← सूक्तं १०.०१ अथर्ववेदः - काण्डं १०
सूक्तं १०.०२
नारायणः
सूक्तं १०.०३ →
दे. पार्ष्णिसूक्तम्, पुरुषः, ब्रह्मप्रकाशनम्। अनुष्टुप्- - - - -

पुरुषमेधे स्नातालंकृतम् उत्सृज्यमानं पुरुषपशुं केन पार्ष्णी इत्यर्थसूक्तेन अनुमन्त्रयते(वैता.श्रौ.सू. ३७.१९)

केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।
केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥
कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पूरुषस्य ।
जङ्घे निर्ऋत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥
चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् ।
श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥
कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य ।
कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥
को अस्य बाहू समभरद्वीर्यां करवादिति ।
अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥
कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् ।
येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥
हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् ।
स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥
मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम् ।
चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः ।
आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥
आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः ।
राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४}
को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।
तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥
को अस्मिन् रूपमदधात्को मह्मानं च नाम च ।
गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे ॥१२॥
को अस्मिन् प्राणमवयत्को अपानं व्यानमु ।
समानमस्मिन् को देवोऽधि शिश्राय पूरुषे ॥१३॥
को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे ।
को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥
को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्।
बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥१५॥
केनापो अन्वतनुत केनाहरकरोद्रुचे ।
उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥
को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति ।
मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥
केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् ।
केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥
केन पर्जन्यमन्वेति केन सोमं विचक्षणम् ।
केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥
केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।
केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५}
ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् ।
ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥
केन देवामनु क्षियति केन दैवजनीर्विशः ।
केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥
ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः ।
ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥
केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता ।
केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥
ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता ।
ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥
मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्।
मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥
तद्वा अथर्वणः शिरो देवकोशः समुब्जितः ।
तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥
ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ ।
पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥
यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।
तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥
न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा ।
पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥
अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥
तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।
तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।
पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६}

भाष्यम्

(स्वामी गंगेश्वरानन्दकृतं)

अस्मिन् सूक्ते पुरुषस्य अर्थात् मनुष्यस्य माहात्म्यं वर्ण्यते । तच्च तद्भिन्नभिन्नावयवान् को देवोऽकरोद् इत्यादिप्रश्नरूपेण तत्प्रश्नानाम् उत्तररूपेण च ।
यज्ञलम्पटाः सांप्रदायिकास्तु एतत् सूक्तं पुरुषमेधे विनियोजयन्ति । तद् यथा--पुरुषमेधे स्नातालंकृतम् उत्सृज्यमानं पुरुषपशुं 'केन पार्ष्णी' इत्यर्थसूक्तेन अनुमन्त्रयते । तद् उक्तं वैताने-"तं ह स्नातम् अलंकृतम् उत्सृज्यमानं 'सहस्रबाहुः पुरुषः' (अं १९,६), 'केन पार्ष्णी' इत्यनुमन्त्रयते” (वैताश्रौ ३७,१९ ) इति ।
तथा अस्य सूक्तस्य शनैश्चरग्रहदेवत्यहविराज्यहोमे समिदाधानोपस्थानयोश्च विनियोगः । “अथाज्यभागान्ते 'विषासहिम्' ( अ १७,१) इत्यादित्याय हविषो हुत्वाज्यं जुहुयात् समिध आधायोपतिष्ठते” इति प्रक्रम्य शान्तिकल्पे सूत्रितम्- 'सहस्रबाहुः पुरुषः', 'केन पार्ष्णी', 'प्राणाय नमः' ( अ ११,६ ) इति शनैश्चराय" ( शांक १५ ? ) इति ।

केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्पौ।
केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ।।१।।
केन । पार्ष्णी इति । आभृते इत्याऽभृते । पुरुषस्य ।
केन । मांसम् । सम्ऽभृतम् । केन । गुल्फौ।
केन । अङ्गुलीः । पेशनीः । केन । खानि ।
केन । उत्ऽश्लङ्खौ । मध्यतः । कः । प्रतिऽस्थाम् ॥ १॥
काण्डस्यास्य द्वितीयं सूक्तमिदं ब्रह्मप्रकाशनं नाम । शरीरावयवाः, भूरादिलोक-लोकान्तराणि तदधिष्ठातृदेवताश्च केन निर्मिता: ? इत्यत्र स्वकीयामाहार्याम् अज्ञतां प्रकटयता वेदर्षिणा स्फुटीकृतं यत् मानवानामत्र सर्वथा अक्षमत्वात् कस्यापि अनिर्वचनीयशक्तिमत एवैतत् कार्यमिति । स च ब्रह्मपदाभिधेयः । तस्यैवात्र प्रकाशनं विधीयते प्रश्नमुखेन -- केन पार्ष्णीत्यादिना।
पुरुषस्य मनुजन्मन: पार्ष्णी पादपश्चाद्भागौ केन आभृते धारिते, समन्तात् पोषिते वा । केन वा तस्मिन् मांसम् पिशितं संभृतम् संपोष्य धृतम् । केन गुल्फौ घुटिके, केन पेशनीः प्रशस्तरूपकर्त्र्यः, प्रशस्तकर्मकारिण्यो वा अङगुली:, कृताः संभृता वेति शेषः । तथैव खानि इन्द्रियजातानि केन कृतानि, केन वा उच्छ्लङ्खौ नितम्बास्थिनी, द्वे पादतले इति केचित्, आभृते इति पूर्वेणान्वयः । एवम् एतेषामङ्गानां मध्यतः मध्यदेशे कः प्रतिष्ठाम् स्थापनाम्, अकरोदिति शेषः ।। १॥

कस्मा॒न्नु गु॒ल्पावध॑रावकृण्वन्नष्ठी॒वन्ता॒वुत्त॑रौ॒ पुरु॑षस्य।
जङ्घे॑ नि॒रृत्य॒ न्य॑दधुः॒ क्व॑ स्वि॒ज्जानु॑नोः सं॒धी क उ॒ तच्चि॑केत ।।२।।
कस्मात् । नु । गुल्फौ । अधरौ । अकृण्वन् । अष्ठीवन्तौ । उत्ऽतरौ। पुरुषस्य ।
जङ्ग्रे इति । निःऋत्य । नि। अदधुः । क्व। स्वित् । जानुनोः। संधी इति सम्ऽधी। कः । ॐ इति । तत् । चिकेत ॥ २॥
तेन अनिर्वचनीयशान्तिमता कस्मात् पदार्थात् किमर्थं वा, गुल्फौ पादग्रन्थी घुटिके, अधरौ अधस्तात् देहस्य अकृण्वन् कृतौ ? अष्ठीवन्तौ जान्वोः सन्धिस्थाने च उत्तरौ ऊर्ध्वं स्थापितौ ? जङ्घे गुल्फ-जान्वोः अन्तरालावयवौ, जङ्घाद्वयम् निर्ऋत्य बहिर्निष्कृष्य पृथक्कृत्य न्यदधुः संस्थापितम् ? जानुनोः जङ्घोपरिभागयोः ऊरुजङ्घयोर्मध्यभागस्य सन्धी संयोजनं क्वस्वित् कुत्र अस्ति ? तत्सर्वं कः उ एव चिकेत जानाति ? न कोऽपि सामान्यजनो जानातीत्यर्थः ।। २॥

