← सूक्तं १९.५६ अथर्ववेदः - काण्डं १९
सूक्तं १९.५७
यमः।
सूक्तं १९.५८ →
दे. दुःष्वप्ननाशनम्। अनुष्टुप्, .....

यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।
एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥
सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।
समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥
देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।
स मम यः पापस्तद्द्विषते प्र हिण्मः ।
मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥
तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥
अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।
नवारत्नीन् अपमया अस्माकं ततः परि ।
दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥

सायणभाष्यम्