← सूक्तं १.२९ | अथर्ववेदः - काण्डं १ सूक्तं १.३० अथर्वा(आयुष्कामः)। |
सूक्तं १.३१ → |
दे. विश्वेदेवाः(१ वसवः,आदित्याः, १-४ देवाः)। त्रिष्टुप्, ३ शाक्वरगर्भा विराड्जगती। |
विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् ।
मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥
ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।
सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥
ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः ।
ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥
येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः ।
येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥
सायणभाष्यम्
'विश्वे देवाः' इति सूक्तेन आयुष्यकर्मणि स्थालीपाके घृतपिण्डत्रयं निक्षिप्य, संपात्य, अभिमन्त्र्य, तद् घृतं स्थालीपाकं च अश्नीयात्। सूत्रं च -- "'विश्वे देवाः' इत्यायुष्याणि । स्थालीपाके घृतपिण्डान् प्रतिनीयाऽश्नाति' (कौसू ५२,१८, १९ ) इति ।
उपनयनकर्मणि एतत् सूक्तं माणवकस्य नाभिदेशे संस्तभ्य जपेत् । तथा च सूत्रम्--“ बाहुगृहीतं प्राञ्चम् अवस्थाप्य दक्षिणेन पाणिना नाभिदेशे *[अभि] संस्तभ्य जपति। 'अस्मिन् वसु वसवो धारयन्तु' ( अ १,९ ) 'विश्वे देवा वसवः' " ([अ १,३०] कौसू ५५,१६, १७ ) इति ।
आयुष्कामस्य वैश्वदेवयागे तदुपस्थाने च एतत् सूक्तम् । सूत्रितम् -- 'विश्वे देवाः' इति विश्वान् देवान् आयुष्कामो यजते । उपतिष्ठते” ( कौसू ५९,१;२) इति ।
अध्यायोत्सर्जनकर्मणि अस्य सूक्तस्य आज्यहोमे विनियोगः। "द्वयान् रसान् उपसादयति । 'विश्वे देवाः' ( अ १,३०), 'अहं रुद्रेभिः' ” ( अ ४,३० ] कौसू १३९,१४, १५) इति हि सूत्रम् ।
अथ अस्य सूक्तस्य आयुष्यगणे पाठात् 'मेधाजननायुष्यैर्जुहुयात्' (कौसू ५७,३१), 'आयुष्यैः स्वस्त्ययनैराज्यं जुहुयात्' ( कौसू १३९,७) इति च सूत्राद् उपनयनोपाकर्मणोरपि आज्यहोमे अस्य विनियोगः।
'ऐरावतीं गजक्षये' ( शाक १७, ५) इति शान्तिकल्पविहितायाम् ऐरावत्याख्यायां महाशान्तौ 'आयुष्यशान्तिस्वस्तिगण ऐरावत्याम्' (शाक १८,८) आयुष्यगणस्य विधानात् तद्गणप्रयुक्तोऽस्य विनियोगः।
तथा 'वैश्वदेवीं गतायुषाम्' ( शाक १७,१) इति विहितायां वैश्वदेव्याख्यायां महाशान्तावपि एतद् विनियुक्तम् शान्तिकल्पे--" 'विश्वे देवाः' इति वैश्वदेव्याम्” (शाक १८,१) इति ।
'आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः ।
एतान् पञ्च गणान् हुत्वा xxx॥' (अप ५,३,५, ४,१)
इति परिशिष्टोक्ते पुष्पाभिषेकेऽपि अस्य गणप्रयुक्तो विनियोगः ।
'ये देवा दिवि' (अ १,३०,३) इत्येषा दर्शपूर्णमासयोर्वषट्कारानुमन्त्रणे विनियुक्ता। उक्तं वैताने--“ये देवा दिवि ष्ठ' इत्यनुवषट्कारम्' (वैताश्रौ ४,४) इति।
विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् ।
मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥
विश्वे देवाः । वसवः । रक्षत । इमम् । उत । आदित्याः। जागृत । यूयम् । अस्मिन् ।
मा । इमम् । सऽनाभिः । उत। वा । अन्यऽनाभिः । मा। इमम् । प्र। आपत्। पौरुषेयः। वधः । यः ॥ १॥