चतु॑ष्टयं युजते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्।
श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान॒ याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ।।३।।
चतुष्टयम् । युज्यते । संहितऽअन्तम् । जानुऽभ्याम् । ऊर्ध्वम् । शिथिरम् । कबन्धम् ।
श्रोणी इति । यत् । ऊरू इति । कः । ऊं इति । तत् । जजान ।
याभ्याम् । कुसिन्धम् । सुऽदृढम् । बभूव ॥३॥
संहितान्ताम् नाडीनां धारक भागम्, जानुभ्याम् ऊर्ध्वम् शिथिरम् शिथिलं भागम्, कबन्धम् को मूर्धा बध्यते यत्र सस्तम्, श्रोणी कटिप्रदेशः, चतुष्टयं युज्यते, एतच्चतुष्टयं यत्र युज्यते, एतादृशं शरीरं केन निर्मितम् ? यत् ऊरू जङ्घाद्वयम्, याभ्याम् कुसिन्धम् श्लेषाधायक शरीरमिदं सुदृढं बभूब कः प्रश्ने उ एव तत् जजान जनयामास, एतत्केन निष्पादितमित्यर्थः ।। ३ ।।

कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पुरु॑षस्य।
कति॒ स्तनौ॒ व्य॑दधुः॒ कः क॑पो॒दौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ।।४।।
कति । देवाः । कतमे। ते। आसन् । ये। उरः। ग्रीवाः। चिक्युः । पुरुषस्य ।
कति । स्तनौ । वि । अदधुः। कः । कफोडौ। कति । स्कन्धान् । कति । पृष्टीः। अचिन्वन्॥४॥
देवाः शरीरसंयोजितारो देवा: कति संख्याकाः, ते च कतमे के के आसन्, ये पुरुषस्य उरः उरोभागं ग्रीवाः ग्रीवायाश्च विविधान् भागान् चिक्युः संयोजितवन्तः ? केति स्तनौ व्यदधुः अकार्षुः । यद्वा--संख्यावाची कतिशब्दः 'स्तनौ' इत्यनेन सम्बद्धः स्तनगतनाडीनां द्योतनाय । तथा च स्तनागता: दुग्धनिर्मात्र्यः नाड्यः कतीत्यर्थः । कः कफोडौ मणिबन्धास्थीनि, कति स्कन्धान् बहुभारक्षमानि स्कन्धास्थीनि कति च उरोभागस्थिता: पृष्ठीः अचिन्वन् सम्यक् संचित्य क्रमशः संस्थापितवान् इति ।। ४ ॥

को अ॑स्य बा॒हू सम॑भरद्वी॒र्यां॑ करवा॒दिति॑।
अंसौ॒ को अ॑स्य॒ तद्दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ।।५।।
कः । अस्य । बाहू इति । सम् । अभरत् । वीर्यम् । करवात् । इति ।
अंसौ। कः। अस्य । तत् । देवः । कुसिन्धे। अधि। आ। दधौ ॥ ५ ॥
कः देवः अस्य पुरुषस्य बाहू भुजद्वयं समभरत् सम्यक् आदधात्, परिपुष्टौ चकार, येनायं बाहुभ्यां तद् वीर्यम् उद्योगं पराक्रमादिकं वा करवात् इति प्रकटीकरोतु। कः अस्य अंसौ स्कन्धद्वयं कुसिन्धे मध्यदेहस्योपरिभागे अध्यादधौ समस्थापयत् ।। ५ ।।

कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्।
येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्ननि॒ चतु॑ष्पादो द्वि॒पदो॑ यन्ति॒ याम॑म् ।।६।।
कः । सप्त । खानि । वि । ततर्द । शीर्षणि । कर्णौ । इमौ । नासिके इति । चक्षणी इति । मुखम् ।
येषाम् । पुरुत्रा । विऽजयस्य । मह्मनि । चतुःऽपादः। द्विऽपदः। यन्ति । यामम् ॥ ६॥
कः देवः शीर्षणि सर्वोच्चज्ञानकेन्द्रे शिरसि इमौ एतौ कर्णौ कर्णद्वयम् नासिके छिद्रद्वयापेक्षया द्वे नासिके चक्षिणी वाम-दक्षिणनेत्रे 'चक्षिङ् व्यक्तायां वाचि दर्शने च' (१०१७ अदा०) इत्यस्मात् अनिः । मुखम् आननम् एतानि सप्त खानि सप्तेन्द्रियगोलकानि विततर्द खनित्वा विस्तारितवान् येषाम् इन्द्रियगोलकानां विजयस्य मह्मनि महिम्नि, निमित्तसप्तमीयम् । विजयं निमित्तीकृत्य स्वस्वकार्यकरणे सामर्थ्यादेवेत्यर्थः, चतुष्पादः पश्वादयः, द्विपदः मानवाश्च सर्वे प्राणिनः पुरुत्रा बहुषु स्थानेषु सर्वत्रेत्यर्थः, यामम् प्राप्तव्यं पदं मार्गं यन्ति प्राप्नुवन्ति ।। ६॥

हन्वो॒र्हि जि॒ह्वामद॑धात्पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्।
स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ।।७।।
हन्वोः । हि। जिह्वाम् । अदधात् । पुरूचीम् । अध । महीम् । अधि। शिश्राय । वाचम् ।
सः । आ। वरीवर्ति। भुवनेषु। अन्तः। अपः । वसानः । कः। ऊं इति । तत्। चिकेत ॥७॥
हि निश्चयेन हन्वोः ओष्ठमूलयोः मुखपार्श्वयोः, मुखस्योर्ध्वाधोभागयोर्वा मध्ये यः पुरूचीम् पुरूणि बहूनि शास्त्राणि नैकविधरससम्पृक्तवस्तुजातानि वा अञ्चतीति ताम्, जिह्वाम् अदधात् समस्थापयत् अधा अथ, पृषोदरादित्वात् थस्य धः, 'निपातस्य चेति दीर्घश्च । महीम् महिमामयीं प्रभावकारिणीं वाचं वाग्देवताम् अधि शिश्राय न्यधत्त । सः योऽसौ अपो वसानः जले निवसन् जलानि धारयन् वा भुवनेषुः अन्त लोकलोकान्तरेषु आवरीवर्ति आसमन्तान् परिभ्रमति, क उ तच्चिकेत तं निश्चयेन को जानाति ॥ ७ ॥

