्येतत्प्रायश्चित्तं तयोरेकैकस्या एवं कार्यविशेषे नियमाज्जायापती "संस्तुतत्वाच्च । नन्वरणीनाश इति शब्द एकस्यामप्यनष्टायां न प्रवर्तत इति । सत्यम् । असौ शब्दो न प्रवर्तते । तथाऽपि मन्थनपदार्थो नैकया संपादयितुं शक्यत इत्यनष्टाऽपि नष्टैत्रेति कृत्वोत्तम् | यदि परमनष्टामेव द्विधा कृत्वा मन्थनसिद्धिरिति । तथाऽपि नैवं चक्तुं शक्यते-उपादानकालेऽरणी आहरेदिति । द्वयोरुपादानमदृष्टार्थं स्यादिति युक्तं कार्य- भेददर्शनादिति । एवं सत्युर्वशीपुरूरवः संस्तुतिरवरोत्तरयोररण्योः श्रूयमाणा चोपपन्ना भवतीति युक्तम् । अथाऽऽग्नेय्य इष्टयः | दे० भा० – अथशब्दोऽधिकारार्थः | अग्निय्य इष्टयोऽधिक्रियन्ते । यदित ऊर्ध्वमनु ऋमिष्यामस्तदाऽऽग्नेयी नामिष्टीनां विधानम् | आग्नेय्य इत्यधिकारादित ऊर्ध्वं ये गुणास्ते वक्ष्यन्ते । तेऽग्नेर्गुणा भवन्ति । व्रतपतयेऽग्नयेऽग्नये ऽग्निमत इष्टि र्भवति । इष्टिवचना- दिष्टयो भवन्ति । आहुतये भवन्ति । प्रत्याम्नाये वक्ष्यमाणाभ्यामुग्भ्यां तस्यै तस्यै देवताया आहुतिं जुहुयात् । इष्टयो वक्ष्यन्ते । ना० वृ० – अथानन्तरं या वक्ष्यन्ते ता अग्निदेवत्या इष्टय इति वेदितव्यमित्यस्य सूत्रस्यार्थः । यान्यत्र चतुर्थ्यन्तानि पदानि तान्यग्नेर्गुणत्राचकानीत्यर्थः । एतेनावगम्यते सर्वत्र चोदितेव देवता चोदनायां याज्यानुवाक्यादिगम्या देवतागुणस्तु चोदनात एवावग- न्तव्यः । कथं तर्हि वैश्वानरपार्जन्यायां वैश्वानरशब्दोऽग्नेर्गुगः । तयोरेव याज्यानुवाक्य- योस्तत्र प्रवेशात् । अत्र हि वैश्वानरशब्दस्याग्निगुणत्वं चोदितमेवेति । सानावग्रिमणय नेऽग्निवते । दे० भा०–साग्नावग्निप्रणयनेऽग्निनाऽऽयतनस्याग्निः सा ग्नावायतने चेदग्निः प्राणी- यतेऽनुपशान्तेऽग्नावुपशान्त इति मत्वा ह्यग्नि प्रणयति प्रणीतेऽग्नौ यदि दृश्यतेऽग्निस्त स्मिन्नग्नावग्निप्रणयने सत्यग्नयेऽग्निवत इष्टिर्भवति । तस्या वक्ष्यति याज्यानुत्राक्थे । शेषं पौर्णमासेन स यद्यनुपश्येदुदुहा पूर्वमपरं निदध्यादित्युक्तं ब्राह्मणे तथाऽपि प्रायश्चित्तं विद्यते । ना० वृ० - निवृत्तकर्मणाऽनिवृत्त कर्मणा वाऽग्निना सहित अहवनीयायतने यद्य न्योऽग्निराहबनीयार्थ उदधिषेत तनग्निमनिधायैव स्मरति चेदायतनस्थमुदुचेदानीमुहुतं निदध्यात् । तथा सतौष्टिर्न भवति । एतस्मिन्नपि पक्षे यद्यनपवृत्त कर्मोदूह्येत तदा व्याहृति- होमः कर्तव्य: । अपहृत्तकर्मा चेन किंचिदपि प्रायश्चित्तं विद्यते । यद्यस्मृत्व तस्मिपूर्व- प्रणीते निदध्यात्तदेयमिष्टिः कर्या । अग्निहोत्रचन्द्रिका | क्षामायागारदा शुचये संसर्जनेऽग्निनाऽन्येन | । दे० भा०—क्षामायागारदाहे यजमानस्य गृहदाहेऽग्नये क्षामवत इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन । अध्वर्पूणां क्षामवत इति चोदितमिह तु क्षामा- येति । तस्मादध्वर्यवोऽग्नये क्षामवत इति प्रेष्यन्ति । तैः सहाग्निं क्षामवन्तमावहेति । शुचयेऽग्नय इष्टिर्भवति । अग्निनाऽन्येन इमशानाग्निना संसति तस्या उक्ते याज्या- नुवाक्ये आघानेष्ट्यामन्थेनेति श्मशानाग्निनेत्युक्तं भवति । उत्तरत्रान्येति । उक्तं च श्रुत्य- न्तरे च । ना० ० -- अन्य इति शवाग्निरुच्यते । मिथश्चेद्विविचये । दे० भा० – यदि सर्वेऽग्नयो मिथो भवन्त्येकीभावं गच्छन्ति तथा सन्यग्नये विविचय इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन | चेदित्य नित्यभावे । ना० ढ०–गार्हपत्यादयः सर्वे द्वौ वा परस्परं यदि संसृज्येस्तदा विविचय इष्टिः कर्तव्या । गार्हपत्याहवनीययोवतिये । दे० भा० - गार्हपत्याहवनीययोर्मिथोभावे द्वयोरेवैकीभावे सत्यग्नये वीतय इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन । मिथोभूतावग्नी विभज्य स्थानेषु स्थापयित्वेष्टिं कुर्यात् । ना० दृ० – पूर्वस्यायमपवादः । - ग्राम्येण संवर्गाय | १८५ दे० भा० - प्राम्येणाग्निना संसर्गे सत्यग्नये संवर्गायेष्टिर्भवति । तस्या याज्यानु वाक्ये वक्ष्यति । शेषं पौर्णमासेन । इह ग्राम्येणेति वचनादारण्येनाग्निना संसर्ग इष्टि- रन्या निर्मातव्या तदुक्तं ब्राह्मणे- - तस्य दावाग्निना संसर्ग इति । - ना० वृ० - प्र ७ - ग्राम्यः पचनाग्निः । वैश्रुतेनाप्ने वैश्वानराय विमतानामन्नभोजने । - दे० भा० - विद्युद्भवो वैद्युतस्तेनाग्निना संसर्गेऽग्नयेऽसुमत इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन | वैश्वानरायग्नये वैश्वानरायेष्टिर्भवति । त्रिमता नाम विद्वेषिणो वैरिणस्तेषां त्रिमतानामन्त्रभोजने सति नेपामत्रं यजमानो यदि भुङ्गे | तस्या याभ्यानुवाक्ये उन्ने चातुर्मास्यप्रकरणे । अग्निहोत्रचन्द्रिका | स्थाली प्रोक्षणीं चाऽऽसाद्य प्रोक्षणी समस्कृत्य पात्राणि प्रोक्ष्य गार्हस आज्यं विलाप्य पवित्रान्तर्हितायां स्थाल्यामाज्यं निरूप्योत्पूय सुक्स्स्रुवौ संमृज्य स्थाली सुक्वौ च गृही- त्वाऽऽहवनीयसमीपे कुशेषूपसाये ममुपसमा वाय त्रुचि चतुर्गृहीतं गृहीत्वा देवतानाम्ना चतुर्थ्यन्तेन स्वाहःकारान्तेन यजमानेऽन्वारब्धे जान्वाच्याऽऽहुतिं जुहुयात् । ऐष्टिके कर्मणि देवतायै हविश्चतुरबत्तं गृह्यते । तद्धर्मत्वादिहापि चतुर्गृहीतं गृह्यते । अवषट्का- रप्रदानेष्वध्वर्युरासौनो जुहोति तस्यै तस्या इतिवचनाद्देवतानेकत्वे प्रतिदैवतं जुहुयात्"." देवतावचनाद्देवताया नाम्ना जुहुयात् । श्रुत्यन्तरे तु याज्यानुवाक्याभ्यां श्रूयते । देवतायाः इति चतुर्ध्या निर्दिष्टत्वाच्चतुर्थ्या विभक्त्या हृयते । यथाऽग्नये पथिकृते स्वाहेति । पूर्णा- हुतिमिति वचनाच्चतुगृहीत नाऽऽपर्य हुयते । जुहुयादिति चोदिते स्वाहाकारो भवति । श्रुतिप्रमाणाद्धि प्रमाणं भवति । ना० वृ० - प्रायश्चित्तप्रकरणे या इष्टय इष्टिशब्देनैव चेद्यन्ते याश्च ब्राह्मणोक्ता- स्तासामयं वैकल्पिको विधिरुच्यते । यास्तासामिष्टीनां देवतास्तासामेकैकस्यै देवताया एकैकां पूर्णाहुतिं जुहुयात् । द्वादशगृहीतेन स्रुचं पूरयित्वा यद्धूयते सा पूर्णाहुतिरित्यु- च्यते । अयं पुनरनुपक्रान्तदर्शपूर्णमासस्य भवति दर्विहोममध्ये च नान्यत्र भवति । अप एवान्यानि मृन्मयानि | भूमिभूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति ॥ दे० भा० त्येतेन मन्त्रेण । -अप एवान्यानि मृन्म+यानि पात्राणि अप एवाप्स्त्रेव प्रक्षिपेयुभूमिरि - |- ना० वृ० –कपालेभ्योऽन्यानि मृन्मयानि भिन्नान्यभिन्ानि च।' भूमिर्भूमिम् ' इति मन्त्रेणाप एवाभ्यवहरेन संदभ्यादित्यर्थः । अग्निहोत्राय कालेऽभावजायमानेऽप्यन्यमानीय जुहुयुः । दे० भा० – अग्निहोत्राय कालेऽग्निहोत्रमिति च कर्मनामधेयम् । अग्निहोत्रार्थेऽप- राह्णे गार्हपत्यं प्रज्वल्येति तस्मिन्काले यद्यनुगतो भवति गार्हपत्यस्ततः स्त्रेभ्य एनमवक्षा- मेभ्यो मन्थेयुः क्षामाभावे भस्मनाडरणी संस्पृश्य मन्धयेत् । तमेव मन्त्रं जपित्वा यदि मध्यमानो न जायत आदित्यश्चाभ्यस्तमेत्यभ्युदेति तमन्वग्न्याधेयं पुनराधेयं वेत्युक्तं तस्मादिदमुच्यते । कालेऽग्नावजायमाने प्रागस्तमयादन्यमनधिकृते लौकिकेऽम्नावग्निहोत्रं

  • आहवनीयं यज्ञियैः काष्ठैः प्रज्वल्येत्यर्थः । + अग्निहोत्रस्थाली मृन्मयी सा

भिन्ना चेदेतेन मन्त्रेणापोऽभ्यवहरेत् । श्वादिदशनाभिक्षिप्तायां स्थाल्यामेतदेव प्रायश्चि तम् । 4 आमहोत्रचन्द्रिका | १८९ दिशि कुशेषूपसाय जान्वाच्य समिधमाधायाप उप हुन्बावेक्षणं न विद्यते गार्हप- त्याभावात् । अयोत्तरां हुवाऽनुप्रकम्प्य कुशमूलेषु निमृज्य पितृभ्योऽनीयाप उपस्पृश्यो- दङ्ङावृत्य भक्षयेत् । भक्षयित्वाऽन्यात्ममपः स्रुचोऽभिसंबन्धादपां सेचनं भवति । षष्ठी लु- प्यते गार्हपत्याभावात् । प्रतितपनं न विद्यतेऽग्न्यभावाद्यभावात्परिक मिंग एव प्रयच्छेत् । गार्हपत्यदक्षिणाग्न्योरभावात्तयोमो न विद्यते । अग्न्यभावात्सभिदाधनं न विद्यते । इन्धनत्वाद्दीदिहीति लिङ्गदर्शनादिन्धनाय पर्युक्षणपरिसमूहने तु भवतः पूर्वत्रैव । उत्तरे- ष्वपि द्रव्येषु च चतुर्णामेव द्रव्याणां समासेन वचनतुल्यत्वात् । तुल्यं हि व्रतविधा- नम् । इतरेषु व्रताभावादसमासः । काष्टेष्वेषामभावे काष्ठेषु जुहुयात् । अग्नेरुक्तो विहारः । काष्ठे विहरणं न प्राप्नोति । विहाराभावाद्विहारोपदिष्टानि कर्माणि लुप्यन्ते । यथा पाणिहोमे । काष्टाभावे पृथिव्यां जुहुयात् । पृथिव्या एकत्वाद्विहरणं न संभवति । विहाराभावाद्विहारोपदिष्टानि न विद्यन्ते यथा पाणिहोमे तथा पृथिव्यामेवमप्सु होमेऽपि तुल्यम् । 01 ना० वृ०- - अग्नौ सर्वधर्मसंभवात्तस्य पृथग्योगभावः । पाण्यादीनां चतुर्णामिन्ध- नादि श्रपणादि वर्जयित्वाऽन्यत्सर्वं संभवतीति पृथग्भावः । काष्ठानामबभावे विधानादुद- ककार्याण्यपि काष्ठेषु न स्युरिति तेषां पृथग्भावः । पाण्यादिषु पञ्चस्वाहुतिधारणार्था समि- द्भवतीन्धनार्थास्तु न भवन्त्येव समिधः | पृथिव्यां तु धारणार्थाऽपि समिन्न भवति काष्टा भावे तस्या विधानात् । एवमन्यदपि विचार्य कर्तव्यम् । हुत्वा त्वपि मन्थनम् | ६० भा०——एवमन्तेऽभाषेन यद्यन्यत्स्याल्लभेत तस्मिन्दुत्वा तदानीमेव मन्धनं च प्रायश्चित्तेष्टिं कुर्यात् । तुशब्दोऽवधारणार्थो भवति । हुत्वा तदानीमेत्र मन्थनमिति । गार्हपत्यो नित्योऽजस्त्रः । तस्याननुगम्यस्य मुहूर्तमप्युपेक्षणमन्याय्यम् । पूर्वमन्धनं तु येन प्रारब्धं तेनैव कर्म कर्तव्यम् । यदि क्षामेभ्यः प्रारब्धं तेभ्य एव मन्थेयुः । यद्यर- गीभ्यां प्रारब्धं ताभ्यामेव । अपिशब्दः समुच्चयार्थः । मन्थनं कृत्वाऽनुगतेष्टिं कुर्यादि- त्यर्थः । तत इष्टिरग्निस्तपस्वानिति । तदानीमेवेष्टिं पूर्णाहुति वा जुहुयात् । 1- ना० तृ० - होमं कृत्वाऽनन्तरमेव मन्थनमपि भवति । अपिशब्दात्कालान्तरेऽपि मन्थनं भवति । अत्र विनिवेश: । यदा प्रयाणकाले प्रयाणं परिसमाप्तं तदा होमानन्तर- मेव मन्थनं भवति । यदा त्वपरिसमाप्तं प्रयाणं तदा पुनरपि होमकाल एव मन्थनमिति । तुशब्दोऽवधारणार्थ: । हुत्वा मन्थनमेव भवति न पुनर्होम इति । अत्रचन्द्रिका पाणौ चेद्वासेऽनवरोधः । 0 दे० भा० - पाणौ यदि पूर्व हुतमग्निहोत्रं वासेऽनवरोधः । अभ्यागतस्य ब्राह्मण- स्यावरोधो न कर्तव्यः । प्रत्याख्यानं न कर्तव्यम् । आसनशयनभोजनादिभिर्यथाशक्ति यजेत् । एतद्भुतं भवति । ब्राह्मणमेव नान्यम् । एतस्य हि पाणौ कृतत्रत् । ना० वृe - यदि पाणौ जुहुयात्तदा ब्राह्मणस्य व सार्थिनो नावरोधः कार्यः । कर्णे चेन्मांसवर्जनम् । दे० भा० - नान्यस्य । तस्य कर्णे द्रुतत्वात् । एवमाध्वर्यव उक्तम् | ना० वृ – अत्र/जमांसवर्जनं भवति । १९० स्तम्बे चेन्नाधिशयीत | दे० मा० - स्तम्बे चेद्भुतं भवति । दर्भस्तम्ब एक प्रस्तरे न शयीत । एवमा ध्वर्यवेऽ- प्युक्तम् । ना० वृ० -- अत्र दर्भाणामन धिशयनम् । अप्सु चेदविवेकः | दे० भा० - अप्सु चेद्धुतं भवतीमा आपः शोभना इमा आपोऽशोभना इति पृथक्त्वेन विशेषकरणम् । विशेषप्रतिषिद्धास्तु न कर्तव्या. एव न वर्णसंदुष्टाद्विर्जुष्टाः स्युरशुभागमा इति । ना० वृ० 11 - अत्राविवेकोऽपामिमा भोजनीया इमा अभोजनीया इत्येवं रूपः | एतत्सांवत्सरं व्रतं यावज्जीविकं वा । J दे० भा० – एतदुक्तं व्रतं सांवत्सरं भवति । संवत्सरे भवं सांवरम् | संवत्सरमे- तद्वतं भवति । व्रतकालस्यानिय मे प्राप्ते कालनियमः क्रियते संवत्सरमिति । यावज्जीविक वा । यावज्जीवति तावत्काले भवं यावज्जीविकं वा भवतीति विकल्पः । अग्नावनुगतेऽन्तराऽऽहुती हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरां जुहुयात् । - दे० भा० – अग्लावनुगत उपशान्तेऽन्तरा | आहुतिश्चाऽऽहुतिश्चाऽऽहुती । अन्तरा मध्ये यो सहुये मध्ये चेदग्निरनुगच्छेदुत्तरस्या आहुत्या अथ पुनः प्रणयने प्राप्त इदमुच्यते । हिरण्य उत्तरां जुहुयात् । तत्स्थाने हिरण्यमाधाय तस्मिन्हिरण्य उत्तरामाहुर्ति जुहुयात् । होमसमाप्तौ हिरण्यमेव भवति न पुनरग्निः । अग्ने प्रयातं परियद्धिरण्यामिति मन्त्रहरण्य, उत्तरां जुहुयादित्यध्यायान्तलक्षणोऽभ्यासः । यथा ब्राह्मणे | अमिहोत्रचन्द्रिका | १९१ ना० दृ० – आहुत्योरन्तरा ऽनानुगते सति हिरण्यं निधाय तस्मिन्दितीयामाहुर्ति जुहुयात् । हिरण्य एत्र यथासंभवं शेषकार्याणि कुर्यात् । न पुनरग्निर्तव्यः । अभ्या- सोऽध्यायपरिसमाप्त्यर्थः । इत्यग्निहोत्रप्रायश्चित्तसूत्रं देवत्रातकृतभाष्यसहितं नारायण वृत्तिसमेतं च | अथ प्रायश्चित्तप्रयोगः । यजमानः – अग्निहोत्रकाल उद्धरणमारभ्याऽऽहोमं दुःखाश्रुपात आचम्य अग्निहोत्रकर्ममध्ये दुःखाश्रुपातजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमी- स्यर्थ व्रातभूतीष्टिस्थाने पूर्णाहुतिं होष्यामि । अध्वर्युः – अग्निहोत्रहोमोत्तरं तस्मिन्नेवाऽऽहवनीये पूर्णाहुतिं जुहुयात् । अग्नये व्रतभृते स्वाहा । - यजमानः – अग्नये व्रतभृत इदं न मम | शेषं पूर्वोतपूर्णाहु॑तिप्रयोगेण समानम् । अनेन पूर्णाहुतिहोमेन भगवाञ्छ्रीपरमेश्वरः प्रीषताम् । आचामेत् । श्रीः । यजमान:- - आचम्य पत्न्या सह तीर्थेन प्रविश्य गार्हपत्यस्य पश्चादुपविश्य - सायमनु दूरणप्रायश्चित्तपूर्वकं पयसा सायमग्निहोत्रं होण्यामे । इति संकल्याग्निहोत्रं जुहुधीस्यध्वर्युं वृत्वा प्रणयनार्थं बहुविदं ब्राह्मणं वृत्वा स्वासन उपविशेत् । ततोऽध्वर्युर्दक्षिणाग्नि प्रणयेत् । ततो यजनाने नोद्धराऽऽहवनीयमिति प्रेषितो बहुविद्देत्रं त्वा देवेभ्य इत्युद्धृत्य परिकर्मिणा हिरण्ये दर्भैरप्रतो ह्रियमाण उद्ध्रियमाण उद्धर पाप्मन इत्यादिनित्य विधिना प्रणीय हिरण्यमादित्यस्वेन परिकल्यामृताहुतिमित्यादिना निध्यात् । अध्वर्यु:-- परिसमूहनादि कुशेपूरसादनान्तं कृत्वा पूर्णाहुत्युक्त प्रकारेणाऽऽज्यं संस्कृत्य स्रुचि चतुर्गृहीतं गृहीत्वा भूर्भुवः स्वरिति जनित्वा यजमानेन बरे दत्ते जुहुयात् । तत्र मन्त्रः - यजमान:- But दोषावस्तर्नमः स्वाहा । -राया इदं न मम | १९२ अग्निहोत्रचन्द्रिका | अध्वर्युः - रजतां वेत्यायग्निहोत्रं नित्यवस्कुर्यात् । w ततो चारुणीष्ठिस्थाने पूर्ण हुतिः कार्या । प्रयोगस्तु प्रागुक्त एवं । चारुणीष्टिस्थाने पूर्णाहुतिं होप्यामि | वरुणाय स्वाहा । यजमानः – वरुणायेदं न मम | इत्यादि सबै पूर्वं कालाव्ययप्रायश्चित्ते पश्चितं तत एव'नुसंधेयम् । इति सायमनुद्भरणप्रायश्चित्तप्रयोगः । श्रीः । यजमानः—आचम्य पत्न्या सह तीर्थेन प्रविश्य गार्हपत्यस्य पश्चादुपविश्य प्रातरनुद्धरणप्रायश्चित्तपूर्वकं प्रातरग्निहोत्रं पयसा होण्यामि । अग्निहोत्रं जुहुधी त्यध्वर्यु कृत्वा प्रणयनार्थं बहुविदं ब्राह्मणं च वृत्वा स्वासन उप- विशेत् । ततोऽध्वर्युर्दक्षिणाग्नि प्रणयेत् । ततो यजमानेनोद्धराऽऽहवनीयमिति प्रेषितो बहुविद्गार्हपत्य आज्यं संस्कृत्य सुचि चतुर्गृहीतं गृह त्वा परिकर्मिणा रजतेन सह तदाज्यं परिकर्मिहस्ते दत्त्वा तेनाऽऽज्ये रजते चाग्रतो ह्रियमाणे बहुविदेवं त्वा देवेभ्य इत्त्युद्धृत्य द्धियमाण इति प्रणीयामृताहुतिमिन्यायतने निदध्यात् । ततः - अध्वर्युः——आहबनीयस्य पुरस्तात्प्रत्यङ्मुख उपविश्य चतुर्गृहीतमाज्यं जुहुयात् । तत्र मन्त्रः - उषा: केतुना जुषतां स्वाहा । यजमान: - उषस इदं न मम | - ततः -- अध्वर्युः— परिसमूहनायग्निहोत्रा शेपसादनातं कृत्वा पूर्वमानीतं चतुर्गृहीतं गृहीत्वा जुहुयात् । तत्र मन्त्रः- प्रातर्वस्तनमः स्वाहा । यजमानः -- अहे ( ह्ल ) इदं न मम । अध्वर्युः । भूर्भुवः स्वारति जपित्वा समिदाधानादि वृष्ट्र्यन्तं कुर्यात् । ततो यज- मानेन बरे दत्ते शेपमग्निहोत्राङ्गजातं समापयत् । ततः— यजमानः – मित्रसूर्येष्टिस्थाने पूर्णाहुति होण्यामि । - अध्वर्युः – आग्निहोत्रकेष्वेवाग्निमित्राय स्वाहा | यजमान: - मित्रायेदं न मम । अध्वर्यु:- सूर्याय स्वाहा । अग्निहोत्रचन्द्रिका | १९३ --- यजमानः – सूर्यायेदं न मम | इति हुत्वा शेषं पूर्वोक्तपूर्णाहुतिप्रयोगेण समानम् । पूर्णाहुतौ हुतायां पत्नीयजमानौ यतवाचौ भूवा तानेवाग्नीञ्ज्वलयन्तावनश्नन्तावहःशेषमु पासीयाताम् । नास्त्यत्रानुगमनमाहवनीयस्य कालात्ययप्रायश्चित्तवत् । सायमग्निहोत्रकाल एकस्या गोः पयोऽधिश्रित्य तस्मिन्नेव पयसि द्वितीयगोः पयोऽव- नीय तेन पयसाऽग्निहोत्रं समापयेत् । तन आहवनीयदक्षिण ग्न्योरपवर्गः । श्वोभूते पूर्वाद्धे - - यजमानः——व्रातभृतीष्टिस्थाने पूर्णाहुतिं होष्यामि । अध्वर्युः – अग्नये व्रतभृते स्वाहा । - यजमानः – अग्नये व्रतभृत इदं न मम | - शेषं पूर्वोक्तपूर्णाहुतिप्रयोगेण समानम् । इति प्रातरनुद्धरणप्रायश्चित्तप्रयोगः । श्रीः । ( १ ) *यजमान:- आहवनीये श्रियमाणे गार्हपत्यानुगमने गार्हपत्ययावक्षामेभ्यो गार्हपत्यं मथित्वाऽऽहवनीयं विद्यमानमनुगमयेत् । तत आहवनीयं तुष्णीं गार्हपत्यादुद्धृत्य प्रणीय निधाय तमुपतिष्ठेत । तत्र मन्त्रः - अग्ने सम्राळिषे राये रमस्व सहसे युम्नायोर्जेऽपत्याय | सम्राळसि स्वराळास सारस्वतौ त्वोत्सौ प्रावतामन्नादं त्वान्नपत्यायाऽऽदधे || इति । गार्हपत्यानुगमनजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थं तपस्वज्जन- इत्पावकवदनीष्टिस्थाने पूर्णाहुतिं होष्यामि । इति संकस्य पूर्वोक्तपूर्णाहुतिप्रयोगरीत्या सर्वमध्वर्युणा कार्यम् । तत्रायं विशेष:- अध्वर्युः - अग्नये तपस्वते जनते पावकवते स्वाहा । यजमानः – अग्नये तपस्वते जनद्वते पावकवत इदं न मम | शेषं पूर्वोक्तपूर्णाहुतिवत् । अनेन पूर्णाहुतिहोमेन भगवीपरमेश्वरः मीयताम् । आचामेत् । ( २ ) मन्थनसमर्थक्षामाभावे गार्हपत्यभस्मनारणी लेपयिन्त्रा मन्थेत् । तत्र मन्त्रः- इतो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । अन्येऽपि मन्धेयुः | १९४ अग्निहोत्रचन्द्रिका | स गायत्र्या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो द्रव्यं वह नः प्रजानन् ॥ इति । ततो गार्हपत्यादाहवनीयं तूष्णीमुद्धृत्य मणीय निधाय तमुपतिष्ठेत । उपस्थान- मन्त्रः प्रागुक्तः स एव । अग्ने सम्राळिषे० | संकल्पादिपूर्णाहुत्यन्तं प्राग्वदेवानुष्ठेयम् । ० ( ३ ) आहवनीये प्रियमाणे गार्हपत्यानुगमने सति दक्षिणाग्निमन्वाहृत्य गार्हपत्यभू. तादाइवनीयादन्यमाहवनीयं प्रणयेत् । यतः प्रणयति स गार्हपत्य: " ( आ० श्रौ ० सू० ७ । ७ । ३ ) इति सूत्राद्गार्हपत्यभूतादिति लब्धम् । अतो प्रियमाणाहवनीयादे- वाप्रेऽष्टासु प्रक्रमेष्वाहवनीयं प्रणयेत् । ततः प्रभृति स एव विहारः संपद्यते । अतोऽ- ग्निहोत्रादिकं तस्मिन्नेव विहारे भवति । ततोऽनन्तरोक्तप्रकारेण पूर्णाहुतिरनुष्ठेया । ( ४ ) आहवनीये प्रियमाणे गार्हपत्यानुगनमने सहभस्मानमाहवनीयं दक्षिणेन बिह.रं नीत्वा गार्हपत्यायतने निधाय ततः पूर्वस्यां दिश्याहवनीयमुद्धरेत् । ततोऽनन्तरोक्त- प्रकारेण पूर्णाइतिरनुष्टेयेति प्रयोगशास्त्रकृतः । श्रीः । -- यजमानः – अग्निहोत्रार्थनणीताहवनीयस्य प्राग्घोमादनुगमननिमित्तजनित- प्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमग्न्युत्पत्तिपूर्वक पूर्णाहुतिं हांष्यामि । इति संकल्स्य बहुविद्राह्मणं वृणुयात् । वृतो बहुविद्राह्मणः सायं · गार्हपत्यादाहवनीयं देवं त्वेति मन्त्रेणोद्धृत्य परिकर्मिणा दर्भेर्हरण्येऽग्रतो ह्वियमाण उड्रियमाण इत्यनेन मन्त्रेण प्रणीयामृताहुतिमित्यनेन निदध्यात् । ततः कर्ता प्रक्रान्तं कर्म समाप्य तस्मिन्ने - वाऽऽग्निहौत्रिकाहवनीये पूर्वोक्तप्रकारेण पूर्णाहुतिं जुहुयात् । तत्र देवते -- अध्वर्युः—अग्नये ज्योतिष्मते स्वाहा । यजमान: - अग्नये ज्योतिष्मत इदं न मम । अध्वर्युः – वरुणाय स्वाहा । यजमान: - वरुणायेदं न मम | - शेषं पूर्वोक्तपूर्णाहुतिप्रयोगेण समानम् | प्रातस्त्वग्रतो रजते हिग्रमाण इति विशेषः । अन्यत्समानम् | नात्रानुद्धरणप्राय- श्चित्तवःप्रातरराज्यस्याग्रतो हरणम् । इत्यनया प्रणीताहवनीयस्य - प्र. ग्वोमादनुगमननिमित्तपूर्णाहुत्या श्रीपरमेश्वरः प्रीयताम् । श्रीः । यजमानः – अग्निहोत्रार्थविहृतानीनां गार्हपत्याहवनीय योर्वाऽस्तमयादुदया- दोर्ध्व मनुगमननि भित्तज नितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ मम्मीना धास्ये। अग्नीन्पुनराधास्य इति वा । अग्निहोत्रचन्द्रिका | १९५ अग्न्याधेयप्रयोगस्वाधानपद्धतावुक्तः । पुनराधेयप्रयोगस्त्वमे वक्ष्यते । उभावपि तत्र तत्रानुसंधातव्यौ । अविहृतयोदक्षिणःग्न्याहवनीययोग हेपत्यानुगमनेऽग्न्याधेयं पुनरा धेयं वा न कार्यमिति शास्त्रीय पद्धत्या प्रादर्शि वृत्तिकृतेति न वयं तत्रापि लेखनी व्यापा- रयामः । किंतु भस्मनाऽरणी संस्पृश्येतो जज्ञ इति मन्त्रेण मथित्वाऽऽयतने निधाय यथाशा- स्नमग्निहोत्रं जुहुयात् । ततः पूर्वोक्तां तपस्वत्यादीष्टिस्थानीयां पूर्णाहुतिं जुहुयात् । श्रीः । यजमानः – समारूदाग्न्यरणीनाश निमित्त जनितप्रत्यवायपरिहारद्वारा श्रीपर- मेश्वरप्रीत्यर्थमग्नीनाधास्ये | अमीन्पुनराधास्य इति वा । अग्न्याधेयपुनराधेयप्रयोगस्तु पद्धतिपद्धतिशेषाभ्यामनुसंधातव्यः ॥ इति । श्रीः । यजमानः – सानावायतने पुनरग्निप्रणयननिमित्त जनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमग्निवदग्नीष्टिस्थाने पूर्णाहुतिं होष्यामि । पूर्णाहुतिप्रयोगस्तु प्रागुक्तोऽनुसंधषः । अयं विशेषः-- अध्वर्युः – अग्नयेऽग्निवते स्वाहा । - यजमानः-- अग्नयेऽग्निवत इदं न मम | शेषं पूर्वोक्तेन समानम् । श्रीः । यजमान:- गृहदाहनिमित्तजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थं क्षामवदिष्टिस्थाने पूर्णाहुर्ति होष्यामि । प्रयोगस्तु प्रागुक्त एव । - अध्वर्युः – अग्नये क्षामवते स्वाहा । यजमानः- अग्नये क्षामवत इदं न मम । शेषं पूर्वोचपूर्णाहुत्या समानम् । श्रीः । यजमानः-- अग्निहोत्राग्नेः शवाग्निसंसर्गनिमित्तजनितमत्यवाय परिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुचीष्टिस्थानीयां पूर्णाहुतिं होण्यामि । प्रागुक्तः प्रयोगोऽवगन्तव्यः । तत्रायं विशेषः-- अध्वर्यः -- अग्नये शुचये स्वाहा । यजमानः – अग्नये शुचय इदं न मम | अन्यत्मागुक्तपूर्णाहुत्या समानम् | अग्निहोबचन्द्रिका | श्रीः । यजमानः – गाईपत्यायनीनां द्वयोर्वा मिथःसंसर्जननिमित्तजनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरमीत्यर्थं विविचीष्टिस्थानीयां पूर्णाहुतिं होण्यामि । प्रयोगः प्रागेवाभिहितः । देवतेदानीं वक्ष्यते - - अध्वर्यु:- अग्नये विविचये स्वाहा । यजमानः—अग्नये विविचय इदं न मम । अन्यत्पूर्वोक्तपूर्णाहुत्या समानम् । गार्हपत्याहवनीययोर्मिथः संसर्गे तु - अध्वर्युः-- अग्नये वीतये स्वाहा । - यजमानः – अग्नये वीतय इदं न मम । शेषं पूर्वोक्तपूर्णाहुत्या समानम् । श्रीः । यजमानः- श्रौताग्नीना मग्नेरग्न्योर्वा लौकिकाग्निसंसर्जननिमित्तजनितप्रत्य- बायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं संवर्गेष्टिस्थाने पूर्णाहुतिं होष्यामि । पूर्वोक्तपूर्णाहुतिप्रयोगोऽत्रानुसंधेयः । अयं विशेषः- अध्वर्यु:- अग्नये संवर्गाय स्वाहा । यजमानः-- अग्नये संवर्गायेदं न मम | अन्यत्पूर्वोक्तपूर्णाहुत्या समानम् | - श्रीः । - यजमानः – गाईपत्यादीनां श्रौताम्नीनां वैद्युतानलसंसर्गनिमित्तजनितप्र- त्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थमप्सुमदिष्टिस्थानीयां पूर्णाहुतिं होष्यामि । अध्वर्युः – अग्नयेऽप्सुमते स्वाहा । - यजमान:- अग्नयेऽप्सुमत इदं न मम । - शेषं प्रागुक्तपूर्णाहुतिप्रयोगेग समानम् । - श्रीः । यजमानः- द्विषदन्नभोजननिमित्त जनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरमी त्यर्थ वैश्वानरेष्टिस्थाने पूर्णाहुति होप्यामि । अध्वर्युः – अग्नये वैश्वानराय स्वाहा । यजमान: – अग्नये वैश्वानरायेदं न मम । अभ्यःसर्वं प्रागुक्तपूर्णाहुतिप्रयोगेण समानम् । अनहोत्र चन्द्रिका | श्रीः । यजमानः – स्वमरणशब्दश्रवणजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमी- त्यर्थं सुरभीष्टिस्थाने पूर्णाहुति होप्यामि । अध्वर्युः – अग्नये सुरभये स्वाहा । यजमानः – अग्नये सुरभय इदं न मम | शेषं प्रागुक्तपूर्णाहुतिप्रयोगेण समानन् । श्रीः । यजमानो होमकर्ता वा मृन्मम्यग्निहोत्रस्थाली भिन्ना चिच्छ्वा दिदशनाभिक्षिता चैत्तामप्सु निक्षिपेत् । तत्र मन्त्रः- -- १९७ भूमिभूमिमगान्माता मातरमध्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् || इति । श्रीः । यजमानः—अपराह्णे गार्हपत्यप्रज्वलनसमये गार्हपत्यानुगतिर्दृष्टा स्याच्चेदस्तमयात्पूर्व मन्थनेनानुत्पन्नेऽग्नौ लौकिकमग्निमानीयास्तारपूर्व प्रणीय नित्याग्निहोत्रत्रदेवाग्निहोत्रं हुवा यावदग्न्युत्पत्ति पुनर्मन्थनेनानिमुपाद्य गार्हपत्यायतनस्थं लौकिकमग्निमायतनाद्वहिर्निक्षिप्य तस्मिन्नायतने मथितमग्निं निधाय तृष्णी गार्हपत्यायतनादाहवनीय मुद्धृत्य प्रणीय निघाय पूर्वोक्तप्रकारेण तपस्त्रतीष्टिस्थाने पूर्णाहुतिं जुहुयात् । समारूढानिमन्धने प्रायश्चित्तिर्नास्ती- त्युत्तरत्राप्यनुसंधेयम् । प्रातरुदयापूर्वमिति विशेषः । श्रीः । यजमानः– ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ मन्थनेनानेरनुत्पत्ति- निमित्तहोमकालातिपातभिया ब्राह्मणपाणौ सायमग्निहोत्रं पयसा होण्यामि । ब्राह्मणमाहवनीयत्वेन परिकल्प्य तस्य दक्षिणपाणि नित्याग्निहोत्रमन्त्रेण परिसमुह्य पर्युक्ष्य पाणेरुत्तरतः कुशेषु पयसः स्थाली सादयित्वोन्नयानीत्युक्त्वोन्नीय स्थालीम भिमृश्य समिधं स्रुचं चापरस्यां दिशि कुशेषूपसाद्य जान्वाच्य रजतां त्वेति पाणौ समिधमाधाय विद्युदसत्यप उपस्पृश्य नित्याग्निहोत्रवत्प्रधानहोमं हुत्वाऽथोत्तरामाहुतिं त्वाऽनुप्रकम्प्य कुशमूलेषु निमृज्य स्वधा पितृभ्य इसपोडबनिनीयाप उपस्पृश्योदडावृत्य भक्षयेत् । ततोऽभ्यात्ममपौ निनीय स्रुचं प्रक्षाल्य पञ्च पूर्णाः स्रुचो नित्यवद्धत्वा स्रुचं परिकर्मिणे प्रयच्छेत् । पुनः पूर्ववत्परिसमूहनपर्युक्षणादि नित्याग्निहोत्रवत्सर्वं कुर्यात् । एवमजकर्णे दर्भस्तम्बेऽप्सु च यथासंभवं प्रयोगः । एवमेव काष्ठे पृथिव्यां चानुष्ठेयम् । विहारधर्मलो- पादि भाष्यवृत्तिभ्यां समालोच्यानुष्ठातव्यम् । एवमेव ब्राह्मणपाण्यादिहोम आसंवत्सरं १९८ अग्निहोत्रचन्द्रिका | यावज्जीविकं वा यद्व्रताद्युक्तं सूत्रकारेण तदपि भाष्यवृत्तिकृद्भ्यां मपश्चितत्वान्न तदर्थं वयं पृथग्यत्नं विधास्यामः । एवमग्निहोत्रं हुत्वा मन्थनेनाग्न्युत्पत्तिः । ततस्तपस्वतीष्टि स्थानीयां पूर्णाहुतिं पूर्वोक्तप्रकारेण जुहुयात् । श्रीः । - यजमानः – अग्निहोत्रमध्ये पूर्वाहुत्यनन्तरमुत्तराहुतेः पूर्वमाहवनीयानुगमन - निमित्तजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थमाहवनीयत्वेन हिरण्यं भकल्प्य हिरण्य उत्तराहुतिं होष्यामि । - अध्वर्युः – आहवनीयायतनेऽपराजितायां दिशि हिरण्यं निधाय तस्मिनुत्तरामाहुतिं हुत्वाऽनुमकम्पनदि पर्युक्षणान्तं कुर्यात् । दीदिही त्यादेर्लोपः । यजमानः – दावाग्निना गाईपत्याद्यग्निसंसर्गनिमित्तजनितप्रत्यवायपरिहार- द्वारा श्रीपरमेश्वरप्रीत्यर्थं संवर्गेष्टिस्थानीयां पूर्णाहुतिं होण्यामि । ततोऽध्वर्युयजमानौ प्राम्याग्निसंसर्गप्रायश्चित्तवपूर्णाहुतिं कुर्याताम् । श्रीः । अग्निहोत्रहविःप।कार्थमुद्धृतेऽग्नावनुगते गाईपत्यादुत्पाद्य पुनस्तत्र हविः पचेत् | ततः कुशेषूपसादनान्तं कृत्वा- यजमान:--हविःपाकार्थमुद्धृताग्न्यनुगतिनिमित्तजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ व्याहृतिहामं होष्यामि । अध्वर्यु:- लौकिकमाज्यं तूष्णीमुत्पूय स्रुवेणाऽऽदाय- भूर्भुवः स्वः स्वाहा । यजमानः-- प्रजापतय इदं न मम । ततोऽध्वर्युरग्निहोत्रं समापयेत् । श्रीः । अपोढाग्नेर्गार्हपत्यस्य च नाशे मन्थनमारभ्य तपस्वतीष्ट्यन्तं कृत्वा ततोकार निर्हरणादि- होमशेषं समापयेत् । अयं प्रयोगस्तु प्रागुक्तः । श्रीः । होमकर्ता — अपोढे वर्तमाने गार्हपत्यानुगमने स्वपोढैकदेशं गार्हपत्ये तूष्णीं निघाय तत्रैव लौकिकाज्यमुत्पूतं स्रुवेण गृहीत्वा- भूर्भुवः स्वः स्वाहा यजमान:-- प्रजापतय इदं न मम । इति हुत्वा सुहुतकृतः स्थेत्यादि सर्व कुर्यात् । अग्निहोत्रचन्द्रिका | श्रीः । आहवनीयहोमोत्तरं गार्हपत्यस्य दक्षिणाग्नेर्वोभयोर्वाऽनुगमने तदाहुत्योर्लोपः। तन्नि- मित्तं ' भूर्भुवः स्वः स्वाहा ' इति मन्त्रेणाऽऽहवनीये तूष्णीं लौकिकमाज्यमुत्यूय स्रुवेण गृहीत्वा जुहुयात् । यजमान: - - प्रजापतय इदं न मम । ततो होमसमाप्त्यनन्तरं गार्हपत्यस्य पूर्वोक्तप्रकारेण नाम गार्हपत्यानुगतप्रायश्चित्तोक्त प्रकारेण गाईपत्यमुत्पाद्य तपस्वतीष्ट्यादि कार्यन् । श्रीः । अध्वर्युः——भग्निहोत्रे विहृतेष्वग्निषु प्रयत्नं ज्वलितेषु समिधावादभ्यात् । तत्र मन्त्रः -- १९९ उद्दीप्यस्व जातवेदोऽपघ्ननिर्ऋतिं मम । पशुच मझमावह जीवनं च दिशो दिश स्वाहा || ( नारायणोपनिषत् १०।१ ) यजमान:- जातवेदस इदं न मम । अध्वर्युः -- मा नो हिसज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परि पातय स्वाहा || ( ना० १० । १ ) आभ्यां समिधावाध्यात् । यजमान:-- जातवेदस इदं न मम । ततो लौकिकमाज्यं तूष्णीमुत्पूय स्रुत्रेण गृहीत्वाऽऽ हवनीये जुहुयात् । तत्र मन्त्रः- भूर्भुवः स्वः स्वाहा इति । यजामान: - - प्रजापतय इदं न मम । एवमेकस्मिन्द्वथोस्त्रिषु वा ज्वलितेषु खुवाहुतिरेकैव भवेत् । श्रीः । यदि दक्षिणाग्निमनुद्धृय भ्रमादाहवनीयं प्रणयेदुक्तमन्त्रेण विना वाऽऽहवनीयं प्रणयेत्तदा तमग्निं गार्हपत्ये समोप्याग्निबहिः प्रायश्चित्तं विधाय विधिवदाहवनीयं प्रणयेत् । तमग्निं गार्हपत्ये तूष्णीं समोप्य । अध्वर्युः – लौकिकमाज्यमुत्पूय स्रुवेण गृहीत्वा गार्हपत्ये | २०० अग्निहोत्रचन्द्रिका | भूर्भुवः स्वः स्वाहा । यजमान: - प्रजापतय इदं न मम । श्वीः । अग्निहोत्रार्थविहरणोत्तरं दक्षिणाग्न्यनुगमनेऽपि स्त्रयोनेर्दक्षिणामिं विहृत्य तत्रैव दक्षि- णाग्न्यनुगमननिमित्तं सर्वप्रायश्चित्तं कुर्यात् । अध्वर्युः – लौकिकमाग्यं तृष्णीमुत्पूय स्रुत्रेण गृहीत्वा भूर्भुवः स्वः स्वाहा इति दक्षिणाग्नौ । यदा दक्षिणाग्निरनुगतो ज्ञातो भवति तदानी - मेव प्रायश्चित्तं कृत्वा प्रक्रान्तं कर्माऽऽरभेत । आहवनीहोमोत्तरमनुगतश्चेदक्षिणमिनीप्यु- पत्तिर्न च प्रायश्चित्तमिति सिद्धान्तः । १ उद्धरणस्य च यः कर्ता स एव होमस्य | २ यः सायं होमकर्ता स एव प्रातः । ३ पक्षहोमादौ कृते सति उदयास्तमयाभ्यां प्राक्प्रादुष्करणाभावेऽपि न प्रायश्चि तम् । प्रादुष्करणस्य च होमार्थत्वात् । तथाऽपि जायापतिभ्यां तदानीं संनिधातव्यम् । ४ येन द्रव्येण सायं द्रुतं तेनैव प्रातः । } नास्त्ययं नियमो यजमानस्य | अन्यान्यप्येवंजातीयकानि प्रायश्चित्तानि पूर्वनिर्दिष्टैतरेयब्राह्मणोक्तान्यनुसंधाय तत्र गुक्त प्रकारेण देवतानाम्ना पूर्णाहुतिं जुहुयात् । यथा – अस्नातोऽग्निहोत्रं जुहुयात् । सूत- कानं मानीयादित्यादि । - अग्निहोत्रकर्मण आरम्भादासमाप्तेर्वाग्यमलोप: स्याञ्चेतू- इदं विष्णुविचक्रमे त्रेधा निदधे पदम् । समूहळमस्य पांसुरे ॥ इति ऋचं जपेत् । अथवा- अतो देवा अवन्तु नो यतो विष्णुविंचक्रमे | पृथिव्याः सप्त धामभिः ॥ इति वा जपेत् । अध्वरेषु प्रमादादिना यदि यत्किंचित्कर्म प्रच्यवेत तदा तत्साफल्याय विष्णुं स्मरेदित्यमुमधं श्रुतिस्मृती अपि दर्शयतः । ते आह— - प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरण/देव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥ यस्य स्मॄत्या च नामोक्त्या तपोयज्ञ क्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इति । इति प्रायश्चित्तप्रयोगः । अग्निहोत्रचन्द्रिका | अथाऽऽधानपद्धतिशेषः । अथेमामग्निहोत्रचन्द्रिकां पूर्वप्रणीताधानपद्धतरवशिष्टेन प्रकरणेन संयोग्य समापयामः । देवान्वा एष उपावर्तते य आहितानिर्भवति । ( श० ब्रा० २ | ४ | ११ | ) विज्ञायते च देवानां वा एषोऽन्यतमो य आहिताग्निः । (बौ० श्रौ० २/७) आधानमग्न्याधेयमित्यनर्थान्तरम् । उभयथा ह्याचार्याणां शैली लक्ष्यते । यथाऽऽपस्तम्बः—अग्न्याधेयं व्याख्यास्यामः । ( श्रौ० सू० ५ | १ ) आधानाद्द्वादशरात्रमजस्त्राः । ( आश्वलायनश्रौ० सू० २ | १ | ३५ ) अनन्तरमाधानादाहिताग्निव्रतानि ( आपस्तम्ब० सू० ५ | २५ / २ ) येन कर्मणाऽग्नय आधीयन्ते तदग्न्याधेयम् । अग्न्यगःरकरणादीष्टयन्तस्य कर्मसमुदा- यस्य संज्ञा | मन्थनमात्रस्य स्थापनमात्रस्य वा । तच्चाग्न्याधयं भगवताऽविच्छिन्नाध्ययनप- रम्पराप्राप्तेनापौरुषेयेणाऽऽग्नायेन विहितमतः सादरं बहुभिः संस्कारैरात्मानं संचिकीर्षुभि रवश्यमनुष्ठेयमित्याचार्याभिमतः पन्थाः । यतो नित्यमिदम् । नित्यानि हि कर्माण्यननुष्ठि - तानि सन्ति प्रत्यवायं जनयन्त्यतस्तदनुतिष्ठासद्भिरप्यवश्यं कर्मणां ज्ञानं संपादनीयम् । किमत्र प्रधानं किंचाङ्गमित्येवंरूपम् । तच्चाऽऽकरप्रन्थतो ज्ञातुं दुःशकमिति सूत्रता- व्यप्रमुखान्ग्रन्थान्पुरस्कृत्य सुशकं कर्तुमुद्युक्त इति क्षम्यतां मे धार्ष्यम् | अहो क्वायं श्रौतकर्मणां महोदधिः । यत्र शबराचार्यकुमारिलभट्टाचार्य प्रभृतयो मण्डनमिश्रादयो मत्स्या- यमानाः सन्तः परिप्लत्रनमभप्तन्ते । क्व चेयं मदीयालीयसी बुद्धिनौका | तथाऽपि तूष्णभाव एत्र न वरमिति जानानोऽहं प्रयतेऽनया पद्धत्या जनानालादयितुम् । तदिदं ग्रन्थोपक्रमनिदानम् | ये चाऽऽत्मानं नित्यसंस्कारैः संचिस्कर्षन्ति ते यथाकथंचित्कर्मा- ण्यनुष्ठायाऽऽत्मानं कृतकृत्यं मन्वते । तन्मा भूयथाकथंचिदनुष्ठानं किंतु यथाशास्त्र- मेवानुष्ठानं श्रेयस इति मन्वानोऽहमग्न्याधेयानुष्ठानक्रमं प्रस्तावचिनुमा रमे । तदिइमग्न्या- धेयं षड्विधमामनन्त्याम्नायाः । प्रयोगशास्त्रकृतोऽपि तथाविधमेव सूत्रयां बभूवुः । ताः षड्विधा एवम् — १ सोमपूर्वाधानम् । २ इष्टिपूर्वाधानम् । ४ पूर्णाहुन्यन्तम् । ५ अक्षाभिहोमान्तम् । २०१ ३ होमपूर्वाधानम् । तत्र प्रथमतः सोमपूर्वाधानं प्रमाणीकृत्य तदनुष्ठानक्रममार भामहे । सोमपूर्वाधानम् । सोमात्पूर्वमाधानं सोमपूर्वाधानम् | आधानोत्तरं यदव्यवहित मनुष्ठीयते तत्तत्पूर्वमि ध्यते । ६ इष्ट्यन्तम् । इति । 1 अग्निहोत्रचन्द्रिका | इष्टि होमपूर चेन्मत्राध्येयमेव ज्ञेयम् । तथ सोमपूर्वाधानमस्ति वा न वाऽऽम्नायेन बेहितमि यंत्र फेचन संशेरते | तत्संशयापाकरणाय प्रमाणसुपन्यस्यते - - " अयो खलु यदेवैनं यज्ञ उपनमेत् । अथाऽऽदधीत सैवास्यर्द्धिः " । ( तैत्तिरीयत्रा० १ । १ । २ । इति । ) -- अत्र सायणभाष्यम् – अन्येऽभिज्ञा एवमाहुः । खटु यस्मिन्नेव काल एनं पुरुषं सोमयज्ञः प्रामुयात्सोमयागं करिष्याम्यहमिति बुद्धिरुदियात्तदशनीमेवाऽऽदधीत । न तु नश्चत्रादिकं परीक्षितब्यम् । तैव सोमयागबुद्विरेवास्य पुरुषस्य नक्षत्रादिकृत्स्नविहितका डसमृद्धिरिति । “ सोमेन यक्ष्यमाणो नतु सूर्येन्न नक्षत्रम् " | ( आपस्तम्ब० सू० ५।३।३। ) वृचि:-

