← सूक्तं १.१९ | अथर्ववेदः - काण्डं १ सूक्तं १.२० अथर्वा। |
सूक्तं १.२१ → |
दे. १ सोम-, मरुतः, २ मित्रावरुणौ, ३ वरुणः, ४ इन्द्रः। अनुष्टुप्, १ त्रिष्टुप्। |
अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।
मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥
यो अद्य सेन्यो वधोऽघायूनामुदीरते ।
युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥
इतश्च यदमुतश्च यद्वधं वरुण यावय ।
वि महच्छर्म यच्छ वरीयो यावया वधम् ॥३॥
शास इत्था महामस्यमित्रसाहो अस्तृतः ।
न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
सायणभाष्यम्
'अदारसृत्' इत्यस्य उक्तः पूर्वसूक्तेन विनियोगः । तस्य आद्याया दर्शपूर्णमासयोः शृतहविर्निरीक्षणे विनियोगः । “ 'अदारसृद्' इत्यवेक्षते” (कौसू २,३९) इति हि सूत्रम्।
अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।
मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥
अदारऽसृत् । भवतु । देव । सोम । अस्मिन् । य॒ज्ञे। मरुतः। मृडत। नः।
मा। नः । विदत् । अभिऽभाः । मो इति । अशस्तिः । मा। नः। विदत् । वृजिना। द्वेष्या । या ॥१॥
हे देव द्योतनात्मक सोम अस्मदीयः शत्रुः अदारसृत् भवतु । दारयन्ति पुरुषहृदयं विदारयन्तीति दाराः स्त्रियः । दॄ विदारणे । 'दारजारौ कर्तरि णिलुक् च' (पावा ३,३,२७) इति ण्यन्तात् कर्तरि घञ् । दारान् सरति गच्छतीति दारसृत् । सृ गतौ । 'क्विप् च' (पा ३,२,७६) इति क्विप् । न दारसृत् अदारसृत् इति नञ्समासे 'अव्यये नञ्कुनिपातानाम् इति वक्तव्यम्' (पावा ६,२,२) इति अव्ययपूर्वपदप्रकृतिस्वरत्वम् । मदीयः शत्रुः स्वस्थानात् प्रच्युतः सन् न कदाचिदपि स्वस्त्रीसमीपं प्राप्नोतु इत्यर्थः । हे मरुतः सप्तगणात्मका एकोनपञ्चाशत्संख्याका देवाः । 'आमन्त्रितस्य च' (पा ८,१,१९) इति आष्टमिकं सर्वानुदात्तत्वम् । अस्मिन् मया अनुष्ठीयमाने यज्ञे दर्शपूर्णमासात्मके संग्रामरूपे वा नः अस्मान् मृडत मृडयत । इष्टफलप्रापणेन जयप्रदानेन च सुखयतेत्यर्थः। मृड सुखने। तुदादित्वात् शप्रत्ययः। अस्मिन्निति । इदमः त्यदाद्यत्वे 'हलि लोपः' (पा ७,२,११३)। 'उडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा ६,१,१७१ ) इति विभक्तेरुदात्तत्वम्। यज्ञ इति । यज देवपूजासंगतिकरणदानेषु । 'यजयाचयतविच्छप्रच्छरक्षो नङ्' (पा ३,३,९०) इति नङ्प्रत्ययः। चुत्वेन ञकारः। प्रत्ययस्वरेण अन्तोदात्तत्वम् । अपिच अभिभाः आभिमुख्येन प्रवर्तमानं शात्रवं तेजः। यद्वा आभिमुख्येन भाति रणरङ्गे दीप्यत इति अभिभाः शत्रुः । भा दीप्तौ। अस्मात् 'क्विप् च' (पा ३,२,७६) इति क्विप् । स च नः अस्मान् मा विदत् मा लब्ध । मा प्राप्नोतु इत्यर्थः । विद्लृ लाभे । अस्मात् माङि लुङि 'पुषादिद्युताद्य्लृदितः०' (पा ३,१,५५) इति च्लेः अङगादेशः। तथा अशस्तिः अकीर्तिः । मो मैव विदत्। शंसु स्तुतौ । भावे क्तिन् । 