म॒स्तिष्क॑मस्य यत॒मो ल॒लातं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्।
चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ।।८।।
मस्तिष्कम् । अस्य । यतमः । ललाटम् । ककाटिकाम् । प्रथमः। यः। कपालम् ।
चित्वा । चित्यम् । हन्वोः । पुरुषस्य । दिवम् । रुरोह । कतमः । सः । देवः ॥ ८ ॥
यतमः बहूनां मध्ये प्रथमः आदिपुरुषः यः, यद्वा-प्रथमः सर्वतः पूर्वं यः, अस्य पुरुषस्य मस्तिष्कम् मस्तकस्नेहं शिरो वा ललाटं भालपट्टं ककाटिकां ग्रीवायाः पश्चादभागं 'घाटा' इति भाषाभाषितम् कपालम् शीर्ष्णः कपालद्वयं हन्वोः ऊर्ध्वाऽधोमुखभागयोश्च चित्यम् चयनम, 'चिञ् चयने' (१२५२ स्वा०) इत्यस्मात् क्यप् तुक् च । चित्वा संचयं विधाय दिवं द्युलोकं देहस्य शिरःस्थानं वा, देहे लोकत्रयकल्पनाप्रसङ्गे शास्त्रकृतां शिरसः स्वर्गलोकरूपत्वोक्तेः, रुरोह आरूढवान् । कथय, कतमः सः देवः ? देवेषु मध्ये कोऽसौ देव इति ।। ८ ।।

प्रि॑याप्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्यः॑।
आ॑न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द्वहति॒ पूरु॑षः ।।९।।
प्रियऽअप्रियाणि । बहुला । स्वप्नम् । संबाधऽतन्द्र्यः ।
आऽनन्दान् । उग्रः । नन्दान् । च। कस्मात् । वहति । पुरुषः॥९॥
बहुला बहूनि प्रियाप्रियाणि प्रियाप्रियात्मकानि कर्माणि वस्तूनि वा, स्वप्नं निद्राम्, संबाधतन्द्रयः कार्योद्योगे बाधाप्रदाः अवसादाः आलस्यप्रमादादिबहुला अवस्थाः, आनन्दान् प्रमोदान् च नन्दान् हर्षांश्च एतान् सर्वान् गुणधर्मान् क: उग्रः प्रचण्डः, महाबलशाली पुरुषः कस्मात् कुतः, कस्माद्धेतोः वहति प्राप्नोति ॥ ९॥

आर्ति॒रव॑र्ति॒र्निरृ॑तिः॒ कुतो॒ नु पुरु॒षे ऽम॑तिः।
राद्धिः॒ समृ॑द्धि॒रव्यृ॑द्धिर्म॒तिरुदि॑तयः॒ कुतः॑ ।।१०।। {४}
आर्तिः । अवर्तिः। निःऽऋतिः । कुतः। नु । पुरुषे । अमतिः।
राद्धिः। सम्ऽऋद्धिः। अविऽऋद्धिः । मतिः । उत्ऽइतयः । कुतः ॥ १०॥
आर्तिः दुःखं, पीडा वा, अवर्तिः दरिद्रता, निर्ऋतिः दुर्गतिः, अमतिः अज्ञानं दुर्मतिर्वा, एतत्सर्वं पुरुषे कुतः आगतम् ? राद्धिः ऋद्धिः, समृद्धिः सम्पन्नता, अव्यृद्धिः अन्यूनैश्वर्यम, मतिः बुद्धिः, उदितयः उत्थानमुदयो वा कुतः एतत्सर्वं पुरुषे कुतः समागतमित्यर्थः॥ १० ॥

को अ॑स्मि॒न्नापो॒ व्य॑दधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः।
ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ।।११।।
कः। अस्मिन् । आपः। वि। अदधात्। विषुऽवृतः। पुरूऽवृतः । सिन्धुऽसृत्याय । जाताः।
तीव्राः। अरुणाः । लोहिनीः । ताम्रऽधूम्राः । ऊर्ध्वाः । अवाचीः । पुरुषे । तिरश्चीः ॥ ११॥
अस्मिन् पुरुषे ताः आपः रसरक्तात्मिकाः जलधाराः कः व्यदधात् समस्थापयत्, याः किल विषूवृतः पृथक्-पृथक् रूपेण प्रवहमानाः, पूरुवृतः पुरुभिः बहुभिः विविधैरन्नरसैः परिवृताः, सिन्धुसृत्याय नाडीषु सततं संसरणाय जाताः समुत्पन्नाः। कीदृश्यस्ताः ? काश्चित् तीव्राः तीव्रवेगेन देहे भ्रमन्त्यः, काश्चित् अरुणाः अरुणवर्णाः वृन्ताकवर्णकल्पाः, काश्चित् लोहिनीः लोहितवर्णाः, ताम्रधूम्राः ताम्रधातुवत् रक्तधूम्रवर्णाः ऊर्ध्वाः उपरिगती: अवाचीः, अधोगतिशीलाः तिरश्चीः तिर्यग्गतियुक्ता: विद्यन्ते ।। ११ ॥

को अ॑स्मिन्रू॒पम॑दधा॒त्को म॒ह्मानं॑ च॒ नाम॑ च।
गा॒तुं को अ॑स्मि॒न्कः के॒तुं कश्च॒रित्रा॑नि॒ पुरु॑षे ।।१२।।
कः । अस्मिन् । रूपम् । अदधात् । कः। मह्मानम् । च । नाम । च ।
गातुम् । कः । अस्मिन् । कः । केतुम् । कः । चरित्राणि । पुरुषे ॥ १२॥
कः अस्मिन् पुरुषे रूपम् अदधात् प्रतिष्ठितमकरोत् च पुनः कः अस्मिन् पुरुषे मह्मानं महिमानं महत्त्वं च तथा नाम पुरुषस्य नाम अदधात् । अस्मिन् पुरुषे कः गातुं गतिं गमनं यज्ञं वा। 'गातुं गमनम्' (निरु० ४.२१), 'गातुं वित्वेति यज्ञं वित्येत्येवैतदाह' (शत० ब्रा० १.९,२.८) । एवमेव अस्मिन् कः केतुम् प्रज्ञाम्, चरित्राणि चारियाणि च कः अदधात् प्रावेशयदिति ।। १२ ॥

