← सूक्तं १५.०७ अथर्ववेदः - काण्डं १५
सूक्तं १५.८
अथर्वा
सूक्तं १५.९ →
दे. अध्यात्मम्, व्रात्यः। १ साम्नी उष्णिक्, - - - - -- -

सोऽरज्यत ततो राजन्योऽजायत ॥१॥
स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्॥२॥
विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