-- य अधानानन्तरं सर्वकर्मभ्यः प्राक्सोमाय दीक्षिष्यते स सोमानुरोधेनाऽऽ-

धानं कर्तुमृतुं नक्षत्रं च न सुन्नाद्रियेत । कथमु खल्वग्न्याधेये सोम इति ” । ( बौ० कर्मान्तश्रौ० सू० ९ । ) “ सोमेन वोपक्लृप्तसोम आधानस्य सोमप्राधान्यम् " | ( कात्यायनश्रौ ० सू० ७ । ११ । २ । ) भाग्यम् --उपक्कृतं सोमयागाय दक्षिणा घृतसोमादिकं द्रव्यं येनासा बुपक्लृप्तसामो यजमानः । अधानानन्तरं प्रथमं सोमेनेष्ट्वा ततोऽन्येन दर्शपूर्णमासादिना यजेत कुन आधानस्य प्राधान्यात् । सोमप्रयुक्तत्वात्सोमचिकीर्पया कृतत्वात्सोमाधान नोरानन्त- यश्रवणादित्यर्थः

1

" सोमेन यक्ष्यमाणो नतु पृच्छेन्न नक्षत्रम् " | ( आश्वलायनश्रौ० सू० T( २।१।) अत्र यक्ष्यमाण इति ऌडादेश: शानच | स च सोमस्याऽऽधानानन्तर्यमाह | यतो न कश्चिदयक्ष्यमाण· सर्वस्यापि सोमयागविधानात् । तस्मादाधानानन्तरं कर्मान्तरांव्यव- ध।भेन यक्ष्यमाण इति प्रतीयते । वाशब्दो व्यवस्थितविकल्वार्थः । य उपक्लृप्तसोमस्तस्य नियनेन सोमपूर्वत्वमिति । " यायाकाम्यमृतूनों सोमेन यक्ष्यमाणस्य " ( सांख्ययानश्रौ० सू० २।१।६।) अग्निहोत्रचन्द्रिका | २०३ भाष्यम् ––बसन्तादिष्त्रप्यनियमः सोमेन यक्ष्यमाणस्य । तथा च श्रुतिः - सोमेन यक्ष्यमाणो नर्तुं सुर्क्षेन्न नक्षत्रम् | ( स० i श्रो० ० ० ५ | ३ | २ । ) इति । सोमेन यक्ष्यमाणोतु पृच्छेन नक्षत्रम् इति । ( आश्व० स० २ । १ । १५ । ) देवत्रातभाष्यम् – सोमेन यक्ष मागो ज्योतिटोनेन यक्ष्यमाणो भवति स न च ऋतुं पृच्छेन च नक्षत्रं पृच्छेत् । यस्मिक निश्चिन्नक्षत्रे पर्वणि शैक्षाकाले व तदानानं क्वत्वा सोमेन यजेत । सर्ववर्णानामेतदविशेषवचनात् । श्रुत्यन्तरेऽप्येवम् । यदैवैनं यज्ञ उपनमेदथाऽऽदधीत सैवास्यर्द्धि: ' इति । सोमनिमित्त आधाने न पृच्छेन्न नक्षत्रमिति- वचनादन्यत्र ऋतुनक्षत्रे पृच्छादित्यर्थादपन्नं भवति । गार्ग्यनारायणवृत्तिः-—अचैत्र सोमेन यक्ष्य इति संकल्प य आघानमिच्छेस आधानस्य कालं नावक्षेत सोमोपक्रमकालमेवाऽऽदर्थ तेत्यर्थः । अयमप्याधानकालो मुख्य एव । ऋतुनक्षत्रनिरपेक्षवचनं पर्वणोरपि प्रदर्शनार्थम् । अस्य मूलं यददैनमिति सोमाधानस्य विधायकं न सोमस्य | तेन वसन्तसंबन्धित्वं सोमस्य न बाध्यने । इष्ट्यु. त्तरकालता तु बाध्यते सोमाधानयोरानन्तर्यविधानादिति । 1 सत्याषाढोऽपि विकल्नमभिप्रैति स्वसूत्रानुयायिनाम् । एकेषामिति सूत्रणात् । श्रौ० सोमेन यक्ष्यमाण आघानो नर्तु न नक्षत्रं सूर्भेदित्येकेषाम् । ( स० [० सू० ३ | १२ ) अत्र वैजयन्तीकृदिदं ब्राह्मणव्यतिरिक्त विषयमिति व्याचल्यौ | तत्तु तैत्तिरीयशःखाया- मविशेषेण श्रुतत्वाच्चिन्त्यं पूर्वोक्तवत्रातभःण विरोधात् । सत्यानां तु सोमपू धानं नास्ति । एवं हि तत्सूत्रम्--- तस्य नानुषक्रान्त योदर्शपूर्णमासयोराहार ( स० ० ० ७ । १ । ५ ) इति । श्री० १ । अत्र ज्योत्स्ना —तस्याग्निदोमस्यानुपक्रान्तथोरनारब्धयोः सतोराहारः प्रयोगो नेयर्थः । एवं ज्योत्स्नावैजयन्त्योर्चिचार्यमाणे चिन्त्यमाने च तसूत्रे श्रुतिमूत्रवरोध इति नूनं तथाऽकि विकल्प एव श्रेयानिति युक्तमुत्पश्यामः । अत्र जैमिनिराचार्य:- सोमश्चैकेषामग्न्याधेयस्यर्तुनक्षत्रातिक्रमच चनात्तदन्तैनानर्थकं हि स्यात् । ( १० मी० ५ । ४ । ६।) अग्निहोत्रचन्द्रिका | शावरभाष्यम् --सोमश्चैकेषां पुरो दर्शपूर्णमासयोः स्यात्कुत अग्न्याधेयस्य ऋतुनक्ष- त्रातिक्रमवचनात् । यः सोमेन यक्ष्यमाणोऽग्नी नादधीत नर्तु स प्रतीक्षेत्र नक्षत्रम् | इति । यः सोमयागं कर्तुमादधीत स न प्रतीक्षेनक्षत्रं नाप्यतुम् । तावत्येवाऽऽदधीतेत्या- नन्तर्यमुच्यते । इतरथ ऋतुनक्षत्रातिक्रमवचनमनर्थकं स्यादिति । अन्यदपि तत्रैव सूत्रयां बभूव - २०४ इष्टिरयक्ष्यमाणस्य तादर्थ्ये सोमपूर्वत्वम् । (५ । ४।९।) शा० भा० – इष्टिरयक्ष्यमाणस्य सोमेन निरभिसंधिक आधाने तदर्थत्वे तु सोमपू- र्वत्वम् । सोमार्थतायां त्वाधानस्य सोमपूर्वत्वं स्यादिति । तरेतत्सूत्रस्थं सोमपूर्वत्वं पदं यदैवैनं यज्ञ उपनमेदधाऽऽदधीतति श्रौतं पदं तदन्तर्गतानि च सर्वाणि प्रमाणभूतानि सौत्रत्रचांसि सोमपूर्वाधाने प्रमाणम् । तदेतत्सर्वं विचार्य सोमपूर्वाधानं नास्तीति मलपन्तः प्रत्युक्ता वेदितव्याः । ननु अन्यान्यप्येवंजातीयकानि प्रयोगशास्त्रकृतां बचांस्याकलयाम इति । तान्येवम्- " न दर्शपूर्णमासाभ्यामनिष्ट्वा सोमेन यजेत " इति भरद्वाजः । " तस्य नानुपक्रान्त योदर्शपूर्णमासयोराहार: " इति सत्याषाढः । " दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेत " इति कात्यायनः । दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचातुर्मास्यैरथ सोमेन " इत्याश्वलायनः । यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन येजेत । (तै० ब्रा० ।) सत्यम् । परं नैतानि बचांसि पूर्वनिर्दिष्टप्रमाणजातं बाधितुमुत्सहन्ते । तुल्यबलत्वात् । तुल्यबलानां हि न झस्ति विरोध इति बलाबलाधिकरणे व्याचख्यावाचार्यः । अन्यत्राप्येवं सूत्रयामास -- विप्रतिषेधे परम् '" | ( पू० मी० १२ । ४ । ३९ ।) अयमर्थः - विप्रतिषेधे तुल्यबलयोर्विरोधे परमिष्टं स्यात् । - यत्र समानबलानां वचसां परस्परं विरोध: स्यात्तत्र यदिष्टं तत्कार्यम् । अन्यदपि तत्रैव सूत्रयां बभूवाऽऽचार्यः -- " शास्त्रस्था वा तन्निमित्तत्वात् " ( पू० मी० १ । ३।८।) 66 अयमर्थः - शास्त्रस्थां शास्त्रप्रतिपाद्या शास्त्रानुसारिणीत्यर्थः । विप्रतिपत्तिर्विशिष्टा www प्रतिपत्तिर्ज्ञानम् । बलीयसी । कुतः । तन्निमित्तत्वात् । शास्त्रस्य तन्निश्चायकत्वात् । तस्मादुभयथाऽप्यस्ति वचनजातमिति षोडशिग्रहणवदैच्छिको विकल्प एव सोमपूर्वाधानाअग्निहोत्रचन्द्रिका | २०५ धानयो,रैति मीमांसया निर्णीतं मतमेवानुकूलमिति मन्यामहे | मूत्रकारस्य तथैव प्रस्थानाच्च । न च वाच्यं भगवत अम्नायस्य तदनुसूत्रयत आपस्तम्बाचार्यस्य सोमपूर्वाधानमेव संम- तमिति । न ह्याम्नानमात्रेण कश्चिदप्यर्थोऽनुष्टातुं शक्यते । अप्रे च तेनैवाऽऽचार्येण सांनाय्य विषय एवं सुत्रितमस्ति - नासोमयाजी संनयेत्संनयेद्वा " इति । तस्मादुभयथाऽप्याचार्याणां वचनशैली दृश्यत इति विकस एव सोमपूर्वाधानस्येति युक्ततमः शोभनः पन्थाः | प्रामाणिक विकले नास्त्यष्टदोषदुष्टत्वम् । अथापि सोमपूर्वा- धानमेव गरीयःपक्ष इति वयं ब्रूमः | सोमो नित्यस्त्रिभिर्ऋणवाञ्जायत इत्यृणसंस्तवात् । तथा सोमान्तान्यज्ञाननुक्रम्य नैयमिकं ह्येतदृणसंस्तुतमित्यपि वसिष्ठादयः प्रत्यभिजानन् । कल्पकृताऽप्यग्नीनाधाय कर्मण्यारभते सोमावरानि यानि श्रूयन्त इति । गृहस्थस्या- प्याश्रमान्तरं प्रेप्सतोऽप्यावश्पकतयोपदेशात्तथा " वसन्ते. वसन्ते सोमेन यजेत " इति दर्शपूर्णमासवदभ्यासविधानात् । तथा सोमपथविच्छेदे प्रायश्चित्तत्रचनात् । तथा सर्वेषु ब्राह्मणग्रन्थेषु कल्पसूत्रेषु च निलैः समभिव्याहाराच्च । तस्मादपि नित्य एव सोमः । एवं हि भगवतो जैमिनेः सूत्रणम् - ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात् । ( ६ । २ । ३१ । ) वृत्तिः—सोमवेदाध्ययनप्रजोत्पत्तयो नित्या उतानित्या इति संदेहेऽनित्या नित्यबो- धकप्रमाणाभावादिति बहिः पूर्वपक्षे सिद्धान्तमाह - ब्राह्मणस्नेति । ब्राह्मणस्येति क्षत्रियवै- श्ययोर्लक्षकम् । सोमविद्याप्रजं नित्यम् । ऋणवाक्येन ऋणशब्दघटितवाक्येन संयोगात् । त्रयाकरणैर्ऋणी भवतीति दोषश्रवणात् । " जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवाञ्जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अमृणो यः पुत्री यज्वा ब्रह्मचारी " || इति श्रुतिवाक्यम् । एवं च सोमस्याऽऽवश्यकतयाऽनुष्ठातव्यः सोमः । स चाऽऽघा- नानन्तरं वा भवतु दर्शपूर्णमासेष्टिपशुचातुर्मास्यानन्तरं वा भवनु । अनुष्ठेय इति तु निर्विवादम् । तदेतत्सोमनित्यत्वं श्लोकयां बभूव वार्तिककृत् । तच्च संजग्राह पार्थसार- थिमिश्रः- वीप्सायुक्तो वसन्तो हि निमित्तत्वेन गम्यते । यावद्वसन्तं नियमः सोमस्यातोऽवगम्यते || यावद्वसन्तमभ्यासः कामस्यैवाथ नोद्यते । यजेतेतिपदेनैव प्राप्नोत्यभ्यासलक्षणा || २०६ अग्निहोत्रचन्द्रिका | तस्माद्वसन्ते निमित्ते विधानादागत आगते बसन्ते नियमेन सोमः कर्तव्य इति नित्यः । सोमपूर्वाधानविषयाणि सर्वाणि वचस्यालोच्य मण्डनो मण्डयामास - इष्टनित्येष्टिरथवा नित्येष्टिः सोममाहरेत् । एवं सोमेष्टिपूर्वत्वे भवेत्तुल्यविकल्पनम् || व्यवस्थित विकल्पों वा कातीयवचनाद्भवेत् । यस्तूपक्सोमः सनाधीत हुताशनम् || स कुर्यात्सोमपूर्वत्वमन्येषामिष्टिपूर्वता । विधिरत्नोक्तमन्यादृग्व्यवस्थितविकल्पनम् ।। त्रिपूरुषमविच्छिन्नो यस्य सोमक्रतुर्भवेत् । तस्य स्यात्सोमपूर्वत्वमन्येषामिष्टिपूर्वता ॥ विमेष्टिसोमपूर्वत्वे विकल्पं प्राह जैमिनि: । राजादेरिष्टिपूर्वत्वपक्षमेव नियच्छति ॥ अत्रानन्तरकारिकायां योऽर्थो जैमिनिना विकसित इत्युक्तं तद्विषयकं सूत्रं प्रदर्शयामः- एक शब्दसामर्थ्यात्माक्ऋत्स्नविधानात् । (५ । ४ । १८ ) अवसितः सोमपूर्वाधानविचार: प्रासङ्गिक: सोमनित्यतादिविचारश्च । अधेदानीमिष्टि- पूर्वाधानविचारं प्रस्तात्रयामः । इष्टिपूर्वाधानम् । 1 अयमर्थः—इष्टेरन्चारम्भर्णायेष्टेः प्राग्यदाधानं तदिष्टिपूर्वमित्युच्यते । आधानानन्तरं यदव्यवहितमन्वारम्भणयानुष्ठानं तदेवास्य प्रवृत्तिनिमित्तम् । तदनुष्ठाने तत्सत्त्वे च प्रमा- णमुदाहरामः अमावास्यायां पौर्णमास्यां वाऽऽधेयः । (आप ० श्री० सं० ५ ३ । १७ ) बसन्ते पर्वणि ब्राह्मण आदधीत । ( आश्व० श्रौ० सू० २ । १ । १२ ) अमावास्यां पौर्णमास्यामापूर्यमाणपक्षे । ( सत्याप:श्री० ० २ | १ | १२ ) अमावास्यायां पौर्णमास्यां वाऽऽदधीत | ( सांख्यायनश्रा० सू० २ । १।७ ) अत्र निर्दिष्टत्रचनेषु यत्पौर्णमास्यामाधानं सुत्रितं तदेवेष्टिपूर्वं भवति । होमपूर्वाधानम् । होमादग्निहोत्रहो मात्पूर्वमव्यत्रधानेन यदावानंतपूर्व भवति । तच्चामीनाधायान्वारअग्निहोत्रचन्द्रिका | म्भणीयेष्टेः प्रागग्निहोत्रारम्भः कृतश्चेद्धोपूर्व भवति । तत्र पूर्वनिर्दिष्टव चष्मास्यायां सूत्रितमाधानं होमपूर्वनिति ज्ञेयम् । तथा नक्षत्रेषु कृतमप्यावानं होमपूर्वं भवति । पूर्णाहुत्यन्तमाधानम् । २०७ तदिदमाधानमस्ति वा नवेति संशयः । सर्वैरपि सूत्रकारैः पूर्णाहुन्यनन्तरं पवमान - हवी ५षि समाम्नातानि विद्यन्ते । अतः संशयस्तदपाकरणाय श्रुतिभव पुरस्कुर्मः । Y 1 “ पूर्णाहुति जुहोति तत्पूर्णाहुतिं जुहोत्यन्नादं वा एतमात्मनो जनयते यदनिं तस्मा एतद्द्भाद्यमपिदधाति । यथा कुमाराय वा जाताय वत्साय वा स्तनमपिदध्यादेवमस्या तमपिधाति । स एतेनानेन शान्त उत्तराणि हवी षि श्रष्यमाणान्युपग्मति तदाहुः । एतामेवाऽऽहुति हुन्वाऽथोत्तराणि हवी५षि नाऽऽद्रियेतैतयैव तं काममाप्नोति यमभिकाम उत्तराणि हवी पि निर्वपतीति " । (शतपथब्रा० २ | ५ | ९ ) इत्यत्रार्थवादेनोत्तराणि पवमानादीनि हवीषि न निर्धपैदिन्युक्तम् । न चायं काम्यः पूर्णाहुतेर्विषय इति वाच्यम् । तथा चम्पबमानहविषामपि कम्त्वं नान्तरीयकम् । यम- भिकाममुत्तराणीत्याम्नानात् । अप्रे उत्तरहविर्विधानं यथा - " तदु निर्वपेदेवोत्तराणि हवी षि परोक्षमित्र वा एतद्यद्दस्तदिमितीव " ( शतपथ ब्रा० २ ।५।९) न च वाच्यं पत्रमानहविर्निर्वाप एव श्रुयभिप्रायो लक्ष्यत एवावधारणादिति । पूर्वत्राप्येवकारस्य सत्त्वात् । ब्राह्मण एत्रकार सत्यपि विकल्पमेवाभिप्रयन्ति प्रयोगशास्त्रकृत आपस्तम्बप्रभृतयः । यथा तैत्तिरीयब्राह्मणे १ | ३ | १ | इत्यत्र । 66 न संभृत्याः संभाराः । न यजुः कार्यमिति " | इत्येवं पूर्वमुक्या " अथो खलु | संभूत्या एव संभाराः | कार्ये यजुः । पुनराधेयस्य समृद्धयै " ।। इति । सा० भा० – सिद्धान्तमाह | अयोशब्देन पूर्वपक्षी निवर्तते । एवं ब्राह्मण आश्रावितेऽपि प्रयोगशास्त्रकदापस्तम्बः कृताकृताः सुंभारा यजूंपि च भवन्तीति " तथा प्रकृतमिदमिति ज्ञेयम् । इति प्रयोगशास्त्रकृतां मते पत्रमाहव सर्वेषां विकल्पेन भवन्तीति ज्ञेयम् । मीनांकानां मतेन तु सर्वेषामपि पवमानहवींषि नित्यानी त्यलमनया मीमांसाप्रयोगशास्त्रकृतोः सूक्ष्मेक्षिकया । अन्यच्चाः-पत्र प्रयोगशास्त्रकूनां २०८ अग्निहोत्रचन्द्रिका | मीमांसकानां विरोधः समायाति तत्र प्रयोगशास्त्रमेव बलीन इति । तदप्यत्रानुसंधात- व्यम् । अथवा काम्पत्वेन एबमानहविषां निर्वापश्चेत्पूर्णाहुत्यैव तं काममवाप्नुयादिति काम्यपरत्वं न्यषेधि पूर्वप्रपश्चितेन ब्राह्मणेन । नित्यानि त्वपेक्षन्त एवेति वा । शतपथीयभाष्ये तु पवमानहविषामावश्यकतोक्ता परमुभयथाश्रुतिदर्शनाद्विकल्प एवात्राभ्युपगन्तव्यः । ननु विकल्पोऽष्टदोषदुष्ट इति । षोडशिग्रहग्रहणे या गतिस्तां स्मर । तत्राप्यसमाहितो भवांश्चे- व्यवस्थित विकल्पं विभावयतु । यथा - उदितानुदितहोमयोः । अव्यवस्थितश्चेत्सर्वेषां प्राप्नोति । व्यवस्थितश्चेत्कातीयानामेव विकल्पोऽन्येषां नित्यत्वं नान्तरीयकतया समापति • तम् | कातीयानां तु भगवान्कात्यायन एव विकल्पयामास- “ द्वादशाहान्ते तनूहवीषि निर्वपति मासे द्वितीये तृतीये षण्मास्ये संवत्सरे सद्यो वा नवेति " ( कात्यायनश्रौ० सू० ४ । २ । ४९ । ) अत्रायमर्थः~-आधानदिवसाद्वादशेऽहनि तनूहब पि अग्नये पवमानायेत्यादीनि सद्यो वा पूर्णाहुत्यनन्तरं तस्मिन्नेवाहन्येते सर्वे विकल्पाः । न वा निर्वपति । शाखान्तरेऽ ब्येते विकल्पाः सर्वथा निषेधं विना कालमात्रस्य स्मर्चन्ते । यथाऽऽपस्तम्बसूत्रे - - “ द्वादशाहे व्यहे त्र्यहे चतुरहेऽर्धमासे मास्मृतौ संवत्सरे वा " ( आप० श्रौ० सू० ५। २१ । २ ) इति । द्वादशाहान्त इत्यत्रान्तग्रहणात्सर्वत्रान्तग्रहणं संबध्यते । तेन द्वयान्ते त्र्यहान्त इत्यादि ज्ञेयम् । न्यायस्य समत्वात् । एतेनाऽऽपस्तम्बोक्तविकसोक्ता दिशन्देष्वप्ययमेव न्यायोऽ नुवर्तनीयः । प्रकृते तु नवेत्यस्यायमर्थः । अथवा तनूहबीष न निर्वपति पूर्णाहुत्यन्त- मेव करोति । ' तनूहवींषि ' इति अग्नये पवमानायाग्नये पावकाया नये शुचय इत्येषां संज्ञा । प्रवृत्तिनिमित्तं तु तैत्तिरीयैरेवं समाम्ना तमस्ति । तञ्चार्थवादे श्रूयते - ब्रह्मवादिनो वदन्ति | तनुवो वा वैता अग्न्याधेयस्य " ( तै० ब्रां० १।१।६।) एतावता तनूहविषां विकल्प एवं युक्त इति । यथा वा पशोरपि द्वथहकालता वाच. निकी सद्यस्त्वमपि वाचनिकम् । अत उभयोरप्यौपदेशिक वादविरोधाच्च विकल एवाभ्यु पगन्तव्य इति निर्विवादम् । तथाऽत्राप्यनुसंधेयम् । अत्रापस्ति सद्यो वा नवेति वाच निकमेवेति नोक्तो दषो विकल्याभ्युपगमे । बौधायनस्तु द्वादशसु व्युष्टासु गतासु तनूह- विषां निर्वापकालं सूत्रयां बभूव । ब्राह्मणेतु सद्यस्क.लं निन्दित्वा संवत्सर प्रतिमारूपासु रात्रिष्वतीतासु निर्वापं विधत्ते । तदेयनै दर्तव्यम् । तेषां पवमानहविर्निर्वापः सोमपूर्वाधान एव कर्मान्तसूत्रे सद्यो वेन्यनेनोक्त नान्यदाइतस्तैः सद्यो निर्वापो विना अग्निहोत्रचन्द्रिका | २०९ सेमपूर्वाधानान्न कर्तव्यः। स्त्रसूत्रविरोधात् । अन्यच्च प्रायो बौधायनस्तैत्तिरीयं ब्राह्मगमति- क्रम्य न सूत्रयति तस्मादत्रापि यथाब्राह्मणं सुत्रितं सूत्रं तैनीतिक्रमितव्यम् । एवं हि श्रूयते तैत्तिरीयब्राह्मणम् – “पशवो वा एतानि हवी षि । एष रुद्रः । यदग्निः । यत्सद्य एतानि हवी षि निर्वपेत् । रुद्राय पशूनपिदध्यात् । दपशुर्यजमानः स्यात् । धन्नानुनिर्वपेत् | दनव- रुद्धा अस्य पशवः स्युः । दशमु रात्रिष्वनुनिर्वपेत् । संवत्सरमतिमा वै द्वादश रात्रयः । संवत्सरेणैवासमै रुद्रः शमयित्वा / पशूनवरुन्धे " इति । स्पष्टमिति भाष्यं नात्र संगृह्यने तंत्रतत्सर्वमालोच्यैव सूत्रयामास भगवानाचार्यः पूर्णा- हुत्यन्तमग्न्याधेयमिति । वयमप्येतत्सर्चमालोच्य निर्णयं कुर्मः । षोडशिग्रहग्रहणवद्विकल्प एव शातपथीयश्रुतिगोचरः । अन्यच्चाऽऽचार्यसूत्रम् – “यदि त्विष्टयस्तनुयुः " इति च सूत्रम् | तेन ज्ञायत आश्वलायनाभिप्राय: पूर्णाहुति हुत्वेष्ट्यकरणेऽप्यग्निहोत्रारम्भ इति । अत्र परा- क्रान्तं वृत्तिकृता परं तत्सर्वं मीमांसाशास्त्र गोचरमिति ज्ञेयम् । न प्रयोगशास्त्रकृतस्तदभि- प्रयन्ति । अक्षाभिहोमान्तमिति पञ्चमः प्रकारः । तदेतदक्षाभिहोमान्तमाधानं लट्यायनाचार्येण सामवेदीयमुत्रकारेण सूत्रितं चतुर्थ- ध्याये- “ हुतायां पूर्णाहुतौ यथार्थ: स्यात् । अभियुक्तत्र गत्वा तूष्णी- मुपविशेत् " । ( ४ | १० | २२ ) अयं च ब्रह्मण उपदेशस्तूष्णीमुपविशेदिति । अत्र भाष्यम्—–क्वचिदध्वर्यवोऽक्षाभिहोमं कुर्वन्ति । अक्षा नाम विभीतककलानि तद्यद्यक्षानभिजुहुयुः । तत्र तस्मिन्गत्वा तूष्णीमुपविशेदिति । इत्यवसितः पूर्णाहुत्यन्ताधा नविचारः । इष्ट्यन्तम् – “पवमानहवी षि सद्यो निर्वपेत् ” । ( आप० श्रौ० सू० ( (५। २१ । १ ) वृत्तिः - पवमानहवींषि नाम यस्मिन्नाधानं तस्मिन्नेत्र निर्भपेदिति त्रीण्यनन्तरं वक्ष्यमाणानि तानि सद्यः समानेऽहनि - । तानि त्रीण्येवम् — अपये पवमान पान पा यानये शुचय इति । इति प्रयोग स्वः । अत्यत्र सीमांतकानामपि विचार-

