← सूक्तं १०.०३ | अथर्ववेदः - काण्डं १० सूक्तं १०.०४ गरुत्मान् |
सूक्तं १०.०५ → |
दे. तक्षकः। अनुष्टुप्- - - - - |
इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।
अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥
दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।
रथस्य बन्धुरम् ॥२॥
अव श्वेत पदा जहि पूर्वेण चापरेण च ।
उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥
अरंघुषो निमज्योन्मज पुनरब्रवीत्।
उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥
पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।
पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥
पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।
अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥
इदं पैद्वो अजायतेदमस्य परायणम् ।
इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
संयतं न वि ष्परद्व्यात्तं न सं यमत्।
अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
अरसास इहाहयो ये अन्ति ये च दूरके ।
घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।
इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०}
पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।
इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।
जघानेन्द्रो जघ्निमा वयम् ॥१२॥
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।
दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥
कैरातिका कुमारिका सका खनति भेषजम् ।
हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥
आयमगन् युवा भिषक्पृश्निहापराजितः ।
स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥
इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।
वातापर्जन्योभा ॥१६॥
इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।
स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥
इन्द्रो जघान प्रथमं जनितारमहे तव ।
तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।
सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥
अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११}
ओषधीनामहं वृण उर्वरीरिव साधुया ।
नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥
यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्।
कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥
ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।
येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥
तौदी नामासि कन्या घृताची नाम वा असि ।
अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥
अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।
अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥
आरे अभूद्विषमरौद्विषे विषमप्रागपि ।
अग्निर्विषमहेर्निरधात्सोमो निरणयीत्।
दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२}
भाष्यम्
चतुर्थं सूक्तम् : सर्पविष-दूरीकरणम्
(१-२६) ऋषिः-गरुत्मान् । देवता- तक्षकः । १ पथ्यापङक्तिः २ त्रिपदा
