← सूक्तं १९.६५ अथर्ववेदः - काण्डं १९
सूक्तं १९.६६
ब्रह्मा
सूक्तं १९.६७ →
दे. जातवेदाः सूर्यो वज्रश्च । अतिजगती

अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति ।
तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