← काण्डं १९ अथर्ववेदः - काण्डं १९
सूक्तं १९.१
ब्रह्मा।
सूक्तं १९.०२ →
दे. यज्ञः, चन्द्रमाश्च। १-२ पथ्याबृहती, ३ पङ्क्तिः।

संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।
यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥
इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥
रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।
यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