सा चैवम्---

सरणिः २१० अग्निहोत्रचन्द्रिका | “संस्कृते कर्म संस्काराणां तदर्थत्वात् " ( पू० मी० ५ | ३ | २१ ) । भाध्यम् -- माननः संस्कृष्ट कर्माणि वर्तेरन् । कुतः - संस्काराणां तदर्थत्वात् । संस्कारशब्दा एत अहवनीयादयः । संस्कारस्य कस्यचिदभावे नाऽऽहवनी यादिषु प्रतिपत्तिः स्यात् । तस्मा संस्कृतेष्वनिषु कर्माणीति | सूत्रार्थस्तु - संस्कृते पव मानेष्टिसंस्कृतेऽग्नौ कर्माग्निहोत्रादिकर्म | आहवनीयशब्दस्य संस्कारवाचितया संस्काराणां पवमानसंस्काराणां तदर्थत्वादग्निहोत्राद्यर्थत्वादिति । ननु तर्हि पूर्णाहुतेः पूर्वं हूयमानं तृष्णीमग्निहोत्रमपि मीमांसकानां मते न स्यात् । मैवम् । तत्तुं साक्षादेवाऽऽम्नायेनैव मीमांस्य निरणायि ब्रह्मवादिनो वदन्ति होतव्यमग्निहोत्रां ३ इति न होतव्या ३ मिति यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् | यन्न जुहुयात् । अग्निः पराभवेत् । तूष्णीमेव होतव्यं यथापूर्वमाहुती जुहोति । नाग्निः पराभवति । इति । तस्मात्तृष्णीमग्निहोत्रं होतव्यमिति सिद्धम् । एतदाम्नायसिद्धम् । मीमांसकानां मते पूर्वोक्तरीत्या न होतव्यमित्यापनं तत्र का गतिः । ब्रूमहे । न ह्याम्नायविरुद्धं मीमांसक मतं भवति । सूत्रयामास हि जैमिनिस्तत्तूष्णीमग्निहोत्रं होतव्यमिति । यथा -- - अर्थवादो वाऽर्थस्य विद्यमानत्वात् " | ( जै० सू० ५ । ३ । २४ । ) भाष्यम् – अर्थत्रादो वा “ अग्निं वै सृष्टम् । अग्निहोत्रेणानुद्रवन्ति " इति । अर्थवाद एव कुतः—अर्थस्य विद्यमानत्वात् । विद्यमानो हि तत्र.न्य एत्राग्निहोत्रह|मः । कथं होतव्यमग्निहोत्रं न होतव्यम् । इति मीमांसा प्रानिर्दिष्ठैव | तस्य तूष्णींहोमस्य प्रशंसार्थोऽयमर्थबाद इति । तस्मात्तूष्णीमग्निहोत्रानुष्ठान बिरोधिनी जैमिनीयमीमांसा नास्ये- वेति विभावनयं बहुविद्भिः | अपि तु नित्याग्निहोत्रं पत्रमानेष्टीः कृत्वा होतव्यम् । इति जैमिनिमतं कैश्चित्कल्पकारैरपि सूत्रम् । तदेतदिष्ट्नन्तमाधानमिति जोघुष्यते मीमां- साप्रयोगशास्त्रचणैरिति । तदेतत्सर्वं " यदि विष्टयस्तनुयुः " इत्यत्र व्याचख्या वृत्ति- कृत् । तत्र मीमांसामतमभ्युपन्यस्याऽऽश्वलायनाचार्यमतमवीवृतत्तदेवानुमन्यते वृत्तिकृत् । वयं तूमयथाऽभ्युपगच्छामः । भगवत आचार्यस्य सूत्रप्रणयनादेव । तथा च. शतपथश्रु- तिकात्यायनसूत्राभ्यामव्ययमर्थोऽवसीयते । ताश्चाऽऽधानस्य तिस्रो विधा: सामवेदायसूत्र- कारेण लाट्यायनाचार्येण सूत्रिता:- " अग्न्याधेयान्तान् कुर्वते पूर्णाहुतिमाभिहोमभिष्टीरिति” ( ४ । १२।१३) द्राह्यायणोऽपीममर्थमेवानुमन्यते । भाष्यम् – अग्यधेियस्त्रान्तान् कुर्वतेऽव्ये पूर्णाहुत्यादि । केपांचित्पुर्णाहुत्यन्तम् । 66 अग्निहोत्रचन्द्रिका | २११ केषांचिदक्षाभिहोमान्तम् । केषांचिदिष्टयन्तम् । इति । तदेतदाधानं पङ्क्षिधं विचारेण प्रमा णपदवी प्रापितम् | एवं षड्विधास्वाधानस्य सिद्धाविदानी तासां क्रमशोऽनुष्ठानद्धति विचारयामः- अथ सोमपूर्वाधानानुष्टानक्रमः । आपस्तम्बत्वेवं सूत्रयां बभूव - - न सोमेनायक्ष्यमाणः पुरा संवत्सरान्।ि ५ । २१ । ३ । ) निनर्वपेदित्येके | ५ | २१।४। ) यदि निर्वपेदग्नये पवमानायाग्नये पात्रकायाग्नये गुचय इति तित्र आज्या- हुती: सोमदेवताभ्यो वा हुत्वा निर्व॑पेत् | ( ५ | २१ | ५।) - अयमर्थः——तत्रैत्रं संकल्प:- सोमेन यक्ष्यमाणोऽननावास्य इति । तत्राऽऽघाननिमि त्तकालानियमः । अग्नीनाधाय तास्मन्नेवाऽऽहवनीये सोमस्याऽऽरम्मः --- नोमेन यक्ष्य इत्यादि । तस्मिन्नेवाऽऽहवनीये नियमो नास्तीति केचित् । नियमोऽस्तीति मीमांसकाः । रामाण्डा र स्वामिप्रभृतयोऽपी मेवार्थमेवानुसंदधते । इष्टयन्तमाधानं समाप्याग्झी नरण्योः समारोप्य सोमशालां गत्वा सोमेन यक्ष्य इति संकल्पयन्ति । बौधायनस्त्वेवं सूत्रयामास-- • कथमु खल्बग्न्याधेये सोम इति पूर्णाहुत्यन्तं कर्म कृत्वा शालामध्यवस्थेदी- क्षणीयामाग्नेयोऽष्टाकपालोऽनुवर्तेत प्रायणीयामैन्द्राग्नश्चाऽऽदित्यश्च चरुरातिथ्या- मनये पवमानाय पुरोडाशोऽष्टाकपालोऽग्नीषोमीयस्य पशुपुरोडाशमग्नये पावका- यामये शुचये प्रातःसवनीयामन्वारम्भेष्टिरपि वा सर्वाण्येवाऽऽग्न्योधेयिकानि हवी९षि परिनिष्ठाप्य शालामध्यवस्येदुदवसानीयामन्वारम्भेष्टिरिति । एतेन कर्मान्तसूत्रेण'ऽऽपस्तम्बसूत्राण्यपि व्याख्यातानि चेदितव्यानि | इममेव क्रममा- श्वलायना अनुसरन्ति । सत्याषाढीयानां तु सोमपुत्रं नास्येवेति तत्सूत्रकृत् । इष्टिपूर्वाधानम् । आपस्तम्बस्त्येवं सूत्रयामास- पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्त्रारम्भणयमाधानमपसृज्य श्वोभूते पौर्णमासेन यजते ।। ( ५ । २४ । ९ । ) अयमर्थः— त्रयोदश्यां ब्रह्मौदनान्तं कृत्वा चतुर्दश्यां सेष्टि सान्वारम्भणीयमाधानम ८८ २१२ अग्निहोत्रचन्द्रिका | पवृज्य तस्मिन्नेव दिने सायमग्निहोत्रं हुत्वा पौर्णमास्यां प्रातरग्निहोत्रं हुत्वाऽन्यमाहवनीयं प्रणीया सीतन्वाधाय सामग्निहोत्रं हुवा प्रतिपदि प्रातरग्निहोत्रं हुत्वा पौर्ण- अभ्व मुख. पक्षः । प्रयोगशास्त्रमीमांसानुकूलः । पौर्णमास्यां वाद- चाग्न्याधेयमपवृज्य यदव्याचरख्यौ तत्तु मन्यामहे । अतोऽयं गौणः पक्षः | इममेव गौणं पक्षमभिप्रेत्य रामाण्डारप्रभृतयोऽनुष्ठान- व्यवस्थामाहुः । सा चैवम्- पौर्णमास्याधाने पौर्णमास्याः पूर्वमुपक्रमः सर्वकर्मभ्यः साधिकारेभ्यो मध्येऽग्निहोत्र- होमः । पौर्णमास्याहिताग्नित्वे सति पौर्णमासी मध्येऽप्यग्निहोत्रकाले प्राप्ते तदधिकारप्राप्ते पौर्णमासेनेष्ट्वा सोमेन यजेतेतिबदधिकारक्रमचोदनाभावादेवमन्यत्रापि प्रक्रान्ते तन्त्रे इतियायेन पौर्णमासीमध्येऽप्यग्निहोत्रहोमः । पौर्णमास्यर्थेऽग्नौ दशहोतृहोमश्च । नित्याधिकाराग्निहोत्रहोमस्य प्रणयनाङ्गलोपेनापि यथाशक्ति कर्तव्यत्वात्पौर्णमास्याधाने प्रातःकालाभावेऽप्यन्वाधानवत् | सत्याषाढीयानामंत्रम्- " पौर्णमास्यां तु पूर्वस्य पर्वण औपवसथ्येऽहन्यश्रीनाधायसेष्ट्यपवृज्य | तदानीमेव चतुर्होतारं सारस्वतौ होमावन्वारम्भणीयां च श्वोभूते पौर्णमासेन यजेत । ( स० श्रौ० सू० ३ | | १३ ) अत्र वैजयन्तीकृत्-पूर्वस्थ पर्वणः पौर्णमास्या औपवसथ्येऽहनि चतुर्दश्यां प्रातराधानं सेष्टि समाप्तिं नीत्वा तस्मिन्नेव दिने चतुर्दश्यामेव सर्वं कुरुते । चतुर्होतारं चतुर्होतृहोमं श्वोभूतेऽन्वाधानादि प्रतिपदि यजते || इति । वानः रुष एक सहेष्टिभिरवारम् मणीयया श्वोमृते पौर्णमासन यजत इति रुद्रदत्तो तदानीमेवाम्नीनन्वाधाय सूत्रमीमांसाननुकूलमिति सांख्यायनसूत्रभाष्ये तु पौर्णमास्याघाने तु चतुर्दश्यामुपत्रासाद्युपक्रमः । पौर्णमास्याम- ग्न्युत्पत्तिरि॑ष्टयश्च । श्वोभूतेऽन्वारम्भणीया पौर्णमासं चेति । बौधायनस्त्वेवं सूत्रयामास- अथातोऽन्व।रम्भस्यैव मीमाुसाऽन्वारम्भं पौर्णमास्याः *समानोपवसथं करोति (२।२१) अथात आर्श्विज्यान्यग्न्याधेयानि व्याख्यास्याम इत्युपक्रम्य पौर्णमास्यां तु सद्यस्कालमि त्युक्तं कर्मान्तसूत्रे नवमाध्याये । तदेतद्द्वैधसूत्रे स्पष्टयां बभूव । तदेवम्- अन्वारम्भेष्ट्यामिति चतुहोंतार सारस्वतौ होमावन्वारम्भेष्टिमित्येतदुपव-