को अ॑स्मिन्प्रा॒णं अ॑वय॒त्को अ॑पा॒नं व्या॒नमु॑।
स॑मा॒नम॑स्मि॒न्को दे॒वो ऽधि॑ शिश्राय॒ पुरु॑षे ।।१३।।
कः । अस्मिन् । प्राणम् । अवयत् । कः । अपानम् । विऽआनम् । ऊं इति ।
सम्ऽआनम् । अस्मिन् । कः । देवः । अधि । शिश्राय । पुरुषे ॥ १३ ॥
कः देवः अस्मिन् मानवदेहे, हृदीत्यर्थः । प्राणम् प्राणवायुम्, अवयत् वीतवान् । मानवदेहेऽस्मिन् प्राणापानादिपञ्चात्मके प्राणतन्तुभिः कः प्राणजालमतन्वतेत्यर्थः । एवं कः अपानम् गुदास्थानस्थितमपानवायुम्, उ अपि च व्यानम् सर्वशरीरे वर्तमानं व्यानवायुं कः अतन्वतेत्यर्थः । एवम् अस्मिन् पुरुषे कः देवः समानम् नाभिमण्डलस्थं समाननामानं वायुम्, अधि शिश्राय स्थापितवानित्यर्थः । समानयति अन्नरसादीनि सर्वदेहे इति समानः । मन्त्रेऽस्मिन् पञ्चमस्य कण्ठदेशस्थस्य उदानस्य निर्देशो न कृतः, यद्यपि आयुर्वेदग्रन्थेषु सोऽपि परिगणितः। यथा-'हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः' इति । शतपथे पुनः प्राणादिवायुत्रयस्यैव समुल्लेखो दृश्यते । यथा-'सोऽयं (वायु:) पुरुषेऽन्तःप्रतिष्ठस्त्रेधा विहितः प्राणो उदान व्यान इति' (शत० ब्रा० ३.१.२.२०)। अपानोदानयोश्च एष्वेवान्तर्भावितत्वात्, विभाजने प्रत्येकस्य स्वातन्त्र्यादित्यवधेयम् ॥ १३ ॥

को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वो ऽधि॒ पुरु॑षे।
को अ॑स्मिन्त्स॒त्यं को ऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ ऽमृत॑म् ।।१४।।
कः । अस्मिन् । यज्ञम् । अदधात् । एकः । देवः । अधि । पुरुषे ।
कः । अस्मिन् । सत्यम् । कः । अनृतम् । कुतः । मृत्युः । कुतः । अमृतम् ॥ १४ ॥
कः एकः अद्वितीयः देवः अस्मिन् पुरुषे यज्ञम् अधात् स्थापितवान् 'पुरुषो वाव यज्ञ' इति श्रुतेः । एवमेव कः अस्मिन् सत्यम् अनृतम् असत्यं च अधादित्यन्वयः। तथा अस्मिन् पुरुषे कुतः मृत्युः मरणम्, कुतः च अमृतम् अमरत्वम् समायाते इति प्रश्नार्थः। अनृतं हि ताण्ड्ये वाचश्छिद्ररूपेण व्याहृतम्। यथा-'एतद्वाचश्छिद्रं यदनृतम्' (ता० ब्रा० ८.६.१३) इति ॥ १४ ॥

को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्।
बलं॒ को अ॑स्मै॒ प्राय॑छ॒त्को अ॑स्याकल्पयज्ज॒वम् ।।१५।।
कः। अस्मै । वासः । परि । अदधात् । कः । अस्य । आयुः । अकल्पयत् ।
बलम् । कः । अस्मै । प्र। अयच्छत् । कः। अस्य । अकल्पयत् । जवम् ॥ १५ ॥
कः देवः अस्मै पुरुषाय वासः त्वग्रूपाणि 'त्वग्घिवासः' (शत० ब्रा० ४.३-४.२६) इति श्रुतेः। पर्यदधात् त्वग्रूपेण वस्त्रेण आच्छादितवानित्यर्थः । कः अस्य आयुः अस्मिन् जन्मनि इयत्कालपर्यन्तं भविष्यतीति कालसीमानम्, अकल्पयत् निश्चिकाय । अस्मै बलम् सामर्थ्यं शरीरसत्त्वादिकं वा कः प्रायच्छत् प्रदत्तवान् । कः अस्य पुंसः जवम् वेगम् अकल्पयत् अददात् ॥ १५ ॥

केनापो॒ अन्व॑तनुत॒ केना॑हरकरोद्रु॒चे।
उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ।।१६।।
केन । आपः । अनु । अतनुत । केन । अहः । अकरोत् । रुचे।
उषसम् । केन । अनु। ऐन्द्ध । केन । सायम्ऽभवम् । ददे ॥१६॥
सृष्टिकर्ता केन सामर्थ्येन आपः जलानि अन्वतनुत जगति विस्तारितवानित्यर्थः । केन साधनेन वा सः अहः दिनं रुचे दीप्तये, अकरोत्, वस्तूनां प्रकाशाय दिनं निर्मिमायेत्यर्थः । केन साधनेन सः उषसम् प्रभातवेलाम् अनु सततम् ऐन्द्ध दीप्तिमतीमकरोत् । 'त्रिइन्धी दीप्तौ' (१४४९ रुधा०) लङ्, अन्तर्भावितण्यर्थः । केन वा सामर्थ्येन स सायंभवं सायंकालसत्तां, सूर्यास्तकालं ददे प्रददौ, विरचितवानित्यर्थः ।। १६ ॥