यवमध्यागायत्री; ३,४ पथ्या बृहती; ५-७,९-११,१३-१५,१७-२०, २२,२४,२५ अनुष्टप्; ८ उष्णिग्गर्भा परा त्रिष्टुप्; १२ भुरिग्गायत्री; १६ त्रिपदा प्रतिष्ठा गायत्री; २१ ककुम्मती; २३ त्रिष्टुप्; २६ त्र्यवसाना षट्पदा बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप् ॥
विनियोगः-अस्मिन् सूक्ते नानासर्पास्तेषां च विषाणि तत्तत्प्रतीकाराश्च कविवाग्विषयाः । सर्पविषभैषज्ये च मन्त्राः । सर्पविषहारिकाश्च काश्चिदोषधयः । साम्प्रदायिकाः सूक्तमिदमेवं विनियोजयन्ति । यथा - विषभैषज्ये कर्मणि 'इन्द्रस्य प्रथम:' इत्यर्थसूक्तस्य 'ब्राह्मणो जज्ञे' (अथर्व० ४.६) इति सूक्तवद् विनियोगोऽवगन्तव्यः । तथा तत्रैव कर्मणि अनेन सूक्तेन पैद्वं पिष्ट्वा अभिमन्त्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणनासापुटे नस्यं ददाति । 'पैद्वम्=कीटकम्, 'तालिणीति' लोकप्रसिद्धम् । तं पिष्ट्वा (कौ० सू० ३२.२१) इति केशवः । पैद्वम् हिरण्यवर्णसदृशः कीटश्चित्रितो वा स पैद्व इत्युच्यते (कौ० सू० ३२.१२) इति च । तथा 'अहिभये अनेन सूक्तेन श्वेतवस्त्रवेष्टितं पैद्वम अभिमन्त्र्य यत्र सर्पभयं तत्र निखनति' (कौ० सू० ३२.२२) इति केशवः। 'सर्पाद्भये पैद्वं वस्त्रे बद्ध्वा स्थापयति तस्मिन् वेश्मनि' इति दारिल: ।
शङ्काविषभैषज्ये कर्मणि 'अङ्गादङ्गात् प्र च्यावय' (२५) इति ऋचा सर्पदष्टं शिरःप्रभृति आप्रपदान्तं हस्तेन मार्ष्टि । तत्रैव कर्मणि 'आरे अभूत्' (२६) इति ऋचा उल्मुकं प्रताप्य अभिमन्त्र्य ततो विषव्रणं दृष्ट्वा तत्संमुखं क्षिपति । सर्पादर्शने यतो दष्टस्ततो निरस्यति उल्मुकम् । तदुक्तं कौशिकेन-'इन्द्रस्य प्रथमः' इति तक्षकायेत्युक्तम् । पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां न स्त: । अहिभये सिच्यवगूहयति । 'अङ्गादङ्गात्' इत्याप्रपदात् । 'देश्मोत्तमया निताप्याहिमभि निरस्यति यतो दष्टः' (कौ० सू० ३२,२०-२५) इति ।
इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृ॒तीय॒ इत्।
अही॑नामप॒मा रथ॑ स्था॒नुमा॑र॒दथा॑र्षत् ।।१।।
इन्द्रस्य । प्रथमः । रथः । देवानाम् । अपरः। रथः। वरुणस्य । तृतीयः। इत् ।
अहीनाम् । अपऽमा । रथः । स्थाणुम् । आरत् । अथ । अर्षत् ॥ १॥
इन्द्रस्य देवाधिदेवस्य प्रथमः रथः स्पर्धायाम् अग्रगामी, प्रमुखः रथः । तदनन्तरं देवानाम् रथः अपरः द्वितीयः इन्द्ररथस्य पश्चाद्गामी अस्ति । वरुणस्य अपामधिपतेः तृतीयः इत् तृतीयस्थाने एव रथः प्रचलति । अहीनां सर्पाणां रथ: पुनः स्पर्धायाम् अपमा, 'अप' पूर्वात् 'माङ् माने' इत्यस्मात् डः, 'सुपां सुलुक०' (पा० ७.१. ३९) इत्यनेन विभक्तेराकारः। तथा च अवमः, निकृष्टः, अधमः नीच
स्थानं प्रतिगन्ता रथः। 'अहिरयनादेति अन्तरिक्षे, अयमपीतरोऽहिरेतस्मादेव, निर्हसित उपसर्ग आहन्तीति' (निरु० २.१७) । सोऽहिरथः स्थाणुं लतागुल्मादिकम् आरत् प्राप्नोति । अथ अधुना स अर्षत् अस्मात् स्थानात् गच्छतु, निर्गच्छत्विति । अध्यात्मपक्षे-इन्द्रियाणामधिपते: इन्द्रस्य दिव्यमनस: रथः रंहणं गमनं सर्वातिशायिवेगतया प्रथमः प्रमुखम् । तत्पश्चात् देवानाम् इन्द्रियाणां तस्मात् न्यूनवेगतया तद्रथस्य द्वितीयं स्थानं भवति । देहमध्ये रसरक्ताद्यपाम् अधीश्वरस्य वरुणस्य रथः देवापेक्षया न्यूनवेगत्वात् तृतीयस्थाने भवति । अहीनां कुटिलवृत्तीनां रथः अपमा निकृष्टोऽधोमुखो भवति । स मनुष्यं स्थाणुत्वं प्रापयति । एतादृशः स रथ: आर्षत् अस्मत्सकाशात् दूरे अपगच्छतु ॥ १ ॥