  • समानोपवसथम् –बौधायनीयैः । पौर्णमास्याधाने पौर्णमासस्यान्वारम्भस्यावाधानं

समानतंत्रेण कार्यम् । नान्वारम्भणीयां निर्वर्त्य पौर्णमासमन्वादध्यात् | ये तु समानोपवस- धमन्वारम्भमकृत्वा अन्वारम्भं समाप्य पौर्णमासमन्वाधाय तस्मिन्नेव दिने प्रथमाग्निहोत्रम - नुतिष्ठन्ति ते स्वीयसूत्रविरोधादुपेक्ष्या एवं ते नैव कथमपि विद्वगोष्ठिनिवेशमर्हनीति । सुधीभिः प्रयोगशास्त्र िद्भिर्दूरत एव पसार्या इति यावत् ॥' अग्निहोत्रचन्द्रिका | २१३ सथे कुर्यादथेतरदिष्ट्यहान कुर्यादिति बौधायनः । चतुहतारः सारस्वत होमा- वित्येतदुपवसथे कुर्यादथेतरदिष्ट्यहाने कुर्यादिति शालीकिचतुर्होतारमेवोपव- सथे कुर्यादथेतरदिष्ट्रयहनि कुर्यादित्यौपमन्यवः सर्वमेवैतदिष्ट्यहाने कुर्यादि- त्यौपमन्यवीपुत्रः । ( द्वैध० सू० २० | १८ ) तदेतत्सर्वस्मिन्नालाच्यमान एवं बौधायनानां पौर्णमास्याधाननिर्णयः- -- ( १ ) चतुर्दश्यामुपवासाद्युतक्रम्य ब्रह्मौदनान्तं कृत्वा पौर्णमास्यामनी नाधाय चतुहर्होतारं सारस्वतौ होमौ हुत्वाऽन्दारम्भेष्टि समाप्याग्निहोत्रहोम कृत्वा प्रतिपदि प्रातरनिहोत्रं हुत्वा पौर्णमासयागान्वाधानाद्यारम्भः कार्य इति प्रथमो मुख्यतमः पक्षः । ( २ ) चतुर्होतारं सारस्वतौ होमावित्येव पौर्णमास्यां कृत्वाऽन्वारम्भणीयादीष्ट्यहनि प्रतिपदीति द्वितीयः पक्षः । ( ३ ) चतुर्होतृमात्रमुपवसथे कृत्वा प्रतिपदि सारस्वतहोमान्त्रारम्भणीयादि कार्यमिति तृतीयः पक्षः । ( ४ ) चतुर्होत्रादिसर्वमिट्यहनि प्रतिपद्येश् कार्यमिति चतुर्थः । अत्र चतुर्ष्वपि पक्षेष्वन्वारम्भेष्टिं विना नामिहोत्रारम्भ इति सुधीभिर्ज्ञेयम् । एवं बौधायनोक्तेषु चतुर्ष्वपि पक्षेष्वन्वाधानोत्तरं प्रथमाग्निहोत्रारम्भो नास्ति । एवं च केचन बौधायनसूत्रिणः स्वसूत्रमनालोचयन्तः स्वकपोलकल्पनया कथंचित्स्वसूत्रमवलो- कितं कदर्थयन्त: पारशाखिकसूत्रेण स्वसूत्रोक्तमर्थं कल्पनयाऽप्यप्राप्यमःणमपि हठात्प्रापयन्त- श्चतुर्दश्यामुपबाद्युपक्रम्य पौर्णमास्यां सेष्ट्पाधानमपत्रभ्यान्वारम्भेष्टिमिष्ट्वा पौर्णम समन्त्राघाय सायमग्निहोत्रं प्रारभन्ते ते सर्वे सूत्रविरोधादुपेक्ष्या एव । यद्येत्रमेतानि बौधायनसूत्राणि कथंचिद्भक्त्वा नेष्याम इति चेत् " स्वाध्यायोऽध्येतव्यः " झ्यादिविधिभिन्नेष्वपि स्वक- ल्पनां योजयित्वा सूत्रसामर्थ्य च भाष्यादिसंमतादर्थाद्विपरीतमेव वर्णयन्भवादृशो निर कुशः किं किं न कुर्यात् । किंतु धर्मजिज्ञासाधिकरणे कल्पसूत्राधिकरणे च सिद्धा- न्त्रितं स्वसूत्रप्रामाण्यं कथं स्वेच्छया व्याकुलयसीति परं पर्यनुयोगे समाधानं विभावय | तस्मात्पूर्वोक्तेषु चतुर्षु पक्षेषु प्रदर्शितो योऽर्थः स एत्रार्थो मुनिवचसामनुकूलश्चेत्यलं स्वमू- त्रोक्तविरुद्धाचारदोषाविष्करणेन ( ५ ) कठसूत्रमेवम् - पौर्णमास्यामादधानः पूर्वामुपोष्याऽऽधायाग्न्याधेयेष्टिभि- रिष्ट्वा जुहदग्निहोत्रमुपतिष्ठमानो वसति श्वोऽन्वारम्भणीयां पौर्णमासं चेति । इष्टिपूर्व मित्यत्रान्चारम्भेष्टिपूर्वमित्यपि व्याख्यो वैजयन्तीकृत् । “ आधानानन्तरमेव प्रारम्भार्थं या क्रियते साऽन्चारम्भणीया | या विष्टिर्मध्ये होमं कृत्वाऽऽरभ्यते सांऽऽवाना- दनु न भवतीति नान्वारम्भणीया |” इति । यामनु दर्शपूर्णमासावारभ्येते साऽन्वार- म्भणीयेत्यप्यर्थः संगच्छते । अन्यदेतन विस्मर्तव्यम् - बौधायनानां पौर्णमास्याधानार्थं न २१४ अग्निहोत्रचन्द्रिका | विहिताऽस्ति । अतस्तेषां पौर्णमास्यां यदि विहितं चित्रादि नक्षत्रं प्राप्नुयात्तदानीं पौर्ण- मासीशास्त्रार्थस्तैरालोचनीयः । अतः पर्वत्वेन पौर्णमासी तेषां गौणः कालः । नक्षत्रकाल एव तेषां मुख्यः कालः । तत्रापि रोहिणी नक्षत्रयुक्तामावास्या मुख्यतमः काल इति ज्ञेयम् । तत्रापि चित्रानक्षत्रादीन्यपि तेषां गौणान्येव । तत्र च सद्यस्कालत्वमेवैतेषां सर्वम् । तदे तत्सर्वं कर्मान्ने स्पष्टं सूत्रितं तत्पुरस्कुर्मः -- 66 " पूर्वयोः फल्गुन्योरुत्तरयोः फल्गुन्योश्चित्रायामिति सद्यस्कालान्येतानि भवन्तीति । अथात आर्तिज्यान्यग्न्याधेयानि व्याख्यास्यामो विपक्ष आपूर्य- माणपक्षे विपक्षेत्रपक्षीयमाणपक्ष आदधानो यावानत्रावकाशः स्यात्तमभि विदधीत | पौर्णमास्यां तु सद्यस्कालम् । विपक्षेऽपहियमाणपक्ष आदधानो नात्रावकाशः काङ्क्षणाय विद्यते सर्वमेवैतदहः सद्यस्कालं कुर्याच्चतुतार ५ सारस्वतौ होमावन्वारम्भेष्टिमिति || ( क० सू० २४ । १३ । ) 1 पौर्णमास्यां स्त्रित्यनेन शृङ्गप्राहिकया प्रदर्शयति सद्यस्कालत्वम् । आर्ताधानेऽमावा- स्याऽपि सद्यरक, लत्वेन विहितेत्यन्यदेतत् । अतोऽमावास्याऽनार्ताधान आर्ताधानेऽपि श्रुता । न तथा पौर्णमासी । पौर्णमासी तु केवलमार्ताधान एव श्रूयते । अतो न तस्यामनार्तैराधातुं शक्यम् । यदैवैनं श्रद्धोपनमेदथाऽऽदधीतेत्यन्यदेतत् । चित्रानक्षत्रं वार्ताधानं विनाऽपि गौणमेवेति न मुख्यः कालः | अपि च काम्याधाननक्षत्रं चैतत् । “ अपितु न खलु कामनियुक्तान्यग्न्याधेयानि भवन्ति " इत्युपक्रमादा पस्तम्ब- प्रभृतिभिरपि चित्रानक्षत्रं काम्पमित्युक्तम् । राजन्यस्य च यथाऽऽपस्तम्बः—“ चित्रायां राजन्यो भ्रातृव्यवान्वा " इति " चित्रा च क्षत्रियस्य " इति कात्यायनः । अत्रत्यश्च - कारो लाभकामार्थः । चित्रानक्षत्रमकामनियुक्तस्यापि भवति । नित्यत्वेन समाम्नातनक्षत्रेषु चित्रायाः समंभिव्याहारैः सृञ्यते । एतेनोक्तप्रमाणजातेन पौर्णमासी गौणः काल आर्तिज्या- धानोक्तत्वात् । अनेन प्रायश्चित्रानक्षत्रं पौर्णमास्यां समायातीति पौर्णमास्यपि गृहीता भवतीति कश्चिच्चोदयेत्तं प्रति ब्रूयात्कण्ठरवेणानुक्तत्वाद्गौण्येच पौर्णमासीति ज्ञेयम् । एयं च यदा चौपवसथ्येऽहनि पवमानहविर्निरुप्यान्वारम्भणीयां कृत्वा पौर्णमासमन्वा धाय परेऽहनीष्टिरनुष्ठीयते तत्पौर्णमासेष्टिपूर्वाधानं भवति । · ' अत्र सत्याषाढः -- आधानादनन्तरमेव प्रारम्मार्थं क्रियते साऽन्वारम्मणीया | या त्विष्टिर्मध्ये होमं कृत्वाऽऽरभ्यते साऽऽवानादनु न भवतीति नान्चारभणीया | इष्टिपूर्वाधा- नेऽप्यनन्तरभिष्टे: प्रतिपदि रात्रावग्निहोत्रारम्भः । एवं चेष्टिपूर्वाधानमित्यत्रार्थद्वयं सुनिष्पन्नं भवति । अन्वारम्भेष्टिपूर्वम् । पूर्णमासेष्टिपूर्वम् | चतुर्दश्यां कृतमाधानमन्वारम्भेहिपूर्वं भवति । पूर्णमासे कृतमाधानमय्यन्त्रशरमेष्टिपूर्व भवत्येव । पर सत्यापास्तु पूर्णमासान्याधान. अग्निहोत्रचन्द्रिका | २१५ मध्येऽग्निहोत्रं न सहते । आश्वलायनसूत्रिभिस्वतनो वृत्तिकृता प्रदर्शितः पन्था अनम र्तव्यः । दर्शपूर्णमासावारप्स्यमानोऽन्वारम्भणीयाम् | ( आश्व० श्र० सू० २ १ ८।१।) वृत्तिः- पूर्वं दर्शपूर्णमासयोः स्वरूपमात्र मुक्त मिदानी तयोरनुष्ठानारम्भ उपते । इदानीं तावारप्स्यमानस्यान्वारम्भणीयाविधानात् । यस्मादावानानन्तरमजस्त्राग्निहोत्र पिण्ड पितृ- यज्ञानुक्त्वाऽनयोरारम्भ उच्यते तस्मादेत साधितं भवति । पौर्णमास्यामाधानमिष्टिं च कृत्वा ततोऽजस्रधारणमग्निहोत्रहोमं च कृत्वाऽमावास्यायां पिण्डपितृयज्ञं च कृत्वा पौर्ण- मास्यां तयोरारम्भ इति । तत्र यदापस्तम्बवचनम् - - पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्त्रारम्भणीयमपवृज्य श्वोभूने पौर्ण- मासेन यजेत | इति । अस्यायमर्थः—पौर्णमास्यामादवानस्तदहरेत्र पौर्णमासीमार मेनेति । तस्यायं विषयः । यस्यां पौर्णमास्यामन्वारम्भणीयापर्यन्तं सर्वं प्रतिपत्पञ्चदशीसंधिक्षणामागेव कर्तुं शक्यते साऽस्य विषयः । संध्यनपगमा पौर्णमास्यधिकारमाप्तिः । इत्येकस्मिन्नहनि य उत्तरस्मि- न्क्षणे दर्शपूर्णमासावारभते स तस्मात्पूर्वस्मिन्क्षणे तावारस्यमान इत्युच्यते । तस्यामन्वा- रम्भणीया कर्तव्या ततोऽयं क्रमः खण्ड खण्डपर्वोपाधित्वेन कल्पनीय इत्यलम् | खण्डपर्वपौर्णमास्यामेवं क्रमः- १ पौर्णमास्यां खण्डपर्वणि प्रातः सेष्ट्यावानम् । २ अजस्रधारणम् । ३ अग्निहोत्रारम्भः | ४ अमायां पिण्डपितृयज्ञः । ५ तत आगामिन्यां पौर्णमास्यामन्त्रारम्भणीया | ६ ततः पूर्णमासान्वाधानम् । ७ सायमग्निहोत्रम् | ८ प्रतिपदि प्रातरग्निहोत्रम् । ९ प्रतिपदि प्रातः पूर्णमासयाग: अखण्डपर्वपौर्णमास्यामेवं क्रमः-- १ चतुर्दश्यां ब्रह्मौदनान्तं कृत्वः | २१६ २ पौर्णमास्यां सॆष्ट्याधानम् । ३ ततोऽन्त्रारम्भणीया | ४ ततः पूर्णमासान्वाधानम् । ५ सायं तस्मिन्नेवाग्नौ दशहोत्राद्यग्निहोत्रहोमः । ६ प्रतिपदि प्रातरग्निहोत्रम् | ७ त्वतः पूर्णमासयागः । विवृणोति तदप्यत्र प्रसङ्गात्प्रदर्शयामः- अग्निहोत्र चन्द्रिका | स्मृतस्योपेक्षानर्हत्वं प्रसङ्ग इति न्यायः । सेयं ( अन्वारम्भणीया ) पुरुषार्था न कर्मार्था श्रुत्यादीनामभावात् । दर्शपूर्णमा- मासावारप्स्यमान इत्यनेन च कर्मसंबन्धो वक्तुं न शक्यते । निमित्ततयाऽधिकारि विशे षणत्वेनोपक्षया दुद्देशकं न भवितुमर्हति । तस्मादनङ्गं तयोरन्वारम्भणीया । तथाऽपि तत्संबन्धपुरुषसंबन्धात्तयोरेवाधिकारित्वेन पुरुषं संपादयतीति युक्तमुक्तम् । अतो दर्शपूर्ण- मासावृत्तौ विकृतिषु च न पुनः पुनः कार्याऽतिदेशाभावात्कार्यसंवन्ध्यतिदिश्यते न पुरु- पार्थसंबन्धमपीति वृत्तिः । - इष्ट्यावृत्तौ मयाजवदावर्तेताऽऽरम्भणया | सकृद्वाऽऽरम्भसंयोगादेकः पुनरा- रम्भो यावज्जीवप्रयोगात् । ( जै० पू० मी० ९ | १ | ३४ | ३५ । ) दर्शपूर्णमास प्रकरणेऽन्वारम्भणीयाऽऽम्नाता - - उच्यते- आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमानः सरस्वत्यै चरुं सरस्वते चरुमिति | सा किं दर्शपूर्णमासावृत्ताव वर्तेतीत सक्कदेवाऽऽदो स्यादिति संशयः । आवृत्तौ हि प्रधानानामङ्गावृत्तिरसंशया । दर्शाद्यङ्गमियं तस्मादावर्तेत प्रयाजवत् ॥ - आरम्भद्दारकं त्वेतदङ्गं साधारणश्च सः । तस्य साधारणत्वेन साऽपि साधारणी भवेत् || आरप्स्यमानसंयोगादारम्भाङ्गमिष्टर्न साक्षादर्शपूर्णमासाङ्गम् । आरम्भश्चेदं मया कर्तव्य- मित्यध्यवसायः । स च सर्वप्रयोगाणां साधारणः । सर्वो ह्यगीनाधायैव मध्यवस्पति याव- ज्जीवं मया दर्शपूर्णमासौ पर्वणि पर्वणि कर्तव्याविति । तस्मादारम्भसाधारण्यात्तदङ्गभूताऽ न्वारम्भणीयाऽपि साधारणी न प्रतिप्रयोगमावर्तनीया । एवं वृत्तिकारमतेनाधिकरणं व्याख्याय तत्रापरितोषाद्वयाख्यान्तरं भाष्यकारेण कृतम् । कस्य हेतोरपरितोषः । नाभ्यवसायवचनोऽय ऽयमारम्भशब्दः | प्रथमप्रवृत्तियाची हि लोके अग्निहोत्रचन्द्रिका | २१७ प्रसिद्धः । यद्यपि चाभ्यवसायवाची स्यात्तथाऽपि यद्यदा कार्यमुपस्थितं तस्यैव तदाऽभ्य- यसायो न च यावज्जीविकाः प्रयोगा युगपदुपस्थिताः । नायमेकः प्रयोगोऽभ्यस्तरूपः । पर्वकालिकं तु जीवनं दर्शानुष्ठानानिमित्तम् । तस्मिन्नागते नैमित्तिकं समाप्तं कृत्वा चरि- तार्थे पुरुषे पुनस्त. दृश: निमित्तत्रशान्नैमित्तिकमापतितमिति पुनः क्रियते । यथैकस्मिन्पुत्रे जाते वैश्वानरी निरुप्य पुत्रान्तरजन्मन्यपि पुनर्निर्वपति तादृगेतत् । तस्म प्रतिप्रयोग. मध्यवसायभेदात्तदङ्गमारम्भणीयाऽप्यावर्तेतेति तसिद्धान्तसिद्धिः | तस्मादेवं व्याख्यायते- किं प्रथमस्याग्न्यन्वाधानात्मकस्य पदार्थस्याङ्गमियमुत दर्शपूर्णमासःवारभमाणस्य प्रथमं प्रत्रर्तमानस्य पुरुषस्याममिति । तत्र— पुरुषार्थत्त्रपक्षेऽपि फलक्लृप्तिः प्रसभ्यते । तेनान्वाधानशेषः स्यात्स ह्यारम्भोऽनयोर्यतः || तस्याऽऽवृत्तौ तदङ्गत्वादेषाऽप्यावृत्तिमश्नुते । प्रधानवशवर्तित्वादेवं प्राप्तेऽभिधीयते ॥ न खल्त्रारम्भशब्देन पदार्थः कश्चिदुच्यते । यदेव ह्यप्रवृत्तस्य कर्तुराद्यप्रवर्तनम् || तत्रायं वर्तते शब्दस्तद्योगात्त पदार्थधीः । आरप्स्यमाणशब्दस्तःकर्तुः श्रुत्यैव वाचकः ।। लट्प्रस्ययोऽपि श्रुत्यैष तादर्थ्यस्याभिधायकः । आद्या प्रवृत्तिरेकैव बह्व्यो नैकस्य कर्मणः ॥ प्रथमप्रवृत्तिविषयतया ह्यन्वाधानमनेन प्रतिपाद्यते न श्रुया । न च श्रुतिसंभवे लक्षणा युक्ता | तस्मान्नाग्न्यन्वाधानसंबन्धः । दर्शादिकर्तुः पुरुषस्य शानचाऽभिहितस्य संस्कारिकेयमारम्भार्थतया लट्प्रयथेन क्रियार्थायां क्रियायामुपदे विहितेन प्रतिपाद्यते । अतो न पुरुषार्थत्वेऽपि फलंकल्पना । न चैकस्यैव कर्मणो बह्व्यः प्रथमप्रवृत्तयः संभ- वन्ति । किं वेकैव । ननु द्वितीयादीनपि प्रयोग नसावारमत एव | सत्यम् । प्रयोगानारभते न तु दर्श- पूर्णमासावारभते । दर्शपूर्णमासारम्भाङ्गं चेयं प्रथमप्रवृत्तिश्चाऽऽरम्भः । न च द्वितीयादि प्रयुञ्जानः प्रथमं प्रयुत इति शक्यते वक्तुम् । तस्मात्तदारम्भाङ्गत्वात्तस्य चाऽऽवृध्यभा बादारम्भणीया नावर्तते । " तस्यां तु स्यात्मयाजवत् ॥ ६ ॥ न वाऽङ्गभूतत्वात् ॥ ७ ॥ एकवा क्यत्वाच्च " ॥ ८ ॥ अग्निहोत्रचन्द्रिका | किंमःरम्मणीयायामारम्भगीया कर्तव्या नैति संशय: । नन्वभूतेयं दर्शपूर्णम सयोः । अतो दक्षिणीयादेिवदस्यां न कर्तव्या । तस्म द्द्वतार्थमेतत् । उच्यते – सत्यमङ्गभूता तथाऽपि पृथगारम्भा भवति । न प्रधानारम्भेण सिध्यति । नयस्यां वेलायामारब्धौ दर्श- पूर्णमासौ । तयोरारप्स्यमानये.रेषा विहिता । यदि चाऽऽरब्धौ भत्रेतां तत आरम्भणीयैव न कर्तव्या । सा हि कर्तारमारम्भयोग्यं कर्तुं क्रियते । तौ चेदारब्बौ किमर्था सा | तस्मादारप्स्यमानथोर्दर्शपूर्ण नासयोः क्रियमाणेयं पृथग रम्भा भवतीत्यतार्थवादस्यामारम्भ- णीया कर्तव्या । नैवम् । अशक्याऽसावतिदेष्टुम् | सा हीदानी विधीयते । दूरतरं च सस्या दर्शपूर्णमःसाङ्गत्वम् । यच्च प्रकृतःवज्ञातं न तद्विकृतावतिदेष्टुं शक्यम् । तदेतदेक- मेव वाक्यमविहितवदर्शपूर्गमासयोरेतां विदधाति । विहित नचातिदिशतीति न कथंचिद वकरपते । तस्मात्तद्व्यतिरिक्तेति कर्तव्यताऽतिदिश्यते । २१८ आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात्कृता पुनस्तदर्थेन ॥१९॥ स्यादा कालस्याशेषभूतत्वात् || २० || आरम्भवियोगाच्च ॥ २१ ॥ ( जै० पृ० मी० १२ । २ । १९ । २० । २१ ) सौर्यादिष्वारम्भणीया स्यान्नत्रेति विचारे न स्यादिति ब्रूमः । प्रकृतौ हि सकृदेत्रेयं कर्तव्या न प्रतिप्रयोगमावर्तनीयेत्युक्तं नवमे । यदि च सत्कृतयैवानया संस्कृत: पुरुषो याषज्जीवं संस्कृत एव भवति ततोऽस्याः सक्कःकरणं युक्तम् । अपवृक्त तु संस्करे पुनः पुनस्तत्सिद्धयर्थमनुष्ठातव्या स्यात् । तेन प्रकृत्यर्थं कृत एव संस्कारोऽनपक्तः प्रसङ्गेन विकृतीनामुपकरोतीति न तास्वारम्भणीया कर्तव्या | उच्यते- न संस्कारव्यत्रस्थानास्प्रकृतावनावृत्तिः किंचारम्नैक्यात् । आया हि कर्तुः प्रवृत्तिस रम्भः । स चैकस्य क्रतोरेक एव । अतस्तदपत्रर्गेऽपवृत एव तदर्थः संस्कारः कार्यवि- रोधित्वात् । धर्मस्य पुनः पुनः प्रोगे हि प्रयोगा एत्र मिद्यन्ते न क्रवारम्भः | ऋत्वा- रम्भाङ्गं चान्वारम्भणीया । दर्शपूर्णमासशब्दस्य ऋनुवचनत्वात् । तस्य पुनः पुनः प्रयोग आरम्भगीया । विकृतिषु त्वारम्भभेदाचोदक प्राप्ताऽऽरम्भया कर्तव्यैवाऽऽरम्भ- बेलायाम् । नन्वान्वारम्भणयोत्तरमाधानं सूत्रदीपिकायामहृतदत्त इति चेत्तदाऽपि नाग्निहोत्र. होमप्रसक्तिः । प्रतिपदि यागं साहोरम्भः | पूर्ण नासेष्टिपूर्त्राधानमिति तदाशय: । अयत्रा चतुर्दशामेवाऽऽधानमभितम् । अत एव प्रथमनक्षमस्वारसिकं बुधैव चतुर्मा सोदाहरणेन द्वितीय अन्यच्चान्चारमेष्टिपूर्वाधान मेवेष्टिपूर्वमाधान मित्यत्र लिङ्गमष्यस्ति । तदेतत्प्रदर्शयामः अचन्द्रिका | सान्वारम्भणीयमाथानम् इत्यापस्तम्बः । भावानं सान्वारम्भणयमिति विशिनष्ट | तस्मादस्त्य.ध. नस्यान्त्रारम्भया पाश्चाव्यवहितानन्तर्यरूपः संबन्धः । बौधा- यनोऽप्यन्वारम्भणीयां सूत्रयिवा सतिष्ठतेऽग्न्याधेयम् " इति सूत्रयति । तस्मादाधा- नस्यान्त्रारम्भण. यायाश्च संबन्धोऽवगतः । स च पै.र्णमास्याधनं विना न संभवति । तदे- तल्लिकं पौर्णमारयाधाने बौधायनानामिव्ययम् । अत एव काठके सूत्रितम् – “ आधानं चेत्पौर्णमास्यां पूर्वी तनूदेवताभ्य उपवसेदुसरामन्वारम्भणी यायै पर्वजे चेति " || अत एव पौर्णमास्यामादधानस्य सद्यस्कालामेव पौर्णमासीमभिप्रयन्ति बहवः । अनेने- ष्टिपूर्वमि युक्त इष्टिशब्देन दर्शपूर्णमासौ गृहीत्वा षड्यागसमाप्यनन्तरनेत्राग्निहोत्रं होतव्यम्। तथा च पौर्णमासं कृत्वाऽमावास्यावधि नास्त्यग्निहोत्रहो मारम्भ इति पौर्णमास्या नभी ना- धायान्वारम्भणीयां कृत्वा पौर्णमासमन्त्राधा या मिहोत्रारष्ट्यहनि याग इति बदन्तः परास्ताः | अत एव " संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत्" इति म्यायेनेष्टिपूर्व- भित्यत्रान्वःरम्भणीयेष्टिरेत्र माझा | अपि चेष्टिपूर्वाधान नास्ति सौत्रं प्रमाणमित्यभिलप- न्तोऽपि प्रत्युक्ता वेदितव्याः सादरम्भणीयमा धनमस्यापस्तम्बसूत्रादिष्टिपूर्वाधाननिति | प्रमाण यन्ति प्रमाणविदः । आपस्तम्बः – “ अमावास्थायां पनीयां वाऽऽधेय इति सामान्यतः सूत्रयित्वा पौर्णमास्तु पूर्वमित्यानुष्ठानं सूत्रयति । तथा च हृद्रदत्तोक्तो विरोधोऽपि नास्मान्रुणद्धि | अन्दपि पर्णमास्यां सद्य एव सर्व कार्यमिति विकल्पमेव सूत्रयांबभूवुः कल्पकाराः- सद्यो वा सद्यस्कालायां सर्वे क्रियते " इत्यापस्तम्बः । सद्यो वा सर्वे क्रियते " इति सत्याषाढः । “ सद्यो वा मातः " इति कात्यायनः । तस्य कर्काचार्यकृतं भाष्यमेवम् पौर्णमासे यह कर्तव्यमुक्तं तदेकस्मिन्ने चाहन्यग्न्यन्वाधानादिकर्मापवर्गान्तं भवति । अस्मिन्पक्षे प्रातः प्रतिपद्दिन एव सर्वमग्न्यन्वाधानादिकर्मापवर्गान्तं कार्यम् | न पूर्वेर- ग्न्यन्वाधानदिने प्रतिपदः प्रधानकालत्वात् । प्रधानकालस्य न्याय्यत्वात् । तत्र न्च व्रतोपायनीयाशनारण्याशनान्यतरागारशयनानि न भवन्ति । उक्तकालाभावाद्रागप्राप्ते २२. अग्निहोत्रचन्द्रिका । ब्वेवैतेषु द्रव्यादिनियममात्रविधानाच्च । न हि रागतस्तदानीमशनादीनि प्राप्नुवन्ति । तथा व सद्यस्कालां पौर्णमासीमामनन्ति कात्यायनप्रभृतयः । उक्तं हि तेन- --- “सन्धिश्चेत्संगवाद्धं प्राक्पर्यावर्तनाद्रवेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथि: " ॥ " संधिः प्रतिपस्पर्वसंधिः । पञ्चधा विभक्तस्य दिनस्य द्वितीयो भागः सङ्गवः । पर्यावर्तनं पूर्वाद्धपराह्वसंधिः । “ खर्विकां तृतीयां वाजसनेयिनः समामनन्ति " | अत्र कपर्दिभाष्यम्---अस्य सूत्रस्य चायमर्थः— तृतीयां पैौर्णमासीं खर्षिकां वाजसनेयिनः पठन्ति । द्वादशधा रात्रिं कृत्वा द्वादश- भागावशिष्टे यदा विप्रकर्षस्ता खर्विकेत्याहुः । अल्पकालावशिष्टायां राज्यां यदा पर्वकालः सा खर्विकेत्युच्यते । खर्बशब्दोऽल्पवाची । अथवा षोडशेऽहे पुरस्तान्मध्यंदिनाद्यदि स्यास्पर्वकालः सा खर्विका षोडशेऽहून्युपवासः । या त्वेषा खर्विका यस्याश्च पूर्वाद्धे पर्व- काळस्तयोः सद्यस्कालेति संज्ञेति सद्यस्कालप्रपथः । यहि यत्समापनीयं तत्सर्वमन्वाधानादियागान्तं प्रतिपदि समापनीयमिति यावत् । अन्यञ्च ये तु सूत्रकारैर्न सूत्रितमिति वदन्ति तैर्न्सयतः सिद्धं सौत्रप्रयोगे गृह्यते न वा । गृह्यते चेदिदमाधानं न्यायतः सिद्धमवश्यं प्राह्यमेव । न गृह्यत इति चेदपूर्वविधिपरिसं रूपाविधिनियमविधीनां दत्ताञ्जलितापत्तेः । न्यायतः प्राप्तमेव ह्याम्नायसिद्धं सूत्र्यते सूत्र. क्वद्भिः । प्रयोगशास्त्रापरनामधेयानि हि कल्पसूत्राण्यनुष्ठानायोपयुञ्जते याज्ञिकाः । एवं च न्यायसिद्धमिष्टिपूर्वाधानमनुवदति शबराचार्यः--- - श्वस्त्याधानं तत्रैषोऽर्थः समधिगतः । इष्टिपूर्वत्वं सोमपूर्वत्वं चेति । (५।४ १० पू० मी० ) मण्डनश्चैतन्मण्डयामासेत्यवादिष्म प्राक् । इतीष्टिपूर्वमाधानं सिद्धमिति निरत्रयः पन्थाः । होमपूर्वाधानम् । होमादग्निहोत्रहोमात्पूर्वमव्यवधानेन यदाधानं तदग्नीनाधायान्वारम्भणीयेष्टेः प्रागग्निहो- त्रारम्भः कृतश्चेद्धोमपूर्वं भवति । सवैरपि सूत्रकारैराधानानन्तरमग्निहोत्रसूत्रमेव सूत्रितम् । अनुष्ठानक्रमेणैव सूत्रणं युक्तम् । तत्रोपोद्घातादर्शपूर्णमासौ व्याख्यातौ । प्रसङ्गादत्तिदे- शस्तव्प्रसङ्गात्कालविधिस्तत्प्रसङ्गादेवाग्निहोत्रहोमप्रकार विधिः । एवं ह्याश्वलायनादिऋषीणां प्रयोगशास्त्रकृतां प्रयोगरचनाक्रमः । अतोऽत्र सूत्रकृतो रचनैव प्रमाणम् । अन्यच्चाऽऽअग्निहोत्रचन्द्रिका | २२९ हिता अग्नयो विहितनक्षत्रादिग्वमावास्यायां च ततः परं नास्तष्टे: काल: किंमनुष्ठेय मिति निरपेक्षमाणा इष्टया दिकम ग्निहोत्रहोममेव पक्षन्त इति । एतच नक्षत्राधानममावास्या- धानमार्ताधानमिति सिद्धम् । नक्षत्राधानपक्षेऽपि पूर्वेद्युरुपक्रमो नक्षत्रदिने मन्थनादि । अमावास्याधाने तु चतु. र्दश्यां ब्रह्मौदनान्तं कृत्वाऽमावास्या या मग्न्युत्पत्ति रिष्टयश्च सायमग्निहोत्रहोमः । तदेतत्स्पष्टमेव सूत्रयामासाऽऽचार्य आपस्तम्ब इष्टयन्तमाधानमुक्वा ततोऽग्निहोत्रहो मं सूत्रयित्वाऽध्येऽमा- बास्याधानविषयमेतदिति सूत्रयांबभूव । अतस्तेनैत्र न्यायेन पौर्णमास्यामपि पत्रमानेष्टयन- न्तरमेवाग्निहोत्रं जुहवामेति न वक्तव्यम् । सूत्रवैयर्थ्यात् । तानीमानि सूत्राणि यथाक्रमं निदर्शयामः- " सिद्धमिष्टिः संतिष्ठते " ( आपस्तम्बश्रो० सू० ५ | २२ | २ ) - ८८ अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽनुद्दुत्याऽऽहवनीये सग्रहं त्वय सायममित्रं जुहोति " || ( ५ | २२ | १० ) "दादशाहमजस्त्रेषु यजमानः स्वयमग्निहोत्रं जुहुयात्" ॥ ( ५ | २२ । १३ ) अमावास्यायामादधानस्यैतत् " ( ५ | २४९ ) इति । अमावास्याधानविषयं सूत्रयित्वा यावद्विशेषं पौर्णमास्यां सूत्रयामास । अत एवाऽऽधानं पौर्णमास्यां क्रियमाणमाधानं सान्वारम्मणीय मिति विशिनष्टि । तदेवेष्टिपूर्वत्वे लिङ्गम् । अत एव चामावास्याधानमपि होमपूर्व सूत्रत एव सिद्धि प्रापेत्युपरभ्यते । पूर्णाहुत्यन्तमाधानम् । इदमिदानीं संदिह्यते । इदमाधानमस्ति वा न वा । नास्ति चेत्संज्ञावैयर्थ्यम् | अस्ति चेकि प्रमाणमिति जिज्ञासामहे । तदेतन्मीमांसयामः । अस्तीति न संज्ञावैयर्थ्यप्रसङ्गः । प्रमाणं निदर्शयामः । तच्च साक्षात्सोमपूर्वाधानवदाम्नाय एव विदधाति यथा— । पूर्णाहुतिं जुहोति तत्पूर्णातिं जुहोत्यन्नादं वा एतमात्मनो जनयते यदामं तस्मा एतदन्नाद्यमपिदधाति । यथा कुमाराय वा जाताय वत्साय वा स्तनमपिदध्यादेवमस्या एतदन्नाद्यमपिदधाति । स एतेनान्नेन शान्त उत्तराणि हवींषि श्रप्यमाणान्युपरमति । तदाहु: - एतामेवाऽऽहुति हुत्वाऽयोत्तराणि इवीषि नाद्रियेतैतयैव तं काममामोति यमभिकाममुत्तराणि हवींषि निर्व- पतीति " || - अर्थवादेनोत्तराणि पवमानादीनि हवोषि न निर्वपेदित्युक्तम् । नवायं काम्यपूर्णाहुतेअग्निहोत्रचन्द्रिका । अक्षाभिहोमान्तम् । तदेतत्सा मबेदीयलाटचायनाचार्यप्रणीतश्रौतसूत्रे चतुर्थाभ्याये दृश्यते - २२४ हुतायां पूर्णाहुतौ यथार्थस्यात् | अक्षा श्वेदभिजुहुयुस्तत्र गत्वा तूष्णी- मुपवि॒शेस् ” ( ४ । १० | २२ ) अयं च ब्रह्मण उपदेशस्तूष्णीमुप विशेदिति । -- भाष्यम् – कचिदश्वर्यवोऽक्षाभिहोमं कुर्वन्ति । अक्षा नाम विभीतकफलानि । तद्य- यक्षानभिजुडुयुः । तत्र तस्मिन्गत्वा तूष्णीमुपविशेदिति । इत्यवासितः पूर्णाहुत्यन्ताद्याधान- विचार: । ५ इष्टयन्तम् । " पवमानहवींषि सद्यो निर्वपेत् " | ( आ० सू० ५ | २१ । १ ) भाष्यम् - पत्रमानहवींषि नाम त्रीण्यनन्तरं वक्ष्यमाणानि तानि सद्यः समानेऽहनि यस्मिन्नाधानं तस्मिन्नेव निर्वपेत् । इत्यापस्तम्बसूत्रं प्रमाणम् | अन्यच्च मीमांसकानां मते- नोच्यते । जैमिनिप्रभृतीनां मीमांसकानां मतेनेष्ट्यन्तमेवाऽऽधानं कृत्वैवान्यदारब्धव्यम् । तदेतत्संगृह्णीमः - “ संस्कृते कर्म संस्काराणां तदर्थत्वात् " । (जै० पू० मी० ५|३|२१ ) भाष्यम्—–पवमानेष्टिभिः संस्कृतेष्वनिषु कर्माणि वर्तेरन् । कुतः । संस्काराणां तदर्थत्वात् । संस्कारशब्दा एत आहवनीयादयः संस्कारस्य कस्यचिदभावे नाऽऽहवनी- यादिषु प्रतिपत्तिः स्यात् । तस्मात्संस्कृतेष्वमिषु कर्माणीति । सूत्रार्थस्तु–संस्कृते पत्रमानेष्टिसंस्कृतेऽसौ कर्माग्निहोत्रादि कर्माऽऽहवनीयशब्दस्य संस्का- रवाचितया संस्काराणां पवमानसंस्काराणां तदर्थत्वादग्निहोत्राद्यर्थः वादिति । ननु तर्हि पूर्णाहुतेः पूर्वं हूयमानं तूष्णीमग्निहोत्रमपि मीमांसकानां मते न स्यात् । मैषम् – तत्तु साक्षादाम्नायेनैव मीमांस्य निरणायि--- " ब्रह्मवादिनो बदन्ति होतव्यमग्निहोत्रा ५ इति न होतव्या ३ मिति यद्य- जुषा जुहुयात् । अयथापूर्वमाहुतीर्जुहुयायन जुहुयात् । अग्निः पराभवेत् । तूष्णीमेव होतव्यं यथापूर्वमाहुतीर्जुहोति नाग्निः पराभवति ” इति । तस्मात्तूष्णीमग्निहोत्रं होतव्यमिति सिद्धम् । एतद।म्नायसिद्धं मीमांसकानां मते पूर्वोक्तया रीत्या न होतव्यमित्यापनम् । तत्र का 1: । ब्रमः- गतिः D अग्निहोत्रचन्द्रिका | २२५ न ह्याम्नायविरुद्धा मीमांसा भवति । सूत्रयामास हि जैमिनिस्ती ननिहोत्रं होतव्य- मिति । यथा— अर्थवादो वाऽर्थस्थ विद्यमानत्वात् " | ( जै० सू० ५ । ३ । २४ । ) भाष्यम् – अर्थवादो वा अवै सृष्टम् अग्निहोत्रेणानुद्रवन्ति " इत्यर्थवाद एव । कुतः | अर्थस्य विद्यमानत्वात् । विद्यमानो हि तत्रान्य एवाग्निहोत्र- होमः । कथं होतव्यम् । अग्निहोत्रं न होतव्यम् । इति मीमांतोपरि प्रदर्शितैवेति । तस्य तूष्णहोमस्य प्रशंसार्थोऽपमर्थवाद इति । तस्मात्तृष्णी मनिहोत्र.विरे, धिनी जैमिनीयमीमांसा नास्ति । अपि तु नित्याग्नि क्षेत्रं पत्रमानेष्टीः कृत्वा कर्तव्यम् । इति जैमिनिमतं केषांचि- त्कल्पकाराणाम् । तदेतदिष्ट्यन्तमाधानमिति जे घुश्यते मीमांसकशिखामणेिभिः । · तदेतत्सर्वम् “ यदि स्विष्टयस्तनुयुः " इयाश्वायनसूत्रे व्याख्यौ । नवं यथा- स्थितं मीमांसामतं व्याख्याय चाऽऽश्वलायनाचार्यस्य तदेव संमतमिति चानुमन्यते वृत्ति- कृत् । वयं तूभयथाऽभ्युपगच्छामः । शतपथकातीयसूत्रतद्भाष्यकारप्रामाण्यात् । तदेतदाधा- नस्य तित्रो विधाः सामवेदीय सूत्रकारलाट्यायनाचार्येण सूत्रिता:- अग्न्याधेयान्तान्कुर्वते पूर्णाहुतिमक्षाभिहोममिष्टीरिति ( ४ । १२ । १३ ) द्राह्मायणोऽप्येवमेव | भाष्यम् -- अग्न्याधेयस्यान्तान्कुर्वतेऽभ्वर्यवे पूर्णाहुत्यादि । केषां चित्पूर्णहत्यन्तम् । केपांचिदक्षाभिहोमान्तम् । केषांचिदिष्टयन्तम् । इति । तदेतदाधानं षड्विधं विचारितम् | तद्विषयकाणि प्रमाणान्यप्युपन्यस्तानि । अनुष्टा- नपद्धतिश्च पूर्वेषां पाणां प्रदर्शिता । उत्तरेपां त्रयाणां त्वाधानपद्धती प्रदर्शितैव । तत्राक्षाभिहोमो नास्त्यापस्तम्ब्रेन सूत्रित इति न मीमांसितोऽस्माभिः । अत एत्र केां- चित्स होम इत्यपि निर्दिष्टं लाट्यायनाचार्येणेत्युपरतम् । . तदिदमनुष्ठानपूर्वं विचारितम् । तथाऽपि विशयमानानामर्थे पुनर्निंगमयामि । पौर्ण- मास्यां तु ' इत्यापस्तम्बसूत्रादिष्टिपूर्वाधानं सौत्रमिति जानन्तु सुत्रियां वराः | तत्राजस्त्रबारणादिविचारः स्वतन्त्रतयाऽऽवानपद्धतौ प्रपञ्चितः । तत्र वृत्तिकारमतं यदु- पन्यस्तं तत्तु प्रथमाग्निहोत्रव्यतिरेकीनि ज्ञेयम् । इष्टि मोमपूर्वेऽजनधारण नास्तीति तदीयः सिद्धान्तः | २२८ अग्निहोत्रचन्द्रिका | यदीतराणि न विद्येरन्नप्यनड्वाहमेव दध्यात् । अनडुहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति ॥ ४२ ॥ देवे अग्नौ देवो अग्नि- रिति द्वयोरनूयाजयोर्विभक्ती दधाति ॥ ४३ || नोत्तमे ॥ ४४ ॥ उच्चैरुत्तमं संप्रेष्यति ॥ ४५ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ४६ || आनिवारुणमेकादशकपा- लमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने द्विदेवत्यानां वा ॥ ४७ ॥ सिद्ध- मिष्टिः संतिष्ठते । संतिष्ठते पुनराधेयम् || ४८ || यस्तृतीयमादधीत स एता- न्होमाञ्जुहुयाल्लेक: सलेकः सुलेक इति ॥ ४९ || यदरण्योः समारूढो न- श्येत् ।। ५० || यस्य वोभावनुगतावभिनिम्रोचेदभ्युदयाद्वा पुनराधेयं तस्य प्रायश्चित्तिः ॥ ५१ ॥ पुनराधेय मित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आले- स्वनः ॥ ५२ ॥ पुनराधेयं व्याख्यास्यामः ॥ १ ॥ वृत्तिः --- आहिता अग्नयः पुनर्विधानान्तरेणाऽऽधीयन्ते यस्मिन्कर्मणि सत्पुनराधेयं नामाग्न्याधेयस्यैव गुणविकारः ॥ १ ॥ तस्याग्न्याधेयवत्कल्पः ॥ २ ॥ वृत्तिः—गतः ॥ २ ॥ अग्नीनाधार्येतस्मिन्संवत्सरे यो ननुगात्स पुनरादधीत मजाकाम: पशुकामः पुष्टिकामो ज्यान्यां पुत्रमर्त्यायां स्वेष्वारुध्यमानेषु यदा वाऽङ्गेन विधुरतां नीयात् ॥ ३ ॥ वृत्तिः—यो ननुयादिति प्रजापश्वादिहान्या व्यृद्धिनिमित्तमुच्यते । नद्धर्थभावमात्रं प्रभां पशुं यजमानस्योपदोद्रावेति लिङ्गात् । आधानाद्यद्यामयावी यदि वाऽर्था व्यथेरन्नित्याश्व- लायनवचनाच्च । ज्यानिर्व्याधादिभिर्बाधः । पुत्रमर्त्या पुत्रमृतिः । स्वेषु ज्ञातिष्वारुध्यमानेषु बलवद्भिः परैर्निंगृह्यमाणेषु । यदा वाऽङ्गेन हस्तपादादिना विधुरतां नीयाद्विकलतां गच्छेत् । एतस्मिंन्संवत्सर एतेषु निमित्तेषु कामेषु वा संजातेषु पुनरादधीत | केचित्रन्त्यं निर्मित्तं यदा वेत्यत्रिशेपात्सार्वकालिकं मन्यन्ते । अन्ये तु मजाकामप्रभृत्येतस्मिन्संवत्सर इति नानुवर्तयन्ति । तदुभयमध्ययुक्तम् । सर्वदोपात्तस्य कालस्य सर्वान्प्रत्यविशेषात् । यदा वेति च निमित्तनिर्देशप्रकारत्वाच्च | व्यक्तं चाऽऽह सत्यापाढ:- य एतस्मिन्संव- त्सरे ज्यानं पुत्रमर्त्यो वाऽभ्येति स्वेन वाऽङ्गेन व्यृध्यते न बनति स पुनराधेयं कुर्वीतेति । तथा च बौधायन : – अग्नीनाधाय पापीयानभूषमज्यासिषि पुत्रो मृत इत्ये- तस्मिन्नेव संवत्सर इष्टं भवतीति ॥ ३ ॥ -अग्निहोत्रचन्द्रिका | २२९ आग्नेयमष्टाकपालं निर्वपश्वानरं द्वादशकपालं वारुणमेकादशकपालमग्नये - सुमतेऽष्टाकपालं मैत्रं चरुमग्निमुद्दासविष्यन् || ४ || वृत्तिः -- केवलवैश्वानरचोदनामु वैश्वानर एव देवता न तु तद्गुणकोऽग्निस्तस्याश्रव णादिति केचित् । तत्तु मन्दफलं बहुमन्त्रब्राह्मणकल्प विरोधात् । इतरथाऽप्यश्रवणोपपत्तेश्च । तथा हि मन्त्रास्ता६द्य।ज्यानुषाक्यादयस्तद्गुणाझिलिङ्गा एव | यथा ‘वैश्व नरो अजीजनत् ' पृष्टो दिवीत्यादयः । ब्राह्मणेऽपि वैश्वानरं द्वादशकपालं निर्बपेदिति विधाय संक्सरो वा अग्निर्वैश्वानर इति वाक्यशेष आम्नातः । सूत्रकारोऽपि वायव्यपशावग्नये वैश्व नराय द्वादशकपालं पशुपुरोडाशं निर्वपतीत्युत्तत्वा तमेव न्यत्रापि विकल्पयन्नाह – यः कश्चनःग्नौ पशुरालभ्यते वैश्वानर एवास्य द्वादशकपाल: पशुपुरोडाशो भवतीले इति । तथा यदस्य पारे रजस इति वैश्वानराग्निलिङ्गामृचं विनियुङ्गे वैश्वानर्या परिति । वायनेना- प्युक्तं वैश्वानरमवदायाऽऽहाग्नये वैश्वानरायानुगृहीति । भारद्वाजेनापि वैश्वानरं द्वादशक निर्वपेदित्यनुवाकाम्नातान्त्रैश्वानरान्व्याचक्षाणेनोक्तम् – अग्नये वैश्वानराय पुरो- डाशं द्वादशकपालं निर्वपतीति | यश्वग्नेरश्रवण मुक्तं तदपि तद्धितवृत्तित्वादुपपन्नम् । यत्र तु सगुणदेवतासंबन्धस्तद्धितवृत्त्या विवक्षितस्तत्र गुगशब्दादेव तद्वितः क्रियते । गुणी त्वश्रुतोऽपि वाक्यशेपादिनाऽवसीयत इति पन्थाः । यथा वैमृथो गृहमेघीयः पाथि- कृतीत्यादौ । तस्मात्सिद्धं केवल वैश्वानरचोदनास्वपि अग्नि देवतेति । उद्वासविष्य निति वक्ष्यमाणकाला दुवासनापूर्वस्कल इत्यर्थः । आग्नेयमष्टाकपालं निपश्वानरं द्वादशकपालमग्निमुद्दासयिष्यन्निति । काम्येष्टिष्याम्नाताया द्विहविषोऽपीटेरनया विकल्प. मिच्छन्ति ता ब्रह्मणव्याख्याता इति तस्या अप्युपसंग्रहात् ॥ ४ ॥ पा या ते अग्न उत्सीदतः पवमाना प्रिया तनूः । तया सह पृथिवीमाविश रथंतरेण साना गायत्रेण च च्छन्दसा । या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः । तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टभेन च च्छन्दसा । ततो न ऊर्जमाकृषि गृहमेधं च वर्धय | या ते अग्ने सूर्ये शुचिः प्रिया तनूः शुक्रेऽध्यधिसंभृता । तया सह दिवमाविश बृहता साम्ना जागतेन च च्छन्दसा ततो नो दृष्टयाऽवत । यास्ते अग्ने कामदुधा विभक्तीनुसंभृताः । ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम् | यास्ते अग्ने संभृतीरिन्द्रः सूकर आरभत् । तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् ॥ ५ ॥ ये ते अग्ने वानस्पत्याः संभारा: संभृताः सह । तेभिर्गच्छ वनस्पतीन्स्वां योनं यथायथम् । अगन्नग्निर्यथालोकमसदत्सढ़ने स्वे । अवरहन्यं देवेषूपागां मनसा सहेति पुरस्तात्स्विष्टकृत सप्ताऽऽहुत होनि ॥ ६ ॥ वृत्तिः — जयवव्याख्या ।। ६ ।। अग्निहोत्रचन्द्रिका | सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्निहोत्रं जुहोति ॥ १९ ॥ वृत्तिः--अननैवात्र पूर्वाहुतिः । न तूष्णीम् | नापि द्वादशगृहीतमग्निहोत्रस्य स्थाने भवति । मन्त्रत्रर्णा त्वग्निर्देवता | प्रातर्होमविकारत्वं च पूर्ववत् ।। १९ ।। आत्रेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा ॥ २० ॥ २३२ वृत्तिः : -गतः ॥ २० ॥ यदि पञ्चकपालो गायत्र्यौ संयाज्ये | यद्यष्टाकपालः पङ्क्तयौ ॥ २१ ॥ बृत्तिः-