'अनिदिताम्' (पा ६,४,२४) इति नलोपः । 'तितुत्र' (पा ७,२,९) इत्यादिना इट्प्रतिषेधः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तथा द्वेष्या द्वेष्याणि द्वेषणीयानि । द्विष अप्रीतौ । 'ऋहलोर्ण्यत्' (पा ३,१,१२४) इति कर्मणि ण्यत् । या यानि वृजिना वृजिनानि पापानि पराजयनिमित्तानि अभिमतफलप्रतिबन्धकानि सन्ति । सर्वत्र ‘शेश्छन्दसि बहुलम्' (पा ६,१,७०) इति शेर्लोपः। तानि नः अस्मान् मा विदत् । व्यत्ययेन एकवचनम् । मा विदन् मा प्राप्नुवन्तु । यद्वा वृजिना वृजिनं पापम् अस्याम् अस्तीति वृजिना । अर्शआदित्वाद् अच् । हिंसादिपापोपेता, अत एव द्वेष्या अस्माभिर्द्वेषणीया [ या] शात्रवी सेनास्ति सापि नः अस्मान् मा विदत् ।
यो अद्य सेन्यो वधोऽघायूनामुदीरते ।
युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥
यः । अद्य । सेन्यः । वधः । अघऽयूनाम् । उत्ऽईरते ।
युवम् । तम् । मित्रावरुणौ । अस्मत् । यवयतम् । परि ॥२॥
अद्य इदानीं युद्धकाले सेन्यः सेनायां भवः । 'भवे छन्दसि' (पा ४,४,११० ) इति सेनाशब्दाद् यत्प्रत्ययः। 'यतोऽनावः' (पा ६,१,२१३) इति आद्युदात्तत्वम् । तथाविधः । अघायूनाम् । अघम् हिंसालक्षणं पापं परेषाम् इच्छन्तीति अघायवः शत्रवः । 'छन्दसि परेच्छायामपि' ( पावा ३,१,८) इति अघशब्दात् क्यच् । 'अश्वाघस्यात् ' (पा ७,४,३७ ) इति आत्त्वम् । 'क्याच्छन्दसि' (पा ३,२,१७० ) इति उप्रत्ययः। प्रत्ययस्वरेण अन्तोदात्तत्वे 'नामन्यतरस्याम्' (पा ६,१,१७७ ) इति नाम उदात्तत्वम् । तेषां शत्रूणां संबन्धी यो वधः हननम् तेन तत्साधनम् आयुधं लक्ष्यते। हन हिंसागत्योः। 'हनश्च वधः' (पा ३,३,७६ ) इति भावे अप्प्रत्ययः तत्संनियोगेन हन्तेर्वधादेशश्च । स च अन्तोदात्तः । अतो लोपे ‘अनुदात्तस्य च यत्रोदात्तलोपः' (पा ६,१,१६१ ) इति अप उदात्तत्वम् । तथाविधम् आयुधजालम् उदीरते उद्गच्छति अस्मदभिमुखं प्राप्नोति । ईर गतौ। 'बहुलं छन्दसि' (पा २,४,७३ ) इति शपो लुगभावः । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः । शपः पित्त्वाद् अनुदात्तत्वम् । 'अदुपदेशाल्लसार्वधातुक (पा ६,१,१८६ ) इति अनुदात्तत्वे धातुस्वरः शिष्यते । 'तिङि चोदात्तवति' (पा ८,१,७१) इति गतेर्निघातः। मित्रावरुणौ मित्रश्च वरुणश्च । ‘देवताद्वन्द्वे च' (पा ६,३,२६ ) इति पूर्वपदस्य आनङादेशः । 