← सूक्तं १९.२३ अथर्ववेदः - काण्डं १९
सूक्तं १९.२४
अथर्वा।
सूक्तं १९.२५ →
दे. ब्रह्मणस्पतिः, बहुदेवत्यम्। अनुष्टुप्,.......

येन देवं सवितारं परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥
परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।
यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥
परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।
यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥
परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥
जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।
शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥
परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।
शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥७॥
हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।
तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