- टिप्पणी - इदम् अपूर्णं तथा त्रुटिसहितं अस्ति। पूर्णं कर्तुं त्रुटिनिवारणाय च सहयोगं निवेदितम्।
- यो रावणं रणमुखे भुवनैकभारं
- हत्वा चकार जगतः परमोपकारम्।
- यं ब्रह्म चाभिदधिरे परतोऽपि पारं
- तं नौमि मैथिलसुताहृदयैकहारम्॥१॥
- नालीकेरफलेऽथ तण्डुलजलं क्षीरं रसाले हितं
- जम्बीरोत्थरसो घृते समुचितस्सर्पिस्तु मोचाफले।
- गोधूमेषु च कर्कटी हिततमा मांसात्यये काञ्जिकं
- नारङ्गे गुडभक्षणं च विहितं पिण्डालुके कोद्रव:॥२॥
- पिष्टान्ने सलिलं प्रियालफलजे पथ्या हिता माषजे
- खण्डं क्षीरभवे च तक्रमुचितं कोष्णाम्बु कोलाम्रजे।
- मात्स्ये चूतफलं त्वजीर्णशमनं मध्वम्बु पानात्यये
- तैलं पुष्करजे कटु प्रशमनं शेषं तु बुद्ध्या जयेत्॥३॥
- पनसे कदलं कदले च घृतं
- घृतपाकविधावपि जम्भरस:।
- तदुपद्रवशान्तिकरं लवणं
- लवणेऽपि च तण्डुलवारि परम्॥४॥
- नारिकेलफलतालबीजयो:
- पाचनं य इह तण्डुलं विदु:।
- ते वदन्ति मुनयोऽथ तण्डुलान्
- क्षीरवारि परिपाचयेदिति॥५॥
- दाडिमामलकतालतिन्दुकीबीजपूर-लवलीफलानि च।
- बाकुलेन च फलेन पाचयेत्
- पाकमेात्ि ा बकुलं स्वमूलत:॥६॥
- मधूक-मालूर-नृपादनानां
- परूष-खजूर-कि
- र् पत्थकानाम्।
- पाकाय पेयं पिचुमन्दबीजं
- सिद्धार्थको हन्ति च बीजपूरम्॥७॥
- मृणाल-खजूरक-हारहू
- र्
- राकसेरु-शृङ्गाटक-शर्कराणाम्।
- यथा विपाकाय च भद्रमुस्तं
- तथा रसोने च पय: प्रशस्तम्॥८॥
- आम्रतकोदुम्बरपिप्पलानां
- फलानि च प्लक्षवटादिकानाम्।
- स्यु: शर्मणे पर्युि षतोदकेन
- सौवर्चलेनाम्रफलस्य पाक:॥९॥
- सौवीरं फलमुष्णवारि हन्यात्
- प्राचीनामलकं च राजिकैका।
- खजूर्रं सपरूषकं प्रियालं
- क्षीरी तालफलं पचेन्मरीचम् ॥१०॥
- नागरं हरति बिल्वजाम्बवं
- शर्करा पचति तिन्दुकीफलम्।
- जीरकं जरयतीह बाकुलं
- पाचयेन्मधुरिका कपित्थजम्॥११॥
- पनसकामलकीफलपक्तये
- भजत सर्जतरोरपि बीजकम्।
- सकलमप्युदितानुदितं फलं
- प्रपचति प्रसृतं कटुतिन्दुकम्॥१२॥
- आर्द्राम्रबीजं पनसस्य पक्त्यै
- रसालपक्त्यै घनरावमूलम्।
- अपूपपक्त्यै सजला यवानी
- सा कैश्चिदुक्ता पृथुकस्य पक्त्यै॥१३॥
- पालङ्किकाकेमुककारवल्लीवार्ताकवंशाङ्कुरमूलकानाम्।
- उपोदिकालाबु-पटोलकानां
- सिद्धार्थको मेघरवस्य पक्ता॥१४॥
- पटोलवंशाङ्कुरकारवल्लीफलान्यलाबूनि बहूनि जग्ध्वा।
- क्षारोदकं ब्रह्मतरोर्निपीय
- भोक्तुं पुनर्वाञ्छति तावदेव॥१५॥
- वास्तूकसिद्धार्थकचुञ्चुशाकं
- प्रयाति सद्य: खदिरेण पाकम्।
- यथा गुड: सूरणनागरङ्गौ
- तथालुकं तण्डुलवारि हन्ति॥१६॥
- पत्राणि पुष्पाणि फलानि यानि
- मूलानि पूर्वं न मयोादताि
- ि न।
- शाकानि सर्वाण्युपयान्ति पाकं
- क्षारेण तान्येव तिलोद्भवेन॥१७॥
- .................
- .................
- .................