'देवताद्वन्द्वे च' (पा ६,२,१४१ ) इति उभयपदप्रकृतिस्वरत्वे प्राप्ते 'आमन्त्रितस्य च' (पा ८,१,१९ ) इति आष्टमिकं सर्वानुदात्तत्वम् । हे देवौ युवम् युवाम् । 'प्रथमायाश्च द्विवचने भाषायाम्' (पा ७,२,८८ ) इति आत्वस्य भाषाविषयत्वाद् अत्र अभावः। तम् शत्रुभिर्विनिर्मुक्तं वधम् अस्मत् अस्मत्तः सकाशात् परि परितः यावयतम् वियोजयतम् । अस्मान् यथा न स्पृशति तथा कुरुतम् इत्यर्थः । यु मिश्रणामिश्रणयोः । अस्मात् ण्यन्तात् लोटि रूपम् । 'छन्दसि परेऽपि' (पा १,४,८१ ) इति परेः परप्रयोगः । 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातः। 'उपसर्गाश्चाभिवर्जम्' ( फि ४,१३ ) इति परेः आद्युदात्तत्वम् ।
इतश्च यदमुतश्च यद्वधं वरुण यावय ।
वि महच्छर्म यच्छ वरीयो यावया वधम् ॥३॥
इतः । च । यत् । अमुतः । च । यत् । वधम् । वरुण । यवय ।
वि । महत् । शर्म । यच्छ । वरीयः। यवय। वधम् ॥ ३ ॥
अनया वरुणम् अवयुत्य प्रार्थयते । इतः अस्मात् संनिहितात् शत्रोः सकाशाद् यद् वधम् हननसाधनम् आयुधं माम् उद्दिश्य प्राप्नोति । इदमः ‘पञ्चम्यास्तसिल्' ( पा ५,३,७ ) इति तसिल्प्रत्ययः । तसिलः 'प्राग्दिशो विभक्तिः' (पा ५,३,१) इति विभक्तिसंज्ञा । इदम इश्' (पा ५,३,३ ) इति इशादेशः। 'लिति' (पा ६,१,१९३ ) इति प्रत्ययात् पूर्वस्य उदात्तत्वे प्राप्ते 'ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा ६,१,१७१ ) इति विभक्तिसंज्ञकत्वात् तसिल उदात्तत्वम् । तथा अमुतः अमुष्मात् दूरे दृश्यमानात् शत्रोः सकाशाद् यद् आयुधं प्राप्नोति । अदःशब्दात् पूर्ववत् तसिल् । तस्य विभक्तिसंज्ञकत्वात् 'त्यदादीनामः' (पा ७,२,१०२ ) इति अत्वम् । 'अदसोऽसेर्दादु दो मः' (पा ८, २,८०) इति उत्वमत्वे । ‘लिति' (पा ६,१,१९३) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । तत् सर्वं वधम् शत्रुभिर्विनिर्मुक्तं हननसाधनम् आयुधम् । हन्तेर्व्यत्ययेन 'हनश्च वधः' (पा ३,३,७६ ) इति करणे अप् । यस्तु करणाधिकरणयोः स तु त्रिलिङ्गः इति न्यायात् नपुंसकत्वम् । तद् आयुधम् हे वरुण त्वं यावय अस्मत्तो वियोजय । यु मिश्रणामिश्रणयोः । न केवलम् अनिष्टनिवृत्तिः, इष्टप्राप्तिरपि मे स्याद् इत्याह -- हे वरुण महत् अधिकम् अस्मद्द्वेष्यैरलभ्यं शर्म सुखं वि यच्छ विशेषेण प्रयच्छ । दाण् दाने । शपि ‘पाघ्रा' (पा ७,३,७८ ) इत्यादिना यच्छादेशः। 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातः । उपसर्गस्य 'व्यवहिताश्च' (पा १,४,८२ ) इति व्यवहितप्रयोगः। अपि च वरीयः उरुतरं मन्त्रप्रयोगादिना प्रवृद्धं दुष्परिहरं वधम् हननसाधनं शस्त्रास्त्रजालम् हे वरुण त्वं यवय वियोजय। वरीय इति । उरुशब्दाद् ईयसुनि 'प्रियस्थिरस्फिरोरुबहुल' (पा ६,४,१५७ ) इत्यादिना वरादेशः 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तत्वम् । यावया वधम् इति। अन्येषामपि दृश्यते' (पा ६,३,१३७ ) इति सांहितिको दीर्घः।
