अजडप्रमातृसिद्धिः
[[लेखकः :|]]



[पूर्वपक्षः:]
यथा सदसतां नैव विशेषोऽस्ति निजात्मनि ।
जदाजडानामप्येवं नास्त्यसाविति निश्चयः ॥ ०१ ॥

वृत्तिः विज्ञानसन्तानवादिनां मते सर्वेषां भावानां क्षणिकत्वात्स्वलक्षणात्मके प्रातिस्विके स्वरूपे विशेषाभावः संतानिन एकस्यानुसंधातुरनभ्युपगतत्वात् । एवं चेतनाचेतनानामपि स्वात्मनि निर्विशेषत्वम् ॥

प्रख्योपाख्या च सत्ता यद्यदसत्ता विपर्ययः ।
नैतत्स्वरूपं स्पृशति वस्तुनो ज्ञातृगाम्यदः ॥ ०२ ॥

वृत्तिः प्रकाशविमर्शलक्षणाभ्यां प्रख्योपाख्याभ्यां तदभावेन च भावानां सदसत्तयोर्व्यवस्थापयितुमिष्टयोरपि वस्तुनः स्वरूपस्पर्शाभावः, यतस्तत्प्रख्यादि ज्ञातुर्धर्मस्ततस्तत्स्वरूपव्यवस्थानाभावः ॥

प्रख्योपाख्याविषयताप्यर्थस्यात्मा न युज्यते ।
परापेक्षितया नैकरूपत्वे सत्त्वलङ्घनात् ॥ ०३ ॥

वृत्तिः न च प्रख्यादिविषयत्वेऽपि पदार्थस्वरूपतोपपद्यते परप्रकाशाधीनत्वात्तस्य । किं चानेकाकारत्वेऽपि वस्तुसत्ताया अप्रतिष्ठानात् । तस्मादन्योन्यं वस्तुतदभावयोर्निर्विशेषत्वम् ।

मा भूद्विशेषः प्रख्यादिभावाभावौ ततः पुनः ।
सिद्ध्यत्येव विशेषोऽत्र तावता च प्रयोजनम् ॥ ०४ ॥

वृत्तिः निर्विशेषत्वाभ्युपगमेऽपि सदसतोर्वस्तुनोः प्रख्यादि भावाभावावविकलावेव तदवलम्ब्य पुनर्विशेषवत्त्वस्य सिद्धेः, ततः साकल्येन भावेष्वर्थक्रियापि सिद्ध्येदेव ॥

एवमप्यवभासानुषक्ता सत्तोचिता भवेत् ।
तदपेक्षां विना भावाभावयोरविशिष्टता ॥ ०५ ॥

वृत्तिः इत्थं च वस्तुसत्तायाः प्रकाशलग्नाया एवौचित्यं प्रकाशमानतालक्षणं संभाव्यतेऽन्यथा संविदनुषङ्गं विना सदसतोरन्योन्यनिरपेक्षत्वात्स्वस्वरूपनिष्ठयोर्विशेषानुपपत्तेः ॥

कथं स्यादविशेषोऽत्र यावतार्थक्रियां हि सन् ।
कुर्यान्नान्यस्तथाप्यर्थो निर्विशेषो निजात्मनि ॥ ०६ ॥

वृत्तिः यस्मात्सत एव वस्तुनोऽर्थक्रियाकारित्वमसतस्तदभाव इति कथमविशिष्टत्वमर्थक्रिययैव तद्भावोपपादनात्, इत्याक्षेपः । तत्राह तथाप्यर्थक्रियायास्तत्तत्प्रमात्रधीनतया नैसर्गिकत्वाभावाद्विना संविदाश्रयतामर्थस्य स्वात्मनि विशेषाधायक्त्वासिद्धेः ॥

एवमर्थक्रियाभासोपाधिसंभेदमागतः ।
सन्नर्थः स्यात्स्वरूपेण नासतस्तु विशिष्यते ॥ ०७ ॥

वृत्तिः उक्तप्रकारेण संविद्यप्रतिष्ठानादर्थक्रियाकारिभिस्तत्तदाभासोपाधिभिः संभिन्नस्यार्थस्यार्थस्वरूपेण सत्तासंोअत्तावपि पुनरसतोऽर्थाद्विशेषो न सिद्ध्येत् ॥

तत्राप्यर्थक्रिया सिद्धसत्ताकार्थे न वर्णिता ।
सममेवानयोस्तेन प्रतिष्ठा संविदाश्रया ॥ ०८ ॥

