← सूक्तं १९.५३ अथर्ववेदः - काण्डं १९
सूक्तं १९.५४
भृगुः
सूक्तं १९.५५ →
दे. कालः। अनुष्टुप्, - - - -

कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।
कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥
कालेन वातः पवते कालेन पृथिवी मही ।
द्यौर्मही काल आहिता ॥२॥
कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।
कालादृचः समभवन् यजुः कालादजायत ॥३॥
कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।
काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥
कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।
इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।
सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥

सायणभाष्यम्