द॒र्भः शो॒चिस्त॒रूण॑क॒मश्व॑स्य॒ वारः॑ परु॒षस्य॒ वारः॑।
रथ॑स्य॒ बन्धु॑रम् ।।२।।
दर्भः । शोचिः। तरूणकम् । अश्वस्य । वारः। परुषस्य । वारः।
रथस्य। बन्धुरम् ॥ २॥
दर्भः पवित्रम्, तृणविशेषः, शोचिः प्रज्वलितोऽग्निः सूर्यज्योतिर्वा, तरूणकम् तृणविशेष:, क्षुद्रनवीनदर्भो वा इति केचित् । अश्वस्य वारः अश्वबालैर्निर्मितं दंशमशकादिनिवारणसाधनम् औषधविशेषो वा, परुषस्य वारः दण्डपाषाणादिसर्पदूरीकरणसाधनम्, औषधविशेषो वा । तदेतत् सर्वं रथस्य सर्पाणां रंहणस्य गमनस्य बन्धुरम् बन्धकरम् । 'नागदमना'ख्यः काष्ठविशेष: हिमाचलप्रदेशे 'नागदौण' इति प्रख्यातः, सोऽपि सर्पगतेः प्रतिबन्धको भवति । यद्वा-दर्भः काशः शोचिः सर्परथस्य कान्तिः, प्रकाशो वा, तरूणकम् क्षुद्रनवीनदर्भः, अश्वस्य घोटकस्य वार: बाल: पुच्छम् परुषस्य कठोरदर्भस्य वारः पुष्पाणां गुच्छो वा-एतत्सर्वं सर्परथस्य सर्पगतेः बन्धुरम् स्थितिस्थलं वसतिर्वा भवतीत्यर्थः ।। २॥
अव॑ श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च।
उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ।।३।।
अव । श्वेत । पदा । जहि । पूर्वेण । च । अपरेण । च ।
उदप्लुतम्ऽइव । दारु । अहीनाम् । अरसम् । विषम् । वाः । उग्रम् ॥ ३ ॥
नद्यादिषु जलावगाहने सर्पे समागते सति करणीयमाह-हे श्वेत ! गतिमान् तरणकुशल ! पूर्वेण च अपरेण च दक्षिणेन सव्येन च पदा पादेन तं सर्पम् अवजहि ताडय, मा भैषीः । उदप्लुतम् जले निमज्जितं दारु काष्ठम् इव, यथा तत् निःसत्त्वं सारहीनञ्च जायते, तथैव, जलनिवासिनाम् अहीनां सर्पाणां विषं गरलम् अरसं नीरसं मारणप्रभावशून्यं संपद्यते । यतः वाः जलानि उग्रम् विषशक्त्युच्चाटने सहजत: समर्थानि भवन्ति । जलीयाः सर्पाः निर्विषाः भवन्तीति लोकप्रसिद्धेः। केचित्तु-श्वेत इति करवीरनाम, तस्याग्रभागो मूलञ्चेति पादद्वयं पादद्वयप्रहारवत् सर्पविषस्य प्रहारकमिति व्याख्यायन्ते ॥३॥
अ॑रंघु॒षो नि॒मज्यो॒न्मज॒ पुन॑रब्रवीत्।
उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ।।४।।
अरमऽघुषः । निऽमज्य । उत्ऽमज्य । पुनः । अब्रवीत् ।
उदप्लुतम्ऽइव । दारु । अहीनाम् । अरसम् । विषम् । वाः । उग्रम् ॥ ४ ॥
अरंघुषः अत्यर्थं घोषति, तर्जयते सर्प यः स तरणकुशल: निमज्ज्य जले निलीय उन्मज्ज्य जलादुद्गत्य च पुनः अब्रवीत् पौनःपुन्येन वारंवारं कथयति यत् उदप्लुतमिव इत्यादि पूर्ववत् । अरंघुषः-अलंबुषः 'कटुतुम्बी' स्वभावतः सर्पविषघ्नी । सा यदि विषघ्ने जले निपात्य उन्मज्जिता चेत्साधिकारं वदेत् जलीयसर्पम् 'उदप्लुतमिवे'त्यादि इत्यपि केचित् ॥ ४॥
पै॒द्वो ह॑न्ति कस॒र्णीलं॑ पै॒द्वः श्वि॒त्रमु॒तासि॒तम्।
पै॒द्वो र॑थ॒र्व्याः शिरः॒ सं बि॑भेद पृदा॒क्वाः ।।५।।
पैद्वः । हन्ति । कसर्णीलम् । पैद्वः । श्वित्रम् । उत। असितम् ।
पैद्वः । रथर्व्याः । शिरः । सम् । बिभेद । पृदाक्वाः ॥ ५ ॥
