अथर्ववेदः - काण्डं १५ सूक्तं १५.१ अथर्वा |
सूक्तं १५.२ → |
दे. अध्यात्मम्, व्रात्यः। १ साम्नी पङ्क्तिः, २ द्विपता साम्नी बृहती,- - - - -- - |
व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥
स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥
तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥३॥
सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥
स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥
स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥
नीलमस्योदरं लोहितं पृष्ठम् ॥७॥
नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥८॥