विश्वे सर्वे हे देवाः इन्द्राद्याः। यद्वा विश्वेदेवाख्या गणदेवाः । ‘आमन्त्रितस्य च' (पा ६,१,१९८) इति विश्वशब्दस्य षाष्टिकम् आद्युदात्तत्वम् । तस्य 'विभाषितं विशेषवचने बहुवचनम्' (पा ८,१,७४ ) इति विकल्पेन अविद्यमानवद्भावनिषेधात् ततः परस्य देवशब्दस्य 'आमन्त्रितस्य च' (पा ८,१,१९) इत्याष्टमिकं सर्वानुदात्तत्वम् । तथा हे वसवः एतत्संज्ञा देवाः । अत्र 'आमन्त्रितं पूर्वमविद्यमानवत्' (पा ८,१,७२) इति पूर्वामन्त्रितद्वयस्य अविद्यमानवद्भावेन पदात् परत्वाभावाद् 'आमन्त्रितस्य च' (पा ६,१,१९८) इति षाष्ठिकम् आद्युदात्तत्वम् । ते सर्वे यूयम् इमम् आयुष्कामं पुरुषं रक्षत पालयत । रक्ष पालने । 'अदुपदेशाल्लसार्वधातुकमनुदात्तम्' (पा ६,१,१८६) इति तिङ्विभक्तेरनुदात्तत्वम् । शपश्च पित्त्वादेव अनुदात्तत्वम् । ततो धातुस्वरेण आद्युदात्तता । 'आमन्त्रितं पूर्वमविद्यमानवत्' (पा ८,१,७२) इति आमन्त्रितत्रयस्यापि अविद्यमानवद्भावेन पदात्परत्वाभावात् 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघाताभावः । उत अपि च हे आदित्याः अदितेः पुत्रा धात्रर्यमादयो देवाः। 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' (पा ४,१,८५) इति अदितिशब्दाद् अपत्यार्थे प्राग्दीव्यतीयो ण्यप्रत्ययः। यूयम् अपि अस्मिन् आयुष्कामपुरुषविषये जागृत रक्षणार्थम् अवहिताः संनद्धा भवत । जागृ निद्राक्षये । अदादित्वात् शपो लुक् । 'जाग्रोऽविचिण्णल्ङित्सु' (पा ७,३,८५) इति ङितः पर्युदासाद् गुणाभावः । आदित्यकर्तृकस्य जागरणस्य प्रयोजनम् आह -- इमम् आयुष्कामं पुरुषं सनाभिः समानो नाभिः गर्भाशयो यस्यासौ सनाभिर्ज्ञातिः । णह बन्धने । 'नहो भश्च' (पाउ ४,१२६) इति औणादिक इञ्प्रत्ययः । तत्संनियोगेन हकारस्य भकारादेशः । ततः समानशब्देन बहुव्रीहौ 'ज्योतिर्जनपद' (पा ६,३,८५) इत्यादिना समानशब्दस्य सभावः । 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा ६,२,१) इति स [स्वरः] एव भवति । उत वा अपि वा अन्यनाभिः असमानजन्मा । ज्ञातिरूपः अज्ञातिरूपः इति द्विविधोपि शत्रुः। अत्र माङ्श्रवणाद् भाविनी क्रिया संबध्यते। मा प्रापत् हिंसितुं मैव प्राप्नोतु । तथा यः पौरुषेयः पुरुषकृतः । 'पुरुषाद् वधविकार (पावा ५,१,१०) इति ढञ्प्रत्ययः । तथाविधो वधः हिंसनम् । 'हनश्च वधः' (पा ३,३,७६) इति भावे हन्तेरप्प्रत्ययः धातोर्वधादेशश्च । सोपि इमम् आयुष्कामं पुरुषं मा प्रापत् । आप्लृ व्याप्तौ । लुङि 'पुषादिद्युताद्य्लृदितः' ( पा ३,१,५५ ) इति च्लेः अङादेशः । उक्ताभिर्देवताभिः परिरक्षितः सन् सर्वबाधाविनिर्मुक्तश्चिरं जीवतु इत्यर्थः ।
ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।
सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥
ये। वः । देवाः । पितरः । ये । च। पुत्राः । सऽचेतसः । मे । शृणुत। इदम् । उक्तम् ।
सर्वेभ्यः । वः । परि । ददामि । ए॒तम् । स्वस्ति । एनम् । जरसे । वहाथ ॥ २ ॥