पैद्वः मन्त्रबलेन सर्पाणां गतिप्रतिबन्धकः, यद्वा विषवैद्यः, सर्पवशीकारविद्याविज्ञः कसर्णीलम् कुत्सितायां सरण्यां निलीयमानं सर्पम्, श्वित्रम् कर्बुरम् उत अपि च असितं कृष्णसर्पं हन्ति नाशयति । पैद्वः रथर्व्याः 'धामन'-नामिकायाः सर्पिण्या: च पृदाक्वाः 'पृत्' इति कुत्सितशब्दकारिण्या: सर्पिण्या: 'कडैत' इति भाषाभाषितायाः शिरः संबिभेद शिरः सम्यक् भिनन्ति स्म । भाष्यकाराः 'पैद्व' पदस्य विभिन्नानर्थान् प्रकटयन्ति । केचित् करवीर-गिरिकर्णिकाऽश्वक्षुरकाऽश्वगन्धेत्याद्यासु ओषधिषु काचित् पैद्वाभिधेत्याहुः । विनियोगकाराः पुन: 'पैद्व'पदेन कीटविशेषं गृह्णन्तो वदन्ति यत् 'पैद्वं पिष्ट्वा अभिमन्त्र्य दक्षिणेनाङगुष्ठेन दक्षिणनासापुटे नस्यं ददातीति । अतोऽयं नूनं परीक्षणीयो विषयो विशेषज्ञानाम् ।। ५ ॥
पैद्व॒ प्रेहि॑ प्रथ॒मो ऽनु॑ त्वा व॒यमेम॑सि।
अही॒न्व्य॑स्यतात्प॒थो येन॑ स्मा व॒यमे॒मसि॑ ।।६।।
पैद्व । प्र। इहि । प्रथमः । अनु । त्वा । वयम् । आ। ईमसि ।
अहीन् । वि । अस्यतात् । पथः । येन । स्म । वयम् । आऽईमसि ॥ ६॥
पैद्व हे विषवैद्य ! प्रथमः प्रेहि सर्वप्रथमं त्वं अग्रे याहि । वयं त्वा त्वाम् अनु पश्चात् एमसि आगच्छामः, अनुसरामः । मार्गपतितान अहीन् सर्पान् पथः तस्मात् मार्गात् व्यस्यतात् इतस्ततः प्रक्षिप, येन वयम् आ ईमसि एमसि आगच्छामः । स्मोऽवधारणे ॥६॥
इ॒दं पै॒द्वो अ॑जायते॒दम॑स्य प॒राय॑णम्।
इ॒मान्यर्व॑तः प॒दाहि॒घ्न्यो वा॒जिनी॑वतः ।।७।।
इदम् । पैद्वः । अजायत । इदम् । अस्य । पराऽअयनम् ।
इमानि । अर्वतः। पदा। अहिऽघ्न्यः। वाजिनीऽवतः॥७॥
इदम् इति लिङ्गव्यत्ययः, अयम् पैद्वः अजायत दृष्टिपथमागतः । यद्वा-इदं स्थान निर्देशक सर्वनाम, यत्र पैद्वः अजायत जन्म लेभे । अस्य पैद्वस्य इदं परायणम् उत्तमं सद्म, यत्र स पैद्वो निवसति । अस्य अर्वतः शीघ्रगामिनः वाजिनीवतः बलवतः अहिघ्न्यः सर्पविषविनाशकस्य पैद्वस्य इमानि निम्नप्रकाराणि पदा पदानि सर्पविषदूरीकरणे क्रमेणावलम्बनीयानि साधनानि सन्तीत्यर्थः । यद्वा--अहिघ्न्यः अहिघ्नस्य, वाजिनीवतः बलशालिनः अर्वतः अश्वस्य पदा पदचिह्नानि सन्ति। संभवत: काचित् एतादृशी ओषधिः अश्ववत् गतिशीला व्यापिका सर्पविषघ्नी च स्यादिति ॥ ७ ॥
संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑मत्।
अ॒स्मिन्क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा ।।८।।
सम्ऽयतम् । न । वि। स्परत् । विऽआत्तम् । न । सम् । यमत् ।
अस्मिन् । क्षेत्रे । द्वौ । अही इति । स्त्री। पुमान् । च । तौ। उभौ । अरसा ॥८॥ हे सर्प ! यत् ते मुखं संयतं संकुचितं पिहितं तत् न विष्परत् विवृतं न भवेत्, यच्च व्यात्तं विवृतं न तत् संयमत् न संश्लिष्येत् । अस्मिन् संमुखीने क्षेत्रे द्वौ अही सर्पौ निवसतः। तयोः एकः स्त्रीरूपः च अपरः पुंरूपः । तौ द्वौ उभौ अरसा निर्विषौ स्तः ॥ ८॥
अ॑र॒सास॑ इ॒हाह॑यो॒ ये अन्ति॒ ये च॑ दूर॒के।
घ॒नेन॑ हन्मि॒ वृश्चि॑क॒महिं॑ द॒ण्डेनाग॑तम् ।।९।।
अरसासः । इह । ये। अहयः। ये। अन्ति । ये । च । दूरके।
घनेन । हन्मि । वृश्चिकम् । अहिम् । दण्डेन । आऽगतम् ॥ ९॥