वृत्तिः तयोरुभयोः सदसतोर्मध्येऽपि प्रागसिद्धेऽर्थेऽर्थक्रियाया अव्यवस्थितत्वात्, अथ च पूर्वसिद्धेऽर्थे तत्सिद्धेर्नार्थक्रियैव वस्त्वात्मा; तस्माद्भावाभावयोरक्रममेव संविदधीनैव सिद्धिस्तन्निष्ठत्वादेव भावव्यवस्थितीनाम् ॥

संविदप्यपरामर्शरूपा चेत्तदसावपि ।
अभावेन जडेनाथ तुल्यैव प्राग्वदात्मनि ॥ ०९ ॥

वृत्तिः निर्विमर्शस्य प्रकाशस्यापि स्फटिकादिवद्विश्वावभासनेऽप्यस्वतन्त्रत्वात्स्वात्मन्यसता जडेन च भावेन सादृश्यमेव स्यात्परस्परवृत्तपरिज्ञानेऽनेलमूकप्रायत्वात्, एतेन शान्तब्रह्मवादनिरासः कटाक्षितः ॥

सैवं भूतात्मना स्वेनाप्यलब्धपरिनिष्ठितिः ।
कथमन्यस्य भावस्य प्रतिष्ठास्पदतामियात् ॥ १० ॥

वृत्तिः निर्विमर्शा संवित्स्वतोऽ लब्धसत्ताका परं व्यवस्थापयितुं नालं गगनकुसुममिव सौरभादिजनने ॥

इदमित्युचितः संवित्प्रकाशेऽन्यस्य वस्तुनः ।
प्रतिष्ठात्मकतां गच्छेदहमित्यात्मना पुनः ॥ ११ ॥

वृत्तिः भिन्नं वस्तु इदंताविमर्शेन प्रकाशनार्हं सत्पुनरहंतात्मना व्यवस्थामियात् । संविदेव विश्वस्फुरत्तामयी स्वस्वातन्त्र्यादेव विचित्रार्थात्मनाविभिन्नप्रकाशमयेन प्रस्फुरन्ती विश्वजीवितं, तदहंताविश्रान्तिं विना स्वतोऽसिद्धं कथं व्यवहार्यं स्यात् ॥

व्यतिरेकेतराभ्यां हि निश्चयोऽन्यजडात्मनोः ।
व्यवस्थितिः प्रतिष्ठा च सिद्धिर्निर्वृत्तिरुच्यते ॥ १२ ॥

वृत्तिः ज्ञातरि व्यवस्थितत्वे सन् जडोऽन्यथासन्, स्वात्मान्यसंरम्भत्वे स्वप्रकाशत्वं तदभावे नास्तीत्यन्वयव्यतिरेकाभ्यां हि स्वपरत्वनिश्चयः, स च व्यवस्थाप्रतिष्ठादिशब्दैरुच्यते ॥

एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।
जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ॥ १३ ॥

वृत्तिः इत्थं जडभावानां संविद्विश्रान्तिं विनासत्कल्पत्वात्स्वात्मन्यसत्स्वभावानां ज्ञातुः प्रकाशस्वभावस्य संबन्धितयैव सत्त्वं, तस्मात्संवित्प्रकाश एव स्वात्मोच्छलत्तया स्वमायाशक्त्युल्लासिते विश्ववैचित्र्ये जडाजडभावराशिद्वयेन वेद्यवेदकात्मकेन स्वरूपानतिरिक्तेनातिरिक्तेनेव प्रस्ह्पुरेत्, -- इति स्वातन्त्र्यवादस्य प्रोन्मीलनं सूचितवानाचार्यः ॥

न चैवानुभवोऽप्यस्ति भिन्नाभिन्नविनिश्चयम् ।
मुक्त्वान्वयस्य प्रकाशस्य विमर्शरहितात्मनः ॥ १४ ॥

वृत्तिः संयोजनवियोजनात्मकं स्वातन्त्र्यं विहाय सतो जडप्रकाशस्य नैव संरम्भात्मानुभवो निर्विमर्शात्मकत्वात् । एतदेव हि प्रत्यवमर्शस्य माहात्म्यं यद्विश्वं स्वात्मैक्येनान्तःस्थितं बहिरिदंतयोद्भासयनुद्भास्यमानमपि पुनः पूर्णाहंताविश्रान्त्यभेदमापादयेत् ॥

इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥ १५ ॥

वृत्तिः इदमिति विच्छिन्नतया विमृश्यस्यास्य जडस्य या संवित्स्वरूपविश्रान्तिलक्षणा कृतार्थता सोऽयमहमेव तत्तद्भाववैचित्र्यात्मना प्रकाशे इति चैतन्यप्रकाशतादात्म्यादहंप्रत्यवमर्षात्मा जीवितस्थानीयः, यदाश्रयाज्जडमपि वस्तु विम्रष्टृस्वभावप्रमात्रैक्यादहंभावविश्रान्तेरजडत्वमायाति । अजडाश्च वस्तुतः परप्रमात्रेकस्वभावाः, -- इत्यद्वैतोऽजडप्रमातृभाव एव सर्वतः पारिपूर्ण्येन विजृम्भते इति तात्पर्यम् ॥

द्विधा स एष एवात्मा मितोऽपरिमितस्तथा ।
प्राणादिना निरुद्धोऽणुः परमात्मा त्वखण्डितः ॥ १६ ॥

वृत्तिः स एव संविदात्मा परमेश्वरः स्वेच्छया विश्वक्रीडोल्लिलासयिषायां प्राणाद्यात्मतामवभास्य तत्प्रमातृत्वेन संकुचितीभूय जीवतामेति, प्राणाद्यनिरुद्धस्तु विश्वनिर्भरितात्मतया पूर्णः स्वतन्त्रश्चिदात्मैवेति परिमितापरिमितत्वेन द्विविधत्वम् ॥

उभयोऽप्येष पर्यन्तभूमिः सर्वार्थसंविदाम् ।
एक एवानुसन्धानादतोऽन्यो नोपपद्यते ॥ १७ ॥

वृत्तिः द्विविधस्याप्यस्य प्रकाशात्मनः समस्तभावाभावात्मिकानामर्थसंविदां विश्रान्त्यास्पदत्वम् । स च पौर्वापर्यानुसंधातृतया संविन्मात्रस्फुरत्तैकरूप एव यस्मादतो भेदानुपपत्तिः ॥

न चाप्यव्यतिरेकात्मविमर्शात्मन्यहंविदि ।
भाति पर्यन्तवर्तिन्यां भासनादधिकं जडम् ॥ १८ ॥

वृत्तिः न च विश्वाभिन्नप्रत्यवमर्शस्वरूपेऽहंप्रकाशे सर्वज्ञानविश्रान्तिभूमौ तत्प्रकाशाधिक्येन जडस्य सत्ता, तस्य संवित्प्रकाशाद्भेदाभेदविकल्पैरुपहतत्वात्, अत एक एवाजडप्रमाता स्वस्वातन्त्र्येण स्वाभिन्नं भावजातं स्वात्मन्येवोद्भासयन् विलापयांश्चाप्रच्युतस्वात्मस्थितिः प्रस्फुरतीत्यर्थः ॥

न सिद्धोऽप्रथनादेव ज्ञानादिसमवाय्यपि ।
तत्प्राणादि प्रमेयं स्यान्न प्रमातान्यतो भ्रमात् ॥ १९ ॥

वृत्तिः ज्ञानादिगुणैः समवेतोऽपि परिमितप्रमाता विमर्शवैधुर्यादेव न सिद्ध्यति निर्विमर्शत्वे जाड्यप्रसङ्गात्, तस्माद्व्यवच्छिन्नां भ्रान्तिमाश्रित्य प्राणपुर्यष्टकमातुर्वेद्यत्वं स्यान्न परमार्थप्रमातृभावः संभाव्यते ॥

यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।
जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥ २० ॥

वृत्तिः मायाव्यवहारात्मनि लोकयात्रायां यद्यपि प्राणादि संकोचवति जीवे सर्वेषां बाह्याभ्यन्तराणां विषयाणां व्यवस्थितिर्नियन्त्रिता तथापि संकुचितात्मनि तत्र मितप्रमातरि संकोचापहस्तनेन परप्रमात्रेकात्मतया शिवात्मन्येव सा तिष्ठति प्राणादेश्चित्प्रकाशादव्यतिरेकित्वात्, शिवस्यैव स्वेच्छया समुल्लासितायाः पशुभूमिकाया ग्रहणेनाणुभावाभ्युपगमात् ॥

तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा ।
साधिता प्रत्यभिज्ञायामख्यातेर्जीवता परम् ॥ २१ ॥

वृत्तिः तस्माद्वस्तुतः शिवस्वभावाभिन्नेन प्राणादिप्रमात्रा संकुचितशुक्तिकेन कथमनवच्छिन्नप्रकाशानन्दमयपूर्णाहंतास्फुरत्तात्मनः शिवस्यावभासननिरोधः स्यात्तथात्वे तस्य स्वयं स्थातुमशक्यत्वात्केवलमपरिच्छिन्नस्वशक्तिविकासस्याप्रथनमेव बन्धकत्वपर्यायं जीवत्वं, तस्य चेश्वरप्रत्यभिज्ञायां शास्त्रे सविस्तरं निर्णीतत्वादिति तत एव विवेच्यम् ॥