शास इत्था महामस्यमित्रसाहो अस्तृतः ।
न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
शासः । इत्था । महान् । असि । अमित्रऽसहः । अस्तृतः ।
न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥ ४ ॥
हे इन्द्र त्वं शासः शासको नियन्ता । शासु अनुशिष्टौ । पचाद्यच् । इत्था इत्थम् अनेन प्रकारेण महान् महत्त्वगुणोपेतः सर्वोत्कृष्टः असि भवसि । इदम्शब्दात् 'था हेतौ च च्छन्दसि'(पा ५,३,२६) इति प्रकारेर्थे थाप्रत्ययः। एतेतौ रथोः' (पा ५,३,४) इति इदम इदादेशः। प्रत्ययस्वरेण अन्तोदात्तता। महाँ असीत्यत्र संहितायां तस्य 'दीर्घादटि समानपादे' (पा ८,३,९) इति नकारस्य रुत्वम् । 'आतोऽटि नित्यम्' (पा ८,३,३) इति आकारस्य अनुनासिकादेशः । भोभगोअघोअपूर्वस्य योऽशि' (पा ८,३,१७) इति रोर्यत्वम् । 'लोपः शाकल्यस्य'(पा ८,३ १९ ) इति लोपः। पूर्वत्रासिद्धम्' (पा ८,२,१) इति असिद्धवद्भावात् सवर्णदीर्घाभावः। तमेव इन्द्रं विशिनष्टि -- अमित्रसाहः अमित्राणां शत्रूणां सोढा अभिभविता। षह अभिभवे । पचाद्यच् । 'चितः' (पा ६,१,१६३ ) इति अन्तोदात्तत्वम् । समासेपि कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते। तथा अस्तृतः शत्रुभिरहिंसितः। स्तृञ् हिंसायाम् । कर्मणि निष्ठा । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अहिंसितत्वं कैमुतिकन्यायेनापि आह - न यस्येति । यस्य उक्तमहिमोपेतस्य इन्द्रस्य सखा शरणागतो मित्रत्वं प्राप्तः पुरुषो न हन्यते शत्रुभिर्न हिंस्यते। हिंस्यत्वं तस्य दुरापास्तं पराजयोपि नास्तीत्याह -- कदा चन । चनशब्दः अप्यर्थे । कदाचिदपि न जीयते शत्रुभिर्नाभिभूयते । इन्द्रस्य सख्युरपि एवं किल, किमु वक्तव्यम् इन्द्रस्य अस्तृतत्वम् इति पूर्वेण संबन्धः। एवम् अतिशयितमहिमोपेतस्य इन्द्रस्य प्रसादाद् वयमपि शत्रून् जयेम इति वाक्यशेषः । हन्यत इति। हन हिंसागत्योः। 'सार्वधातुके यक्'(पा ३, १,६७) । 'अदुपदेशाल्लसार्वधातुक०' ( पा ६,१,१८६ ) [इति] अनुदात्तत्वे यक्स्वरः शिष्यते। 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः। जीयत इति । जि जये। पूर्ववद् यक् । 'अकृत्सार्वधातुकयोः' (पा ७,४,२५) इति दीर्घः । यच्छब्दस्य अत्रापि संबन्धात् पूर्ववद निघाताभावः। कदेति । किंशब्दात् 'सर्वैकान्यकिंयत्तदः काले दा' (पा ५,३,१५) इति दाप्रत्ययः। 'प्राग्दिशो विभक्तिः', ( पा ५,३,१) इति विभक्तिसंज्ञायां 'किमः कः' (पा ७,२,१०३ ) इति कादेशः।
इति चतुर्थेनुवाके चतुर्थं सूक्तम् ॥