← सूक्तं ११.०२ | अथर्ववेदः - काण्डं ११ सूक्तं ११.०३ अथर्वा |
सूक्तं ११.०४ → |
दे. ओदनः ( बार्हस्पत्योदनः) (त्रयः पर्यायाः) । - - - - -- - |
तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥
द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥
चक्षुर्मुसलं काम उलूखलम् ॥३॥
दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥
अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥
कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥
श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥
त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥
खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥
आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥
इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥
सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥
ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥
ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥
ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥
बृहदायवनं रथन्तरं दर्विः ॥१६॥
ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥
चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥
ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥
यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥
यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥
तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान् ॥२२॥
स य ओदनस्य महिमानं विद्यात्॥२३॥
नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥
यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥
ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥
त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥
पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥
प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥
नैवाहमोदनं न मामोदनः ॥३०॥
ओदन एवौदनं प्राशीत्॥३१॥ {८}
टिप्पणी