← सूक्तं १६.१ अथर्ववेदः - काण्डं १६
सूक्तं १६.२
अथर्वा
सूक्तं १६.३ →
दे. वाक्। १आसुरी अनुष्टुप्, - - - - -- -

अभिचारकर्मणः समाप्तौ अवभृथे स्नात्वा अनेन सूक्तेन सर्वौषधिभिर्नाम कैश्चिदोषधिविशेषैरात्मानम् अभिमृशति (कौ.सू. ४९.२७)

निर्दुरर्मण्य ऊर्जा मधुमती वाक्॥१॥
मधुमती स्थ मधुमतीं वाचमुदेयम् ॥२॥
उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥
सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥
सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥५॥
ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥६॥