– यस्य जुषद्विना हि त इति गायत्र्यौ । पौ स्वयमेव दर्शयिष्यति॥२१॥

सर्वमानेयं भवति ॥ २२ ॥ वृत्तिः -- यदस्यामिटौ हविर्देवतासंयुक्तं तत्सर्वमान्नेयं भवति । विकारान्स्वयमेव तत्र कर्तव्यान्वयति ॥ २२ ॥ पञ्चदश सप्तदश वा सामिधेन्यः ॥ २३ ॥ वृत्तिः : --गतः ॥ २३ ॥ सामिषेनीप्रभृत्युपांशु यजत्योत्तमादन्याजादुच्चैः स्विष्टकृतम् ॥ २४ ॥ बृत्तिः—यजतिरत्र प्रकरणार्थः । उच्चैरुत्तमं संप्रष्यतीति लिङ्गात्तेनोपांशु प्रचरतीति श्रुतेश्च | तेनाध्वर्युनिगदा अप्युपांशवो भवन्ति ॥ २४ ॥ अथ याजुर्वेदिकहौत्रार्थे याज्यानुवाक्यासु होतुर्विकारानाह- अथानेऽशाबग्नेऽग्निनाग्नेऽग्निमन इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्द- धाति ॥ २५ ॥ वृत्तिः – अनेनाऽऽदितश्चतुर्पु प्रयः जेषु याज्यागताना माग्नेयशब्दानां पुरस्तादावापिका- न्त्रिभक्सग्निशब्दान्निधाय पाठ : प्रदर्श्यते । तद्यथा समिवो अग्नाग्न आज्यस्स वियन्तु । तनूनपादग्नावग्न आज्यस्य वेत्यादि । अग्नावित संबुद्धे रूपं द्रष्टव्यम् ॥ २५ ॥ नोत्तमे ॥ २६ ॥ वृत्तिः– प्रयाज नूया जेष्येव विभक्तीः कुर्यादित्यविशेषश्रुतेः । पूर्वसूत्रेण प्रयाजचतु. ष्टये विभक्तिचतुष्टयनियमाच्च । पञ्चमेऽप्यनियमेन न्यायात्काचिद्विभक्तिः कार्येति भ्रमो मा भूदित्यारम्भः ॥ २६ ॥ विभक्तिमुक्त्वा मयाजेन वषट्करोति ॥ २७ ॥ वृत्तिः - अथ वा विभक्तिमुक्या प्रयाजयाज्यया वषट्करोति । याज्यायाः पुरस्ताद्वा अग्निहोत्रचन्द्रिका | २३३ त्रिभक्तिं दधातीत्यर्थः । तद्यथा अग्ना समिश्रोऽग्न आज्यस्याग्नौ तनुत्पादन आज्यस्य चेत्वित्यादि |॥ २७ ॥ यं कामयेतंवादिति तस्योपरिटाये यजानहाद्विभक्ति दध्यात्पुरा वा वष- टूकारात् ॥ २८ ॥ वृत्तिः– काम्याबिमाचपरौ कल्यौ | ये यजमादुरिटमाइतेभ्यश्च पुरस्ताहि क्तिरित्येकः कल्पः । तद्यथा – ये यजामहेऽरना भूर्भुवः स्वः सनिधोऽग्न अवस्य । ये यजामहेऽग्ने भूर्भुवः स्त्रस्तनपादित्यादि । पुरा गदिति द्वितीयः । तत्र प्लु,तश्च विभक्तावेव भवति । तद्यथा — वियन्त्रग्ना ३ वडियादि || २८ ।। - अनि स्तोमेन बोधयेत्याग्नेयस्याऽऽज्यभागस्य पुगेनुवाक्या भवति । अन आयूंषि पवस इति सौम्यस्य ।। २९ ।। वृत्तिः [: - अत्र देवतानिगमेषु सोमस्य स्थानेऽग्नि पत्रमानं निगनथैयुः। यथाऽनने पवमानायानुङ्गृहीत्यादि |॥ २९ ॥ अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् ॥ ३० ॥ वृत्तिः—अस्मिस्तु पक्षेऽग्निमेव केवलं निगदेयुरिति शेषः ॥ २० ॥ प्रजाकामपशुकामस्य प्रजाव्युद्धपशुयुद्धस्य वा ॥ ३१ ॥ वृत्तिः- (: – प्रजया व्युद्धो नष्टप्रजः । तथ पशुव्वृद्ध पासपर्नृति सम्बन कुर्यात् ॥ ३१ ॥ अग्निन्यक्ताः रत्नीसंयाजानामुचो भवन्ति || ३२ || वृत्तिः- तः – याः पत्नीसंयाजानामृचोयाश्यानुक्यास्ता अभिव्यक्ता निषिताग्निशब्दा भवन्ति । तास्वृक्षु देवताशब्देभ्यः परं तसमानया विभक्त्याऽग्निः प्रक्षेतव्य इत्यर्थः । यथा विश्वतः से माग्ने वृष्णियमियादिनोक्तः पत्नीसंयाजो विक्रियते । तस्य स्वयमनाने- यत्वात् । सर्वाग्नेयार्थत्वाच्च विकारस्प | तथा च ब्रह्मगम् – अग्निचक्ताः पनीसंयाजाना- मृचः स्युः । तेनाऽऽग्नेयं सर्वं भवतीति | ऋच इति वचनाञ्च ना ध्वर्युनिगनेषु विकारः । आज्यभागानन्तरं व्युत्क्रमेण पत्नीसंयाजवचनमुत्तरसूत्रे नोनयेषां विकल्पविधानार्थं ब्राह्मणानुसारार्थं च || ३२ ॥ अपि वा यथापूर्वमाज्यभागावेवं पत्नी संयाजाः ॥ ३३ ॥ बृत्तिः– यथापूर्वं यथाप्रतीत्यर्थः ॥ ३३ ॥ २३४ अग्निहोत्र चन्द्रिका | अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे आनेयस्य द्वे स्विष्टकृतः ॥ ३४ ॥ - वृत्तिः -- आदितो द्वे प्रधानस्य | परतो द्वे स्विष्टकृतः । अष्टकपालपक्षे यदि पञ्च- कपालो गायत्र्यौ संथाज्ये यद्यष्टाकपालः पट्र्याविति नियमात् ॥ ३४ ॥ पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति ॥ ३५ ॥ - 1 दृत्तिः - अभितः पुरोडाशं पुरोड शेज्यायाः पुरस्तादेकामुपरिष्टादन्यामित्यर्थः पुरोडाशस्योपर्यधश्चेति केचित्तदयुक्तम् । उत्तरविकलानौचियात् । अभितो वपां जुहो- तौति श्रुतेः । सूत्रूकतैवान्यथाव्याख्यानाञ्च || ३५ ॥ पुनरूजेति वा पुरस्वात्मयाजानां सह रय्येत्युपरिष्टादनूयाजानाम् ॥ ३६ || वृत्तिः—गतौ ॥ ३६ ॥ एतद्वा विपरीतम् ॥ ३७॥ वृत्तिः—उपरेिष्ट.त्प्रयाजानां पुरस्तादनूयाजानामित्यर्थः ॥ ३७ ॥ उभय दक्षिणा ददाति ॥ ३८ ॥ आग्न्यायिकी: पौनराधेयिकीच पुनर्निष्कृतो रथ इत्येताः शतमानं च हिरण्यम् ॥ ३९ ॥ - वृत्तिः — पौनरावेयिकश्च पुनर्निष्कृतो रथ इत्येता इत्यन्वयः | उक्ता होता ब्राह्मणे पुनर्निष्कृतो रथो दक्षिणा पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनड्डानिति । तत्र पुनर्निष्कृतः पुनः संस्कारेण नवीकृतः । पुनरुत्स्यूतमुत दाढर्या सूत्रैस्पूनम् । पुनरुत्सृष्टोऽषसन्नो गौः । तथा बौधायन: - पुनर्निष्कृतो रथो दक्षिणेति पुनः संस्कृत एत्र भवति । पुनरुत्स्यूतं वास इति पुनः संस्कृतमेवैतद्भवति । पुनस्सृष्टोऽनड्डा निति । अत्रशीर्णगव एवैष उक्तो भवतीति । शतमानं हिरण्य मित्युक्तम् । तत्र किं रजतस्यापि हिरण्यस्य दानं लभ्यते नेत्याह ॥ ३९ ॥ तस्माद्रजतं हिरण्यमित्युक्तम् ॥ ४० ॥ वृत्तिः— ब्राह्मगे तस्माद्रजतं हिरण्य मित्यारभ्य तस्माद्वर्हिषि न देयमित्युक्तम् । ततः स्वर्णमेव देयमिति भावः ॥ ४० ॥ पुनरभिहितो रथः पुनरुत्स्यूतं स्थामूलं पुनः कामस्याऽऽप्या इत्येकेषाम् । ॥ ४१ ॥ वृत्तिः - पुनरभिहितः पुनः संस्कृतः । स्वामूलं वासोविशेषः । यथा स्यामूलेन अग्निहोत्रचन्द्रिका | २३५ क्षौमेण वाऽश्वं संज्ञपयन्तीत्यादौ । विकल्पते चैतद्वयं पुनर्निष्कृतादिभिः | पुनः काम्यत इति पुनःकाम: पुनराधेयफलम् || ४१ ॥ यदीतराणि न विद्येरन्नप्यनड्वाहमेव दद्यात् । अन्डहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति ॥ ४२ ॥ वृत्तिः–अनड्बानिति पुनरुत्सृष्ट एवं गृह्यते । यतिराणि न विद्येरन्नितीतरशब्द- सामर्थ्यात् । स चाऽऽग्न्यायिकीरपि निवर्तयति । अनड्वाहमेवेन्यवधारणात् ॥ ४२ ॥ देवे अग्नौ देवो अनिरितिद्वयोरयाजयोविंभक्ती दधाति ॥ ४३ ॥ वृत्तिः - तद्यथा देवे अग्नौ बर्हिर्देवो अग्निर्नर, शंस इति ॥ ४३ ॥ नोत्तमे ॥ ४४ ॥ वृत्तिः– व्याख्नात उत्तमप्रयाजेन ॥ ४४ ॥ उच्चैरुत्तमं संप्रेष्यति ॥ ४५ ॥ वृत्तिः-संप्रेष्यतीति प्रदर्शनार्थम् । याज्याऽप्युच्चैरेव । यथोक्तमुपांशु यजयोत्तमादनू, याजादिति ॥ ४५ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ४६ ॥ वृत्तिः : -गतः ॥ ४६ ॥ आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने द्विदे- वत्यानां वा ॥ ४७ ॥ - वृत्तिः – द्वितीयस्मिन्पक्षे पवमानहविपामन्त आग्निवारुणः | तदन्त आदित्यस्तदन्ते 'वैष्णव इति क्रमः ॥ ४७ ॥ सिद्धमिष्टिः संतिष्ठते । संतिष्ठते पुनराधेयम् ॥ ४८ ॥ वृत्तिः—गतौ यथाऽग्निहोत्रादीनि प्राप्ते काले भवन्ति । नन्वारम्भार्था दशहोत्रादय इति प्रागेव दर्शितम् ॥ ४८ ॥ यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेक : सलेक: सुलेक इति ॥ ४९ ॥ वृत्तिः— अथ तृतीयाधाने कश्चिद्विशेष उच्यते । तत्र यः पराचीनं पुनराधेयादग्नि- मादधीत स एतान्होमाञ्जुहुयादिति । श्रुत्यनुरोधात् । यः प्रथममग्नीनाधाय ततो द्वितीयं पुनराधेयं कृत्वा पुनस्तृतीयमाधत्ते | विशेषत्रचनात् । तस्यैते होमा भवन्ति । यथा- कथंचिद्वा तृतीयाघाने विशेषावचनात् । तथाऽन्यत्र मीमांसा | किं तृतीये पुनराधन अग्निहोत्रचन्द्रिका | 1 एते होना आहोस्त्रिदग्न्याधेय उतोभयस्मिन्निति | प्रकरणात् पुनराधेय इति केचित् | अग्नि, मादधीतेति श्रुनेरग्न्याधेय इत्यन्ये । उभयस्मिन्नित्येव सूत्रकाराभिप्रायः । यस्तृतीयमादधी- सेनविशेषवचनादेव । तथा चोभयनाह बौधायन:- अयेदं तृतीयावयं कतरन्नु खल्विदमुप- निश्रयसग्न्यावेयं पुनरावेयं वेत्यग्न्याधेयमेवेति ब्रूयादिति । तथा पुनराधेयनिधानानन्त रमाह तृतीयमादवान अभियस्य पञ्चकपालत्य पुरस्ताविष्टः स्रुबाहुती रुजुहोति देकः तलेकः सुलेक इति । एतैनैवान्य धेयकल्पनेमा हे, मकालो व्याख्यातः ॥ ४९ ॥ अथ प्रायश्चित्तं पुनराधानमपि मनङ्गःदत्रैवोपदिशति- पदरण्योः समारूढो नग्येत् ॥ ५० ॥ वृत्तिः—पुनधेिय प्रायश्चितिरितिवदयम. जेन संवः । तत्र समारूढेष्वग्निष्वरणि- नाशोऽग्निनाशः । यथे.क्तनाश्वलायनेन – समारू देश चारणीनाश इति । स चरणिनाशो द्विविधः । शक्तिनाशः स्वरूपनाशश्च । तत्र शक्तिन. शो मन्थनासामर्थम् । रूरूपना शरत्वपहरणदाहदुषण दिन्नाऽनेकविधः पतिः । यामधिकृत्य स्मर्यंत उपहतानामुन्सर्ग इति तदेवमरोरुमय वचनाशे पुनराधेयम् तत्र शक्तिनाशेऽनुग्रह- माह भारद्वाजस्तत्र च लौकिकासबुन वराहणं स्यादिति | स्वरूपनाशेऽप्याह बौधा. यन:- - अपहृताग्नेर्नष्टा रण.कस्य चोदनेनैव प्रतिपय सिग्न्याधेयं कामनष्टेषु चाऽपहृ ेषु बाऽग्निषु नाऽऽद्रियेतःग्न्याधेयम् । आधानप्रभृति यजमान एवाग्नयो भवन्ति । तस्य प्रणो गार्हपयोऽपानोऽन्वाहार्यरचनो व्यान आहवनीय: काममुपावरोह्य जुहुया- दिति । अथोत्तरःरणेरुमयविवनाशेऽप्याह मारद्वाजः -अथ यद्युत्तररारणिः समारूढा जीर्येन्नइये - द्वाडवर.रण्या अइलेति विज्ञायत इति आहृन्थेत्यधर.रणी छित्त्रैक: खण्ड उत्तरारणी- नाऽऽहर्तव्य इत्यर्थः । एवं चावर, रणिस्वरूप नाशे पुनरावेयमेवेत्युक्तं भवति । आहवनीया- देतु समारूढस्यारर्णनाशे चुनयोनिन उत्पत्तिमिच्छन्ति । स्वयोनौ विद्यमानेऽयन्तोत्सादायो- गात् । अथःसमारूढेऽग्नावरणीनो को विधिः । किमत्र प्रष्टव्यम् । यदा श्रियमाणोऽभि- रनुगतोऽरणी अपेक्षिष्यते तदा गत्यभावादावानं भविष्यति । तथा छन्दोगपरिशिष्टे काव्या- यनः—अरण्योः क्षयनाशनिदा समाहितः पायेदुपशान्तेऽ। पुनराधान मिष्यत इति । तथाऽप्यनुग्रहमाह भारद्वाज - यद्यरणी समारूढा जीयेंद्भिदुष्येवा शकली कृत्य गार्हपत्यं प्रदीप्य प्रक्षिप्य प्रज्वाल्याऽऽदत्ते दक्षिणेनोत्तराराण सव्येनाधरारणिमुपर्यनौ धार यञ्जपति उत्तिष्ठग्ने प्रविश योनिमेत देवयज्यायें त्वा वोढवे जातवेदः । अरण्योररणी अनु- संक्रमस्व जीर्णां तनुमजीर्णया निर्णुदस्वेति । अथैनं स्वेन मन्त्रेण स्त्रयोनौ समारोप्य मथित्वाऽऽग्नीविहृत्य जुहुयात् । स्सेन मन्त्रेण समारोपणमन्त्रेण स्वयोनावरण्योर्विहृत्य जुहुयात् । यथाकालं विहृत्य तत्तोमादिकार्थं कुर्यादित्यर्थः ॥ ५० ॥ अग्निहोत्रचन्द्रिका | २३७ यस्य बोभावनुगतावभि निम्रोचेदभ्युढ़ियादा पुनराधेयं तस्य प्राय- वित्तिः ॥ ५१ ॥ वृत्तिः~~वाकारः समुच्चयार्थः | उमाविलग्न्योः परःमर्शः । अनुगतशब्दसमभित्र्या- हारात् । तौ च गार्हपत्य.हबनीयो प्राधान्यान् | निम्रचननस्तमयः । तदवमर्थः—अग्नि- होत्रार्थ विहृतमजस्त्रं वाऽऽहवनीयं गार्हपत्यं च भावनुगनाभि सूर्यो निर्वाचदृदियावा तस्य पुनर वेयं प्रायश्चित्तिरिति । केचिपुनरत्राविहृत अवहनीये केवळगार्हपत्यानुगमनेऽ- प्युभयानुगतिमिच्छन्ति पश्चाद्धि स तर्हि गत इति लिङ्गेना विह्वतःवस्थायाम हवनः यस्य गार्हपत्यानुप्रवेशानुगमनात् । तत्तु न मृष्यामहे । कस्नात् । प्रभाविश्यनेन तःबद्वरो- धात् । न ह्येकोऽग्निरुभाविति शक्यते व्यपदेष्टुम् । न च यथोक्तालाहवनीयस्य गार्हपत्यानुप्रवेशसिद्धिस्तस्यान्यपरत्वात् । अस्तु वाऽनुप्रवेशः । तथाऽप्यनुप्रविष्टोऽयमानुमा- निकोऽग्निरश्वत्थस्थाग्निवन्नाग्नित व्यवहारभाजनं भवितुमर्हति । प्रत्यक्षामिगोचरत्वात्सवीग्नि- ब्यवहाराणां यथाऽन्तर ग्नी तिष्ठन्यदि गार्हपसाहवनीयावित्यादि । किं चानुगमनव्यवहारोऽपि प्रत्यक्षाग्निनाशगोचर एव दृष्टः । यथा यदि पूर्वोऽनुगतः । यदि गार्हपय अहवनीयो वाऽनुगच्छेदित्यादि । तथा परोक्षव्यतिरेकश्च दृष्टः । यदरण्योः रुमाकूडो नश्मेदिति । किं चैवं परोक्षस्य,प्यग्नेरनुगमनमिच्छतः सर्वत्राविनावस्थायां गार्हपत्यानुगताबाहवनीया. नुगतिप्रायश्चित्तनपि प्रसज्यते । तथोभयसंसर्गात्संसर्गप्रायश्चित्त द्यपि प्रसज्जयितव्यम् । तस्मात्सिद्धं न केवलगार्हपत्यानुगमनम् | उभयानुगमनमिति । न चोभावनुगतावित्युभया- भावमात्रलक्षणेति युक्तम् | मुख्यार्थसंभत्रे लक्षणाश्रयणस्यायुक्तत्वान् | तस्माद्रियमाणोन- यविनाशविषयोऽयं विधिरित्येव सांप्रतम् । एवं चाविहृतावस्थायां केवलगार्हपत्यानुगनने सतोरप्युदयास्तमययोरनुगतिप्रायश्चित्तमनुरणप्रायश्चितं च कृत्वाऽग्निहोत्रहोमः कार्य इति सिद्धं भवति ॥ ५१ ।। पुनराधेयामित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आलेखनः ॥ ५२ ॥ वृत्तिः - आलेखनमतप्रदर्शनेनैव विकल्प सिद्धावाश्मरथ्यमतप्रदर्शनेन स्वमतसंवादः ख्याप्यते–पुनराधेयं प्रत्यादरविशेषार्थमिति वेदितव्यम् ॥ ५२ ॥ पुनराधेयसूत्राणि रुद्रदत्तकृतवृत्तिसहितानि प्रादर्शयम् । प्रयोगस्तु आधानप्रयोगान्न विशे- षतो भिद्यते । यत्रःस्ति भेदः स सूत्रत एवावगन्तुं सुशकः । अतस्तदर्थं न पृथग्यत्नोऽनु- ष्टीयते । आधानपद्धतिस्तु सर्व सामान्यप्रयोगं दर्शयिष्यति । विशेषप्रयोगमेदं तु दीपिका कृत्प्रदर्शयिष्यति । केवलं हौत्रसूत्रमात्रमत्र भाग्यसहितं प्रदर्शयिष्यामः । अन्यत्रं तु प्रकृत्या समानमेवेति तत एवावगन्तव्यम् । J २४० ना० वृ॰—नित्यः आचार्यः ॥ ८ ॥ अग्निहोत्रचन्द्रिका | केवलोऽग्निर नुवाक्या च ।' अग्निवृत्राणि ' इत्यनुब्राह्मणिन अन आयूंपि पवस इत्युत्तरम् ॥ ९ ॥ , दे० भा० - अग्न अ.यूंपि पवस इति चोत्तरमाउनभागम् । एते अनुवाक्थे । अन्यस्मिन्पक्षे ‘ अग्नयेऽनुब्रू ३ हि, अग्नये पवमानायानुब्रू ३ हि ' इति मैषौ भवतः । यथाऽध्वर्युर्येन गुणेन प्रैषमाह तथाऽनुवृत्तिरिज्या च प्रयोक्तव्या ॥ ९ ॥ ना० वृ० उत्तरोऽपि केवलोऽग्निरियं चानुत्राक्पाऽनुब्राह्मणिनामे (नस्यै) वाभिमा- येण ॥ ९ ॥ नित्यस्तूत्तरे हविः शब्दः ॥ १० ॥ दे० भा०. - आज्यभाग आग्नेयेऽपि सति नित्यस्तु अच्युतो हविःशब्दः । तुशब्दः प्राप्तव्यावृत्त्यर्थः । १० ॥ वृत्तिः - उत्तरे याज्यामन्त्रे हवि: शब्दस्य सोमधर्मःवात्तभिवृत्तौ तस्य निवृत्तिप्रसङ्गे तत्स्थानापन्नत्वादग्नेरपि तद्धर्मसंबन्ध इति मत्वा नित्यस्त्वित्युक्त गन् ॥ १० ॥ आग्नेयं हविरथा ह्यग्ने क्रतोर्भद्रस्याऽऽभिष्टे अद्य गीर्भिर्गुणन्त एभिन अर्कैने तमाश्वं न स्तोमैरिति संयाज्ये देवं बर्हिरनेर्वसुवने वसुधेयस्य वेतु देवो नरा- शंसो वसुवने वसुधेयस्य वेत्विति ॥ ११ ॥ दे० १० भा० - आग्नेयं हविःशब्दो न प्राप्नोति तस्मादिदमुच्यत आग्नेयं हविः । अस्या. मिष्टावाग्नेयं हविर्भवति । अति वक्त हविग्रहणाद्धविरेवाऽऽग्नेयं नाऽऽज्यभागाविति प्राकृताचेवाऽऽज्यभागावित्ययमेक: कल्पः | अधा ह्यग्ने, आभिष्टे, इत्येते याज्यानुवाक्ये आग्नेयस्य ‘ एभिर्नो अर्कैरम्ने तमद्य ' इत्येते संया भवतः । देवं बर्हिः प्रथमेऽनुयाजे षष्ठी विभक्तिर्भवति द्वितीये सप्तमी तृतीयः प्राकृत एव ॥ ११ ॥ शेष पौर्णमासेन ॥ १२ ॥ वृत्तिः–गतार्थमिदम् ॥ १२ ॥ अग्निहोत्रमीमांसा | . अये विविधविद्याविलासोल्लासित्त्वभूयो विद्वद्वारा महाशया: प्रिनमहोदया धर्में कमूलस्य स्वतः प्रमाणभूतस्य वेदस्य पूर्वोत्तरभदेन हौ भागौ तत्रोत्तरभागनुद्दिश्य प्रवृत्ता ब्रह्ममीमांसा पूर्वभागं चोद्दिश्य प्रवृत्ताऽध्वरमीमांसेत्यपरनामवेया पूर्वमीमांसा या खल्त्रत्य- न्ताभ्यर्हितस्त्रावश्यमुपादेयत्वात्सकलशास्त्र मूलदार्थज्ञानार्थमध्ययनीयत्वाच केवलमीमां साशब्देनापि शस्यते । पूर्वं विदुः कृताधिकतरादराऽप्येषा मीनांसा संप्रति दैवकोप. बशाद्भारतबर्षस्य भाग्यविपर्ययाच लुप्तकसेव वर्तते । अस्य च मीनांसाशास्त्र मूलभूत- रेयादिब्राह्म गग्रन्था मुनिपथर जैमिनि निद्वादश ज्यापु संविभकानि सूत्राणि च । अग्निहोत्रचन्द्रिका | २४१ तेषां च सूत्राणां विद्वद्वरेण तत्रभवता भगवतोपवर्षंगाऽऽचार्येण वृत्तिव्रचि । सा खलु यथा. चन्नोपलभ्यते । शबरस्वामिना च भाष्यं प्रणीतं वार्तिककृता कुमारिलभट्टाचार्येण वार्तिकं ( श्लोकार्तिकं तन्त्रवार्तिकं टुण्टी केयपरनामधेयं ) व्यधायि । तत्र भाष्यवार्तिकभिप्रायं जानता तत्रभवता पार्थसारथिमिश्रेण दीपिकया प्रक शितमेतच्छान्त्रम् | तदिदानी मया यथा विद्यारपैर्वेदभाष्येण मीमांसा संकलिता तद्वदेव याज्ञिकानां प्रयोगशास्त्र दूदूतरेयं मीमांसेति जानता प्रयोगशास्त्रीय ग्रन्थेन संकलयितुं प्रयत्यत इति क्षम्यतां मे वाष्र्यम् । ननु यथाम्नातानुष्ठानं विधातुं प्रवृत्तेषु सूत्रेषु जाग्रसु किमिदं याज्ञिकानां मीमांसायाः प्रयोजनम् । ब्रूमः-

