← सूक्तं १९.३५ अथर्ववेदः - काण्डं १९
सूक्तं १९.३६
ब्रह्मा।
सूक्तं १९.३७ →
दे. शतवारः । अनुष्टुप्।

शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥
शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥
ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।
सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥
शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।
दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥
हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।
दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥
शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।
शतं शश्वन्वतीनां शतवारेण वारये ॥६॥