← सूक्तं १९.४० अथर्ववेदः - काण्डं १९
सूक्तं १९.४१
ब्रह्मा।
सूक्तं १९.४२ →
दे. तपः। त्रिष्टुप्।

भद्रमिच्छन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।
ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥१॥