हे देवाः दानादिगुणयुक्ताः प्रागुदीरिताः वः युष्माकं ये पितरः ये च पुत्राः सन्ति ते सर्वे यूयं सचेतसः अस्मिन्नायुष्कामपुरुषविषये समानमनस्काः सन्तः । 'समानस्य च्छन्दसि' (पा ६,३,८४) इति समानशब्दस्य सभावः । मे मदीयम् इदम् वक्ष्यमाणम् उक्थम् वाक्यम् । वच परिभाषणे। अस्माद् औणादिको भावे क्थन्प्रत्ययः । 'वचिस्वपि' (पा ६,१,१५) इत्यादिना संप्रसारणम् । तद् वचनं शृणुत उक्तप्रकारेण कर्तुम् आकर्णयत । श्रु श्रवणे । 'श्रुवः शृ च' (पा ३,१,७४ ) इति श्नुप्रत्ययः, धातोः शृभावश्च । किं तद् वाक्यम् इत्यत आह--हे देवाः सर्वेभ्यो वः। 'बहुवचनस्य वस्नसौ' (पा ८, १,२१ ) इति चतुर्थीबहुवचनान्तस्य युष्मदो वसादेशः । युष्मभ्यम् एतम् आयुष्कामं पुरुषं परि ददामि । रक्षणार्थं दानं परिदानम् । रक्षितुं प्रयच्छामि । अतो यूयम् रक्षार्थं दत्तं पुरुषं स्वस्ति आध्यात्मिकादिदुःखपरिहाण्या जरसे जरायै । 'जराया जरसन्यतरस्याम्' (पा ७,२,१०१) इति जरसादेशः । जराप्राप्तिपर्यन्तं वहाथ प्रापयत । वह प्रापणे। लेटि आडागमः। जरोपलक्षितं शतसंवत्सरपरिमितं दीर्घम् आयुः अस्मै प्रयच्छतेत्यर्थः।
ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः ।
ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥
ये। देवाः। दिवि । स्थ। ये । पृथिव्याम् । ये । अन्तरिक्षे । ओषधीषु । पशुषु । अप्ऽसु । अन्तः ।
ते । कृणुत । जरसम् । आयुः । अस्मै । शतम् । अन्यान् । परि । वृणक्तु । मृत्यून् ॥ ३ ॥
हे देवाः अग्निवायुसूर्यप्रभृतयः देवताकाण्डे समाम्नाताः। द्युपृथिव्यादिस्थानभेदेषु विभज्य वक्ष्यमाणानां सर्वेषां देवानां साधारणोयं निर्देशः । ‘आमन्त्रितस्य च' (पा ८, व्यति इत्याष्टमिकं सर्वानुदात्तत्वम् । ये सूर्यादयो यूयं दिवि द्युलोके स्थ भवथ जगदनु ग्रहार्थं निवसथ। 'ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा ६, १, १७१) इति दिव उत्तरस्याः सप्तम्या उदात्तत्वम । अस्तेर्लट् । मध्यमबहुवचने अदादित्वात शपो लुक। 'श्नसोरल्लोपः' (पा ६,४,१११) इति अकारलोपः । 'यद्वृत्तान्नित्यम्' (पा ८.१.६६ ) इति निघातप्रतिषेधः । तथा ये अग्न्यादयो देवाः यूयं पृथिव्याम् भूमौ। समनन्तरक्रियानुषङ्गः। स्थ भवथ । तथा ये वाय्वादयो यूयम् अन्तरिक्षे अन्तरिक्षलोके स्थ । प्रकाशप्रवर्षणपचनाद्युपकारनिमित्तत्वेन त्रिषु लोकेषु वर्तध्वम् *[?ध्वे] इत्यर्थः । यद्वा ‘ये देवा दिव्येकादश स्थ पृथिव्याम् अध्येकादश स्थ । अप्सुषदो महिनैकादश स्थ' (तै १, ४, १०, १) इति मन्त्रप्रसिद्धाः स्थानत्रये वर्तमानास्त्रयस्त्रिंशद्देवा अत्र संबोध्यन्ते । तथा ओषधीषु व्रीहियवादिषु पशुषु गवादिषु अप्सु उदकेषु अन्तः मध्ये तत्तदभिमानित्वेन वर्तमाना ये यूयं स्थ । 'ऊडिदम्' (पा ६, १, १७१) इत्यादिना अप्शब्दात् परस्य सुप उदात्तत्वम् । अन्तर्शब्दः स्वरादिष्वन्तोदात्तः पठितः । संहितायां यणादेशे 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (पा ८, २, ४ ) इत्यन्तर्शब्दाकारः स्वर्यते । ते सर्वे देवा यूयम् अस्मै आयुष्कामाय पुरुषाय जरसम् जराम् । जरापर्यन्तम् इत्यर्थः । 'जराया जरसन्यतरस्याम्' (पा ७, २, १०१) इति जरसादेशः। तथाविधम् आयुः जीवनं कृणुत कुरुत । भवत्प्रसादाद असौ शतसंवत्सरपरिमितम् आयुर्जीवतु इत्यर्थः। तदर्थम् अन्यान् कालमृत्युव्यतिरिक्तान् शतम् । अपरिमितनामैतत् । अपरिमितान् मृत्यून् मरणहेतुभूतान् ज्वरादिरूपान् । 