- तप्तं तप्तं हेम वा तारमग्नौ
- वारं वारं क्षिप्तमम्भस्यथैतत्ात्।
- पीत्वा तोयं दीर्घकालोपन्न्
- पपन्न-ामम्भोऽजीर्णं शीघ्र्रमेवं जहाति॥३२॥
- स्नेहाजीर्णे रोगिणां र्मुचूर्णं
- हन्यान्मुस्तो हन्ति वैरेचकानाम्।
- माषेण्डर्या निम्बमूलेन पाकश्चिञ्चा मुञ्चत्यम्लतांचूर्णयोगात्॥३६॥
- कोष्णाम्बु पिष्टान्नभवे हि देयं
- प्रियालमज्जास्विदमेव पेयम्।
- मात्स्यं तु माकन्दफलं निहन्ति
- गोधूमकं कर्कटिका निहन्ति॥३७॥
- सद्य: प्रियालं विनिहन्ति पथ्या
- मध्वम्ब्वजीर्णं विनिहन्ति पथ्या।
- पिण्डालुक: कोद्रवपाककारी
- खण्डस्तु माषान्नविकारहारी॥३८॥
- मुखं दह्यते चूर्णकेन प्रमादाद्यदा नागवल्लीदलस्थेन पुंस: ।
- सितातैलसौवीरकैस्तन्निवृत्ति:
- पृथक् तस्य गण्डूष एवोपदिष्ट:॥३९॥
- उष्णेन शीतं शिशिरेण चोष्णमम्लेन च क्षारगुणो गुणाढ्य:।
- स्नेहेन तीक्ष्णं वमनातियोगे
- सिता हिता स्यादिति काशिराज:॥४०॥
- वमनवस्तिविरेचनभेषजं
- यदिह कर्म निजं कुरुतेऽखिलम्।
- तदिह विश्वयवासकसाधितं
- पिबत पाचनकं रजनीमुखे॥४१॥
- शीतोदकं नस्यजरोगहारि
- नारीपयश्चाञ्जनरुग्विदारि।
- रालोदकं धूमगदेषु शस्तं
- धात्रीफलं चातिविरेचनार्ते॥४२॥
- श्रवणपूरणजे तिलतैलजं
- श्रवणपूरणमेव सुखं विदु:।
- कवलजेषु गदेष्वथ कारयेत्
- कवलमार्द्रयुतं द्रवजं पुन:॥४३॥
- मदयति न हि मद्यं जातु चेत् पीतमद्य:
- पिबति घृतसमेतां शर्करामेव सद्य:।
- अथ घनमधुकैलाकुष्ठदार्वेलवालुप्रकटितकबलास्ये मद्यगन्धोऽपि न स्यात्॥४४॥
- एलामृताम्भोधरकट्फलानां
- चूर्णं यथापूर्वविवर्द्धितानाम्।
- विमर्द्य वक्त्रे धृतमाशु हन्ति
- सुरारसोनादिजमुग्रगन्धम् ॥४५॥
- कूष्माण्डकस्य स्वरसो गुडेन
- पीतो मदं कोद्रवजं निहन्ति।
- पयो निपीतं सितया समेतमुन्मत्त-मत्तत्वमपाकरोति ॥४६॥
- घ्रत्वा स्वकक्षां विपिनोपलं वा
- सम्प्राश्य किञ्चिल्लवणं नरो वा।
- शीताम्बु पीत्वा चुलुकेन वापि
- प्रसह्य पूगीमदमुज्जहाति॥४७॥
- सैन्धव-त्रिकटु-धान्यजीरकैर्दाडिमीरजनिरामठान्वितै: ।
- पाचनोऽथ जठराग्निदीपनो
- वेसवार उदितो मनीषिभि:॥४८॥
- गुडमधुकाञ्जिकतक्रविभागा:
- स्युर्द्विगुणास्तु यथोत्तरमेते ।
- त्रीणि दिनानि च धान्यसमूहे
- स्थापितमेतदुशन्ति हि शुक्तम्॥४९॥
- शुक्तमुक्तमपि तद् बहुभेदं
- हन्ति सर्वमिदमामजखेदम्।
- यन्मया समुदितं मधुशुक्तं
- तद्भिषग्भिरपि पाचनमुक्तम्॥५०॥
- तत्तन्महाजीर्णविषापनेत्री
- जीयाच्चिरायामृतमञ्जरीयम्।
- सत्षट्पदानन्दमयीमसन्तो
- घुणा इवैनामवधीरयन्तु॥५१॥
- पद्यैमुर्नी नामनवद्यपद्या
- श्रीकाशिनाथेन शिशोः सुखाय।
- स्फुटीकृताजीर्णविषापहन्त्री
- जीयाच्चिरायामृतमञ्जरीयम्॥५२॥
- ॥ इति श्रीकाशिनाथकृता अजीर्णामृतमञ्जरी समाप्ता ॥