- न हि मीमांसां विना यथाशास्त्रं कर्मणोऽनुष्ठानं संभवति देवगुरोरपि । अत

एव वार्तिकयांबभूवुरत्र भट्टपादाः -- धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् । मीमांसाख्या तु विद्येयं वहुविद्यान्तराश्रिता || अत एव मीमांसाज्ञानं यथावदेव ज्ञेयम् । अन्यथाज्ञानेन ह्यनर्थो भविष्य- त्यज्ञातेऽनुष्ठानमेव न भविष्यतीति मीमांसाज्ञानेऽवश्यं यत्नवद्भिर्भवितव्यमिति पुनः श्लोक- यांबभूव - . मीमांसायां त्विहाज्ञाते दुईते वाऽविवेकतः । न्यायमार्गे महान्दोष इति यत्नोपचर्यता || ननु वेदार्थज्ञानार्थमेव मीमांसायाः प्रयोजनं चेत्तत्रैव प्रय. सो भवतु | फलवन्ति हि वेदवाक्यानि धर्मप्रापणात् । अतस्तेषु सफलो व्याख्याप्रयासः सूत्रेष्फलाकि प्रयासेने- त्यत्राऽऽहुर्भडपादाः- यथा धर्मावबोधस्य प्रमाणं वैदिकं वचः । तदर्थनिर्णये हेतुर्जेमिनीयं तथैव नः ॥ तर्हि ये वेदस्याप्रामाण्यं ब्रुवते तन्निराकरणाय मीमांसाया उपयोगो भवतु नाम । किं पुनरवशिष्टं मीमांसायाः क. र्यमिति चेदाह - स्थिते वेदप्रमाणत्वे पुनर्वाक्यार्थनिर्णये । म तिर्बहुविदां पुंसां संशयान्नोपजायते ॥ के चिदाहरसावर्थः केचिन्नासावयं तन्निर्णयार्थमध्येतत्परं शास्त्रं मणीयते || त । २४२ अग्निहोत्रचन्द्रिका | बहुधा बहुस्थले भीमांसाया आवश्यकत्वविषये वर्णितं मट्टयादेः किं बहुधोक्तेनाऽऽक र्णयत - मीमांसाशास्त्र तेजोभिर्विशेषेणोज्ज्वलीकृते । वेदार्थ ज्ञानरत्ने मे तृष्णातीव विजृम्भते ।। प्रायेणैव हि मीमांसा लोके लोकायतीकृता । तामास्तिकपथे कर्तुमयं यत्नः कृतो मया ।। इत्यादि बहुशः प्रदर्शयितुं सुशकं परं तु ग्रन्थविस्तरभिया नेह तन्यते । एतावता धर्मं जिज्ञासमानानां ज्ञात्वाऽनुष्ठातॄणां च सर्ववाक्यगतन्यायनिरूपणात्मिका मीमांसा निकटतरेति ममायं प्रयत्नो यत्प्रयोगशास्त्रमीमांसयोः संकलीकरणम् । तत्र प्रथमतोऽग्नि- होत्रमीमांसामारभामहे । ततः प्रावासिकी पिण्डपि यज्ञादिसंबन्धिनीम् । ८ अग्निहोत्रं नाम यावर्ज्जवमनुष्टीयमानो नित्यः कर्माविशेषः । तदिदमनुतिष्ठासद्भिरत्रश्यं प्रथमतोऽमय आवातव्याः । तदिदमग्न्याधानं विवाहादश- मेऽहनि जायामबाप्याग्नीनादधीतेति कल्पवाक्य||निश्चिनुमः । अग्न्याधानानन्तरमवश्यं ‘‘यावज्जीबमग्निहोत्रं जुहोति” इति बहुचत्राह्मणाम्नानादग्निहोत्रानुष्ठानं समापतितं नापोतुं शक्यं विविधप्रलापकर्तृभिरित्यत्रोदघोषि मीमांसाचणैः । तदेवं कर्नभेदलक्षणे भगवाऔ,मनि- राचार्यः–“यावज्जीवमग्निहोत्रं जुहोति " इत्यत्र “ अग्निहोत्रं जुहुयात्स्वर्गकामः " इति विहितक,म्नप्रयोगस्यैकस्य यावज्जीवकालमभ्यासो विधीयत उत जीवने निमित्तेऽग्नि- हे त्रस्य बहूनां प्रयोगाणां स्वर्गकामांवहितादन्येषां विधिरिति संशये पूर्वपक्षयांबभूव -- “ यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् " ( पू० मी० २।४ । १ ) बृत्तिः–कर्मशब्दः प्रयोगचःची | स्वर्गकामवाक्यविहितोऽयं काम्यः प्रयोगस्तस्य धर्मः शेषभूतः कालो यावज्जीविको यावज्जीववाक्यगम्यो भवति । काम्यप्रयोगाङ्गतय, यावर्ज वकालो विधीयते न तु जीवने निमिते प्रयोगान्तरमिति यावत् । कुतः - प्रकरणात् । एवं हि प्रकरणमनुगृहीतं भवति । यद्यपि प्रकृतकर्मण एव जीवने निमित्ते विधानात्पक्षा- न्तरेऽपि न प्रकरगबाधः । तथाऽपि प्रकरणमत्र नाधिकाररूपं विवक्षितं कित्वित्थंभावा- काङ्क्षालक्षणं विवक्षितम् । तच्च कर्म धर्ममपेक्षमाणं जीवने निमित्ते पुरुषार्थतया प्रयो गान्तरविवौ बाधितं स्यात् । ननु काम्यप्रयोगस्यैकस्य यावज्जीवकाले कर्तुमशक्यत्वात्प्रयो- गबहुत्वम पतितमित्यत आह --- अभ्यास इति । यावर्जीवक लविधौ हि तत्सामर्थ्यादेकस्यैव काम्यप्रयोगस्याभ्यासः पर्यवस्यति । यथा -- 'सोमेन यजेत ' इत्युत्पन्नस्यैत्र यागस्यैन्द्रवाय- , अग्निहोत्रचन्द्रिका | २४३ बादिवाक् षु प्रहणसंस्कारविधिपरेषु द्रव्यदेवतासंबन्धभेदादभ्यासस्तद्वत् । तस्माद्यावज्जीव कालकोऽभ्यस्तरूप एक एव कोम्यप्रयोग इति फलतीति पूर्वः पक्षः । सिद्धान्तयति- 66 कर्तुर्वा श्रुतिसंयोगात् " ( पू० मी० २ १४ | २ ) (6 वृत्तिः—वाशब्द एवार्थे । धर्म इत्यनुवर्तते । एकस्यैव काम्यप्रयोगस्य यावज्जीव- कालमभ्यासो नात्र विधीयते किं तु जीवने निमित्ते नियमेन भिन्नः प्रयोगः पुरुषधर्म तया विधीयते । कुतः—श्रुतिसंयोगात् । एवं सत्येच यावज्जीवपदस्य यजेश्च मुख्यवृत्तिक त्वसंभवात् । कर्मधर्मत्वे हि “ यावति विन्दजीयो: " ( पा० सू० ३ | ४ | ३ ) इति सूत्रविहितणमुल्प्रत्ययान्त:य " अव्ययकृतो भावे भवन्ति " इनि जीवनक्रिया- वाचिनः काले लक्षणा स्यात् । एकस्या यागक्रि या यावजीवकाल : बन्धानुपपत्त्या यजि- नाऽप्यम्पासो लक्षणीय: स्यात् । न च यथा पौर्णमास्यां पौर्णमास्या यजेत इति विहितक.लैकदेशे सकृउनुष्ठानेनापि शास्त्रार्थसिद्धिस्तथा यावज्जीवकालैकदेशे सकद- नुष्ठानेनापि शास्त्रार्थसिद्धिसंभवान्नाभ्यासलक्षणेति वाच्यम् । अपौर्णमासीन्यावृत्त्यर्था चोद- नेति युक्ता तत्र सकृदनुष्ठानेन शास्त्रार्थसिद्धिः । इह तु चोदनाऽजीवनकालव्यावृत्यर्था न भवति तदा कर्मणोऽनुष्ठानस्याप्रसक्ते । किंतु समस्तजीवनकालग्रहणार्थेव चोदनेत्य- भ्यासलक्षणा दुर्वारा । तत्र ‘‘ यावति विन्दजीवोः इति णमुविधायकं सूत्रम् | तत्र " समानकर्तृकयोः पूर्वकाले " ( पा० स० ३ | ४ | २१ ) इत्यनुवर्तते ४ ' णमुद्' इति च । यावत्युपपदे सम नकर्तृकयोः क्रिययोर्मध्ये पर्वकालिक क्रियवृत्ते न्दतेर्जीवतेश्च णमुल्स्यादित्यर्थः | जीवतेश्च प्राणध रणमर्थ: । प्राण उच्छ्रासो नासाबहि- र्निर्गतो वायुत्रिशेषः । तस्य धारणं नासिकयाऽन्तराकर्षणम् । “ अव्ययकृतो भावे " इति वचनाण्गमुळन्तस्यापि जीवनक्रियाऽर्थः । पौर्वापर्यं] समानकर्तकत्रं च द्योत्यम् । यावच्छब्दो जीवनं सामस्येन विशिनष्टि | तच्च जीवनं समानकर्तृकयोरिति क्रियान्तरसं- बन्धे विहितेन णमुल्प्रत्ययेन होमाद्यन्वयितया प्रतीयते । स च संबन्धो यदि जीवनस्य होमादिक्रियायाश्चाङ्गाङ्गिभावादिः स्यात्तर्हि सर्वेष्वपि जीवनेष्ववश्यं होतव्यमित्यर्थस्यासिद्धे- र्यावच्छन्दार्थस्य प्रा'त्यभावादनुवादो नावकल्पेत । नापि विधातुं शक्यते जीवनानामयुग- पत्कालकत्वेन तत्सामस्त्यस्य कर्मणि विधानासंभवात् । ततश्च यथा भावलक्षणे विहिता सप्तमी भावं प्रति लक्षणत्वं निमित्तत्वे सति घटते नान्यथेत्यर्थानिमित्तत्वेऽवतिष्ठते तथा यावच्छब्दबऊदेव संबन्धसामान्यत्राची णमुल्प्रयो निमित्तनैमित्तिकभावेऽवतिष्ठत इति जीवनस्य तावन्निमित्तत्वम् । एव च जीवने निमित्तेऽग्निहोत्रं प्रयोक्तव्यमित्यर्थः सिद्धः । नैमित्तिकश्चायं प्रयोगः “ धर्मेण पापमपनुदति" इतिश्रुतपापचयार्थः । 46 २४४ अग्निहोत्रचन्द्रिका | • अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसजंचेन्द्रियार्थेषु नरः पतनमृच्छति ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति || इतिस्मृतिसिद्धस्याकरणप्रयुक्तप्रत्यवायस्य परिहारस्वानुष ङ्गिकः । नरकेषु पतत्यनेनेति पतनं पापम् । ऋच्छति प्राप्नोति । अत्र विहिताकरणजन्य प्रत्यवाय प्रागभाव परिपालनं नित्यकर्मणां फलमिति केचित् | तन्न | प्रत्यवायो हि न कर्ममात्रातिकमा किंतु विहित कर्मातिक्रमात् । अकुर्वन्विहितं कर्मेति वचनात् । ततश्च सिद्धे विधौ विहितकर्मातिक्रमा- प्रत्यवायावगमोऽवगतस्य प्रत्यवायस्य परिहाराय च विधिरित्यन्योन्याश्रयः । अतः पापक्षय एव फलम् । तच्च पापमिह जन्मनि जन्मान्तरे च संचितम् । ' धर्मेण पापमपनुदति । ' 6 " पूर्व संध्यां जपंस्तिष्ठनैशमेनो व्यपोहति । कषाये कर्मभिः पके । इत्यादिश्रुतिस्मृतिभ्यः। न च निमित्तोद्देशेन पापक्षयरूपफलोद्देशेन च कथं कर्मविधि- र्वाक्यमेदप्रसङ्गादिति वाच्यम् । न ह्येकमेव वाक्यं निमित्ते फले च कर्म विधत्ते । किंतु यावज्जीववाक्यं निमित्ते कर्म विधत्ते । अन्यच्च श्रुतार्थापत्तिकल्पितं वाक्यं फले विधत्त इत्यदोषः । न चैवमप्युद्देश्यद्वय एकस्य विधिविरुध्यत इति वाच्यम् । न हि द्वयो रेकरूप. मुद्देश्यत्वमस्ति । निमित्तस्य हि सिद्धत्काररूपमुद्देश्यत्वं पापक्षयस्य तु स्वारसिक प्रवृत्ति विषयत्वात्मकप्रयोजनत्वरूपम् । न ह्येवंविधयोरुद्देश्ययोः फलनिमित्तयोरेकत्र विरोधोऽस्ति । यदि हि निमित्तमपि फलवत्कर्मजन्यं स्यात्तदा द्वयोरप्येकप्रकारसंबन्धाद्विरोधः स्यात् । प्रत्युत निमित्ते कर्म क्रियमाणं किं प्रयोजनमिति सुतरामपेक्षते निमित्तेऽवश्यकर्तव्यताया नैष्फल्ये सत्यनुपपत्तेः । अतश्च निमित्तत्रलेनापेक्ष्यमाणं फलं कथं तेन विरुद्धं स्यात् । ननु निमित्त वमुपलक्षणत्वं ज्ञापकत्वं व्याप्यत्वरूपं व्याप्तिश्च यदा यदा जीवनं तदा तदा कर्मे व्येवरूपाऽन्यथा कर्माणि कदाचिजी वनसंबन्धस्यावर्जनीयत्वेन तत्प्रतिपादनानर्थक्यात् । तथा च व्याप्या निमित्त कर्मण आवश्यकत्वरूपनियमोऽर्थाद्गम्यते । अनावश्यकत्वे निमित्ते सत्यपि कदाचित्कर्मणोऽकरणे निमित्तत्वव्यावातात् | एवं च तस्य फलार्थत्वे फलेच्छायामस त्यामननुष्ठान सति निमित्तत्वं ब्याहन्येतेति चेत् । न हि काम्यत्वनैमित्तिकत्वयोः स्वरूपेण विरोधोऽस्ति फलेच्छायाः कादा चित्कमेव हि तद्विरोधे बीजम् । प्रकृते च न पापक्षयस्य कदा- चित्कस्यचिदप्यनिच्छाऽस्ति दुःखाधायकपापनिवृत्तेः सर्वदाऽभिलषणीयत्वात् । न च येन पापं नैवाऽऽचर्यते तस्य न तदिच्छेति वक्तुं शक्यम् । इह जन्मन्यनाचरणेऽप्यनादिजन्मान्त- रप्रवाहार्जितपापराशिक्षयेच्छाया अवर्जनीर्यत्वात् । न च ब्रह्मलोकान्तविरक्तस्य मुमुक्षोर्न अग्निहोत्रचन्द्रिका | २४५ तदिच्छेति वाघ्यम् । मुमुक्षुणाऽपि पापक्षयस्यावश्यमभिलपणीयत्वात् । नह्येतञ्जन्मनि जन्मान्तरेषु चार्जितेषु नरकप्रापकेषु सत्सु मोक्षः संभवतीति भवति पापक्षयः फलम् । विरक्तस्य कर्मानधिकारात् ।' यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इत्युपनिषद्वाक्यात् । तावत्कर्माणि कुर्वीत न निर्विद्येत यावता | इत्यादिस्मृतेश्च । तत्र क्रिमिक भावाद्याधायकं पापान्तरं प्रत्यवायरूपं नित्यकर्माकरणादु- त्पद्यत इति श्रुतिस्मृतिभ्यो गम्यते । तत्र ज्ञानकर्मपरिभ्रष्टानधिकृय – पन्थानौ न विदुस्ते कीटपतङ्गाः' इत्यादिश्रुतिः । एतौ एतद्यो न विजानाति मार्गद्वितयमात्मनः । न · दन्दशूकः पतङ्गो वा कीटो वा जायते ध्रुवम् ' || , ‘ अकुर्वन्विहितं कर्म ' इत्यादिस्मृतिश्च | तत्परिहारो नित्यकर्मणामानुपङ्गिकं फलमि- अधिकारलक्षण्यां सर्वशक्त्यधिकरणे टुष्टीकार्तिकतन्त्ररस्मयोः स्पष्टम् । एवं च जीवने निर्मित्ते कर्मणः पापक्षयार्थतया विधौ नियमोऽप्यर्थसिद्धः । “ कर्तधर्मो नियमश्रोद्यते " इति भाष्यादिग्रन्थस्याप्येवमेत्राऽऽशयः । जीवनं च सायंप्रातः कालावच्छिन्नं निमित्तमि यधिकारलक्षण्याम् । ' तेषामौत्पत्तिकत्वात् " - इत्यधिकरणे स्पर्धकृतं भगवद्भिर्भाष्य- वार्तिककद्भिरित्यास्तां तावत् ॥ २ ॥ - इतोऽपि कर्तृधर्भ इत्याह- ८ ' लिङ्गदर्शनाच कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकमन्यत्स्यात् ' । ( पू० मी० २ | ४ | ३) । - वृत्तिः—“ तमतिनीय चतुर्गृहीत माज्यं जुहुयात् " इत्यग्निहोत्रस्य स्वकालातिकमे प्रायश्चित्तस्य वारुण्यादीष्टिविधानादपि लिङ्गान्न कर्मधर्मः | कर्मधर्मे हीति - काम्यप्रयोगस्य । शेषतया यावज्जीवनकाले विधीयमाने प्रक्रमेण प्रक्रान्तेन यावज्जीवनकालेन काम्यप्रयोगो नियम्येत । ' यम उपरमे ' । सम|प्येत । एवं च कर्मधर्मपक्षे यावज्जीवमभ्यस्तरूप- स्यैकस्य प्रयोगस्य फलार्थतया मध्ये समायभावेन जीवनदशायां न कोऽपि हुतवानग्नि- होत्रमिति यावज्जीवनकालोत्तरमेवाग्निहोत्रीति वक्तव्यम् । यथैन्द्रवायवादियज्यभ्यासे कृत्स्ने निवृत्ते सोमयाजीति तद्वत् । तथाविधस्य चाग्निहोत्रिणस्तत्र तस्मिञ्जीवने समाप्ते सति अन्यत्स्वकालातिक्रमप्रायश्चित्ततया वारुणीष्टयादिविधानम् । नापि जीवनोत्तरकाले तस्य स्वकालत्वाभावात् । तदानीं कर्तुर्भुजमानस्याभावेन प्रायश्चित्तविष्यसांगत्याच्च । कर्तृधर्मत्वे व यावजीवनकालो न कर्माङ्गम् ॥ ३ ॥ 13 · अग्निहोत्रचन्द्रिका | ८ ' 'अनित्यत्वात्तु नैवं स्यात् ' ( पू० मी० २ | ४ | ४ ) . कृत्तिः— तुशब्द श्वार्थेऽन्वाचये । यदि च यावजीवनकाल : कर्मधर्म: स्यात्तर्हि ‘‘ जरामर्थं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च जरया ह वा एताभ्यां निर्मुच्यते मृत्युना च " इत्येवमग्निहोत्रस्य दर्शपूर्णमासयोश्च समभिन्याहारः श्रूयते | तैत्तिरीया अपि समामनन्ति - " एतद्वै जरामर्यमग्निहोत्रम् ” ( ना० उ० १०।८० ) इति । जरया वयोहान्या मयं समाप्यं न तु स्त्रेच्छयेति जरामर्यमवश्यानुष्ठेयम् । इ वा इति निपाताववधारणे । एषोऽग्निहोत्रस्य कर्ता जरया मृत्युना चावश्यं मुख्यत इति तदर्थः । कर्मधर्मे हि वचनभिदं विरुध्यते । कुतः — अनित्यत्वात् । काम्यप्रयोगध- में हि यावज्जीवनकाले विधीयमाने नित्यप्रयोगस्या लाभात्काम्यप्रयोगस्य चानित्यत्वाद- वश्यानुष्ठेयत्वरूपजरामर्थत्ववचनविरोधः | काम्यप्रयोगस्यानित्यस्वर्गमात्रार्थत्वेन जरामरण- निवृत्तिफलकत्ववचनविरोधश्च । अनित्यत्वादित्यस्य नित्याभिलषणीयफलरहितत्वादित्यप्यर्थः । सिद्धान्ते तु नैमित्तिकप्रये,गस्य पापक्षयार्थत्वाच्छरीर रम्भकपापाभावाज्जरामरणनिवृत्त्यर्थमु पपद्यते । एतेन वामनमतं यत्रिंशदिनादिभिरिति तदपि व्याख्यातं वेदितव्यम् । तथा चाग्निहोत्रं यावज्जीवमनुष्ठेयमिति शास्त्रीयः पन्थाः । - ननु किमिदमग्निहोत्रं नाम – ब्रूमहे – अग्निहोत्रमित्यनुष्ठीयमानस्य नित्यस्य कर्म- विशेषस्य नामधेयम् । तदुक्तं प्राच्यां मीमांसायां प्रमाणलक्षणे चतुर्थ पादे — एवं हि तत्सूत्रप्रणयनप्रसङ्गलेखनव्यापारे लेखनी व्यापारयामः- --- 66 ' अग्निहोत्रं जुहोति ' इति श्रूयते । तत्राग्निहोत्रपदं गुणविधिर्नामधेयं वेति संशयः। गुणविधित्वे बाधकाभावात्कर्मनामत्वे बाधकसत्त्वाच्च । तथा हि हूयत इति होत्रं पयोदध्यादि द्रव्यम् । “ हुयामाश्रुभसि " इत्यादिना त्रन् प्रत्ययः । अग्नये होत्रमस्मिन्निति बहुव्रीहिणैव मत्वर्थस्य लाभान्न मत्वर्थलक्षणा । ' सप्तमी विशेषणे बहुव्रीहौ इति ज्ञापकाद्व्याधि - करणपदो बहुव्रीहिः । — कण्ठेकाल: " उरसिलोमा सच्छास्त्रजन्मा हि विवेकलाभ इत्यादिवत् । ततश्चाग्न्युद्देश्यकपयोदध्यः दिहूयमा नद्रव्यकहोमोऽवगतः । तत्राग्निहोत्र दे होमो न विधेयो जुहोतिनैव तल्लाभात् । नापि पयोदध्यादिद्रव्यम् । 66 पयसा जुहोति इत्यादिभिस्तल्लाभात् । अत उपसर्जनीभूतोऽप्यग्निरेव विधेय इति प्राञ्चः । "" वस्तुतस्तु होत्रशब्दो भावसाधनः । अग्नये होत्रं होमोऽग्निहोत्रम् | यद्वा हूयते यस्मिन्क. र्मणि तद्धोत्रम् | अग्नये होत्रमग्निहोत्रम् | प्रकृतिविकारभाव एव चतुर्थीसमासविधावपि सुप्सुपा " इति समासः । “ लोकंतोऽर्थमयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो अग्निहोत्रचन्द्रका । २४७ केष * इति वातंकव्याख्यानावसरे • धर्माय नियमो धर्मनियमः । चतुर्थीसमासप्रदर्शनाड्यक्तोक्तत्रच कैयटादिभिः । ततश्च मस्त्रथैलक्षणां यः । बहुनीह श्रयणे तु ‘ी बहुत्री हैौ प्रकृत्या पुर्वपदम् ” (प।० सू० इति बहुत्रीहिस्त्ररेणाग्निशब्द इकारस्योद तस्वे सति शिष्टस्वरेणावशिष्टा कारस्य ‘‘ उदात्तादनुदात्तत्य स्वरितः " (पा ० सू० ८४६ ६ ) कारस्य “ स्वरितासंहितायामनुदात्तनाम् ” (पा० सू० १।२।३९) । “ सुप्सुपा ” इति समासश्रयणे तु ‘ समासस्य * १२३ ) इयन्तोदात्तं भवति । अन्ते|दात्तमेव चाग्निहोत्रपदं प्रयुञ्जते तत् - - -अग्निहोत्रपदस्य नामधेयस्वे कर्मणा विधेयस्यारूपत्वं स्यात् । द्रव्य अम् । देव्रतोद्देश्यकद्रव्यस्यागात्मकवाद्यगस्य । तत्र द्रव्यं यद्यपि ॐ इत्यादिभिः प्रतं देवता तु नामधेयत्वे सति न प्राप्नोतीत्यरूपवं । न च ५८ यदग्नये च प्रजापतये च सायं जुहोति । * यत्सू च प्रातः ' इति वक्याभ्यां देवतालभान्नरूपवमते वाच्यम् । । कमग्न्यादयो गुणा विधीयन्त उतानिप्रजापत्योः सूर्यप्रजापत्योश्च समु तयोः समुचय । उताग्निसमुचितस्य सूर्यसमुचितस्य च प्रजपतेर्वि- तिमत्रविधानम्। नाऽऽद्यद्वितीये वाक्यभेदात्। न तृतीयः—चशब्दार्थस्य णोपस्थियभावेन विशेष्यत्वानुपपत्तेः । न चतुर्थः- पञ्चदशान्याज्या वैशिष्टयानामिव समुच्चयावशष्टप्रजापतेरपे विधानायोगात् । न पञ्चमः हे ’ अग्नये ’ इत्यस्य ‘ सृपय ’ इत्यस्य च विधिवासंभवादनुवादवं भवति प्रापकाभावात् । न च ’ अग्निज्योतिः सयों ज्योतिः ? ’ ६ आप्तिरिति वाच्यम् । प्रबळब्राह्मणगतचतुर्युपात्तदेवतावरुद्धे कर्मणि रुद्धदेवतानिवेशायोगात् । न च प्रजापतिदेवताके कर्मणि नसमर्थयोर्मन्त्रयोर्निवेशसंभव इति वाच्यम् : ‘ वचनान्वयार्थमैन्द्री त्यीकाधिकरणन्यायेन वाचनिकविनियोगबलेन प्रजापतिलक्षकतया तिमात्रविधौ && यत्सूर्याय प्रजापतये ” इति पुनर्विधानमैययच । न जापतये च सायम् ’ इयेवोच्यमाने प्रातहमें प्रजापतिदेवता न ’ इत्युच्यमाने सायं होमे न स्यादित्युभयोद्देशेन तद्विधिरति वाच्यम् । सायं तर्हि प्रजापतय इति विशिष्टोदेशे वाक्यभेदापातात् । ततश्च क्यद्वयेऽग्निसूर्यसयंप्रातर्विशिष्ट फर्मान्तरविधिरिति वक्तव्यम् । एवं त्रवाक्यविहितकर्मणि देवतालाभः स्यात् । न च अनियंति २४८ अग्निहोत्रचन्द्रिका | ( 'सूर्यो ज्योतिः' इति मन्त्रवर्णतस्तल्लाभसंभव इति शक्यम् । ' अग्निर्ज्योतिर्ज्योतिरंग्निः स्वाहेति सायं जुहोति सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ' इति मन्त्रविध्योः सायंप्रातःप्रत्यभिज्ञावलेन यदग्नये चेति वाक्यद्वयविहित विशिष्टकर्मान्तर विषयत्वावगमेनाग्नि- होत्रवाक्यविहिते कर्मणि नतो देवतालाभसंभवात् । तस्मादत्राग्निहोत्रशब्दस्य नामधेयत्वे कर्मणोऽरूपत्वापातागुणविधानमेव युक्तम् । एवं चाग्निहोत्रमिति द्वितीयाऽप्युपपन्ना भवति । नामत्रेयत्वे हि भावनाकारणीभूतधात्वर्थवाचित्वात्तृतीया स्यात् । उद्भिदा यजेतेत्यादिवत् । गुणविधित्वे त्वग्नये होमं कुर्यादित्यर्थ पयेवसानात्सा न विरुध्यते । न च कस्मिन्होमेऽयं देवताविधिः । न त वद्यदग्नये चेति विहिते कर्मण्युत्पत्तिशि- ष्टदेनतान्तराव्दत्वात् । अत एव न दर्शपूर्णमासादिगतहोमेष्विति वाच्यम् । अविहितदेवताकेषु नारिष्ठादिदवहोमेष्वग्निदेवताविधिसंभवात् । न च मानवार्णिक- देवतान्तरावरोधात्तत्र नाग्निविधिः संभवतीति वाच्यम् । मन्त्रवर्णप्रवृत्तेः प्रागेव झटितिवृत्तेनाग्निहोत्रवाक्येण तत्राग्नेरेव निवेशाद्देवतान्तरपदानां च तत्रत्यमन्त्र- गताना मैन्द्रीन्यायेनाग्निलक्षकत्वोपपत्तेः । वस्तुतस्तु यत्र दवहोमेषु न देवता. विधिर्न वा मन्त्राम्नानं त्त्र गुणविधानं भविष्यति । अस्ति हि वाजसनेयके हव्य- वाहकाण्डे सप्तभाध्यायान्ते ' दर्शपूर्णमासयोरुत्तममनूयाजमिष्ट्वा समानीय जुहोति' इति तादृशदर्बीहोमविधिः । औपभूतमाज्यं जुह्वां समानीय जुहोतीति तदर्थः । एवं चाग्निहो- त्रमिति गुणविधिरेव न तु नामधेयम् । यदग्नये चेत्यादिवाक्यद्वयं तु विशिष्ट कर्मान्तरवि घायकम् । दध्ना जुहोतीत्यादिस्तु तत्रैव गुणविधिः । ' सायं जुहोति प्रातर्जुहोति इति चं तयोरेव विशिष्टकर्मणो विश्व जिन्न्यायकल्प्ये फले समुच्चयविधिः । अन्यथा नये च ' इति ‘ यत्सूर्याय च ' इति पृथग्विधिबलात्पृथगेव फलं कल्प्येत । ‘ अग्निहोत्रं जुहुयात्स्वर्गकामः ’ ‘ यावर्ज्जीवननिहोत्रं जुहुयात् ' इति च दवहोमाश्रिताग्निदेवताफले निमित्ते च विधीयते यावर्ज्ज वानुष्ठतदव हो माश्रिताग्निना फलं कुर्यादिति । तदेवमग्निहोत्र- पदं गुणविधिर्न तु नामधेयमिति स्थितम् । ( यद. , इति प्राप्ते सिद्धान्तयति -- तत्प्रख्यं चान्यशास्त्रम् ( पू० मी० १ । ४ । ४ )। वृत्तिः– यस्मिन्गुणोपदेशः प्रधानतोऽभिसंबन्ध इति नामधेयं स्यादिति चानुव र्त्तते । यस्मिन् ‘ अग्निहोत्रं जुहोति ' इत्यादिवाक्येऽग्न्यादिगुणविधिः संभाव्यते तत्र नामधेयमेव स्यात् । कुतः– यतो नामधेयत्वे प्रधानतोऽभिसंबन्धः । विधेयत्वेन धात्वर्थेन विधिप्रत्ययस्याभिसंबन्ध एकपदवृत्तित्वं लभ्यते । गुणविधित्वे तु विधेयस्य गुणस्य विधिप्रत्ययस्य च भिन्नपदवृत्तित्वं लभ्यते । तथा च गुगस्य विधेश्च संबन्धः पदद्वयसम- भिव्याहारवाक्यगम्शे न तु धास्त्रर्थविधिसंबन्धवच्छ्रुतिगम्पः । न हि समानपदवृत्तित्वलक्षअग्निहोत्रचन्द्रिका | पश्रुत्या धात्वर्थस्य विधिसंभवे वाक्येन गुणविधानं युक्तम् । ननु नामधेयत्वेऽरूपत्वं दोषः स्यादित्यत्रोत्तरम् –तत्प्रख्यं चान्यशास्त्रमिति | चशब्दो ह्यर्थ उक्तसमुच्चयार्थो वा । तच्छब्देन गुपोपदेश इत्युपात्तो गुणः परामृश्यते । यागनामधेयत्वे यागस्य रूपलाभाय यो गुणो विधेयतयाऽपेक्षितस्तं प्रचष्टे विधत्त इति तत्प्रख्यम् । ' आतश्चोपसर्गे (पा० सू० ३ । १ । १३६ ) । इति कः । विधिसितस्याग्न्यादिगुणस्य विधायक मन्यच्छास्त्र- मस्ति । अतस्तदग्निहोत्रादिपदमनि नामधेयं स्यादित्यर्थः । तथा हि — अग्निहोत्रं जुहोति ' इत्यग्निहोत्रनामधेयकस्य होमस्य विधिः । } ( ' अग्निज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ' इतिविहितमन्त्रवर्ण तोऽग्निसूर्यदेवतालाभः । न च षोऽयं होमः स चेत्सायमिति वाक्यभेदः शङ्क्यो होमस्य प्रकरणत एवोपस्थित्या तदंशे शब्दस्य व्यापाराभावात् । " ● यदग्नवे च प्रजापतये चइत्यादिवाक्यद्वये ऽग्निसमुच्चिनः सूर्यसमुच्चितश्च प्रजापतिर्विधीयते । तत्र मन्त्रवर्णप्रातामियां विधिव्यापाराभावान विशिष्टविधिगौरवम् । एवं चाग्निसूर्यानुवादेन प्रजापतिसमुञ्चयविधिः पर्यत्रस्पति । एतेन समुच्चयस्य चार्थस्य विशेष्यत्वाभावान विधेषत्वमिति निरस्तम् । तद्विधेरा- र्थिकत्वात् 1 ' सायं जुहोति । प्रातर्जुहोति ' इति कालविधिः | सायंप्रातर्व्यव स्थितमन्त्रवर्णलग्धाग्निसूर्यानुवादेन प्रजापतिसमुच्चयो विधीयमानोऽपि तदनुवाद्यदेवतानुसा- रेण व्यवस्थप्रैव प्राप्नोतीति ' यदग्नये च ' इति वाक्ये सायंप्रातरित्यनुवादः | अग्नि- होत्रमिति द्वितीया तु फलभावनाकरणस्यापि यागस्य ' नासाधितं करणम् इति न्यायेनार्थाक्षिप्तसाध्यत्वाभिप्रायेति प्राञ्चः | ६ , अत्रेदं वक्तव्यम् । तैत्तिरीय कब्राह्मणे- ' प्रजापतिरग्निमसृजत ' इत्युपक्रम्य तं प्रजापति रखत्रीज्जायस्वेति सोऽब्र- वीकिभागधेयमभिजनिष्य इति । तुभ्यमेवेद हूयाता इत्यब्रवीत् । स एतद्भा गधेयमभ्यजायत । यदग्निहोत्रम् | तस्मादग्निहोत्रमुच्यते । तद्भूयमानमादित्योऽ ब्रवीत् । मा हौषीः । उभयोर्वे नावेतदिति । सोऽग्निरब्रवीत् । कथं नौ होण्य न्तीति । सायमेव तुभ्यं जुहबन् । प्रातर्मयमित्यव्रवीत् । तस्माद्ये साय हूयते । सूर्याय प्रातः । -- इति देवताविधिः केवलाग्निसूर्यपोर्देवतयोविंधनात् । मन्त्रवर्णप्राप्तो ज्योतिष्टोमगुगो नाऽऽदर्तव्य आग्नेयादियागे 'अग्निदिवः' इत्यादियाज्यापुरोनुचाक्यागम्यगुगवत् । तूष्णीमुत्तरामाहुतिं जुहोति । यत्तूष्णीं तत्प्राजापत्यम्' इति द्वितीयाहुतिरङ्गन विधीयतेऽग्निसूर्यहोमशेरेव प्राधान्याचगमात् । यहि वाजपनेयके- 'याम जुहोति सा 6 ६ २५२ अग्निहोत्रचन्द्रिका | परित्यज्य कर्मान्तरमेवैषु वाक्षु विधेयम् । न चोपसद्भिश्चरित्वेत्यस्य तेषां द्वादशोपसदः सोममुपन मासमग्निहोत्रं जुह्वतीति पाठप्राप्तो पसदानन्तर्यानुवादकतयोपपत्तेर्वाक्यभेदा- प्रसङ्गादस्तु प्रसिद्धाग्निहोत्रकर्मणि गुणविधिरिति वाच्यम् | पाठो ह्याकाङ्क्षितमेव क्रमं प्रापयितुमीष्टे न त्वनाक'ङ्क्षितमपि । एकप्रयोगवचनपरिगृहीताज्ञानामेव हि क्रमाकाङ्क्षा भवति तेषामित्थंभावाकाङ्क्षया युगपदुपनिपातात् । न च प्रसिद्धाग्निहोत्रादिकर्मणः कुण्डपाविनामयनस्य चाभिषोऽस्ति येन तेषां कुण्डपायिनामयनमुपयन्तीत्येकप्रयो गवचनपरिगृहीतत्वात्क्रम आकाङ्क्ष्येत । ' दीक्षितो न ददाति न जुहोति • न पचति ' इति सोमऋतुमध्ये पुरुषार्थ होमप्रतिषेधेन प्रसिद्धाग्निहोत्रादिकर्मणस्तत्रैवोपनिपाताभावाच्च । एवं च काम्येष्टीनामियात्र पठस्य क्रमप्रापकत्वासंभवेनोपसद्भिश्चरित्वेयस्य पाठप्राप्तक्रमानु- वादकत्वानुपपत्त्यॊोषसदस्तदानन्तर्यं मासश्चेति त्रयमपि विधेयमिति स्वीकार्यमिति भवेदेव वाक्यभेदः । एतेन — दीक्षितो न जुहोति ' इति प्रतिपिद्धस्प प्रसिद्धाग्निहोत्रादिकर्मणः प्रतिप्रसवरूपेण वा सत्रैकदेशत्वेन वा विधिरिति प्रत्युक्तम् । उक्तरीत्या प्राप्तकर्मण्यने- कगुणविधाना संभवेन प्रतिप्रसवायोगात्सत्रसंबन्धस्योपसदादीनां च प्रसिद्धकर्माण विधौ वाक्यभेदापत्या सभैकदेशत्वेन विध्यनुपपत्तेश्च | तस्मादत्र कर्मान्तर विधानमिति भाष्यानु सारी पन्थाः । तमिमं प्रकारं भक्त्वा प्रकारान्तरमुत्प्रेक्षितं वार्तिके तद्यथा- -अप्रकृता- भिधानात्मकं प्रकरणान्तरं न पृथक्शब्दान्तररादिवः कर्मभेदकोपाधिः । प्रसिद्धाग्निहोत्रादि- कर्मण्यसंभवत उपसदादिगुणादेव कर्मभेदसिद्धेः । नन्वत्र प्रकृताभिधानापरपर्यायात्मक रणान्तरादेव कर्मभेदो न तु गुणात् । अप्रकृताभिधानं हि प्रागनवगताग्निहोत्रादिकर्मा- भिधानम् । तच्च प्रसिद्धाग्निहोत्रादिकर्मण्यसंभवत उपसदादिगुणा दध्यवसीयते । तथा च कर्मभेदावगमकप्रकरणान्तरस्याऽऽत्मलाभ उपक्षीणत्वाद्गुणस्य नात्र कर्मभेदकत्वमिति चेन्न । एवं सति वाजिभ्यो वाजिनमित्यत्राप्यप्रकृताभिधानादेव कर्मभेदापत्तौ गुणस्य कर्मभेदक- त्वानुपपत्तिप्रसङ्गात्पूर्वकर्म|संयोगिनो वाजिनगुणस्याप्रकृताभिधानस्वरूपलाभ एवोपक्षीण - त्वात् । किंबहुना शब्दान्तराभ्याससंज्ञानामपि विधेरप्रकृतविषयत्वबोधन एवोपयोगः । अप्रकृताभिधानाच्च कर्मभेद इति वक्तुं शक्यतया सर्वत्र प्रकरणान्तरमेव भेदकं स्यात् । शब्दान्तरादामां शेषाणां प्रकरणान्तरेण शेषिणाऽविनाभावात् । न हि शब्दान्तरादीनां परस्परपरिहारेणेव प्रकरणान्तरपरिहारेण क्वचिद्वर्तनं संभवति । तथा च तैः सह प्रकरणा न्तरस्य कथं पृथक्प.रैगणनं स्यात् । न हि प्रधानस्योपसर्जनभूतैः सह परिगणनमुचितम् । किंचो पसा.द्वश्वरत्वेत्यस्य संनिहित महोत्रा क्यान्वयेन शान्ताकाङ्क्षस्त्रान्निराकाङ्क्षत्वाच दर्शपूर्णमासादिवाक्यानां न तेषु तस्यान्वयः । एवं च दर्शपूर्णमासादिवाक्येषूपसदां तदानन्तर्यस्य चाविधानान्मासमात्रस्यैव गुणस्प विधानाद्वाक्यभेदाभावेन नाम्नोपस्थितस्य प्रसिद्धदर्शपूर्णमासादिकर्मणः परित्यागाभिधानं प्रकरणान्तरं तत्र नास्तीति कर्मभेदो न स्यात् । तस्मादत्र वाक्यभेदप्रयुक्तमप्रकृत्ला भिधानं न कर्मभेदप्रयोजकम् । किंतु शब्दा- अग्निहोत्रचन्द्रिका | ' न्तरादिवदप्रकृताभिधानापादकं किंचिन्निरूपणीयम् । तत्तु प्रकरणविच्छेदापरपर्या- यं पूर्वकर्मासनिधानमेव । तथा हि विच्छिन्नप्रकरणं कर्म द्वेषोपादेययुक्तमनुपादेययुक्तं च । तत्र ‘ यदाहवनींये जुहृते ' इत्यादावुपादेयस्थल आहवनीयादिगुणस्य होमे प्रसक्तेः संपादयितुं शक्यत्वेनोपादेयतया होम देशेन विधानसंभवेन विशिष्टविधिगौरवभीत्या कर्मण उद्देश्ययावश्यंभावे दूरस्थस्यापि होमस्य सिद्धवन्निर्देशवलेनाभिध्यानादिना कथंचिद्बुद्धौ परिवृत्ति संपाय यो होमः स आहवनीय इत्येवं गुणविधिसंभवः । अनुपादेयगुगस्तु पञ्चधा- “ देश: कालो निमित्तं च फलं संस्कार्यमेव च । इति मीमांसका: प्रादुरनुपादेयपञ्चकम्" इति । २५३ तदिह मासस्याग्निहोत्रादिकर्मणि प्रसक्ते संपादयितुमशक्यतया दध्यादिषदानयनादि- क्रियाविशिष्टत्वेनाननुष्टेयतया चानुपादेयस्याग्निहोत्रादिकर्मोद्देशेन पर्यवतानगत्याऽपि विधा- नासंभवेन यो मासस्तत्राग्निहोत्रादि कुर्यादित्येवं मासा नुवादेनाग्निहोत्रादिकर्मण एव भावार्था- धिकरणन्यायेन विधेयतया विहितस्य विधानान्यथानुपपत्तेः प्राप्तवन्निर्देशाभावेन परमकर णपाठेन च पूर्वकर्मप्रत्यभिज्ञाविरहाच्च सिध्यति कर्मभेदः । ' पौर्णमास्यां यजेत ' सायं जुहोति प्रातर्जुहोति ' इत्यादौ कालो देशेन कर्मविधावपि न कर्मान्तरत्वमिति ' संनिधौ त्वविभागात् ' इत्यधिकरणेऽनुपदमेव वक्ष्यामः । तत्र मासस्यानुपादेयत्वेऽपि तत्र कर्मणोऽ नुष्ठेयतामात्रेण कथंचिद्विधिसंस्पर्शा परे देशप्रवृत्तकृतिव्याप्यत्वलक्षणपार, र्थ्यात्मकशेपत्वरूप मङ्गत्वमुपपाद्यम् । ननु मासाग्निहोत्रा दिवाक्ये प्रसिद्ध ग्निहोत्रादिकर्मणः संनिधिकृतप्रत्यभि ज्ञाविरहेऽपि नामधेयकृता तत्प्रत्यभिज्ञाऽस्ति । न च नाम्ना तद्विपरिवृत्तावपि तत्रानुपादेय- स्य सिद्धयसंभवाद्विपारवृत्तिरप्रयोजिकेति वाच्यम् । प्रसिद्धाग्निहोत्रादिकर्मण मासविध्य- संभवेऽपि तस्यैव कर्मणो नाम्ना विपरिवर्तमानस्य कुण्डपायिनामयनैकदेशत्वेन विधिसंभ- वादिति चेन्न । प्रसिद्धग्निहोत्रादिकर्मणः कुण्डप | यिनामयनैकदेशत्वेन विधानेऽप्यग्निहोत्रा- दिशब्दस्य धात्वर्थमात्रनामधेयतया तेन भावनाया उपस्थिन्यभावेन तद्भेदस्याप- रिहार्यत्वात् । किं मासं जुह्वतीयाख्य तवर्तिना धातुना स्वरसतो लिङ्गसं- ख्यान्वयानर्हसाभ्यत्वरूपेण कर्मान्तरमभिधीयन इत्याशिहोत्रादिनाम्नाऽपि साध्वरू पेणैव तदभिधेयं नाम्न आख्यात परतन्त्रत्वात् । अतः कथं मासाग्निहोत्रादिवाक्ये ऽग्निहो- त्रादिनाम्ना प्रसिद्धस्त्र कर्मण उपस्थितिः । अस्तु वाऽत्र नाम्ना सिद्धरूपेणोपस्थिति- स्तथाऽप्याख्यातेन साध्यत्वेन प्रतीतस्य प्रसिद्धहोमस्य कथं तेनोपस्थितिः । न च नाम्ना तद्रू- पोपस्थित्यभाबेऽपि नैयमिकाग्निहोत्रादिशब्दो यद्रूपवाचकस्तद्रूपविपरिवृत्तिरस्त्विति वाच्यम् । विध्यर्थं हि प्रसिद्धाग्निहोत्रादिकर्मणो विपरिवृत्तिरिहोच्यते । विधिश्च सिद्धरूपस्य नाम्नोप२५४ अग्निहोत्रचन्द्रिका | स्थाप्यस्य न संभवति भावार्थाधिकरणे धात्वर्थविधिविषयाकारसमर्पणं धातुनैव न तु नाम्नेति प्रतिपादनात् । ततश्च सिद्धरूपस्य नाम्ना विपरिवृत्तिरिहानुपयुक्तैवेति न प्रसि द्वा.ग्नहोत्रादिकर्मणः कुण्डपायिनामयनैकदेशलेन विविसंभवः । एवं च विध्यननुप देय गुणश्रवणेन कर्मणो विधेयतया सिद्धवन्निर्देशाभावेन तद्विपरिवृत्त्वभावात्मके पूर्व कर्मासंनि धानापरपर्याये प्रकरणान्तरे सति मासाग्निहोत्रादिविधेरप्रकृतविषयतया प्रयोजनान्यत्वं कर्मभेद; सिध्यतीति सूत्रयोजना । न चैत्रमण्यनुपादेयगुगनिबन्धनत्वात्कर्मभेदस्य गुणा- त्कर्मभेद एत्र पर्यवस्यतीति वाच्यम् | विधीयमानो हि गुणः पूर्वकर्मण्यसंभवन्कर्म भिनत्ति । न चात्र मासगुगो विधानमर्हत्यनुपादेयत्वात् । एवं ' सरस्वत्या दक्षिणे तीर आग्ने योऽष्टाकपालः पुरोडाशः ' इत्यादिदेशसंयुक्ते " सत्रायाऽऽगर्य विश्वजिता यजेत " इत्यादि निमित्तसंयुक्च वाक्ये द्रष्टव्यम् । प्रयोजनम् – पूर्वपक्षे प्रसिद्धाग्निहोत्रादिषु यावज्जीवादिकालैर्मासस्य विकल्पः कुण्डपायिनामयनेऽग्निहोत्राद्यननुष्ठानं च सिद्धान्ते तु तदुभयाभाव इत्याद्य॒ह्यम् । विस्तरस्तूच्चावचो वार्तिकादावनुसंधेय इति । तस्मात् सर्वस्मिन्विचार्यमाणे मीमांसितेषुवेदन च मासगुणो नित्याग्निहोत्रेण विकल्पयितुं शक्य इति निरवद्यः शाकीयः पन्थाः | अग्निहोत्रादिकर्मसु तत्र तत्राऽऽम्नाये सूत्रेषु चानुष्ठेयपदार्थेषु विकल्पं शृणुमस्तत्र यः को वा कल्प इच्छयैव भवविति प्राप्तमतस्तत्सम्यङ्मीमांस्यमित्ययमुपक्रमः । न खल्वि च्छामात्रेण धर्मानुष्ठानमपि तु नियामकशास्त्रस्य सत्त्वाच्छास्त्रानुसार मनुष्ठानेन भवितव्यम् । आह च तदर्थमेव भगवानाचार्थ:- मंतिर्बहुविदां पुंसां संशयान्नोपजायते । केचिदाद्दुरसावर्थः केचिकासावयं त्विति ॥ धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् । तदर्थं मीमांसया विकल्पपदार्थानुष्ठानं निर्णयामः । एवं हि विकल्पितपदार्थानां दिशो दर्शनम् - १ दक्षिणाग्निमानीय विकुलाद्वा । २ आनन्तर्ये विकल्पः । ३ अधिश्रितमभ्यधिश्रितमधिश्रितं हिम्, ( ङ् ) । इति । इळायास्पदं घृतवच्चराचरं जातवेदो हविरिंदं जुषस्व । ये ग्राभ्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्विति वा ॥ ४ स्रुवेण प्रतिषिञ्च्यान्न वा । ५ प्रागुदगुत्तरतो वा । अग्निहोत्रचन्द्रिका | ६ तूष्णीं स्वधा पितृभ्य इति वा । ७ यवाग्वा पयसा वा । इत्यादयो विकल्पाः शतशो दृश्यन्ते न हि तत्र मीमांसनं विनाऽनुष्ठानं कर्तु सुशकं सुनकं चेदपि न शास्त्रीयं भवति । केचन मीमांसका भगवतो जैमिनेः सूत्रमन्यथा व्याचरव्युस्तप्रदर्श्य ततो यथार्थव्याख्यानं कुमारिलभट्टपादानां प्रदर्शयामः- मक्रमाद्वा नियोगेन ( पू० मी० २ | ४ | २२ ) । ● २५५ - वाशब्द एवार्थे । नियोगेन वैकल्पिकानां पदार्थानां प्रयोगादावेकतर निर्धारणेनैव प्रयो गस्य प्रक्रमादुदिते होष्यामीति निर्धार्य प्रक्रान्तेऽग्निहोत्रप्रयोग उदयात्मवानुष्ठिते सति दोषः । एवमनुदिते होण्यामीति प्रक्रम्योदितहोमप्रयोगेऽपि । अत उभयथाऽपि प्रायश्चित्त विधानं कर्मैकत्वेऽप्युपपद्यते । अत्रोदितानुदितकालयोरन्धतरकलं प्रतिप्रयोगमादौ निर्धार्य प्रयोगक्रभो न तु सर्वप्रयोगादावेव सकृत्तन्निर्धारणम् ' यदि वैमृधं निर्वपेदन्वेव निर्व॑पेत् ' इतिवदत्र वचनाभावात् । प्रत्युत वाजसनेयके चातुर्मास्येषु साकमेधपर्वणि ' आनीकवते क्रैडिने च साकं सूर्येणोद्यता निर्वपति ' इति सूर्योदयकालिके कर्मणि प्रातरग्निहोत्रपूर्वो त्तरकालिकत्वयोरैच्छिकविल्पानुवादो दृश्यते – अथ प्रातरहुते हुते वाऽग्निहोत्र इतरथा कामयेतेति । कल्पकाराणामप्ययमेवार्थोऽनुमतः । आपस्तम्बकात्यायनसत्यापाढादौ हि दाक्षायणयज्ञस्य दर्शपूर्णमासाभ्यामादिविकल्प उक्तः । सोऽयं दर्शपूर्णमासयोः प्रक्रमे विक रुपोऽनेन दर्शपूर्णमासाभ्यां वा यजेतेत्यादिना । तथा वैमृधत्रिपयेऽपि तस्य याथाकामी प्रक्रमे प्रक्रमात्तु नियम्यते ' इत्यादिनाऽऽदिविकल्प उक्तः । धूर्तस्वामिभाष्ये च पुनः पुनः प्रक्रमनियमवचनाद्यत्र प्रक्रमनियमवचनं तत्रैव प्रक्रमनियमो नान्यत्र । तेनाग्निहो- त्रादौ द्रव्यकालादीनां न प्रक्रमनियम इत्युक्तम् ।' होमकाल: संकल्पयितव्यः कर्नादा विति च । तस्मादुदितानुदितकालयोर्न प्रक्रमनियमः । ( श्व आदिविकल्पः [ का० श्रौ० सू० ४-१५४ ]। शाखान्तरादादित एवाऽऽरम्याऽऽन्ताद्विकलः | आदावारम्भ एव विकलो यस्य स आरभ्यते न वेति । यद्यारभ्यते तदा यावज्जीवं क्रियत एव । तदुक्त - रूपं कालोऽनुनिर्वापो देवता श्रपणं हविः । आदौ ये विधताः पक्षास्त इमे सर्वदा मताः || इति । अत्र त्रिकाण्डमण्डनाचार्यः 4 २५६ अग्निहोत्रचन्द्रिका | • रूपं कालोऽनुनिर्वापो देवता श्रपणं तथा । आदौ ये विधृताः पक्षास्त इसे सर्वदा स्मृताः ।। इति । इमे पञ्चाऽऽदौ प्रथमारम्भे ये पक्षा विधृतास्ते सर्वदा यावज्जीवं स्वस्त्रकालेऽनुष्ठेपाः । तानेवाऽऽह – रूपमिति । एतेषामुदाहरणानि देवयाज्ञिकादिभिर्भाष्यादिषु लिखतानि तान्येवोच्यन्ते ---- १ रूपम् - दाक्षायणदर्शपूर्णमासस्त्ररूपादि । -- उदितानुदितादिः । २ काल: --उ ३ अनुनिर्वापः–वैमृधादित्येष्ट्यादिः । ४ देवता — इन्द्र महेन्द्रादिः । ५ श्रपणम् -- गार्हपत्य आहवनीये वा । अत्र सर्वत्राऽऽदिपदेनातिसदृशमेवोपादेयम् । अन्यथा कलशब्देन सद्यस्कालपथ हि कैकाहिकादिनक्षत्रादीनामपि नियमः प्रपद्येत । एवं रूपमित्यनेन सुसदृशं तत्कार्यकारि ग्राह्यम् । तच्च पूर्वोक्तम् । केचिद्रूपोदाहरणं द्यावापृथिवीयस्यैककपालमाज्यमित्याहुः । तच्चिन्त्यम् । कालादिसंपत्तौ कृतप्रायश्चित्तेष्टेस्तदभावे पूर्णाहुत्यसंभवापातात् । न चेष्टा- पत्तिः । व्यवस्थाशास्त्रमसमञ्जसं स्यात् । किंच तत्रापि गव्यत्वादिकमपि परिगृहीतं सुदु. स्त्यजं स्यात् । समिद्रव्यादिष्वपि पर्गमयत्वादीनां पूर्वपरिग्रहापत्तेश्च । तथा च सर्वम शक्यारम्भणीयं च स्यात् । देवतायाः पुनर्विधानाच्च । न्यायस्य त्वगतिक गतिकवात्सर्वेभ्य इत्यत्रैत्र दध्ना तण्डुलैरक्षतैर्वेत्यादिपारस्कर गृयो हो मद्रव्येषु गोभिलेोक्तेषु च परिंगृहीतला- भेऽपि कादाचिःकत्त्रं व्याहन्येत । न च सिद्धमिष्टम् । सायंहोमेषु यद्रव्यं प्रातोंमेषु तद्भवेत् । इतियज्ञपाण्डनचिनार्थ- क्यापाताच्चेति दिक् । १ अन्ये तु रूपमित्यनेन क्रियारूपम् । अनिष्ट इत्यद्भिरभिमृशति सकन्त्रि- त्यादि । २ कालरूपम् - उदितानुदितहोमिनोरप्यपूर्वक्षणरूपम् । ३ मन्त्ररूपम् – प्रत्युष्टमित्यादि । ४ देशरूपम् – प्राक्संस्थमुदक्संस्थादि । ५ द्रव्यरूपम् - आज्यपुरोडाशादि । अग्निहोत्रचन्द्रिका | २५७ ६ बर्हीरूपम् –कुशकाशादि । ७ समिद्रपम्-पलाशोदुम्बरादि । एवमन्यत्सर्बमाचमने प्राङ्मुखोदङ्मुखःआदिकं वदन्ति ते परास्ताः । कालादीनां पृथ- गुपदेशवैयर्थ्यात् । अशक्यानुष्ठानप्रसङ्गाच्च । पूर्वैव योनिः पूर्वावृत्पुनराधानकर्माणि । इत्यादिवचनवैयर्थ्याच्चेति संक्षेपः । अनेन केचन स्वपाण्डित्यरूपापनार्थं पुराणोक्तवतैकादश्यायुगेष्वग्निहोत्राद्यनुष्ठानं नानुतिष्ठन्ति ते तु शास्त्रबहिर्गता इति विद्वगोष्ठीनिवेशनानी इत्यलं तदाचारविचारेण । अन्यत्सर्वमप्यग्निहोत्र.बेपये सूत्राम्नायमीमांसनाविरोधि यदनुटानं तलुकिया विचार्या - नुष्ठेयमिति बिदुषांमतिगोचरः पन्थाः । इत्यलमतिविस्तरेण । इत्यग्निहोत्रमीमांसा । पक्षहोमशेष होमसमस्यहोमानामनुक्तमन्यतो ब्राह्ममिति न्यायादरमःसूत्राविरुद्धवारद्वाजा दिभिः सूत्रितत्वादापस्तम्बाश्वलायनाचार्यैरपीङ्गितेन सूचितत्वादापत्कालोपयोगिनां ग्रन्थे निबन्धनमिति मन्तव्यम् । अथ प्रवास विधिमीमांसनम् | आहिताग्निना प्रवासः कर्तव्यो वा न वेति चिन्तन आपदि कर्तव्य इति प्राप्नोति । कथमापदीत्येतत्समधिगतमुच्यते प्रवत्स्यन्नम्नीन्मज्यश्येत्याचार्यसूत्रम् | प्रवसति यजमाने निव्यहोमा नुमन्त्रणप्रभृतयो विधयो लुप्यन्ते । न हि लोपः शास्त्रीयो भवति । तस्मादापदि प्रवासः । प्रवासकालनियमोऽस्ति वा न वा । अस्तीत्युच्यते । पर्वपर्यन्तं प्रवसितुं शक्यम् | पर्वणि तु स्वयं पर्वणि जुहुयादित्युक्तत्वात्पर्वण्यवश्यं यजमानेन होतव्यम् । अन्यदपि मह- त्यामापदि प्राप्तायां पर्वण्यपि प्रवासः शक्यते । प्रवसत्यमे हविर्निर्वस्यामीत्या पस्तम्बाचा- र्येण सूत्रितत्वात् । ततोऽप्यन्ततो गत्वाऽपि महत्तमायामापदि प्राप्तायामासंवत्सरं प्रत्रासम र्यादा न ततः परम् । इयमनुज्ञाऽपि विमताऽस्ति तथाऽपि निर्दिशामः । तत्प्रामाण्यविषये भूमिदेवा एव नः प्रमाणम् । वृत्तिः - अथ पवित्रेष्ट्यामधिकारिणमाह - सैषा संवत्सरमतिप्रवसतः । ( आ० श्रौं० सू० २ | १३ । ) कर्तव्येति शेपः यः संवत्सरमतीत्य प्रवासं करोति सोऽतिप्रवसंस्तस्यैषा कर्तव्ये - त्यर्थः । इह प्रवसत इति पुंस्त्वमुपलक्षगं पत्न्यामपि प्रवसन्त्यामिष्टत्वात् । तथा च बौधा- यन: - पथो एतत्सोऽपरिमितं प्रवसति । न संवत्सरमतिप्रवसतीत्येवेदमुक्तं भवति । स चेद तिप्रवसेत्पवित्रेष्ट्या यजेतेति । अथो एतत्सोऽपरिमितं प्रवसति न संवत्सरमतिप्रवसती- अग्निहोत्रचन्द्रिका | त्यविशेषाज्जायापत्योरहिताग्न्योर्विज्ञायतेऽर्धो वा एष आत्मनो यत्पत्नी च । ऐतरे. यब्राह्मणेऽपत्नीकस्याप्यग्निहोत्रानुष्ठानं नित्यमभिहितम् । तेन पत्न्याः सत्त्वे तस्याः प्रवासो न मीमांसाभिमत इति विचारसहम् । २५८ अथ पिण्डपितृयज्ञमीमांसा । पितृयज्ञः स्वकालविधानादन स्यात् । ( आ० प० सू० ३६ | ख० २ । ) क०–स्वस्य कालः स्वकालः स्वकालस्य विधौ पितृयज्ञो नामामावास्यायामनारभ्याधी- तस्तस्य स्त्रक, लो विधीयते । अग्निष्टोमे प्रवृणक्तीतिवन्न कर्मसंबन्धः । अत: ' तस्मात्पि- तृभ्यः पूर्वेद्युः क्रियते ' इति कालमात्र विधानादनङ्गं स्यात् । ६० - पितॄणां यज्ञः पितृयज्ञः । अत्र पिण्डपितृयज्ञः पितृयज्ञ इत्यभिधीयते । 'तस्मा पितृ- भ्यः पूर्वेयुः क्रियते ' इति दर्शपूर्णमासकरणे दर्शनात् । कर्ममध्यवर्तित्वादङ्गत्वे प्राप्त इदमुच्यते - अनङ्गं पिण्डपितृयज्ञः स्यात् । कुतः स्वक उविधानात् । अमावास्यायामपराहे पिण्डपितृयज्ञ इति । न ह्यङ्गत्वे पृथक्क लो विधीयते यथा प्रयाजादेः । तुल्यवच्च मसंख्यानात् | ( आ० श्रौ० १० सू० ३७ । ख० २ । ) क०-दर्शपूर्णमासाभ्यां सह तुल्यवत्प्रसंख्या नाद्गणनात्तद्वदेवानङ्गम् । एवं श्रुतिः - चत्वारो महायज्ञा अग्निहोत्रं दर्शपूर्णमातौ चातुर्मास्यानि पिण्डपितृयज्ञ इति । एवं तुल्यवत्प्रसं• ख्यानान्नाङ्गम् । हृ०–तुल्य इव तुल्यत्रत् | प्रसंख्यानं परिगणनं परिगणनादित्यर्थः । एवं हि श्रूयते- ‘ चत्वारो वै महायज्ञा अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पिण्ड पितृयज्ञ इति ' । यद्वा प्रसंख्यानं विधानम् 'अप्यनाहिताग्नेः' इत्याहिताग्नेर नाहिताग्नेश्च तुल्यवद्विधान दिव्यर्थः । अत्र ह्यनाहिताग्नेर्व्यक्तमनङ्गं पिण्डपितृयज्ञ इति । तद्वदेवाऽऽहिताग्नेरपीति । प्रतिषिद्धे च दर्शनात् । ( आ० श्रौ० प० सू० ३८ | ख० २ । ) क०–प्रतिषिद्धेऽमावास्यायागे पिण्डपितृयज्ञो दृश्यते पौर्णमासीमेवयजेत नामाबा- स्यां पिण्ड पितृयज्ञमनुचदंस्तदनङ्गं दर्शयति । ६०–एवं हि शाखान्तरे श्रूयते ' पौर्णामासीमेव यजेत भ्रातृव्यवान्नामावास्यां पिण्डपितृ- यज्ञमेवामावास्यायां कुरुते ' इति दर्शे प्रतिषिद्धेऽपि पितृयज्ञमनुवदन्ननङ्गभावं दर्शयति । अनङ्गत्वाच्च कुण्डपायिनामयने न क्रियते नक्षत्राधानानन्तरे च दर्शेऽपि क्रियते । अदृष्टच- न्द्रायां प्रतिपद्यपराह्णे क्रियत इति प्रयोजनानि । तत्राऽऽहवनीयस्य न प्रणयनमर्थाभा- बात् । नित्यश्चायं पिण्डपितृयज्ञ: ' मासि पितृभ्यः क्रियते ' इति श्रुतेः । 'मासि मासि पितृभ्यः क्रियत इत्यस्याः श्रुतरेर्थोऽधार्यते । तस्मादहरहर्मनुष्याः इति वीप्साधिकारे अग्निहोत्रचन्द्रिका | २५९ श्रयमाणत्वात् । वीप्सायां च नित्याधिकारो गम्यते । यथा - 'वसन्ते वसन्ते ज्योतिष्टो- मेन यजेत ' इति नित्येष्वपि स्वर्गफलं केचन मन्यन्ते । पितृयज्ञः स्वकालत्वादनङ्गं स्यात् ॥ १९ ॥ तुल्यवत्प्रसंख्यानात् ||२०|| प्रतिषिद्धे च दर्शनात् ॥ २१ ॥ ( शास्त्र० अ० ४ पा० ४ अ० ८1) क्रत्वङ्गं स्यान्न वा पिण्डपितयज्ञः क्रतौं हि सः । अमावास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता ॥ ११ ॥ अमावास्यायामपर।ह्णे पिण्डपितृयज्ञेन चरन्तीत्यनारभ्याधीतः पिण्ड पितृयज्ञः क्रत्वर्थ उत पुरुषार्थ इति संशये कर्भवचने नामावास्याशब्देन समभिव्याहारात्तदङ्गत्वम् । यद्यपि काल- स्यापि साधारणोऽयं शब्दरतथाऽपि फलकल्पनापरिहाराय कर्मवाचितैवाङ्गीक्रियते । तस्मात्क्रत्वर्थ एवायमाहिताग्नेः । अनाहिताग्नेरप्यनाहिताग्निना कार्य इति विहितः । तस्य ऋत्वभावाद्भवतु पुरुषार्थः । तथा च भगवता मनुना ' न दर्शेन विना श्राद्धनाहिताम्मेर्द्वज न्मनः ' इति वदता दर्शाङ्गत्वं प्रदर्शितम् | अनङ्गं हि तेन विना क्रियते तस्माद्दर्शाङ्गम् । नैवं साधारणत्वेऽपि सामानाधिकरण्यतः । कालवाचित्वमेव स्यात्तत्सापेक्षच कर्मणि ॥ यद्यपि तावत्साधारणोऽमावास्याशब्दस्तथाऽप्यपराह्नसामानाधिकरणय लिप्सया कालवा- चित्वमध्यवसीयते । न चायमतीतसाधारणः | काले हि निरपेक्षोऽयं कालसंबन्धापेक्षया तु कर्माण वर्तते । तस्मात्कर्मसमभिव्याहाराभावादनङ्गम् | मनुवचनस्य त्वयमर्थः – श्राद्ध शब्देन मासि मासि श्राद्धमुच्यते । दर्शशब्देनाप्यमावास्याकालः । तदयमर्थः—अमावा स्यायामेबाऽऽहिताग्निः श्राद्धं कुर्यान्न तेन विना सर्वेष्वेवापरपक्षाहःसु क्रियमाणः पितृमीणा- तीतिःमृत्यन्तरवशादन्येष्ञप्यहःसु कुर्यादिति । एवं च स्मृयन्तरमनाहिताग्निविषयं भवि- ष्यति । तत्सिद्धं पिण्डपितृयज्ञस्यानङ्गव्यम् । अथाऽऽग्रयणमीमांसा | यद्यपि पूर्वमाश्रयणमीमांसा प्रादर्शि तथाऽपि कश्चित्तच्छेभूत एव भागः प्रदर्श्यते---- अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि । ( शा० ३४ । अ० १२ । पा० २ अ० १४ । ) बहिराग्रयणे किंचित्प्रसूनं वा बहुत्वतः । प्राथम्याच्चाग्रिमो मैवमलोपात्कांस्यभोजिवत् ॥ १९ ॥ आग्रयणेष्ट्यामैन्द्राग्नवैश्वदेवद्यावापृथिव्यानि वीषि तत्र द्यावापृथिव्यस्य वैश्वदेविकद्या- वापृथिव्य विकारित्वात्प्रसूनं प्राप्समैन्द्राग्नादेश्व प्रसूनसूनं वा बहिर्मात्रं तत्र समानतन्त्रेषु किं प्रसूनमप्रसूनं वोपादेयमुत प्रसूनमेवेति संशये मुख्यत्वाद्भूयस्त्वाच्चा नियम एव युक्तः । २६० अग्निहोत्रचन्द्रिका | मॆवैम् । न ह्यनियमो नाम किंचिदङ्गं यदनुगृह्येत बर्हिर्मात्रं त्वङ्गं तच्च सूनोपादानेऽप्यवि रुद्धमिति न कस्यचिद्वैगुण्यम् । अनियमे तु द्यावापृथिवीयस्य वैगुण्यं स्यात् । न चावैगु- ण्यसंभवे तद्युक्तम् । तस्मात्प्रसूनमेव स्यात् । तत्प्रवृत्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तवाकेन ॥ ३५ ॥ न वाsविरोधात् ॥ ३६ || अशास्त्रलक्षणाच्च || ३७ || ( शा० अ० १२ पा० २ अ० १५ । ) द्यावापृथिव्यस्तन्त्री स्यात्सर्वे वा तन्त्रिणोऽग्रिमः । • मैपन्यायात्मसूनस्य तन्त्रित्वापादकत्वतः ॥ २० ॥ प्रसूनत्वं नोपदिष्टमविरोधात्समाश्रितम् । विनित शक्तं नातः सर्वेऽत्र तन्त्रिणः ॥ २१ ॥ एवं सर्ह्यनेनैव द्यावापृथिव्यतन्त्रलिङ्गभूतेन वषां सर्वमेवेदं द्यावापृथिवीयं तन्त्रमैन्द्रा- ग्नादेस्तु तदेव तन्त्रं प्रसज्यतेऽतो विरुद्वेष्वपि धर्मेषु द्यावापृथिवीय एव स्यात् । नह्ये- तदैकान्तिकं द्यावापृथिवीयतन्त्रलिङ्गं साधारणमिदमविरोधात्संगृहीतं न त्वनेन द्यावापृ थिव्यं तन्त्रं नियन्तुं शक्यम् | तस्मात्सर्वे तन्त्रिण इति विरुद्धेषु धर्मेषु ऐन्द्राग्नादिधर्मः कर्तव्यो मुख्य भूयस्त्वाभ्यामिति । अत्राऽऽहिताग्नेः कश्चिदापकालिकत्वेन समुपस्थितः कल्पो गृह्यसूत्रोक्तः समुल्लिख्यते – पूर्व स्थालीपाकः कार्य इति तावदापस्तम्बाचार्येण सूत्रितं तथाऽऽश्वव्ायनाचार्योऽपि सूत्रयांबभूत्र तत्प्रदर्श्यते— सजूर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा | सजूर्ऋतुभिः सजूर्वि- धाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा | सजूर्ऋतुभिः सजूर्विधाभिः सजूर्यावा- पृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणस्थालीपाकः । अनाहिताग्नेरपि शालाग्यौ । ( आ० गृ० सू० २ | २।४–५। ) ● भाष्यम् – सजूर्ऋतुभिरित्येवमादयस्त्रयो मन्त्राः । एतैराहित मेरा प्रयणस्थालीपाको भवति । आर्हिताग्निवचनं किमर्थम् । विशेषादाहिताग्नेश्चानाहिताग्नेश्च भविष्यति । यथा श्रवणकर्मोच्यते । यथाऽऽहितार्न विधीयते त्रेतायामाग्रयणस्थ लीपाको न स्यात् । कस्मा- दाग्रयणस्य विहितत्वात् । अथ कोऽयं स्थालीपाको भवति । आहिताग्निरिति त्रेताया मिति वर्णयन्ति । तत्र न प्राप्नोति कस्मादेकाग्निप्रकरणे विहितत्वात् । उच्यते - प्रकरणं बाधित्वा त्रेतायाभेव भवति । भवति किं कारणम् । अनाहिताग्नेः शालाग्नाविति नियमोपदेशात् । शास्त्रान्तरदर्शनाच्च । “गार्हपत्ये स्थालीपाकं श्रपयित्वाऽमये देवताभ्यः स्विष्टक चतुर्थाभ्यः" इति । तस्मात्त्रेतायां भवति । तत्रैव वक्तव्य इह विधानमेतत्प्रयोजनं पाकयज्ञप्राप्त्यर्थम् । आहिताग्नेरपि शालग्नावनाहिताग्नेश्वं शालाग्नावा ग्रयणस्थालीपाको भवति । अथ अग्निहोत्रचन्द्रिका | शालाग्नौ वचनमपार्थकम् । कस्मादशालाग्नेर्भविष्यति । कर्मणः प्राप्तवान् । शालाग्निगृहा इत्युच्यते । एवं सिद्धे शालाग्निग्रहणं वाऽऽप्रयणं ज्ञापयति । पूर्वविधानं शालाग्नौ भवतीति । तेन त्रेतायां तत्सिद्धं भवति । एतेनैते सर्वे पक्षा अग्निहोत्रहोमादय आग्रयणस्थालीपा- कान्ता आहिताग्नेर्विकल्प्यन्ते । कस्मादेकार्थत्वात् । अनाहिताग्नेश्चाऽऽग्रयणस्थालीपाको गृह्यत एवं भवतीति सिद्धम् । ना० दृ० -- अविशेषादाहित ग्नेरपि सिध्यति श्रवणाकर्म,दिवत् । आहिताग्निग्रहणं किमर्थम् । अत्र ब्रूमः — आहिता नैराणान्तरस्य विहितवादेत प्रचणं न प्राप्नोति । तस्मादाहिताग्निग्रहणम् । अयं चाऽऽपकाले द्रष्टव्यः । इदं चास्य त्रेतायां भवति नौपा. सने । तत्तु साधयिष्यामः । शास्त्रान्तरे च दृदफ्ते 'आग्रयणदेवताभ्यः विष्टकृच्चतुर्थान्धः इति । तस्मात्रेतायामिति सिद्धम् । इह तु विधानं पाकयज्ञधर्मप्राप्यथम् । अनाहिताग्नेरपि शालानौ । 4 दृत्तिः—अनाहिताग्नेरण्याप्रयणं कार्यम् । तच्च शालाग्नौ भवति । शालाग्निनमिपा- सनः । तार्है शालाग्निग्रहणमपर्थकम् | सत्यम् | नियमार्थं तु तत् | अनाहिताग्नरेबों- पासन इति । तेनाऽऽहिनाग्नेस्त्रेतायामिति सिद्धम् । स्विष्टकृतं हुन्वा चरोरेक देशं गृहवा सव्ये पाणौ कृत्वा दक्षिणेन।भिमृशेत् ' प्रजापतये त्वा ' इति मन्त्रेण । ततः भद्रान्नः श्रेयः ' इति प्राश्य तत आचम्य तत्रैवाऽऽसीनो नाभिमालमेत अमोऽसि ' इाते । पत्नी हविः शेषं प्राश्नाति तृष्णीम् । होमशेषं समापयेत् । एतत्प्राशनमाग्रयाद्वयेऽपि भवति । सौकर्यार्थमिदमत्र लिखितम् । इदं चाऽऽग्रयणं यदा वर्षस्य तृप्तः स्यात्तदा भवति शरदीत्यर्थः । तथा च वचनम्- -' शरदि त्रीहिभिर्यजेत' इति । तत्र च पर्वणि भवति । यवाग्रयणंचन कार्यम् | श्याम कैस्तु प्रस्तरं कुर्यान्नाऽऽग्रयणं दृष्टत्वात् । अपि वाऽत्र समानतन्त्रं कुर्यात्सौम्यं चरुम् । अस्य च नामधेयेन होमः | आग्रयणस्थाली- पाक इत्यत्र च विशेषणसमास आग्रयणं चासौ स्थालीपाकश्चेति । तत्र स्थालीपाकग्रह - णस्येदं प्रयोजनम् । अनाहिताग्नेः स्थालीपाक एव कार्यः । अग्निहोत्री वै नानादयित्वे- त्ययं पक्षः कार्य इति । k आहितानेर| ग्रयणानुकल्पस्थालीपाकप्रयोगः | संस्कारमीमांसायां प्रदर्शितरीत्या पार्वणस्थालीपाकोक्तरीत्या गार्हपत्ये समित्त्रयं हस्ते गृही. त्वाऽस्मिन्गार्हपत्ये जातवेदसमग्निमिध्मेन प्रजापतिं प्रजापतिं चाऽऽघारदेवते आज्येनाग्नीषो- . मावाज्यभागावाज्येनात्र प्रधानम् इन्द्राग्नी विश्वान्देवान्द्यावापृथिवी च चरुद्रव्येण शेषेण स्विष्टकृतमग्निं प्रजापतिं प्रायश्चित्तदेवतामाज्येन सधो यक्ष्ये । ततः परिसमुझ परिस्तीर्य २६२ अग्निहोत्रचन्द्रिका | चतुरश्चतुरो मुष्टीन्प्रतिदैवतं निरुप्य तथैव मोक्ष्यावहत्य त्रि: • शुक्लीकृत्य त्रिः मक्षाल्य पात्रे सुशृतं चरुं पचेत् । ततः— सवितुष्टा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः | इति सकृन्मन्त्रेण द्विस्तूष्णीमाज्यमुत्पूय (अङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्याम- प्रच्छिन्ना प्रावनन्तर्गम मादेशमात्रौ कुशौ नानाऽन्तयोर्गृहीत्वा ) शतं हविः सुवगृहीतेनाऽऽ. ज्येनाभिधार्योदगुङ्कास्य बर्हिष्यासाद्य स्रुवगृहीतेनाऽऽज्येने ममभिधार्य अयं त इध्म आत्मा जातवेदस्तेनेभ्यस्त्र वर्धस्व चेद्ध वर्धय चास्मान्मजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । जातवेदसेऽग्रय इदं न मम । इतीघ्ममग्नाबाधाय ततः स्रुवेणाऽऽज्यमादायाऽऽघाराबाघार्य स्रुषेणाऽऽज्यमादाय - अग्नये स्वाहा अग्नय इदं न मम । सोमाय स्वाहा सोमायेदं न मम । इत्याज्यभागौ हुत्वा पात्रान्तरे चरुमुत्य पृथक्कृत्य ( नात्राभिमर्श ) अवदानधर्में- णावदाय सर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा । इन्द्राग्निभ्यामिदं न मम । सर्ऋतुभिः सजूर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । सर्ऋतुभिः सजूर्विधाभिः सजूर्यावापृथिवीभ्यां स्वाहा । द्यावापृथिवीभ्यामिदं न मम । यदस्य कर्मणोऽत्यरी रिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वे स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्पयित्रे सर्वान्नः कामान्त्समर्धय स्वाहा । स्विष्टकृतेऽग्रय इदं न मम । इति स्विष्टकृतं ह॒त्वा चरोरेकदेशं गृहीत्वा सव्ये पाणौ कृत्वा दक्षिणेन पाणिनाऽभि मृशेत् । तत्र मन्त्रः- प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय | अग्निहोत्रचन्द्रिका | ततो भक्षयेत् । तत्र मन्त्र- भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे || तत आचम्य तत्रैवाऽऽसीनो नाभिमालभेत । तत्र मन्त्रः- - २६३ अमोअसे प्राण तदृतं ब्रवीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एधि मा मृथाम इन्द्र || इति नाभिमुपस्पृश्याप उपस्पृशेत् । ततः पत्नी हविःशेषं प्राश्नाति तूष्णीम् । ततः - भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न मम । इति प्रायश्चित्ताहुतिं स्रुवेणाऽऽज्यद्रव्यकां हुत्वा पूर्णपात्रमभिमृशन्तीं वाचयेत् । तत्र मन्त्रौ - पूर्णमास पूर्ण मे भूया: सुपूर्णमास पूर्ण मे भूयाः सदसि सन्मे भूयाः सर्वमसि सर्वे मे भूयाः । अक्षितिरसि मा मे क्षेष्ठाः | पन्यञ्जत्रिमुत्तानमात्मनश्च सव्यं पाणिमुत्तानं निधाय पूर्णपात्रं निनयंस्तां वाचयेत् - माऽहं प्र॒जां परासिचं या नः सयावरी स्थन । समुद्रे वो निनयानि स्वं पाथो अपीथ || उपतिष्ठेत — ॐ च मे स्वरश्च मे यज्ञोप च ते नमश्र | यत्ते न्यूनं तस्मै त उप यत्तेऽतिरिक्तं तस्मै ते नमः ॥ इत्युपस्थायाऽऽचम्यानेनाऽऽग्रयणानुकल्पस्थालीपाकेन कर्मगा भगवानग्झिरूपी परमे- श्वरः प्रीयताम् । आचामेत् । मन्त्रभाष्यम् | सर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा । भाष्यम् – हे, आहुते त्वमृतुभिर्वसन्तादिभिः सजूः समानप्रीतिरसि । वसन्तादीनां प्रीतिस्तादृशी तबेत्यर्थः । एवमुत्तरत्रापि सजूःशब्दो योज्यः | विविधं जगद्दधति पोषय- न्तीति ब्रह्मादयो विधास्तैर्विधाभिः । एवमग्रे योज्यम् । अन्येषां मन्त्राणां भाष्यमाग्रयणम- न्त्रभाष्ये कृतमेव । अवशिष्टानां संस्कारमीमांसायां प्राकाशि । इति । इति मन्त्रभाष्यम् । अग्निहोत्रचन्द्रिका | अथ प्रायश्चित्तमीमांसा | र्गणसूत्रेणास्य शब्दस्य साधुत्त्रम् । तथा च गणसूत्रम्- प्रायस्य चित्तिचित्तयोः " ।