को अ॑स्मि॒न्रेतो॒ न्य॑दधा॒त्तन्तु॒रा ता॑यता॒मिति॑।
मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ।।१७।।
कः । अस्मिन् । रेतः । नि। अदधात् । तन्तुः। आ। तायताम् । इति ।
मेधाम् । कः । अस्मिन् । अधि। औहत् । कः । बाणम् । कः । नृतः । दधौ ॥ १७ ॥
कः देवः अस्मिन् पुरुषे तन्तुः प्रजाः 'प्रजा वै तन्तुः' (ऐ० ब्रा० ३.११.३८) इति श्रुतेः, आतायताम् आसमन्तात् विस्तारं प्राप्नोतु 'तनोतेर्यकि' (पा० ६.४.४४) आकारोऽन्तादेशो वा, इति हेतो: रेतः वीर्यं न्यदधात् निरन्तरं स्थापयामास, प्रजातन्तोर्विस्ताराय सन्ततेरविच्छेदाय वा वीर्यं स्थापयामासेति भाव: । कः देवः अस्मिन् पुरुषे मेधां धारणावतीं बुद्धिं, प्रज्ञामित्यर्थः, अधि औहत् उपरि अवहत्, प्रापितवानित्यर्थः । 'वह प्रापणे' (१००४ भ्वा०), लङि छान्दसं रूपम्। एवम् अस्मिन् पुरुषे कः बाणः बाणो महावीणा, वाद्यविशेषो वा बाणः 'तथा च ताण्ड्यम्-' 'शततन्त्रीको भवति', 'अन्तो वै बाणः' (वाद्यानाम् ) (ता० ब्रा० ५.६.१२-१३) । तदुपलक्षितं गायन-वादनरूपं सङ्गीतम् च कः नृतः नृत्यम्, सङ्गीतस्य तृतीयां शाखां देहचालनात्मिकां दधौ अदधादित्यर्थः । 'नृती गात्रविक्षेपे' (१११६ दिवा०) असुन्, कित् ॥ १७ ॥

केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्।
केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ।।१८।।
केन । इमाम् । भूमिम् । और्णोत् । केन । परि । अभवत् । दिवम् ।
केन । अभि । मह्ना । पर्वतान् । केन । कर्माणि । पुरुषः ॥ १८ ॥
सः प्रभुः केन तत्त्वेन इमाम् परिदृश्यमानां भूमिं पृथिवीम् और्णोत् आच्छादितवान् । 'उर्णुञ् आच्छादने' (१०३९ अदा०)। केन तत्त्वेन दिवं द्युलोकं पर्यभवत् परितः आक्रान्तवान् । केन मह्ना महिम्ना पर्वतान् भूधरान केन च सामर्थ्येन पूरुषः विराट् पूरुषोऽन्यानि पूर्वोक्तानि च कर्माणि विदधाति । यद्वा-अयं प्राकृतो जन: कस्य देवस्य साहाय्येन स्वकीयानि कर्माणि करोतीत्यर्थः ।। १८ ॥

केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्।
केन॑ य॒ज्ञम्च॑ श्र॒द्धां च॒ केना॑स्मि॒न्निहि॑तं॒ मनः॑ ।।१९।।
केन । पर्जन्यम् । अनु । एति। केन । सोमम् । विचक्षणम् ।
केन। यज्ञम् । च । श्रद्धाम् । च । केन। अस्मिन् । निऽहितम् । मनः ॥ १९ ॥
सः देवः केन प्रयोजनेन पर्जन्यं मेघम् अन्वेति अनुगच्छति । केन वा प्रयोजनेन विचक्षणं दर्शनीयं चैतन्योद्बोधकं सोमम् अन्वेति। केन निमित्तेन यज्ञं च तथा श्रद्धाम् अनुगच्छति। एवं केन देवेन अस्मिन् पुरुषे मनः अन्तःकरणं निहितं संस्थापितम् ।। १९ ॥

केन॒ श्रोत्रि॑यमाप्नोति॒ केने॒मं प॑रमे॒ष्ठिन॑म्।
केने॒मम॒ग्निं पूरु॑षः॒ केन॑ संवत्स॒रं म॑मे ।।२०।। {५}
केन । श्रोत्रियम् । आप्नोति । केन । इमम् । परमेऽस्थिनम् ।
केन । इमम् । अग्निम् । पुरुषः । केन । सम्ऽवत्सरम् । ममे ॥ २० ॥
अयं पुरुषः केन साधनेन श्रोत्रियं वेदज्ञम् आप्नोति अधिगच्छति । वा केन साधनेन इमं परमेष्ठिनं परमे स्थाने स्थितं परमात्मानं प्राप्नोति। केन साधनेन पूरुषः मानवः इमम् साक्षाद्दृश्यमानम् अग्निं प्राप्नोति । केन साधनेन चायं संवत्सरं कालम्, अथवा सम्यक् वसति वासयति वेति व्युत्पत्त्या संवत्सरं नाम सम्यक् निवासम्, सर्वव्यापकं परमात्मानमित्यर्थः, ममे मिमीते, मापयति च ।। २० ॥

ब्रह्म॒ श्रोत्रि॑यमाप्नोति॒ ब्रह्मे॒मं प॑रमेष्ठिनम्।
ब्रह्मे॒मम॒ग्निं पूरु॑षो॒ ब्रह्म॑ संवत्स॒रं म॑मे ।।२१।।
ब्रह्म । श्रोत्रियम् । आप्नोति । ब्रह्म । इमम् । परमेऽस्थिनम् ।
ब्रह्म। इमम् । अग्निम् । पुरुषः। ब्रह्म। सम्ऽवत्सरम् । ममे ॥ २१ ॥
पूर्वमन्त्रगतं प्रश्नचतुष्टयं मन्त्रेणानेन उत्तरयति-ब्रह्म इति। ब्रह्मशब्दोऽत्र मन्त्रात्मकवेदपरः। पूरुषः ब्रह्म ब्रह्मणा वेदेन, श्रोत्रियम् श्रोत्रियत्वं वेदज्ञतां वा आप्नोति । ब्रह्म ब्रह्मणा वेदेन इमम् जगतः कर्तारं परमेष्ठिनम् हिरण्यगर्भं प्राप्नोति । ब्रह्म ब्रह्मणा वेदेन इमम् अग्निहोत्र-दर्शपूर्णमासादियज्ञसाधकम् अग्निं प्राप्नोति । अथ ब्रह्म ब्रह्मणा वेदेनैव पूरुषः संवत्सरम् कालं ममे मापयति । ब्रह्मणो वेदानतिरिक्तत्वेन ब्रह्मप्रकाशकेऽस्मिन् वेदस्य एतावन्महिम्नो नार्थान्तरत्वमित्यवधेयम् ।। २१ ॥


केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनीर्विशः।
केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क्ष॒त्रमु॑च्यते ।।२२।।
केन । देवान् । अनु । क्षियति । केन । दैवऽजनीः । विशः।
केन । इदम् । अन्यत् । नक्षत्रम् । केन । सत् । क्षत्रम् । उच्यते ॥ २२॥
स: देवः केन बलेन शक्त्या वा देवान् अमरान् अनु अनुलक्ष्य क्षियति निवसति । केन बलेन शक्त्या वा दैवजनीः दैवात् पूर्वजन्मार्जितकर्मणोऽदृष्टात् जनिर्यासां ताः, 'देवाद् यञञौ' (वा० ४.१.८५) इत्यनेन देवशब्दात् अञ् । देवैरुत्पन्ना: विशः प्रजाः, मनुष्यान् (निघ० २.३) अनुक्षियति । केन बलेन शक्त्या वा अन्यत् भिन्नं सत् इदं प्रत्यक्षं नक्षत्रम् नक्षत्रजातं नभसि व्याप्तम् । नक्षतिर्गतिकर्मा, व्याप्तिकर्मा वा' (निघ० २.१४.२४) 'णक्ष' धातोः 'अभिनक्षि०' (उणा० ३.१०५) इत्यनेन अत्रन्-प्रत्ययः। 'नेमानि नक्षत्राणीति च ब्राह्मणम्' (निघ० ३.४.२०) । 'क्षत्रं धननाम' (निघ० २.१०)। इमानि नभसि व्याप्तानि नक्षत्राणि सुवर्णानीव भासन्ते परं न तानि सुवर्णानि, धनानीत्यर्थः । एवम्भूतं नक्षत्रम् उच्यते। अथवा केन बलेन शक्त्या वा सत् सम्पन्नं सत् शोभनं साधु क्षत्रं शोभनं धनम् उच्यते । अथवा केन अन्यत् सदिदं नक्षत्रम् अराज्यम्, केन वा सन्तं क्षत्रं राज्यमित्युच्यते इत्यपि केचित् ।। २२॥

ब्रह्म॑ दे॒वाँ अनु॑ क्षियति॒ ब्रह्म॒ दैव॑जनी॒र्विशः॑।
ब्रह्मे॒दम॒न्यन्नक्ष॑त्रं॒ ब्रह्म॒ सत्क्ष॒त्रमु॑च्यते ।।२३।।
ब्रह्म । देवान् । अनु । क्षियति। ब्रह्म। दैवऽजनीः । विशः ।
ब्रह्म । इदम् । अन्यत् । नक्षत्रम् । ब्रह्म । सत् । क्षत्रम् । उच्यते ॥२३॥
पूर्वोक्तमन्त्रगतं प्रश्नचतुष्टयमुत्तरयति-ब्रह्म देवान् अनुक्षियति ज्ञानरूपेण ब्रह्मणा स देवेषु निवसतीत्यर्थः । ब्रह्म दैवजनीः विशः मन्त्ररूपेण ज्ञानरूपेण वा ब्रह्मणैव पूर्वोपार्जितकर्मजन्याभिः मानुषीप्रजाभिः सह निवसति । ब्रह्म इदम् अन्यत् नक्षत्रम् मन्त्ररूपेण ज्ञानरूपेण वा ब्रह्मणा पृथग्भूतम् इदं जगत् तेजोविहीनमराज्यं वा जायते, ब्रह्म ब्रह्मणा च सत् तत् क्षत्रम् उच्यते तादृशब्रह्मणः सत्तयैव क्षत्रं तेजस्विधनं सुराज्यं वा उच्यते ॥ २३ ॥

केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता।
केने॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्ष॒म्व्यचो॑ हि॒तम् ।।२४।।
केन । इयम् । भूमिः । विऽहिता । केन । द्यौः । उत्तराः। हिता।
केन । इदम् । ऊर्ध्वम् । तिर्यक् । च । अन्तरिक्षम् । व्यचः। हितम् ॥ २४ ॥
इयं भूमिः पृथिवी केन विहिता रचिता, केन च इयं द्यौः द्युलोकः उत्तरा उपरिभवः हिता ऊर्ध्वं धृतः प्रतिष्ठापित इत्यर्थः । केन च इदम् अन्तरिक्षम् व्यचः सर्वत्राभिव्याप्तं विस्तृतं वा, ऊर्ध्वम् उपरिभागे तिर्यक् तिरश्चीनं च हितम् स्थापितम् ॥ २४ ॥

ब्रह्म॑णा॒ भूमि॒र्विहि॑ता॒ ब्रह्म॒ द्यौरुत्त॑रा हि॒ता।
ब्रह्मे॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ।।२५।।
ब्रह्मणा । भूमिः । विहिता। ब्रह्म । द्यौः । उत्ऽतरा । हिता।
ब्रह्म । इदम् । ऊर्ध्वम् । तिर्यक् । च । अन्तरिक्षम् । व्यचः । हितम् ॥ २५ ॥
पूर्वमन्त्रस्य उत्तरमाह-ब्रह्मणा भूमिः विहिता मन्त्ररूपेण ज्ञानरूपेण वा ब्रह्मणा भूमिः इत्यादि पूर्ववत्। ब्रह्म मन्त्ररूपेण ज्ञानरूपेण वा ब्रह्मणा उत्तरा द्यौः इत्यादि यथापूर्वम् । ब्रह्म ब्रह्मणा मन्त्ररूपेण ज्ञानरूपेण वा अन्तरिक्षम् इत्यादि समानम् ।। २५ ।।

मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्।
म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त्पव॑मा॒नो ऽधि॑ शीर्ष॒तः ।।२६।।
मूर्धानम् । अस्य । सम्ऽसीव्य । अथर्वा । हृदयम् । च । यत् ।
मस्तिष्कात् । ऊर्ध्वः । प्र। ऐरयत् । पवमानः । अधि । शीर्षतः ॥ २६॥
अथर्वा अथर्वा ऋषिः । अत्रायमभिसन्धिः- 'थर्व' शब्दो गतिचाञ्चल्यवाचकस्तदभाववान् अथर्वा स्थिरचेता योगी। गोपथे अथर्वशब्द एवं व्युत्पादित:-'अथ अर्वाक एनम् एतासु अप्सु अन्विच्छ' इति (गो० ब्रा० १.४.)। एवञ्च अन्तः आत्मनोऽन्वेषणस्य विद्या अथर्ववेदः । ताञ्च असम्प्रज्ञातसमाधिना पश्यन् मन्त्ररूपेण तस्याः विद्यायाः प्रस्तोतुस्तादृशशक्तिशालित्वं सुस्पष्टमेवेति। सोऽयमथर्वा सर्वप्रथमम अस्य पुरुषस्य मूर्धानम् मूर्धास्थितं चैतन्यांशं च तथा यत् हृदयं हृद्गतं चैतन्यांशं (तदुभयं) संसीव्य मिथ: सम्मेल्य, तयोः एकत्वमापाद्य वा स्थापितवान् । ततः पवमानः पूयमानः पवित्रीक्रियमाण: वा सोमः प्राणवायु: 'सोमो वै पवमानः' (शत० ब्रा० २,२.३.२२), 'प्राणा वै पवमानः (शत० ब्रा० २.२.१.६) इति श्रुतेः । स्वप्रभावेण शीर्षतः अधि शीर्षमधिकृत्य मस्तिष्कात् ऊर्ध्वः ऊर्ध्वभागे प्रसरत् भालपट्टे भ्रूमध्यस्थितम् एकीभूतं तत् ऊर्ध्वाभिमुखं चैतन्यं प्रैरयत् जीवनाय प्रेरितवान् । तात्पर्यमेतत् यद् अथर्वानामा ऋषिः स्वीयैः प्रयोगैः मानवस्य भावनाप्रवणस्य हृदयस्य तर्कप्रवणस्य च मस्तिष्कस्य एकत्र सामञ्जस्यं साधितवान्, प्राणवायुंश्च सक्रियं कुर्वन् तन्मस्तिष्कं गतिशीलं विधत्ते इति ।। २६ ।।

