← सूक्तं १.२१ अथर्ववेदः - काण्डं १
सूक्तं १.२२
ब्रह्मा।
सूक्तं १.२३ →
दे. सूर्यो, हरिमा हृद्रोगश्च। अनुष्टुप्।

अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते ।
गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥
परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि ।
यथायमरपा असदथो अहरितो भुवत्॥२॥
या रोहिणीर्देवत्या गावो या उत रोहिणीः ।
रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥३॥
शुकेषु ते हरिमाणं रोपणाकासु दध्मसि ।
अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥


सायणभाष्यम्

पञ्चमेनुवाके सप्त सूक्तानि । तत्र 'अनु सूर्यम्' इत्येतत् प्रथमं सूक्तम् । तेन हृद्रोगकामलादिरोगोपशान्तये रक्तवृषभरोममिश्रोदकं पाययेत् । तथा तेनैव रक्तगोचर्मच्छिद्रमणिं गोक्षीरे प्रक्षिप्य, संपात्य, अभिमन्त्र्य तन्मणिबन्धनम् , तत्क्षीरपानं च कारयेत् । तथा रोगिणं हरिद्रौदनं भोजयित्वा, तदुच्छिष्टानुच्छिष्टेन आप्रपदं प्रलिप्य, खट्वायाम् उपवेश्य तदधः शुककाष्ठशुकगोपीतनकाख्यानां त्रयाणां पक्षिणां सव्यजङ्घायां हरितसूत्रेण आबन्धनम् इत्येवमादिकं सूत्रोक्तं कुर्यात् । सूत्रं च--" 'अनु सूर्यम्' इति मन्त्रोक्तस्य लोममिश्रम् आचामयति' इत्यादि 'जातरूपेणापिधाप्यxxxबध्नाति" (कौसू २६,१४-२६ ) इत्यन्तम् ।


अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते ।

गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥

अनु । सूर्यम् । उत् । अयताम् । हृत्ऽद्योतः । हरिमा । च । ते ।

गोः । रोहितस्य । वर्णेन । तेन । त्वा । परि । दध्मसि ॥ १ ॥

हे व्याधित पुरुष ते तव हृद्द्योतः हृदयं द्योतयति दीपयति संतापयतीति हृद्दयोतः हृद्रोगः। द्युत दीप्तौ। अस्मात् हृच्छब्दोपपदात् 'कर्मण्यण्' ( पा ३,२,१) इति अण्प्रत्ययः। उपपदसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा हृद्रोगजनितः संतापो हृद्दयोतः। द्युतेर्भावे घञ्। तथा हरिमा कामलादिरोगजनितः शारीरो हरिद्वर्णः। हरिच्छब्दात् 'वर्णदृढादिभ्यः ष्यञ् च' (पा ५,१,१२३ ) इति चकाराद् भावे इमनिच्प्रत्ययः । 'यचि भम्' (पा १,४,१८ ) इति भसंज्ञायाम् 'टेः' (पा ६,४,१५५) इति टिलोपः। 'चितः' ( पा ६,१,१६३) इति अन्तोदात्तत्वम् । व्याधिद्वयमपि सूर्यम् गच्छन्तं भानुम् अनु लक्षीकृत्य उदयताम् उद्गच्छतु । उक्तः संतापो हरिद्वर्णश्च अस्माच्छरीराद् उत्क्रम्य संतापकं हरिद्वर्णं सूर्यमेव प्राप्नोतु इत्यर्थः। सरतेः सुवतेर्वा क्यपि ‘राजसूयसूर्य' (पा ३,१,११४ ) इत्यादिना निपात्यते। क्यपः पित्त्वाद् अनुदात्तत्वे धातुस्वरेण आद्युदात्तत्वम् । 'अनुर्लक्षणे' (पा १,४,८४ ) इति लक्षणेर्थे अनोः कर्मप्रवचनीयत्वम् । 'कर्मप्रवचनीययुक्ते द्वितीया' ( पा २,३,८ ) इति सूर्यशब्दाद् द्वितीया। अयताम् इति । अय पय गतौ । अनुदात्तेत्त्वाद् आत्मनेपदम् । अनभिमतरोगजनितवर्णापगमानन्तरम् इष्टवर्णसंयोजनम् आह -- गोरिति । रोहितस्य लोहितवर्णस्य गोः गोजातीयस्य वर्णेन लौहित्येन तेन प्रसिद्धेन तस्मात् पृथक्कृतेन हे रुग्ण त्वा त्वां परि दध्मसि परिदध्मः आच्छादयामः । तव शरीरं प्रकृष्टवर्णोपेतं कुर्म इत्यर्थः। परिपूर्वो दधातिः आच्छादने वर्तते। तथा च निगमः -- ‘परिधत्त धत्त वाससैनम्' ( आपमं २,२,६ ) इति । 'जरां गच्छासि परिधत्स्व वासः' (हिगृ १९,१,४ ) इति च। 'इदन्तो मसि' ( पा ७,१,४६ ) इति मस इदन्तत्वम् । तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातः।


परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि ।

यथायमरपा असदथो अहरितो भुवत्॥२॥

परि । त्वा । रोहितैः । वर्णैः । दीर्घायुऽत्वाय । दध्मसि ।

यथा । अयम् । अरपाः । असत् । अथो इति । अहरितः । भुवत् ॥२॥

उक्तमेव लोहितवर्णपरिधानफलप्रकटनार्थं पुनराह -– हे व्याधित त्वा त्वां रोहितैः लोहितैः वर्णैः प्रागुक्तैर्गोसंबन्धिभिः परि दध्मसि परिदध्मः । 'व्यवहिताश्च' (पा १,४,८२) इति परेरुपसर्गस्य व्यवहितः प्रयोगः । किमर्थम् इति तदाह -- दीर्घायुत्वाय । दीर्घं शतसंवत्सरपरिमितम् आयुर्जीवनकालो यस्यासौ दीर्घायुः, तस्य भावस्तत्त्वम् । सकारलोपश्छान्दसः। तादर्थ्ये चतुर्थी। सतिशिष्टत्वात् समासस्वरत्वं बाधित्वा त्वप्रत्ययस्वरेण अन्तोदात्तत्वम् । तदेव कथम् इत्यत आह -- यथा येन प्रकारेण अयम् चिकित्सितः पुरुषः अरपाः। रप इति पापनाम । 'रपो रिप्रम् इति पापनामनी भवतः' इति हि यास्कः (४,२१)। न विद्यते रपः पापं यस्यासौ अरपाः। बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इति उत्तरपदान्तोदात्तत्वम् । अपगतपापः असत् भवेत् । अस्तेर्लेटि अडागमः। अथो पापक्षयानन्तरमेव अहरितः कामलादिरोगजनितहरिद्वर्णरहितः भुवत् भवेत् । रोगनिदानभूतपापक्षये सति तच्छान्तौ सत्याम् यथा दीर्घायुर्भवति तथा परिदध्म इति वाक्यार्थः। भू सत्तायाम् । अस्मात् लेटि अडागमः। 'इतश्च लोपः परस्मैपदेषु' ( पा ३,४,९७ ) इति इकारलोपः। 'बहुलं छन्दसि' (पा २,४,७३ ) इति शपो लुक् । 'भूसुवोस्तिङि' (पा ७,३,८८ ) इति गुणप्रतिषेधे उवङ् ।


