← सूक्तं १९.३२ अथर्ववेदः - काण्डं १९
सूक्तं १९.३३
भृृगुः
सूक्तं १९.३४ →
दे. दर्भः। १ जगती, २, ५ त्रिष्टुप् , -- - --

सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् ।
स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥
घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः ।
नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥
त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।
त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥
तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।
ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥
दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।
अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥

सायणभाष्यम्

'सहस्रार्घः शतकाण्डः' इति सप्तमं सूक्तम् । अस्य याम्यां महाशान्तौ दर्भमणिबन्धने विनियोगः पूर्वसूक्तेन सह उक्तः ।

स॑हस्रा॒र्घः श॒तका॑ण्डः॒ पय॑स्वान॒पाम॒ग्निर्वी॒रुधां॑ राज॒सूय॑म्।
स नो॒ ऽयं द॒र्भः परि॑ पातु वि॒श्वतो॑ दे॒वो म॒णिरायु॑षा॒ सं सृ॑जाति नः ।।१।।
सहस्रऽअर्घः । शतऽकाण्डः । पयस्वान् । अपाम् । अग्निः । वीरुधाम् । राजऽसूयम् ।
सः। नः । अयम् । दर्भः । परि । पातु । विश्वतः । देवः । मणिः । आयुषा । सम् । सृजाति । नः ॥
सहस्रार्घः बहुमूल्यः शतकाण्डः अनेककाण्डोपेतः । शतम् इति । दश दशतः परिमाणम् अस्येति दशानां शभावः तश्च प्रत्ययो निपातितः । सहस्वान् बलवान् अपाम् उदकानाम् अग्निः अग्निस्थानीयः । 'अग्नेरापः' (तैआ ८,१,१) इति श्रुतेः । अपां स्रष्टेत्यर्थः । यद्वा अपां शोषको वा । वीरुधाम् लतादीनां राजसूयम् । राजसूयकर्मवत्प्रशस्त इत्यर्थः । यथा राजसूययागः सर्वेषां राज्ञां स्वामिनः सार्वभौमस्य विषयः । यद्वा इतरेषां यागानां मध्ये श्रेष्ठत्वात् प्रशस्तः तथायं वीरुधां मध्ये प्रशस्तभूत इति राजसूयस्थानीयत्वम् । राजसूयसूर्य' (पा ३,१,११४) इत्यादिना क्यबन्तो राजसूयशब्दो निपातितः। स तादृशः अयं दर्भः नः अस्मान् विश्वतः परि पातु परितो रक्षतु । स देवः देवसृष्टः मणिः नः अस्मान् आयुषा सं सृजाति संसृजेत् ।

घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न्पय॑स्वान्भूमिदृं॒हो ऽच्यु॑तश्च्यावयि॒ष्णुः।
नु॒दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वन्दर्भा रो॑ह मह॒तामि॑न्द्रि॒येण॑ ।।२।।
घृतात् । उत्ऽलुप्तः । मधुऽमान् । पयस्वान् । भूमिऽदृंहः । अच्युतः । च्यवयिष्णुः ।
नुदन् । सऽपत्नान् । अधरान् । च । कृण्वन् । दर्भ । आ । रोह । महताम् । इन्द्रियेण ॥
घृतात् आज्यात् हुतशिष्टाद् उल्लुप्तः उल्लिप्तः संपातावनयनेन सर्वतोऽक्तः । आश्यबन्ध्याप्लवनयानभक्ष्याणि संपातवन्ति' (कौसू ७,१५) इति परिभाषितत्वाद् घृताक्तत्वम् । मधुमान् माधुर्योपेतः पयस्वान् प्रभूतक्षीरो भूमिदृंहः भूम्याः स्वमूलैदृढीकर्ता अच्युतः च्युतिर्नाशस्तद्रहितः बहुधा छिन्नस्यापि पुनःप्ररोहदर्शनात् । च्यावयिष्णुः दृढस्यापि शत्र्वादेशच्यावनशीलः एवंगुणोपेत हे दर्भ मणे त्वं सपत्नान् शत्रून् नुदन् सुदूरं प्रेरयन् तानेव अधरान् निकृष्टान् बलहीनान् च कृण्वन् कुर्वन् महताम् महत्त्वोपेतानाम् अतिशयितवीर्याणाम् अन्येषाम् ओषधीनाम् इन्द्रियेण इन्द्रसृष्टेन सामर्थ्येन सहितः सन् आ रोह भुजादिप्रदेशम् अधितिष्ठ।

