← सूक्तं १२.१० अथर्ववेदः - काण्डं १२
सूक्तं १२.११
(कश्यपः?) अथर्वाचार्यः
दे. ब्रह्मगवी। (सप्त पर्यायाः)

वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥
ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥
यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥
एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥
वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥
प्र स्कन्धान् प्र शिरो जहि ॥६७॥
लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥
मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥
अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥
सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥
अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥
सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०}