← सूक्तं १५.५ अथर्ववेदः - काण्डं १५
सूक्तं १५.६
अथर्वा
सूक्तं १५.७ →
दे. अध्यात्मम्, व्रात्यः। १, ४ आसुरी पङ्क्तिः, ७, १०, १३, १६, २५ आसुरी बृहती, - - - - -- -

स ध्रुवां दिशमनु व्यचलत्। [१]
तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् ।
भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद
स ऊर्ध्वां दिशमनु व्यचलत्। [४]
तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५]
ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद
स उत्तमां दिशमनु व्यचलत्। [७]
तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८]
ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥३॥
स बृहतीं दिशमनु व्यचलत्। [१०]
तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । [११]
इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद।।
स परमां दिशमनु व्यचलत्। [१३]
तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन्।।
आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद
सोऽनादिष्टां दिशमनु व्यचलत्। [१६]
तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन्।।
ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद
सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । [१९]
तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । [२०]
दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद
स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः । [२२]
विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद।।
स सर्वान् अन्तर्देशान् अनु व्यचलत्। [२४]
तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् । [२५]
प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद।।