'ये ते सहस्रम् अयुतं पाशा मृत्यो मर्त्याय हन्तवे' (तैब्रा ३, १०, ८, २) इत्यादिमन्त्रप्रसिद्धान् अपमृत्युविशेषान् परि वृणक्त परिवर्जयत । परमायुर्भङ्गकरान् अपमृत्यून् निवारयतेत्यर्थः । वृजी वर्जने। लोण्मध्यमबहुवचनादेशस्य तशब्दस्य 'ततनतनथनाश्च' (पा ७, १, ४५) इति तबादेशः । तस्य पित्त्वेन ङित्त्वाभावात् श्नस्य लोपाभावः। यद्वा शतमिति आयुःशब्देन संबध्यते। शतसंवत्सरपरिमितम् आयुः कुरुतेत्यर्थः।
येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः ।
येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥
प्रयाजाः । प्रधानयागात् प्रथमभाविनः समित्तनूनपादादयः पञ्च यागाः प्रयाजाः। ते येषां देवानां स्वभूताः । 'अथ किंदेवताः प्रयाजानुयाजाः' इति प्रक्रम्य आग्नेया इति तु स्थितिः, भक्तिमात्रमितरत्' (या ८, २२) इत्यन्तेन यास्केन प्रपञ्चिताः प्रयाजदेवाः । ते चात्र येषाम् इति सर्वनाम्ना विवक्ष्यन्ते । 'प्रयाजान् मे अनुयाजांश्च केवलान् ऊर्जस्वन्तं हविषो दत्त भागम्' ( ऋ १०,५१, ८) इति मन्त्रप्रसिद्धोऽग्निरेव वा विवक्षितः । अस्मिन् पक्षे येषाम् इति बहुवचनं पूजार्थम् । येषाम् इत्यत्र 'सावेकाचः' (पा ६, १, १६८) इति प्राप्तस्य विभक्त्युदात्तत्वस्य 'न गोश्वन्त्साववर्ण' (पा ६, १, १८२) इति प्रतिषेधः । प्रपूर्वाद् यजतेः 'अकर्तरि च कारके संज्ञायाम्' (पा ३, ३, १९) इति घञ् । 'प्रयाजानुयाजौ यज्ञाङ्गे' (पा ७, ३, ६२) इति कुत्वाभावो निपात्यते । 'थाथघञ्क्ताजबित्रकाणाम्' (पा ६, २, १४४) इत्युत्तरपदान्तोदात्तत्वम् । उत वा अपि वा अनुयाजाः । अनु पश्चात् प्रधानयागानन्तरभाविनस्त्रयो यागा अनुयाजाः । ते च येषां देवानां स्वभूताः। प्रयाजशब्दवत् अनुयाजशब्दस्यापि पदस्वरप्रक्रिये वेदितव्ये । ये च अन्ये देवा हुतभागाः । हुतम् अग्नौ प्रास्तं चरुपुरोडाशादिकं हविः भागो येषां देवानां ते हुतभागा इन्द्रादयः । तथा ये च देवा अहुतादः । न हुतम् अहुतम् अग्नेरन्यत्र क्षिप्यमाणं हविरदन्ति भक्षयन्तीति अहुतादः बलिहरणादिदेवाः । अद भक्षणे इत्यस्माद् ‘अदोऽनन्ने' (पा ३, २,६८) इति विद्प्रत्ययः । हे इन्द्रादयो देवाः येषाम् प्रसिद्धानां वः युष्माकं पञ्च पञ्चसंख्याकाः प्रदिशः प्रधानभूताः प्राच्याद्या दिशः विभक्ताः ईशितव्यत्वेन विभज्य स्थिताः। यद्वा 'पथ्यां स्वस्तिम् अयजन् प्राचीमेव तया दिशं प्राजानन्' (तै ६.१.५, २) इत्यादिश्रुतिप्रसिद्धाः पथ्या स्वस्तिः, अग्निः, सोमः, सविता, अदितिः इत्येतन्नामानो देवाः येषाम् इति यच्छब्देन विवक्षिताः। हे देवाः तान् उक्तान् सर्वान् वः युष्मान् अस्मै आयुष्कामस्य पुरुषस्य आयुर्वर्धनाद्युपकाराय सत्रसदः । सीदन्त्यस्मिन्निति सत्त्रम् सदनम् । तस्मिन् सीदतः संनिहितान् कृणोमि करोमि । षद्लृ विशरणगत्यवसादनेषु इत्यस्माद् अधिकरणे औणादिकस्त्रन् प्रत्ययः । तस्मिन्नुपपदे तस्मादेव धातोः 'सत्सूद्विष' (पा ३, २, ६१) इत्यादिना कर्तरि क्विप् ।
इति द्वितीयं सूक्तम् ।