त्वं भू॑मि॒मत्ये॒ष्योज॑सा॒ त्वं वेद्यां॑ सीदसि॒ चारु॑रध्व॒रे।
त्वां प॒वित्र॒मृष॑यो ऽभरन्त॒ त्वं पु॑नीहि दुरि॒तान्य॒स्मत् ।।३।।
त्वम् । भूमिम् । अति । एषि । ओज॑सा । त्वम् । वेद्याम् । सीदसि । चारुः । अध्वरे ।
त्वाम् । पवित्रम् । ऋषयः । अभरन्त । त्वम् । पुनीहि । दु:ऽइतानि । अस्मत् ॥ ३ ॥
हे मणिभूत दर्भ त्वम् ओजसा बलेन भूमिम् अत्येषि अतिगच्छसि । तथा चारुस्त्वम् अध्वरे ध्वरो हिंसा तद्रहितः अध्वरो यागः । न हि यागं कुर्वन् विनश्यति स्वर्गादिफलसाधनत्वात् । तस्मिन् वेद्यां सीदसि निषण्णो भवसि हविरासादनार्थम् । किं च पवित्रम् शोधकं त्वाम् । 'पवित्रं वै दर्भाः । पुनात्येवैनम्' (तैब्रा १,३,७,१) इति श्रुतेः । ऋषयः अतीन्द्रियद्रष्टारः स्वपावनार्थम् अभरन्त आहृतवन्तः । यस्माद् एवं तस्मात् त्वं दुरितानि दुष्कृतानि अस्मत् अस्मत्तः सकाशात् पुनीहि पावय च्यावय ।
तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।

ती॒क्ष्णो राजा॑ विषास॒ही र॑क्षो॒हा वि॒श्वच॑र्षणिः।
ओजो॑ दे॒वानां॒ बल॑मु॒ग्रमे॒तत्तं ते॑ बध्नामि ज॒रसे॑ स्व॒स्तये॑ ।।४।।
तीक्ष्णः । राजा । विऽससहिः । रक्षःऽहा । विश्वऽचर्षणिः ।
ओजः । देवानाम् । बलम् । उग्रम् । एतत् । तम् । ते । बध्नामि । जरसे । स्वस्तये ॥ ४ ॥
तीक्ष्णः अतिनिशितशक्तिः । यस्मै प्रयोजनाय प्रयुज्यते तस्य आशुकारीत्यर्थः । राजा सर्वासाम् ओषधीनां सर्वेषां मणीनां वा राजवच्छ्रेष्ठः विषासहिः विशेषेण सोढा शत्रुमर्षकः रक्षोहा राक्षसानां हन्ता विश्वचर्षणिः विश्वद्रष्टा तथा देवानाम् इन्द्रादीनाम् ओजः ओजःस्थानीयः। तेषाम् असुरसंग्रामे जयप्रदत्वात् । उग्रम् परैरसह्यं बलम् बलस्वरूपम् एतत् रक्षासाधनं 'दर्भाख्यं वस्तु । अथवा एतत् इदानीम् । अत्र बलसाधने मणौ बलत्वव्यवहारः । तं तादृशं मणिं ते हे रक्षाकाम पुरुष तव बध्नामि । किमर्थम् । जरसे जरापरिहारार्थं स्वस्तये क्षेमाय च बध्नामि ।

द॒र्भेण॒ त्वं कृ॑णवद्वी॒र्या॑णि द॒र्भं बिभ्र॑दा॒त्मना॒ मा व्य॑थिष्ठाः।
अ॑ति॒ष्ठाय॒ वर्च॒साधा॒न्यान्त्सूर्य॑ इ॒वा भा॑हि प्र॒दिश॒श्चत॑स्रः ।।५।।
दर्भेण । त्वम् । कृणवत् ! वीर्याणि । दर्भम् । बिभ्रत् । आत्मना । मा । व्यथिष्टाः ।
अतिऽस्थाय । वर्चसा । अध । अन्यान् । सूर्यःऽइव । आ । भाहि । प्रऽदिशः । चतस्रः ॥
हे पुरुष त्वं दर्भेण मणिना साधनेन वीर्याणि वीरस्य कर्माणि वीर्याणि शत्रुजयादीनि कृणवत् कुर्याः । अतः दर्भं वीर्यसाधनं बिभ्रत् धारयंस्त्वम् आत्मना निश्चलेन युक्तः सन् अथवा आत्मना आत्मनि बिभ्रत् मा व्यथिष्ठाः व्यथां मा कुरु । शत्रवः पराभविष्यन्तीत्येवं मनसि व्यथां मा कार्षीरित्यर्थः । अध अपि च वर्चसा शरीरबलेन अन्यान् अधिष्ठाय सूर्य इव स यथा लोकान् स्वतेजसा आलोकेन प्रकाशयति तद्वत् चतस्रः प्रदिशः प्रकृष्टाः प्रागादिचतस्रो दिशः आ भाहि प्रकाशय ।
इति चतुर्थेऽनुवाके सप्तमं सूक्तम् ।
इति चतुर्थोऽनुवाकः समाप्तः ।