← सूक्तं १९.२८ | अथर्ववेदः - काण्डं १९ सूक्तं १९.२९ ब्रह्मा |
सूक्तं १९.३० → |
दे. दर्भमणिः। अनुष्टुप्। |
निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः ।
निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥
तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः ।
तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥
रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः ।
रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥
मृण दर्भ सपत्नान् मे मृण मे पृतनायतः ।
मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥
मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः ।
मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥
पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः ।
पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे ॥६॥
ओष दर्भ सपत्नान् मे ओष मे पृतनायतः ।
ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥
दह दर्भ सपत्नान् मे दह मे पृतनायतः ।
दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥
जहि दर्भ सपत्नान् मे जहि मे पृतनायतः ।
जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥
सायणभाष्यम्
'निक्ष दर्भ' इत्यादिकं तृतीयं सूक्तम् । अस्य ऐन्द्र्यां महाशान्तौ दर्भमणिबन्धने विनियोगः पूर्वसूक्तेन सह उक्तः।
निक्ष॑ दर्भ स॒पत्ना॑न्मे॒ निक्ष॑ मे पृतनाय॒तः।
निक्ष॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ निक्ष॑ मे द्विष॒तो म॑णे ।।१।।
निक्ष । दर्भ । सऽपत्नान् । मे । निक्ष । मे । पृतनाऽयतः ।
निक्ष । मे। सर्वान् । दुःऽहार्दः । निक्ष । मे । द्विषतः । मणे ॥ १ ॥
निक्ष चुम्ब । निक्ष चुम्बने इति धातुः । शिष्टं पूर्ववत् ।
तृ॒न्द्धि द॑र्भ स॒पत्ना॑न्मे तृ॒न्द्धि मे॑ पृतनाय॒तः।
तृ॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ तृ॒न्द्धि मे॑ द्विष॒तो म॑णे ।।२।।
तृन्द्धि । दर्भ । सऽपत्नान् । मे । तृन्द्धि । मे । पृतनाऽयतः ।
तृन्द्धि । मे । सर्वान् । दुःऽहार्दः । तृन्द्धि । मे । द्विषतः । मणे ॥ २ ॥
तृन्द्धि नाशय । उतृदिर् हिंसानादरयोः । 'श्नसोरल्लोपः' (पा ६,४,१११) इति अकारलोपः।
रु॒न्द्धि द॑र्भ स॒पत्ना॑न्मे रु॒न्द्धि मे॑ पृतनाय॒तः।
रु॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ रु॒न्द्धि मे॑ द्विष॒तो म॑णे ।।३।।
रुन्द्धि । दर्भ । सऽपत्नान् । मे । रुन्द्धि । मे । पृतनाऽयतः ।
रुन्द्धि । मे । सर्वान् । दुःऽहार्दः । रुन्द्धि । मे । द्विषतः । मणे ॥ ३ ॥
रुन्द्धि आवृणु निरोधं कुरु । रुधिर् आवरणे ।
मृ॒ण द॑र्भ स॒पत्ना॑न्मे मृ॒ण मे॑ पृतनाय॒तः।
मृ॒ण मे॒ सर्वा॑न्दु॒र्हार्दो॑ मृ॒ण मे॑ द्विष॒तो म॑णे ।।४।।
मृण । दर्भ । सऽपत्नान् । मे । मृण । मे । पृतनाऽयतः।
मृण । मे । सर्वान् । दुःऽहार्दः । मृण । मे । द्विषतः । मणे ॥ ४ ॥
मृण । मृण हिंसायाम्।
मन्थ॑ दर्भ स॒पत्ना॑न्मे॒ मन्थ॑ मे पृतनाय॒तः।
मन्थ॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ मन्थ॑ मे द्विष॒तो म॑णे ।।५।।
मन्थ । दर्भ । सऽपत्नान् । मे । मन्थ । मे । पृतनाऽयतः ।
मन्थ । मे । सर्वान् । दुःऽहार्दः । मन्थ । मे । द्विषतः । मणे ॥ ५ ॥
मन्थ । मन्थ विलोडने । गतम् अन्यत् ।
पि॒ण्ड्ढि द॑र्भ स॒पत्ना॑न्मे पि॒ण्ड्ढि मे॑ पृतनाय॒तः।
पि॒ण्ड्ढि मे॒ सर्वा॑न्दु॒र्हार्दो॑ पि॒ण्ड्ढि मे॑ द्विष॒तो म॑णे ।।६।।
पिण्ड्ढि । दर्भ । सऽपत्नान् । मे । पिण्ड्ढि । मे । पृतनाऽय॒तः ।
पिण्ड्ढि । मे । सर्वान् । दुःऽहार्दः । पिण्ड्ढि । मे । द्विषतः । मणे ॥ ६ ॥
पिण्ड्ढि । पिष्लृ संचूर्णने । रौधादिकः । 'हुझल्भ्यो हेर्धिः' ( पा ६,४,१०१ ) इति धिः । ष्टुत्वं जश्त्वं च ।
ओष॑ दर्भ स॒पत्ना॑न्मे॒ ओष॑ मे पृतनाय॒तः।
ओष॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ ओष॑ मे द्विष॒तो म॑णे ।।७।।
ओष । दर्भ । सऽपत्नान् । मे । ओष । मे । पृतनाऽयतः ।
ओष । मे । सर्वान् । दुःऽहार्दः । ओष । मे । द्विषतः । मणे ॥ ७ ॥
ओष । उष प्लुष दाहे । भौवादिकः । लघूपधगुणः ।
दह॑ दर्भ स॒पत्ना॑न्मे॒ दह॑ मे पृतनाय॒तः।
दह॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ दह॑ मे द्विष॒तो म॑णे ।।८।।
दह । दर्भ । सऽपत्नान् । मे। दह । मे । पृतनाऽयतः ।
दह । मे । सर्वान् । दुःऽहार्दः । दह । मे । द्विषतः । मणे ॥ ८ ॥
स्पष्टम् ।
ज॒हि द॑र्भ स॒पत्ना॑न्मे ज॒हि मे॑ पृतनाय॒तः।
ज॒हि मे॒ सर्वा॑न्दु॒र्हार्दो॑ ज॒हि मे॑ द्विष॒तो म॑णे ।।९।।
जहि । दर्भ । सऽपत्नान् । मे । जहि । मे । पृतनाऽयतः ।
जहि । मे । सर्वान् । दुःऽहार्दः । जहि । मे । द्विषतः । मणे ॥ ९ ॥
जहि । हन हिंसागत्योः । लोटि हन्तेर्जः' (पा ६,४,३६ ) इति जादेशः। आभाच्छास्त्रीयस्य असिद्धत्वाद् 'अतो हेः' ( पा ६,४,१०५ ) इति हेर्लुक् न भवति ।
इति चतुर्थेनुवाके तृतीयं सूक्तम् ।