ये अहयः सर्पाः अन्ति अस्माकं समीपे सन्ति ये च दूरके दूरप्रदेशे विद्यन्ते, ते सर्वे अस्माकं सर्पविषघ्नप्रयोगेण अरसासः सारहीनाः निर्विषा सञ्जाता इत्यर्थः । अहं वृश्चिकं द्रुणम्, छेदकं कीटविशेषं 'अलिद्रुणौ तु वृश्चिके' इत्यमरः (२. ५. १४ ) । घनेन मुद्गरेण हन्मि, च आगतम् आयान्तम् अहिं दण्डेन लगुडेन हन्मि, मारयामीत्यर्थः ॥ ९॥
अ॑घा॒श्वस्ये॒दं भे॑ष॒जमु॒भयो॑ स्व॒जस्य॑ च।
इन्द्रो॒ मे ऽहि॑मघा॒यन्त॒महिं॑ पै॒द्वो अ॑रन्धयत् ।।१०।। {१०}
अघऽअश्वस्य । इदम् । भेषजम् । उभयोः । स्वजस्य । च ।
इन्द्रः । मे। अहिम् । अघऽयन्तम् । अहिम् । पैद्वः । अरन्धयत् ॥ १०॥
अघाश्वस्य यस्य विषं शरीरे सपदि व्याप्नोति तस्य उड्डीय दंशकरस्य भुजङ्गविशेषस्य च तथा स्वजस्य आलिङ्य दंशकस्य सर्पस्य उभयोः सर्पयोः इदम् भेषजम् सर्पविषविनाशकं औषधमस्ति। इन्द्रः इन्द्रदेवः, इन्द्रनामक औषधविशेषो वा अघायन्तम् उड्डीय दंशनशीलं भुजङ्गमं तथा पैद्वः विषवैद्य: मे मम अहिम् सर्वसाधारणं सर्पम् अरन्धयत् विनाशयतु, अथवा वशीकरोतु। 'दधातिर्वशगमनेऽपि दृश्यते' (निरु० १०.४०) ॥ १० ॥
पै॒द्वस्य॑ मन्महे व॒यं स्थि॒रस्य॑ स्थि॒रधा॑म्नः।
इ॒मे प॒श्चा पृदा॑कवः प्र॒दीध्य॑त आसते ।।११।।
पैद्वस्य । मन्महे । वयम् । स्थिरस्य । स्थिरऽधाम्नः ।
इमे । पश्चा । पृदाकवः। प्रऽदीध्यतः। आसते ॥११॥
स्थिरस्य स्थिरस्वभावस्य स्थिरधाम्नः अविचलतेजसश्च पैद्वस्य विषये, पैद्वं वा 'अधीगर्थदयेषां कर्मणि षष्ठी (पा० २.३.५२), मन्महे चिन्तयामः, ध्यायामः । इमे पृदाकवः सर्पाः प्रदीध्यतः क्रीडन्तः 'दीधीङ् दीप्ति-देवनयोः' पश्चा अस्माकं पृष्ठभागे एव आसते तिष्ठति, अस्माकं पुरतो न समायान्तीत्यर्थः ।। ११ ।।
न॒ष्टास॑वो न॒ष्टवि॑षा ह॒ता इ॑न्द्रेण व॒ज्रिणा॑।
ज॒घानेन्द्रो॑ जघ्नि॒मा व॒यम् ।।१२।।
नष्टऽअसवः । नष्टऽविषाः । हताः । इन्द्रेण । वज्रिणा ।
जघान । इन्द्रः । जघ्निम । वयम् ॥ १२ ॥
वज्रिणा वज्रधारिणा इन्द्रेण देवाधिपतिना हताः मारिताः एते सर्पाः, नष्टासवः विगतप्राणाः नष्टविषाः गरलरहिताः भवेयुः। इन्द्रः देवराजः एनान् जघान मारितवान्, वयमपि जघ्निम हनाम इति लकारव्यत्ययः ॥ १२ ॥
ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः।
दर्विं॒ करि॑क्रतं श्वि॒त्रं द॒र्भेष्व॑सि॒तं ज॑हि ।।१३।।
हताः । तिरश्चिऽराजयः । निऽपिष्टासः । पृदाकवः ।
दर्विम् । करिक्रतम् । श्वित्रम् । दर्भेषु । असितम् । जहि ॥ १३ ॥
तिरश्चिराजयः तिर्यगवस्थितरेखाः सर्पाः हताः नाशिताः। पृदाकवः कुत्सितशब्दकारिणः निपिष्टासः अतितरां चूर्णिताः। दर्वि करिक्रतं करोतेर्यङलुकि 'दाधर्तिदर्धर्ति०' (पा० ७.४.६५) इत्यनेन शतृप्रत्ययः, स्वफणं दर्व्याकारं भृशं कुर्वन्तं श्वित्रं कर्बुरवर्णं दर्भेषु स्थितम् गच्छन्तं वा असितं कृष्णसर्पं जहि विनाशय ।। १३ ।
कै॑राति॒का कु॑मारि॒का स॒का खन॑ति भेष॒जम्।
हि॑र॒ण्ययी॑भि॒रभ्रि॑भिर्गिरी॒नामुप॒ सानु॑षु ।।१४।।
कैरातिका । कुमारिका। सका । खनति । भेषजम् ।
हिरण्ययीभिः अभ्रिऽभिः। गिरीणाम् । उप । सानुषु ॥१४॥