नार्थव्यवस्था प्राणादावहंभावनिरोधतः ।
प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ॥ २२ ॥
उक्ता सैव च विश्रान्तिः सर्वापेक्षानिरोधतः ।
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ॥ २३ ॥

वृत्तिः प्राणादौ परिमितप्रमात्रास्पदे जडे स्वात्ममात्रस्फुरत्तात्मनः परामर्शस्य निरोधान्नैव वस्तुव्यवस्था तस्याः संविन्निष्ठत्वात्, यतो या संविदः स्वात्ममात्रविश्रान्तिः स एव पूर्णाहंताविमर्शस्वभावोऽहंभावोऽर्थव्यवस्थापको गीयते । सैव विश्वभावानां पर्यन्तप्रतिष्ठाभूमिकत्वाद्विश्रान्तिः, विश्वप्रसरणे स्वव्यतिरिक्तसामग्रीनिरपेक्षत्वात्स्वातन्त्र्यं, तदेव कर्तृत्वं मुख्यमैश्वर्यमप्यागमेषूद्घोष्यते ॥

मायाभिदास्तच्छक्तेरेव चान्याप्रसिद्धितः ।
तदख्यातिमयं ह्येतज्जगन्निर्मातृतेशिता ॥ २४ ॥

वृत्तिः माया नाम शक्तिः शिवस्य शक्तिमतोऽव्यतिरेकिणी स्वरूपगोपनात्मिका क्रीडा, तन्निमित्तादेव यस्मादख्यातिमयमेतद्विश्वं भासते व्यतिरिक्तकारणस्य भेदाभेदविकल्पोपहतत्वेनाप्रसिद्धत्वात्, तस्माद्विश्वाभासानां निर्मातृत्वमीश्वरत्वम् ॥

एकैव चानुसंधानात्सा प्रोक्ता सर्वसंविदाम् ।
स्वसंवेदनपर्यायमातृतत्त्वमनादि तत् ॥ २५ ॥

वृत्तिः सैश्वरी पराशक्तिः समस्तानां विच्छिन्ननीलासिसंविदां संयोजनवियोजनादौ कार्ये पूरापरादिकोटावैक्यानुसंधानमाश्रित्य तदाधारभूतानवच्छेदिनी एकैव, तदेव स्वसंवेदनपर्यायं मातुरनादि तत्त्वमुच्यते ॥

भावव्यवस्था यन्निष्ठा तस्याहंभावभागिनः ।
व्यापित्वमनुसंधानं तज्जडस्य न युज्यते ॥ २६ ॥

वृत्तिः यत्र सर्वार्थानां व्यवस्थितिः प्रतिष्ठिता तस्य संविदात्मनः पूर्णाहंतापरामर्शसारस्याजडप्रमातुः स्वातन्त्र्याविनाभाववत्त्वात्सर्वत्रानुसंधानात्मकं व्यापित्वमस्ति, तच्चास्वतन्त्रस्य जडस्य न घटते विमर्शसारत्वाभावात् ॥

ततो भेदे तु भासस्य घटते भासमानता ।
तेनोक्तं प्रत्यभिज्ञायां तदद्वयमयं जगत् ॥ २७ ॥

वृत्तिः अजडत्वमाश्रित्य पुनरेतावति भेदोल्लासात्मके विश्वस्मिन्नीलसुखादेर्भासस्यापरिक्षीणान्तःस्थितेरेव ज्ञानशक्त्या बहिर्भासिनः प्रकाशमानताया घटनात्; अथ चाभेदमवलम्ब्य जडस्य पुनः प्रकाशनोपपत्तेरन्यथा त्वप्रकाशनात् । तेन हेतुना श्रीमदीश्वरप्रत्यभिज्ञायां संविदद्वयप्रकृति विश्वमुक्तं भवतीति शिवम् ॥

[प्रमातृसिद्धावाचार्योत्पलदेवकृतौ मनाक् ।
चन्द्राब्ध्यष्टेन्दुशाकाब्दे शास्त्री वृत्तिं हरो व्यधात् ॥ [शाक एर १८४१]]

इत्यजडप्रमातृसिद्धौ श्रीमान्महामाहेश्वराचार्योत्पलदेवपादविरचितायां वृत्तिः समाप्ता ॥

[श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् ।
मधुसूदनकौलेन संपाद्येयं प्रकाशिता॥]

"https://sa.wikisource.org/w/index.php?title=अजडप्रमातृसिद्धिः&oldid=207398" इत्यस्माद् पुनः प्राप्तिः