।यश्चित्तम् । तथा च प्रायशब्दः - प्रायः पापं विजानीयाच्चित्तं तस्य विशोधनम् " | २६५ याची “ प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते " इतिस्मृतेः कारान्तः पुंलिङ्गस्तपोवाची च । आपस्तम्ब: प्रायश्चित्तं विध्यपराधे विधीयते " ( आ० श्रौ० सू० ९ । ० रुद्रदत्त:- ने सोमादवश्चि नित्यानि कर्माणि यानाह हविर्यज्ञप्रकृतीन्याचल्यु- नीं प्रायश्चित्तवचनमारभ्यते श्रुतिलक्षणमिति । श्रुतिर्लक्षणं यस्य हरणार्थं कर्म प्रायश्चित्तमित्याख्यायते । विधीयत इति विधिः कर्म | दिप्रभवो दोषोऽपराधः । स च कर्मणो वैगुण्यं कार्यशक्तिवैकल्प- मर्थः– कर्मदोषे निमित्ते श्रुतिप्रमितं प्रायश्चित्तमुपदिश्यत इति । 'माणस्य श्रुतिलक्षणत्वे केन विशेषेणोक्तं श्रुतिलक्षणं प्रायश्चित्तमिति । णेभ्यो नास्ति विशेषस्तथाऽपि पुरुषार्थेभ्यः प्रायश्चित्तेभ्यः क्रत्वर्थानां ISSदर विशेषार्थं पुरुषापराधे महापातकादौ स्मृतिलक्षणमेव प्रायश्चि साक्षाच्छ्रतिलक्षणमिति । अथवा यत्पुरुषापराधप्रायश्चितं स्मृतिलक्षणं । कर्मापराधप्रायश्चित्तं त्विदानीं श्रुतिलक्षणत्वाद्विवीयत इत्यर्थः । वे श्रयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात् ' · सू० ९ । १ । २) । नन्निमित्तेऽनेकानि प्रायश्चित्तान्याम्नायन्ते यथा दर्शपूर्णमासातिपत्तौ चेत्यादि तानि तत्र समुच्चीयन्ते न तु विकल्प्यन्ते । कुतः - -अग्निहोत्रचन्द्रिका | अर्थान्तरत्वात्प्रयोजनान्यत्वात् । व्रीहियववदेकार्थानि विकल्प्यन्ते न तु ब्रीह्माज्यादिवद्भि- नार्थानि । ननु दोषनिर्घातमेषामर्थं वक्ष्यति दोपनिर्घातार्थानि भवन्तीति स चैक एव सर्वे- षामैकार्थ्याद्रिकल्प एवं शोभते । अत्र वदामः - स्थितमिदं तावन्न्यायविदां यन्निमित्ते कर्माङ्गानि (णि ) प्रायश्चित्तानीति । तत्र चैकस्मिन्निमित्तेऽनेकेषामुपदेशात्तेषां चामीषां युगपंदेकप्रयोगविधि परिग्रहाद्दोष निर्घातस्य चादृष्टरूपत्वेन ब्रीहियवा दिवकैकस्य तत्साधनसामर्थ्य प्रमाणाभावाच्च पानलेपविरेकैरिव पाप्मानमपनद्भिरवान्तर कार्यभेदेन समुच्चितैरेव सर्वेोपो निर्हण्यत इति गम्यते । तस्मात्सूक्तमर्थान्तरत्वात्समुच्चीयत इति । स्यान्मतं वाक्यतस्तेषामेकैकस्य नैरपेक्ष्यावगमान्न समुच्चयसिद्धिरिति । तदपि मन्दम् | अश्वेन याति दीपिकया यग्वीत्यादिवत्स्वसाध्यांश नैरपेक्ष्येणापि तदुपपत्तेः । इतरथाऽजया क्रीणाति हिरण्येन क्रौणाति धेन्वा ऋणातीत्यत्र ऋद्रव्याणामपि समुच्चयासिद्धेश्च | तस्मान्न काचि- त्समुच्चयानुपपत्तिः । यानि तु शाखान्तरीयत्वेनोपन्यस्तानि सूत्रकृता तत्र विकल्प एव । यथा-- -~देवाञ्जनमगन्यज्ञ इत्येकेषामित्यादौ । यत्र तु सामान्यविशेषभावेनोपदेशस्तत्र पुनर्बाध एव सामान्यस्य । यथा——अस्कान्द्यौरिति स्कन्नाभिमन्त्रणस्य यदद्य दुग्वमित्यभिमन्त्रणेने त्यादि । समुच्चीयन्तां कामं प्रायश्चित्तानि तान्येव तावद्व्याख्यायन्तामिमानि नामामूनीति । तत्राऽऽह -- - · श्रौ० १० सू० ९ । १ । ३ । ) ● ' जपो होम इज्या च ' । ( आप० वृत्तिः --चः प्रकारबचनोऽन्यान्यप्यनुमन्त्रणोपस्थानोपसमिन्धनपुनराधानादीनि संग- ह्णाति । तेषामपि प्रायश्चित्तत्वेन वक्ष्यमाणत्वात् । त्रितयोदाहरणं तु तेषां प्राधान्यख्यापनार्थं बाहुल्याभिप्रायं चेति द्रष्टव्यम् । सन्त्वेतानि प्रायश्चित्तानि समुच्चीयन्तां चार्थान्यत्वात् । कस्मै पुनरर्थाय तानि क्रियन्तेऽत आह- ‘ दोषनिर्घातार्थानि भवन्ति १ ( आप ० ० सू० ९।१।४।) वृत्तिः-दोषः कर्मणो वैगुण्य मित्युक्तम् | तन्निर्वातेन कर्मण उपकुर्वन्ति कार्यशक्ति- मविकलां कुर्वन्तीत्यर्थः । कथं पुनरेतेषां तादर्ध्यमिति चेत् - एतस्मिन्वैगुण्य एतत्कर्तव्य. मित्युक्ते तत्समाधानस्यापेक्षितत्वाद्वैगुण्यपरिहारार्थमेव तदवसीयत इति भावः । अस्त्वेषां दोषनिर्धातः फलं कालोऽप्येषां व्याकरणीयः । किं कर्मकाल एत्र कर्तव्यानि उता- पवृक्ते कर्मण्याहोस्विदिष्ट्यादेः पर्वाद्यपेक्षत्वात्स स काल: प्रतीक्षणीय इति । तत्राऽऽह- , अनन्तरं दोषात्कर्तव्यानि ' ( आप० श्र० सू० ९ । १।५।) वृत्तिः—अतादिचिकित्सावदनन्तरं दोषादेतान्यनुष्ठितान्येव दोषं निर्हण्युर्नान्यथेति भाव: । एतेन प्रायश्चित्ताधा नपाप्यतुनक्षत्राचनपेक्षत्वं व्याख्यातम् । अग्निहोत्रचन्द्रिका | २६७ ' निर्हते दोषे पुनः कृत्स्नं कर्म ( आप० श्रौतसू० ९ | १ | ६ । ) ‘ । । - हात्तः— एवं प्रायश्चित्तेन निर्हते दोषे ततः कर्मशेषः कार्य इत्यर्थः । यदष्यकृतमय- यथाकृतं वा (सत्) कृते प्रायश्चित्तेऽङ्गं प्रधानं वा तदपि यथा क्रियेतेत्युक्तं कृत्स्नमिति । तत्राङ्गमपवृक्ते कर्मणि न क्रियते प्रधानानुपकरात् | द्रव्यसंस्कारस्तु परतो द्रव्योपयोग न क्रियते तदर्थत्वात् । प्रधानमण्यपक्तकलं न क्रियतेऽकाले कृतस्याकृतत्वात् । गौणकाले तु क्रियत एव मुख्याभावे गौणस्यापि ग्राह्यत्वात् । तेनःर्व कपरपर्वणः क्रियैव दर्शपूर्ण मासयोस्तच्च परस्ताद्दर्शयिष्यामः | केचित्तु व्याचक्षते - निर्हते दोपे पुनः कर्म कृत्स्नं भवति सकलं भत्रति फलदानसमर्थं भवतीति । ननु निर्हनदपमपि कर्म दोषागम विकल शक्तिकं सत्कथं कार्यााय कल्पते न हि शवेध पादेन खज: 'संनुत्खातशल्योऽपि . पन्थानं प्रतिपद्यते । तेन प्रयुक्तस्य कर्मगोऽपार्थकत्व नः प्रयोगेग भववितव्यम् । - अत अ ह— 'तस्य नावचनात्पुनः प्रयोगः । ( आप ० ० सू० ९।१।७। ) वृत्तिः— तस्य सकृःप्रयुक्तस्य कर्मणो नर्ते बचनात्पुनः प्रयोगो भवति । भवत्येव तु वचनात् । यथा—“ अन्यां दुग्ध्वा पुनर्हेतव्यमथान्यामिष्टिमनुलवणां तन्वीत " इत्यादौ । को ह्यदृष्टार्थस्य कर्मणः कार्याकार्यते शक्यशक्ती वा जानीयात् | नो खल्वन्धो रूपविशेषान्पश्यति तस्माद्यस्य शास्त्रमेव पुनः प्रयोग शास्ति कामं तत्र प्रयोक्ष्यते प्रत्येष्यते च तस्य पङ्गोरिव कार्यशक्तिः । यत्र तु न शास्त्रमस्ति कुतस्तत्र पुनः प्रयोगः । प्रत्येष्यते तु तत्र प्रयुक्तस्यैव कर्मणश्चिकित्सितपटलस्येत्र चक्षुत्रः कार्यशक्तिरित्यलं प्रसङ्गेन। इति वृत्तिः । एतत्सर्वं मनसि नित्राय लेकरांबभूत्र मण्डन चार्थ:-- प्रायश्चित्ते कृते पश्चातीतमपि कर्म वै । कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः || साक्षाच्छ्रत्या विहितं प्रायश्चित्तं तु प्रायश्चित्तप्रकरणे दर्शितमस्माभिरैतरेयब्राह्मणमुदाहृ त्येति न पुनस्तद्विषये प्रयत्यते । इदानीं जैमिनीयतन्त्रस्थः प्रायश्चित्त विचार: प्रस्तृयते - प्रायश्चित्तेषु चैकार्थ्याभिष्प नेनाभिसंयोगस्तस्मात्सर्वस्य निर्धातः । (जैमि- नीयतन्त्रे १२ । ३ । १६ ) दीपिका – यानि प्रायश्चित्तानि कर्मवैगुप्ये • निमित्त विधीयन्ते, यथा- “ यद्यक्त २६८ अग्निहोत्रचन्द्रिका | यज्ञ आर्तिमियाद्भूः स्वाहेति गार्हपत्ये जुहुयात्, योऽमावास्यां पौर्णमासी वाऽतिपातयेदग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्योऽमावास्यां पौर्णमासीं वाऽनिपातयेद्वैश्वानरं द्वादश- कपालं निर्वपेत् ” इत्यादीनि वैगुण्यसमाधित्सायां विधानात्समाधानार्थानि । यान्येक स्मिन्वैगुण्ये विधीयन्ते पथिकद्वैश्वानरादीनि तेषां विकल्पसमुच्चयचिन्तायामदृष्टार्थत्वात्समु च्चयप्राप्तावेकैकेन वाक्येन वैगुण्यसमाधानाय निरपेक्षविधानाद्विकल्पः । सूत्रार्थस्त्वेवम् – प्रायश्चित्तेषु यस्मान्निष्पन्नेन वैगुण्यरूपनिमित्तेन योगस्तस्मादैकार्थ्यं, ततश्चैकेन सर्वस्य वैगुणस्य निर्धात इति विकल्प इति । अत्राऽऽपस्तम्त्राचार्यः समुच्चयं सूत्रयांबभूवेति प्रादुर्शयं प्रागेव | इदानीं तु शिष्टसमाचारो मीसांसकमतेनोभयोः प्रायश्चि- तयोर्विकल्प एव । वस्तुतस्तु प्रयोगशास्त्रानुसारं समुच्चय एवैष्टव्यो याज्ञिकप्रवरैः । अत्र विद्यारण्याः- - चैश्वानरे पाथिकृते साहित्य वा विकल्पनम् । साहित्यं स्याददृष्टाय विकल्प: स्यात्समाधये ॥ समुच्चयस्त्वदोषार्थेषु । ( जै० त० १२ । ३ । १७ ) दीपिका-या पुनर्न दोषनिर्घातार्थानि निमित्ते कर्माङ्गानि (णि) भिन्ने जुहोती- त्यादीनि तेषां प्रयाजा दिवदपर्यायविधानात्समुच्चय इति प्रत्युदाहरणमात्रमेतत् । अत्र विद्यारण्या:- भिन्नस्कन्नादिहोमादेर्विकल्पो वा समुच्चयः । विकल्पः पूर्ववन्यैव मदोषे विहितत्वतः ॥ एतदेव सूत्रं सुबोधिन्यामन्यथापाठं स्वीकृत्य व्याख्यातम् । तद्यथा- समुच्चयस्त्वदोषोऽर्थेषु । ( १२ । ३ । १७ ) सुबोधिनी – यत्र यादृशानीमत्ते ऋतुवैगुण्यं पुरुषस्य प्रत्यवायो वा न श्रूयते किंतु कर्तव्यतामात्रं श्रूयते तादृशकर्मणां प्रयाजा दिवदङ्गत्वमात्रावगमात्समुच्चय इति पूर्वाधिकर णापवादमात्रम् । अस्योदाहरणं शास्त्रदीपिकायां भिन्ने जुहोति, स्कन्ने जुहोतीति । भाष्ये तु यस्याहुतेऽग्निहोत्रमहुतं सूर्योऽभ्युदेति, अनुद्धृतेऽभ्युदियाद्वेति, उभयत्रापि मेदनस्कन्दना - दिरूपनिमित्तभेदाद्द्वयोः समुच्चयस्य सिद्धत्वेनानेन सूत्रेणानुवादमात्रं कृतमिति बोध्यम् । प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात्तदर्थे हि विधीयते । ( जैमिनीयतन्त्रे ९। ४ । २८) दीपिका— अग्निहोत्रे श्रृयते - अग्निहोत्रचन्द्रिका | ‘ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्व॑पेयस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत् । इति । तत्र संशयः—यदा दर्शार्थेनोद्धृतोऽग्निरग्निहोत्रकाल उद्वाति किं त्दा ज्योति- ष्मतीष्टिः कर्तव्या नेति । तदर्थमिदं विचार्यते – किमग्निविशिष्टोद्वानानिमित्तमिदं कर्मा ग्निहोत्रस्याऽऽ।दुपकःरकमुतोद्वानपरीताग्निनिमित्तं तस्यैवानरुत्पादकं सामवायिकमिति । - किं प्राप्तम् - ' • उदायोदिति लिश्रुत्या धात्वर्थस्य निमित्तताम् । बदत्यग्नेस्तु वाक्येन तस्मादारादुपक्रिया ' || २६९ ★ यदा हि वाक्यमम्याग्निनिमित्तत्वातिरस्कारेण पदश्रुत्योद्वानस्य निर्मित्तता तदोद्वानस्य क्रत्व नङ्गत्वेनासंस्कार्यत्वादग्नेस्तु विशेषणत्वेन कार्यान्वयाभावादारा दुपकार कत्वमेवेतिनिमि- तस्य च प्रकरणेन विशेषणासंभवादर्शार्थस्याप्युद्धृतस्याग्नेरुद्वाने संजातं निमित्तमिति कर्त- व्येष्टिरिति प्राप्ते ब्रूमः — उद्वानस्याग्नियुक्तस्य नित्यत्वान्न निमित्तता । न च तस्याग्निना व्याप्तिः कदाचिदपि विद्यते || अग्निसंबन्धस्तावदुद्व।नपर्यायस्य विनाशस्यावयवशः सर्वदा विद्यमानो न निमित्तं भवति । न च विनाशस्य चिन्तित निमिषितादिषु सर्वदा विद्यमानस्याग्निना वा व्याप्तिः संभवति यो निमित्तं स्यात् । उद्वानपरीतस्य त्वग्नेर्निमित्तता युक्ता | कादाचिकी हि तेनाग्नेर्व्याप्तिर्नतु सदातनी । यद्यभ्यग्नेरप्युद्वानसंबन्धो नित्यस्तथाऽपि व्याप्तिरनित्या तेनाग्निरेवात्रोद्वानव्याप्तो निमित्तम् । तस्योद्वानपरीतस्य कार्यायोग्यस्योत्पत्त्यर्थेयमिष्टिर- ग्निहोत्राङ्गमग्निहोत्रार्थस्य चाग्नेरुद्धृतस्पोत्पादनं कुर्वति अग्निहोत्रा स्पान्नान्यार्थस्त्र | तस्माद्दर्शार्थनामा बुद्धृत उद्वाने नैतप्रायश्चित्तम् । सूत्रार्थः–प्रसङ्गादग्निहोत्रोपकार के दार्शिके प्रायश्चित्तं न विद्यते परार्थत्वात् । अग्नि- होत्रार्थ एव प्रायश्चित्तं यस्मा द्विधीयत इति । धारणे च परार्थत्वात् (जै० त० ९ । ४ । २९ )। क्रियार्थत्वादितरेषु कर्म स्यात् ( जै० त० ९ | ४ | ३० ) । दीपिका – इदमाम्नायते- 6 धार्यो गतश्रिय आहवनीय: ' । इति । तत्र यदा ध्रियमाणोऽग्निहोत्रकाल उद्धाति तदा किमिष्टिः कार्या नेति संदेहेअग्निहोत्रचन्द्रिका | 'अग्निहोत्रार्थ उदाते प्रायश्चित्तमिदं श्रुतम् । धार्यस्य चारित तादर्थ्य सर्वार्थ धार्यते ह्यसौ || सर्वकर्मणां धार्थमाणोऽग्निः प्रत्येकमङ्गमतोऽग्निहोत्रार्थताऽप्यस्तीति तदुदाने कर्तव्येष्टिः | नैवम्- २७० अन्यार्थमुद्धृतो ह्येष गतश्रीत्वेन धार्यते । धारणस्य निमित्तं तन्नोद्धारस्याश्रुतत्वतः || न हि गतश्रीत्वेन पुरुषस्याग्न्युद्धरणं श्रुतं येनोद्धरणमुद्धृतो वाऽग्निः सर्वार्थ: स्यात्, किंतु धारणमात्रम् | तेन यदा यत्किंचित्कर्मविशेषमधिकृत्याग्निमुद्धरति तदा तस्य धारण मात्रं गतश्रीत्येन *कारोति । यस्मिंश्च कर्मण्युपसंप्रतेरग्निरुतस्तदर्थमेवोद्धरणमुद्धृतश्चाग्नि- स्तदर्थ एव । निमित्तवशाद्धार्यमाणः प्रसङ्गादग्निहोत्रस्योपकरोतीति प्रायश्चित्तम् । सूत्रार्थः–धारणविषयेऽपि न प्रायश्चित्तमुद्धरणस्य परार्थत्वादिति । द्वितीयसूत्रार्थः–नन्विय मिष्टिरमावे वादृष्टविशेषं जनयेदग्नेः संस्कारः । एवं सत्यग्निहो त्रार्थमनुद्धृतेऽभ्यग्नौ पर्युक्षणपरिसमूहनादिरूपसंस्काररतथाऽयमपि स्यादेवॆत्यत आह–क्रियेति । इतरेषु पर्युक्षण|दिषु क्रियार्थत्वात्क्रियानिमित्तोऽग्निसंस्कारस्तदर्थत्वात्कर्मानुष्ठानं स्यात् । अयं भावः–पर्युक्षणादिकर्मणां नित्यवच्छूतत्वेनानित्यमनुष्ट नं युक्तम् अस्य तूपरागे निमित्ते स्नानेनाऽऽत्मसंस्कारवन्नैमित्तिकत्वेन निमित्ताभावेऽनुष्ठातुमशक्यत्वादिति । न तदुद्दा ने अग्निहोत्रस्थास्यादिमुन्मयं भिन्नं चेद्भूमिभूमि मित्येतेन मन्त्रेणापोऽभ्यवहरेदित्यत्र मीमांस्यते । तदिदं दर्शापूर्णमासन्यायं प्रदर्थ ममांसाम- अर्थसमवायात्प्रायश्चित्तमेकदेशेऽपि ( जै० त० ६ । ४ । १० ) । दीपिका— दर्शपूर्णमासयोः कपालमधिकृत्य श्रूयते — “ भिन्ने जुहोति ” इति । तत्र संशयः-~~-किं कृत्स्नभेदो निमित्तमुतैकदेशभेद उतोभयमिति । ८८ तत्रेकदेशभेदस्य नित्यत्वान्न निमित्तता | कादाचित्कस्तु कृत्स्नस्य भेदो गच्छेन्निमित्तताम् " ॥ भिदुराणां हि द्रव्याणां मिथः संघर्षेण नित्यः केनाप्यंशेन भेद इति न निमित्तत्वं संभवति । अतः कृत्स्नभेद एव निमित्तम् । नैवम् । न हि संघर्षणमात्राद्भिन्नबुद्धिर्भवति, संघृष्टमिति हि तदा बुद्धिर्भवति न भिन्नमिति | भेदनं चेह निमित्तं तच्चैकदेशेऽप्यनित्य- त्वानिमित्तं भवत्येव । - 66 द्वितीयपक्षवादी तु मन्यते --- - अग्निहोत्रचन्द्रिका | “ होमोऽयं भिन्नसंस्कारो भेददोपनिबर्हणात् । संनिपत्योपकारित्वं तथा सति हि लभ्यते ॥ आरादुपक्रियातश्च न्याय्या स्यात्संनिपातिता | संनिपातित्वपक्षे तु वाक्यं स्याद्विनियोजकम् || आरादुपक्रियात्वे तु प्रक्रिया विनियोजिका | कार्यक्षमञ्च संस्कार्यः कृत्स्नभिन्नं न तत्क्षमम् " || २७१ न हि सर्वथा भिन्नं कपालम् [ अग्निहोत्रस्थाली वा ] अधिश्रयणयोग्यम् | [ ग्या ] भवति । अकार्योपयोगिनश्चानर्थकः संस्कारः । तस्मात्तत्कार्याविरोधेन यदा कियताऽप्यं- शेन भेदो भवति तदैव होम इति प्राप्ते ब्रूमः - - “ संस्कारत्वे भवेदेवं न त्वियं भिन्नसंस्क्रिया | संस्कार्यत्वे हि भिन्नस्य निमित्चत्वं न लभ्यते ॥ निमित्ताभावतो होमो नित्यमङ्ग क्रतोर्भवेत् । नित्यश्चानित्यसंस्कार्यसंवन्धं लभते कथम् " || यदा हि भिन्नं संस्कार्यत्वेनोद्दिश्य तत्संस्कारार्थत्वेन होमो विधीयते तदा भिन्नश- ब्दस्य संस्कार्यप्रतिपादनोपक्षयान्न निमित्तपरत्वं स्यात् । असति च निमित्ते होमोऽयं नित्याङ्गं स्यात्तदेवमापद्यते - नित्यं दर्शपूर्णमासयोर्होमेनोपकुर्याद्भिन्नकपालसंस्कारद्वारे- णेति । न चैतत्संभवति । भिन्नस्य कादाचित्कत्वेन नित्यवःकतावभावात् । सोऽयं नित्या- नित्यसंयोगविरोधः धः | तस्माद्भेदने निमित्ते होमो विधीयते । स चाविशेषादेकदेशभेदे कृत्स्नभेदेऽपि स्यात् । - सूत्रार्थस्तु — एकदेशेऽपि भिन्ने प्रायश्चितं स्यादर्थस्य भेदनस्य तत्रापि समत्रा- यादिति । प्रायश्चित्तविधानाच्च । ( जै० त० ६ | ३ | ७ | ) - सुबोधिनी - नित्ये किंचिदङ्गलो पेऽभ्यनुज्ञासूचकमन्यदप्याह-प्रायश्चित्तेति । यस्याग्नि- मनुद्धृतं सूर्योऽभ्युदेति चतुर्गृहीतमाज्यं पुरस्ताद्धरे दित्यादिभिः प्रायश्चित्तश्रवणादङ्गलोपेऽ ध्यनुष्ठेयमिति ज्ञापयतीति । विध्यपराधे च दर्शनात्समाप्तेः । (जै० त० ६ | ३ | ६ ।) सुबोधिनी—विध्यपराध इति । विध्यपराधेऽभ्यङ्गानुष्ठानासंभवेऽपि समाप्ते ईर्शना२७२ अग्निहोत्रचन्द्रिका | समापनस्य श्रुतत्वात्तदेव यादृक्कदृक् च होतव्यमित्यच्छन्द्रकाण्डे दर्शनाचा हक्की दृग्यथाकथंचिदङ्गहीनमपि प्रधानमनुष्ठेयमिति । वाक्यार्थः—विध्यपराधेऽपि समाप्तेर्दर्शनात् । चकारोऽव्यर्थकः । इदानीमग्निहोत्रोद्धरणमन्त्रः सर्वार्थोऽप्यस्ति न वेति विचार्यते--- न तूत्पन्ने यस्य चोदनाऽप्राप्तकालत्वात् । ( जै० त० ९ । ४ । ३१ । ) दीपिका — दर्शोपक्रमेऽग्न्युद्धरणे क्रियमाणे किमग्निहोत्राङ्गभूत उद्धरणमत्रो वाचा त्वा होत्रेत्यादिः प्रयोक्तव्यो नेति संशयः । तत्र— दर्शार्थेऽप्युद्धृते वावग्निहोत्रं प्रवर्तते । साधनत्वमयुक्तश्च धर्मो नाङ्गमपेक्षते ॥ तेनाग्निहोत्रानङ्गभूतेऽप्युद्धरणे तदुपकारकत्वमात्रेण यागार्थयोर्दधिपयसोः प्रणीताधर्मा इव कर्तव्य एव मन्त्रः | कालमनादृत्य कालस्य गुणत्वेनासंभवेऽपि मन्त्रस्य लोपोऽन्याय्यः | अथवोद्धरणमप्येतदग्निहोत्रस्याप्यङ्गमकालेऽपि क्रियमाणमन्यथाऽग्निहोत्रस्य प्रणयनलोपा. द्वैगुण्यं स्यादिति प्राप्तेऽभिधीयते - काले खल्वनुपादेये प्राप्ते कर्म विधीयते । साङ्गं तस्मात्तु कालात्माङ्नाधिकारोऽस्ति कर्मणि ॥ अनधिकारिणा च क्रियमाणं निष्फलं स्यात्तस्मान्नाप्राप्ते कालेऽग्निहोत्राङ्गमुद्धरणं तन्म वा कर्तव्यः । पुनराधेयमोदनवत् । द्रव्योत्पत्तेर्वोभयोः स्यात् । (जै० त० ६ | ४ | २६-२७ । दीपिका – “यस्योभावनी अनुगताबभिनिम्लो चेदम्पुदियाद्वा पुनराधेयं तस्य प्रायश्चि त्तिः " इति किमुभयानुगमो निमित्तमुतान्यतरानुगमोऽपीति । समस्तपञ्चशरावन्यायेनान्य तरानुगममात्रं निमित्तमिति प्राप्त उच्यते- सत्यं निमित्तवेला यामुभावित्यविवक्षितम् । नैमित्तिकं तु नैवैतदेकस्योत्पादनक्षमम् ॥ पुनराधेयं हि वाक्यान्तरेण यादृशमवगतं त दृशमेव गार्हपत्याहवनीययोरुदयामिनिम्लेच नवेलायामनुगतयोरुत्पादकत्वेन चोद्यते, तञ्च सहितयोरेव तयोरुत्पादकमवगतं नान्यतरस्य अतस्तादृशमेश्चत्र विधीयमानमन्यतरानुगमे कार्यं कर्तुं न क्षममियुभयानुगमे स्यात् । अग्निहोत्रचन्द्रिका | सिद्धान्तभूतद्वितीयसूत्रार्थः - प्रथमसूत्रेणन्द्रपञ्चशराबौदनदृष्टान्तेनान्यसरवहेरनुगमननि- मित्तेऽपि पुनराधयमुक्तं तत्र सिद्धान्तमाह - द्रव्योत्पत्तेरिति । उभयोरनुगमे पुनराधानं स्यात् । द्रव्योत्पत्तेरग्निरूपद्रव्योत्पत्तेः । आधानकार्यत्वादिति पूरणीयम् । पुनराधेयमित्यनेन वसन्ते ब्राह्मणोऽग्निमादधीतेत्यनेन विहितधान्य द्विधीयते मासानिहोत्रचत् । प्रकृताधानेऽग्नि- द्वयोत्पादकःवमाधानस्य क्लुतम् । एक ग्झिनागे तदुत्पादकलस्याक्तनवादत्राग्निनाशो निमित्तमिति वक्तव्यमिति भावः । इति प्रायश्चित्तमीमांसा । २७३ ' विशये मायदर्शनात् । अर्थवादोपपत्ते | (जै० त० २ । ३ । ६६ । १७ ) दीपिका – अग्निहोत्रदोहाधिकारे ' वत्समालमेत ' इति श्रुतं तत्रासत्यपि देवता- संयोगे प्राणिद्रव्यकालम्भत्वसामान्यादत्रापि यागबिधिं मन्यन्ते । तस्योत्तरम्-आलम्भो नाम स्पर्शमात्रं न तस्य यागमन्तरेणानुपपत्तिः । लोकेऽपि च दृष्टवाइतोऽत्राऽऽलम्भम्मत्रं बत्ससंस्कारो विधीयत इति । पुनर(धेयमीमांसाविशेषः । पुनराधानेऽग्न्याधानदक्षिणानां दानं कैविप्रयोगशास्त्रकारैः सूत्रितं तत्र मीमांसैवम् - दीपिका - अस्ति पुनराधेयं तच्चा ग्न्याधेयधर्मकं नैमित्तिकं वा । तत्र श्रूयते - " पुन- निष्कृतो रथो दक्षिणा पुनरुत्स्युतं वासः " इत्यादि । सेयं दक्षिणा किमग्न्याधेयस्य दक्षि णानामेका देयेत्येवमादीनां निवर्तिका न वेति चिन्तायां सत्यप्येक कार्यवे वचनादुभयोर्द- दातीति समुच्चयप्राप्तावुच्यते - विध्यश्रवणाद्विध्यन्तरशेषत्वाच्चास्य समुच्चयविधावसामर्थ्यादक्षि णयोश्चाऽऽनत्यर्थत्वमनेकक र्यत्वे नै क कार्यत्व द्वैकृतीभिः प्राकृतीनां बाधः । कथं पुनरुभयोर्द- दातीति निर्देशः—उच्यते छ्रुत्वा हाम्न्याधेयं पश्चात्पुनराधेयं क्रियते । तेन पूर्वदत्तसंप्रति दीयमानापेक्षयोभयदान/निर्देशः । सूत्रं तदर्थव- अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् । ( जै० त० १० / ३ । ३० ) । and सुबोधिनी —'योऽग्न्याधेयेन नभ्नोति स पुनराधेयमाधत्ते' इत्यग्न्याधेयविकृति- राम्नाता । तत्र बैकृतदक्षिणा पुनर्निष्कृतो रथो दक्षिणेत्यादिः श्रुता । आधाना- मिथुनौ गावौ ददातीत्यादि प्राप्तम् । अत्र समुच्चयो बाघोबत संशये पक्षमाह - अग्न्याधेयेति । नैमित्तिके पुनराधेये गुणस्य दक्षिणायाः पुनर्निष्कृतो रथो दक्षि- पूर्व- • 4 २७४ अग्निहोत्रचन्द्रिका | त्यनेन विकारे प्राप्तेऽष्यम्याधेयस्य दक्षिणादानमधिकं समुच्चितं स्यात् । वाक्यसंयो- गात् । तत्राप्युभयर्ददात्याग्न्याधयिकीः पुनराधेयिकी श्चेतिवाक्येन संयोगात् । शिष्टत्वाच्चेतरासां यथास्थानम् । (जै० त० १० । ३ । ३१ । ) ●, - सुबोधिनी - साधकान्तरमाह - शित्वादिति । यथास्थानं यथाक्रममितरासां प्राकृ तदक्षिणानां शिष्टत्वात् । अनुशासनात् । अनुशासनं चैवं श्रूयते - 'आग्न्याधेयिकीर्दत्त्वा पुनराधेयकीर्ददाति ' इति । सिद्धान्तमाह