सका सा प्रसिद्धा, अव्ययसर्वनाम्नामकच् प्राक् टे:' (पा० ५.३.७१) इत्यनेन 'सा' इत्यस्य अकच् । कैरातिका भूनिम्बनामा ओषधिः 'चिरायता' इति भाषाभाषिता कुमारी घृतकुमारी 'ग्वारपाठा'-नामिका ओषधिः ते उभे विषहन्त्र्यौ हिरण्ययीभिः उज्ज्वलाभिः, अभ्रिभिः कुदालै: गिरीणां पर्वतानां सानुषु शिखरेषु उप उपरि खनति खन्यते । यद्वा-कैरातिका कुमारिका किरातकन्या पर्वतानां शिखरेषु कुदालैः विषघ्न्यः ओषधयः खनति इत्यपि अर्थो बोध्यः ।। १४ ॥
आयम॑ग॒न्युवा॑ भि॒षक्पृ॑श्नि॒हाप॑राजितः।
स वै स्व॒जस्य॒ जम्भ॑न उ॒भयो॒र्वृश्चि॑कस्य च ।।१५।।
आ। अयम् । अगन् । युवा । भिषक् । पृश्निऽहा । अपराऽजितः ।
सः । वै। स्वजस्य । जम्भनः। उभयोः। वृश्चिकस्य । च ॥ १५ ॥
अयं पृश्निहा कर्बुरवर्णसर्पिणीनां हन्ता, अपराजितः विषनिवारणे अपराभूत. युवा तरुणः भिषक् वैद्यः आ अगन् आगतवान् । सः वैद्यः वै निश्चयेन स्वजस्य आलिङ्गनशीलस्य सर्पस्य वृश्चिकस्य छेदनकारिणः कीटस्य च उभयो: जम्भनः विनाशकः अस्ति । अथवा - अपराजितानाम्नीम् ओषधिमादाय तद्बलेन विषनिवारणे अपराभूतो युवा भिषगित्यादि पूर्ववत् । निघण्टौ 'अपराजिता'शब्देन अश्वक्षुरक'नाम्नी ओषधिर्गृह्यते या किल विषदोषघ्ना भवति ।। १५ ।।
इन्द्रो॒ मे ऽहि॑मरन्धयन्मि॒त्रश्च॒ वरु॑णश्च।
वा॑तापर्ज॒न्योभा ।।१६।।
इन्द्रः। मे। अहिम् । अरन्धयत् । मित्रः । च ।
वातापर्जन्या । उभा ॥ १६॥
इन्द्रः देवराजः मे मम घातकम् अहिम् सर्पम् अरन्धयत् मारितवान् । मित्रः च सूर्यः वरुणः च अपां पतिः उभा उभौ तथा वातापर्जन्या पवनः पर्जन्यश्च एतावपि उभौ मे घातकम् अहिम् समये समये अरन्धयत् मारितवन्तः। आसां देवशक्तीनां प्रभावेण एषां सर्पाणां ह्रासो जायेत इति भावः ॥ १६ ॥
इन्द्रो॒ मे ऽहि॑मरन्धय॒त्पृदा॑कुं च पृदा॒क्वम्।
स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम् ।।१७।।
इन्द्रः। मे। अहिम् । अरन्धयत् । पृदाकुम् । च । पृदाक्वम् ।
स्वजम् । तिरश्चिऽराजिम् । कसर्णीलम् । दशोनसिम् ॥ १७ ॥
इन्द्रः देवराजः मे मह्यम् अहिम् सर्पं चक्षुः-श्रवसं अरन्धयत् जघान । तथैव पृदाकुं कुत्सितशब्दकारिणं भीषणध्वनिवन्तं सर्पं पृदाक्वम् तत्पत्नीं च पुनः स्वजम् आलिङ्गनशीलम् तिरश्चिराजिम् तिर्यगवस्थितरेखावन्तम्, कसर्णीलम् दुर्गमपथे प्रच्छन्नम्, दशोनसिम् दंशनेन सहैव प्राणघातकम्, यद्वा स्वल्पदशनवन्तमित्येतान् सर्वान् अहीन् स इन्द्रः अरन्धयत्, हतवान् इत्यन्वयः ॥ १७ ॥
इन्द्रो॑ जघान प्रथ॒मं ज॑नि॒तार॑महे॒ तव॑।
तेषा॑मु तृ॒ह्यमा॑णानां॒ कः स्वि॒त्तेषा॑मस॒द्रसः॑ ।।१८।।
इन्द्रः। जघान । प्रथमम् । जनितारम् । अहे । तव।
तेषाम् । ऊं इति । तृह्यमाणानाम् । कः। स्वित् । तेषाम् । असत् । रसः ॥ १८॥
अहे हे सर्प ! इन्द्रः देवाधिपतिः प्रथमं आदौ पूर्वमेव तव जनितारं जन्मदातारं जनकं जघान हतवान् । तेषां तृह्यमाणानां हन्यमानानां उ निश्चयेन कः स्वित् रसः सारः विषरूपः, असत् अवशिष्येत ? न कोऽपि विषसारः स्थातुं शक्नोतीति भावः ॥ १८ ॥
सं हि शी॒र्षाण्यग्र॑भं पौञ्जि॒ष्ठ इ॑व॒ कर्व॑रम्।
सिन्धो॒र्मध्यं॑ प॒रेत्य॒ व्य॑निज॒महे॑र्वि॒षम् ।।१९।।
सम् । हि । शीर्षाणि । अग्रभम् । पौञ्जिष्ठःऽइव । कर्वरम् ।
सिन्धोः । मध्यम् । पराऽइत्य । वि। अनिजम् । अहेः । विषम् ॥ १९॥