तद्वा अथ॑र्वणः॒ शिरो॑ देवको॒शः समु॑ब्जितः।
तत्प्रा॒णो अ॒भि र॑क्षति॒ शिरो॒ अन्न॒मथो॒ मनः॑ ।।२७।।
तत् । वै । अथर्वणः । शिरः । देवकोशः । सम्ऽउब्जितः ।
तत् । प्राणः । अभि । रक्षति । शिरः। अन्नम् । अथो इति । मनः ॥ २७ ॥
अथर्वणः तत् वै शिरः नूनम् अथर्वणा, प्रजापतिना वा प्रदत्तं तच्छिरः मन्त्रविशेषसमुदायो मानवमस्तिष्कं वा समुब्जितः सम्यक् प्रकारेण योगसाधनेन वा ऋजुतामापादितः देवकोशः दिव्यशक्तीनां कोशः, इन्द्रियाणां सञ्चालको वा आस्ते । 'उब्ज आर्जवे' इत्यस्मात् क्त-प्रत्ययः । देवकोशात्मकं तत् शिरः प्राणः मुख्यः प्राण: अभिरक्षति । अन्नं तदनुकूलं भक्षितमन्नम् अथो अपि च मनः, एते द्वे अपि तत् रक्षतः । एतेन मानव-शरीरे मस्तिष्कस्य जीवनाधायता स्फुटा ।। २७॥

ऊ॒र्ध्वो नु सृ॒ष्टा३स्ति॒र्यङ्नु सृ॒ष्टा३स्सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भू॒वा३ँ।
पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ।।२८।।
ऊर्ध्वः । नु । सृष्टा३ः । तिर्यङ्। नु । सृष्टा३ः । सर्वाः । दिशः । पुरुषः । आ। बभूवाँ३ ।
पुरम् । यः । ब्रह्मणः। वेद। यस्याः । पुरुषः उच्यते ॥ २८ ॥
प्रश्नोत्तररूपेण विराट् वर्ण्यते-ऊर्ध्वो नु सृष्टा इति । नु कि विराट्-पुरुषस्य ब्रह्माण्डरूपो देहः ऊर्ध्वः ऊर्ध्वाभिमुख एव सृष्टाः सृष्टः । अथवा नु किं तिर्यङ् वक्रगामी सृष्टाः सृष्ट: ? अस्यैव सन्देहस्य उत्तरमेतत् यन्नैवम्, प्रत्युत सर्वा दिशः पुरुषः, अयं विराट् पुरुषः, सर्वा: दिशः अभिव्याप्य आबभूव संस्थितः, सर्वत्र सृष्टिरचनामकरोदिति भावः । यः पुरुषः अस्य ब्रह्मणः ब्रह्माण्डाधिपते: विराट्पुरुषस्य पुरं आवासभूमिम्, ब्रह्माण्डपुरिं वेद विजानाति, यस्याः अधिकरणार्थे षष्ठी, यस्यामावासभूभ्यां निवासहेतोः अयमात्मा पुरुष इति उच्यते । स एव वस्तुतस्तत्त्वज्ञो भवतीत्यर्थः ।। २८ ॥

यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्।
तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ।।२९।।
यः। वै । ताम् । ब्रह्मणः । वेद। अमृतेन । आवृताम् ।
पुरम् । तस्मै । ब्रह्म । च । ब्राह्माः । च । चक्षुः । प्राणम् । प्रजाम् । ददुः ॥ २९ ॥
यः वै खलु अमृतेन अमृततत्त्वेन अमरणशीलया प्राणशक्त्या वेत्यर्थः । आवृतां समाच्छादिताम् परब्रह्मण: एनं पुरं पुरीं वेद जानाति स नियन्त्रितजीवनो न केवलं ब्रह्मैवाप्नोति, प्रत्युत तस्मै ब्रह्म वेदाः च ब्राह्माः वेदाध्येतारो ब्राह्मणाश्च चक्षुः चक्षुस्तदुपलक्षितानि सर्वाणि इन्द्रियाणि, प्राणं सर्वमायुः प्रजां सन्ततिं चापि ददुः दत्तवन्तः, तेषां वरप्रदानात् स एतत्सर्वमपि समाप्नोतीत्यर्थः ॥ २९॥

न वै तम्चक्षु॑र्जहाति॒ न प्रा॒णो ज॒रसः॑ पु॒रा।
पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ।।३०।।
न। वै । तम् । चक्षुः । जहाति । न । प्राणः । जरसः। पुरा ।
पुरम् । यः। ब्रह्मणः। वेद। यस्याः । पुरुषः। उच्यते ॥ ३०॥
यस्याः ब्रह्मपुर: कारणात्, तत्र शयनात् आत्मा पुरुषः इति उच्यते, यथाह यास्क:-'पुरुषः पुरीषयः, पुरि शेते इति (नि० २. १. ४ )। तस्य पुरुषशब्दस्य अन्वर्थताहेतुकं पुरम् ब्रह्मपुरं यः वेद विजानाति, वै निश्चयेन तं पुरुषं चक्षुः चक्षुरादीन्द्रियजातं न जहाति न त्यजते । जरसः पुरा वार्धक्यात् पूर्वं प्राणः अपि न जहातीत्यर्थः ॥ ३० ॥

अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या।
तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ।।३१।।
अष्टाऽचक्रा । नवद्वारा । देवानाम् । पू: । अयोध्या ।
तस्याम् । हिरण्ययः। कोशः। स्वःऽगः । ज्योतिषा । आऽवृतः ॥ ३१॥
देवानाम् पू: नगरी, जीवात्मनो निवासस्थानम् । आदरार्थे बहुवचनम् । यद्वा-दिव्यगुणोपेतानां जनानां निवासभूमिः । साधिष्ठातृदेवैः पञ्चभूतैः निर्मितत्वादस्य शरीरस्य तदधिष्ठातृदेवानां पूंस्त्वमिति वा। किंवा मानवीये देहेऽस्मिन् क्रमशः प्राण-मनोः-रक्तापरपर्यायसत्त्व-वाक्-बुद्धि-वीर्य-दुःख-रोगादीनां सूर्य-चन्द्र-मंगल-बुध-गुरु-शुक्रशनैश्चराभिधैः ग्रहदेवैः प्रदानात् तेषां देवानां पूरियमित्यपि केचन । अथवा देवानां मूर्खाणाम् उन्मत्तानां पू: पूर्तिपुरी, 'दिवु मदे' अच् । देववत् प्रकाशमानानां नगरी देवानां पूरिति निष्कर्षः । सा अयोध्या योद्धुमशक्या, अजेया, इति यावत् । तामेव विशिनष्टि-अष्टांचका करोतेर्घञर्थे कः, द्वित्वम् । मूलाधार-स्वाधिष्ठान-मणिपूरका-ऽनाहत-विशुद्धा-ऽऽज्ञाचक्र ललनाचक्रापरपर्यायमनश्चक्र - कूर्मचक्र-सहस्रारचक्ररूपाणि अष्टौ चक्राणि यस्यां सा। चक्रशब्दस्य कर्मवाचित्वे यम-नियमा-ऽऽसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरूपाणि योगदर्शनोक्तानि कर्माणि यस्याः सा तादृशी अष्टाचक्रा । नवद्वारा द्वे नेत्रे, द्वौ कणौँ, द्वे नासिके, एकैकं मुख-गुदा-लिङ्गानि इत्येवं नवद्वारवती । अथवा मनोबुद्धिसहितैः सप्तशीर्षण्यच्छिद्रैर्युक्ता। वर्तते इति शेषः । तस्यां तादृश्याम् अयोध्यापुरि, स्थितः हिरण्ययः कोशः स्वर्णाभायुक्तः अदृष्टरूपः, मन-प्राण-हृदयरूपो वा कोशः प्रदेशः स्वर्गः स्वर्गवत् सुखप्रदः अस्ति यो हि ज्योतिषा आत्मज्योतिषा ज्ञानेन वा आवृतः प्रावृतः, आच्छादितो देदीप्यमानो विराजते ॥ ३१ ॥

तस्मि॑न्हिर॒ण्यये॒ कोशे॒ त्र्य॑रे॒ त्रिप्र॑तिष्ठिते।
तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ।।३२।।
तस्मिन् । हिरण्यये। कोशे । त्रिऽअरे । त्रिऽप्रतिस्थिते ।
तस्मिन् । यत् । यक्षम् । आत्मन्ऽवत् । तत् । वै । ब्रह्मविदः। विदुः ॥ ३२॥
त्र्यरे बाल्य-यौवन-जरात्मका: त्रयः त्रिविधा अरा: यत्र तादृशे । यद्वा-त्रिगुणात्मिकायाः प्रकृतेस्त्रैगुण्यमया अराः यत्र तस्मिन, तादृशे। त्रिप्रतिष्ठिते काय-मनो-वाक्सम्बन्धिषु कर्मसु प्रतिष्ठिते। यद्वा स्थूल-सूक्ष्म-कारणशरीरेषु निहिते, तस्मिन् हिरण्यये कोशे सुवर्णमये दहराकाशे यद् आत्मन्वत् आत्मसंयुक्तं यक्षं यजनीयं परं ब्रह्म विद्यते, तत् परं ब्रह्म ब्रह्मविदः ब्रह्मवेत्तारो महर्षयः वै एव विदुः जानन्ति ।। ३२॥

प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्।
पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम् ।।३३।।
प्रऽभ्राजमानाम् । हरिणीम् । यशसा। सम्ऽपरिवृताम् ।
पुरम् । हिरण्ययीम् । ब्रह्म । आ। विवेश । अपराऽजिताम् ॥३३॥
प्रभ्राजमानां प्रकृष्टगुणगणैः भासमानां, दीप्तिमतीं हरिणीं त्रिविधदुःखविनाशिनीं यशसा यशोद्रवेण सोमात्मकेन संपरिवृतां परितः व्याप्ताम्, अपराजिताम् असुरादिभिः अजेयाम् एतादृशीं हिरण्ययीं हितां रमणीयां पुरम् अयोध्यानाम्नीं नगरीं ब्रह्मा परं ब्रह्म विवेश प्रविवेश, निवासमकरोत् ॥ ३३ ॥


सम्पाद्यताम्

टिप्पणी

१०.२.३१ अष्टचक्रानवद्वारा इति

बौधायनश्रौतसूत्रे १९.१० आरुणकेतुकाग्नेः चयनस्य विषये निर्देशमस्ति - आप्लवस्वेति (तैआ १.२७.१) सप्तदश क्षपण्यो। तैआ १.२७.१ अस्य विस्तारमस्ति। सप्तदश क्षपण्यसंज्ञकासु अबिष्टकासु पञ्चमीतः सप्तमीयावत् इष्टकास्थापनार्थं मन्त्राः अष्टचक्रा इति सन्ति।


१०.२.३३ हरिणी उपरि संदर्भाः

अपराजिता

सोमक्रयणम् - देवासुरा वा एषु लोकेषु समयतन्त त एतस्यां प्राच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्ते प्रतीच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्त उदीच्यां प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त। सैषा दिगपराजिता। तस्मादेतस्यां दिशि यतेत वा यातयेद्वेश्वरो हानृणाकर्तोः। ते देवा अब्रुवन्नराजतया वै नो जयन्ति। राजानं करवामहा इति। तथेति। ते सोमं राजानमकुर्वंस्ते सोमेन राज्ञा सर्वा दिशोऽजयन्नेष वै सोमराजा यो यजते। प्राचि तिष्ठत्यादधति तेन प्राचीं दिशं जयति। तं दक्षिणा परिवहन्ति तेन दक्षिणां दिशं जयति। तं दक्षिणा परिवहन्ति देन दक्षिणां दिशं जयति। तं प्रत्यञ्चमावर्तयन्ति तेन प्रतीचीं दिशं जयति। तमुदीचस्तिष्ठत उपावहरन्ति तेनोदीचीं दिशं जयति सोमेन राज्ञा। सर्वा दिशो जयति य एवं वेद ॥ऐब्रा. १.१४


सरयू उपरि संदर्भाः एवं टिप्पणी