विकारस्त्वमकरणे हि काम्यानि । ( जै० त० १० । ३ । ३२ ।) - सुबोधिनी - विकार इति । हि यस्मात्कारणात्काम्यानि पुनराधेयानि । प्रयोगब हुत्वाभिप्रायं बहुवचनमतोऽप्रकरणेऽप्रकृतौ विहितदक्षिणयेति शेषः | विकारो बाधः प्राकृतस्य । शङ्कते च निवृत्तेरुभयत्वं हि श्रूयते । (जै० त० १० । ३ । ३३ । ) - सुबोधिनी - पूर्वपक्षिणा दर्शितवाक्यसंगतिमाह - शङ्कत इति । पूर्वोक्तवाक्या उभयत्वं श्रूयते तत्स्वार्थपरं नेति पूरणीयम् । कुतः – हि यस्माच्छकते निवृत्तेः प्राकृ तदक्षिणाविषये शङ्कते । पूर्ववाक्यसमीप एक यद्वैकृतीर्ददाति दक्षिणा उभयीरपि दक्षि- णास्तेन प्रत्ताः भवन्तीति श्रूयते । अत्र प्रत्ता भवन्तीति शब्देन प्राकृतदक्षिणालोपाद्वयङ्ग- व्यशङ्कायाः समाधानं कृतम् । अतः पूर्ववाक्यं जर्तिव्यवाग्वा जुहुयादितित्रत्पूर्वपक्षपर मिति भावः । इत्यग्निहोत्रचन्द्रिका ||

"https://sa.wikisource.org/w/index.php?title=अग्निहोत्रचन्द्रिका&oldid=154960" इत्यस्माद् प्रतिप्राप्तम्