हि निश्चयेन अहं सर्पाणां शीर्षाणि शिरांसि समग्रभम् सम्यक् गृहीतवानस्मि । तत्र दृष्टान्त: - पौञ्जिष्ठः पुक्कसः मत्स्यजीवी इव यथा कर्वरम् नैकविधवर्णयुतं मत्स्यजातं शिरोभिः गृह्णाति । अहं विषवैद्यः सिन्धोः मध्यम् नद्याः प्रवाहमध्ये परेत्य गत्वा अहेः विषं ब्यनिजम् शुद्धमकरवम् । वि +असिजम् ‘षिजिर् शौचे' । केचन सिन्धोर्मध्यम् नद्याः प्रवाहमध्ये परेत्य गत्वा शिरसि सर्पमादाय अहेस्तस्य विषं पात्रं निपात्य व्यनिजम् शुद्धमकरवम्, औषधरूपेण दातुम्, सर्पविषस्यापि संशुद्धिः परमावश्यकीति व्याचिख्यासुः । मन्यामहे यद् ‘विषस्य विषमौषधम्' इति नियममाश्रित्यैवेत्थं व्याख्यातं स्यादिति ॥ १९ ॥
अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु सिन्धवः।
ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः ।।२०।। {११}
अहीनाम् । सर्वेषाम् ।। विषम् । परा । वहन्तु । सिन्धवः ।
हताः । तिरश्चिऽराजयः। निऽपिष्टासः। पृदाकवः ॥२०॥
सिन्धवः नद्यः सर्वेषाम् सकलानाम् अहीनां सर्पाणां विषं गरलं परावहन्तु प्रवाहयन्तु, दूरीकुर्वन्तु। तिरश्चिराजयः तिर्यग्रेखाभाजः सर्पाः हताः विनष्टाः। पृदाकवः पृदाकुजातीयाश्च, एते सर्पा अपि निपिष्टासः चूर्णीकृताः तिष्ठन्ति ।। २० ॥
ओष॑धीनाम॒हं वृ॑ण उ॒र्वरी॑रिव साधु॒या।
नया॒म्यर्व॑तीरि॒वाहे॑ नि॒रैतु॑ वि॒षम् ।।२१।।
ओषधीनाम् । अहम् । वृणे । उर्वरी:ऽइव । साधुऽया ।
नयामि । अर्वतीःऽइव । अहे। निःऽऐतु । ते। विषम् ॥२१॥
ओषधीनां सर्पविषहन्त्रीः ओषधी:, द्वितीयार्थे षष्ठी, अहं विषवैद्यः साधुया सुखेन वृणे प्राप्नुयाम्, तस्या वरणं करोमीत्यर्थः । तत्र दृष्टान्तः - उर्वरीः इव यथा उर्वराभूमौ धनधान्यादिकं सुखेन सुलभं भवति, तद्वत् । अर्वतीः इव अश्वीः यथा धान्यादिकं नयन्ति तद्वत्, ताः ओषधीः नयामि, स्वकीये औषधालये इति शेषः । अहे हे सर्प ! ते विषम् अधुना निरैतु निर्गच्छतु, विषदग्धस्य देहमध्यादिति भावः । यद्वा - ओषधीनाम् विषघ्नौषधीनां मध्ये उर्वरी: ऊरूभिः महद्भिः प्रापणीया ओषधीः अहं विषवैद्यः साधुया सुखेन वृणे, इव पादपूरणार्थं इति केचित् ॥ २१॥
यद॒ग्नौ सूर्ये॑ वि॒षं पृ॑थि॒व्यामोष॑धीषु॒ यत्।
का॑न्दावि॒षं क॒नक्न॑कं नि॒रैत्वैतु॑ ते वि॒षम् ।।२२।।
यत् । अग्नौ । सूर्ये । विषम् । पृथिव्याम् । ओषधीषु । यत् ।
कान्दाऽविषम् । कनक्नकम् । निःऽऐतु । आ । एतु । ते । विषम् ॥ २२ ॥
हे विषदग्ध ! यत् विषं अग्नौ, सूर्ये पृथिव्यां, च ओषधीषु यत् विषं जायते तीव्रतापादिप्रभवं विषकल्पं यद्धानिकरं तत्त्वं तेषु जायते, तदित्यर्थः । एवमेव कान्दाविषम् कन्द-फलादौ यत् विषं तत् । यद्वा-कन्दो मेघः, तस्माज्जातासु ओषधिषु यद्विषं तत् । कनक्नकम् कनके 'धतूरा' इति भाषाभाषिते जातं विषम्, तत् सर्वं ते तव त्वचि समागतं विषं मम विषवैद्यस्य चिकित्साप्रभावात् निरैतु निर्गच्छतु ॥ २२॥
ये अ॑ग्नि॒जा ओ॑षधि॒जा अही॑नां॒ ये अ॑प्सु॒जा वि॒द्युत॑ आबभू॒वुः।
येषां॑ जा॒तानि॑ बहु॒धा म॒हान्ति॒ तेभ्यः॑ स॒र्पेभ्यो॒ नम॑सा विधेम ।।२३।।
ये। अग्निऽजाः । ओषधिऽजाः । अहीनाम् । ये। अप्सुऽजाः । विद्युतः। आऽबभूवुः । येषाम् । जातानि । बहुऽधा। महान्ति। तेभ्यः । सर्पेभ्यः। नमसा । विधेम ॥ २३ ॥
