← सूक्तं १३.०८ अथर्ववेदः - काण्डं ९
सूक्तं १३.९(१३.४)
ब्रह्मा
दे. अध्यात्मम् । (षट्पर्यायेषु षष्ठं पर्यायसूक्तम्)- - - - -- -

13.८(१३.४)
उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥
प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥
भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}