← सूक्तं १९.५० अथर्ववेदः - काण्डं १९
सूक्तं १९.५१
ब्रह्मा
सूक्तं १९.५२ →
दे. १ आत्मा, २ सविता च। १ एकपदा ब्राह्म्यनुष्टुप्, २ त्रिपाद् यवमध्योष्णिक् ( १-२ एकावसाना)

अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रम् ।
अयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्वः ॥१॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥२॥