अहीनां सर्पाणां मध्ये ये अग्निजाः अग्निना जाताः, ओषधिजाः ओषधिजन्मानः अप्सुजाः जलमध्ये जाताश्च ये सर्पाः विद्युतः वाचकलुप्तोपमेयम्, विद्युत इव समन्तात् आबभूवुः प्रादुर्बभूवुः, जन्म लेभिरे, एवं येषां सर्पाणां जातानि जन्मानि बहुधा नैकधा अचिन्तनीयानि महान्ति आश्चर्यकराणि च सन्ति, तेभ्यः सर्वेभ्य: सर्पेभ्यः चक्षुश्रवसेभ्यः नमसा नमनद्वारा विधेम पूजां कुर्मः। नमनात् प्रीतास्ते विषदग्धस्य विषं दूरीकुर्वन्त्वित्यर्थः ।। २३ ॥
तौदी॒ नामा॑सि क॒न्या॑ घृ॒ताची॒ नाम॒ वा अ॑सि।
अ॑धस्प॒देन॑ ते प॒दमा द॑दे विष॒दूष॑णम् ।।२४।।
तौदी । नाम । असि । कन्या । घृताची । नाम । वै। असि ।
अधःऽपदेन । ते । पदम् । आ। ददे । विषऽदूषणम् ॥२४॥
हे ओषधे ! त्वं तौदी नामासि तव 'तौदी' नाम वर्तते, 'तुद् प्रेरणे'
विषं देहान्निर्गन्तुं प्रेरयति, 'तुद् व्यथने' वा विषं तुदति विनाशयतीति वा। एवमेव त्वं कन्या घृताची वा नामासि तव 'कन्या' 'घृताची' इत्याख्ये अपि स्तः। निघण्टौ भद्रैलायाः बृहत्या एलाया: 'बडी इलायची' इत्याख्यायाः नामसु 'कन्या, घृताची'-नामनी मिलतः । भद्रैला च विषघ्नी निगद्यते-'हन्ति कफवातविषव्रणान्' इति स्मरणात् । ते तव अधस्पदेन पादप्रदेशात् अध:स्थितेन विषदूषणं विषविनाशकं पदं मूलं 'जड' इति भाषाभाषितम् आददे गृह्णामि ।। २४ ॥
अङ्गा॑दङ्गा॒त्प्र च्या॑वय॒ हृद॑य॒म्परि॑ वर्जय।
अधा॑ वि॒षस्य॒ यत्तेजो॑ ऽवा॒चीनं॒ तदे॑तु ते ।।२५।।
अङ्गात्ऽअङ्गात् । प्र। च्यावय। हृदयम् । परि । वर्जय ।
अध । विषस्य । यत् । तेजः। अवाचीनम् । तत् । एतु। ते ॥ २५ ॥
हे ओषधे ! अङ्गात् अङ्गात् शरीरस्य प्रत्यङ्गतः विषं प्रच्यावय बहिष्कुरु, निष्कासय । तद्विषेण हृदयम् परि सर्वतः वर्जय रोधय, विषं कथमपि हृदयाभिमुखं न यात्वित्यर्थः । अधा अथ विषस्य यत् तेजः तैक्ष्ण्यम्, उग्रता वा, तत् ते तव प्रभावात् अवाचीनम् अधोमुखम् एतु गच्छतु, दूरीभवत्वित्यर्थः ॥ २५ ॥
आ॒रे अ॑भूद्वि॒षम॑रौद्वि॒षे वि॒षम॑प्रा॒गपि॑।
अ॒ग्निर्वि॒षमहे॒र्निर॑धा॒त्सोमो॒ निर॑णयीत्।
दं॒ष्टार॒मन्व॑गाद्वि॒षमहि॑रमृत ।।२६।। {१२}
आरे । अभूत् । विषम् । अरौत् । विषे । विषम् । अप्राक् । अपि ।
अग्निः । विषम् । अहेः । निः । अधात् । सोमः । निः। अनयीत् ।
दंष्टारम् । अनु । अगात् । विषम् । अहिः । अमृत ॥२६॥
उपसंहरति-औषधप्रभावेण विषम् आरे दूरे अभूत् । तद् विषं अरौत् अरौत्सीत् । विषे सर्पविषे एतद् विषं अप्राक् अपि संपृक्तमेवेत्यर्थः । 'पृची संपर्के' 'लुङ्' । अग्निः वह्निः अग्नेः प्रयोग इति यावत्, अहेः सर्पस्य विषं निरधात् निष्कासयामास, भस्मसात् अकरोत् । सोमः सोमलतापर्णानि, विषहरणीपर्णानि वा तत् निरनयीत् निष्कास्य बहिरानयत् । तत् विषं दंष्टारम् दंशनकर्तारम् अहिं सर्पम् अनु अगात् अन्वगच्छत् । अहिः सर्पः अमृत मृतः । 'मृङ् प्राणत्यागे' लुङ । इदमत्रावधेयम्-अद्याप्येते सर्पविषघ्नाः निम्नलिखिताः प्रयोगा: लोके प्रचलन्तो दरीदृश्यन्ते। यथा-१. विषवैद्यमाहूय विषनिष्कासनम्, २. दंशस्थानेऽस्य सपदि अग्निना दाहः, ३. विषहरणीनाम्न्यः ओषध्यः पर्णानां लेपः, ४. दंशस्थाने व्रणं विधाय शलाकया मुखश्वासत आकर्षणम्, एवमादय इति ॥ २६ ॥