या रोहिणीर्देवत्या गावो या उत रोहिणीः ।

रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥३॥

याः । रोहिणीः । देवत्याः । गावः । याः । उत । रोहिणीः ।

रूपम्ऽरूपम् । वयःऽवयः । ताभिः । त्वा । परि । दध्मसि ॥ ३ ॥

देवत्याः देवतासु भवाः । 'भवे छन्दसि' ( पा ४,४,११० ) इति यत्प्रत्ययः । देवसंबन्धिन्यो रोहिणीः रोहिण्यः लोहितवर्णाः। रुह बीजजन्मनि प्रादुर्भावे [ च ] इत्यस्मात् 'रुहेरश्च लो वा ( पाउ ३,९४ ) इति औणादिक इतन्प्रत्ययः । नित्त्वाद् आद्युदात्तत्वम् । ततो 'वर्णादनुदात्तात्तोपधात्तो नः' (पा ४,१,३९) इति ङीप् । तत्संनियोगेन तकारस्य नकारः । ङीपः पित्त्वाद् अनुदात्तत्वे नित्स्वर एव शिष्यते । जसि ‘वा छन्दसि' (पा ६,१,१०६ ) इति पूर्वसवर्णदीर्घः । उक्तवर्णा याः कामधेन्वादयो गावः सन्ति । उत अपिच याः मनुष्यसंबन्धिन्यो रोहिणीः रोहिण्यः लोहितवर्णा गावः सन्ति । ताभिः उभयविधाभिर्गोभिः रूपंरूपम्' सर्वगोव्यक्तिगतं कृत्स्नम् अरुणरूपं तथा वयोवयः सर्वव्यक्तिगतं कृत्स्नं यौवनम् । उभयत्र 'नित्यवीप्सयोः' (पा ८,१,४ ) इति द्विर्वचनम् । 'तस्य परमाम्रेडितम्' (पा ८,१,२ ) इति परस्य आम्रेडितसंज्ञायाम् 'अनुदात्तं च' (पा ८,१,३) इति अनुदात्तत्वम् । तत् सर्वम् आहृत्य हे रुग्ण त्वा त्वां परि दध्मसि परिदध्मः। गोगतवर्णवद् उज्ज्वलैर्वर्णवयोविशेषैस्त्वदीयं शरीरं संयोजयाम इत्यर्थः । यद्वा ताभिः उक्तवर्णोपेताभिर्गोभिः हे रुग्ण त्वां परि दध्मसि । परिधानप्रकारमेव आह -- रूपंरूपम् रोगविशेषेण दूषितं सर्वशरीरगतं रूपं वयोवयः उक्तप्रकारं वयश्च परि दध्मसि । ताभिष्ट्वेति । 'त्वामौ द्वितीयायाः' (पा ८,१,२३) इति युष्मदस्त्वादेशः। 'युष्मत्तत्ततक्षुःष्वन्तःपादम्' (पा ८, ३,१०३ ) इति सकारस्य षत्वम् ।


शुकेषु ते हरिमाणं रोपणाकासु दध्मसि ।

अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥

शुकेषु । ते । हरिमाणम् । रोपणाकासु । दध्मसि ।

अथो इति । हारिद्रवेषु । ते । हरिमाणम् । नि । दध्मसि ॥ ४ ॥

पूर्वं गवादिगतस्य उज्ज्वलस्य रक्तवर्णस्य रुग्णशरीरे प्रवेशोभिहितः। तच्छरीरे पूर्वम् अवस्थितस्य रोगजनितस्य हरिद्वर्णस्य का तर्हि गतिरिति. तद् उच्यते-- हे रोगार्त ते तव शरीरगतं हरिमाणम् रोगजनितं हरिद्वर्णम् । 'वर्णदृढादिभ्यः ष्यञ् च' (पा ५,१,१२३) इति हरिच्छब्दाद् भावेऽर्थे इमनिच् । 'यचि भम्' (पा १,४,१८) इति भसंज्ञायाम् 'टेः' (पा ६,४,१५५) इति टिलोपः। 'चितः' (पा ६,१,१६३ ) इत्यन्तोदात्तत्वम् । तद्वर्णं शुकेषु कीरेषु तथा रोपणाकासु काष्ठशुकाख्येषु हरिद्वर्णेषु पक्षिषु नि दध्मसि निदध्मः। वर्णतः समानाकृतिषु पक्षिविशेषेषु स्थापयाम इत्यर्थः 'इदन्तो मसि' (पा ७,१,४६ ) इति मस इदन्तत्वम् । अथो अपिच हारिद्रवेषु गोपीतनकाख्येषु हरिद्वर्णेषु पक्षिविशेषेषु ते त्वदीयं हरिमाणम् हरिद्वर्णं नि दध्मसि निदध्मः स्थापयामः।

इति पञ्चमेनुवाके प्रथमं सूक्तम् ।