← सूक्तं १९.१५ अथर्ववेदः - काण्डं १९
सूक्तं १९.१६
अथर्वा
सूक्तं १९.१७ →
दे. मन्त्रोक्ताः। १ अनुष्टुप्,२ त्र्यवसाना सप्तपदा बृहतीगर्भातिऽशक्वरी

असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥
दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः ।
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।
तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