← सूक्तं १९.४५ अथर्ववेदः - काण्डं १९
सूक्तं १९.४६
प्रजापतिः।
सूक्तं १९.४७ →
दे. अस्तृतमणिः। त्रिष्टुप्, ........

19.46
प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् ।
तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥
ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।
इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥
शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।
तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥
इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।
पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥
अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।
व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥
घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः ।
शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥
यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा ।
सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