← सूक्तं १.३४ अथर्ववेदः - काण्डं १
सूक्तं १.३५
अथर्वा
दे. हिरण्यम्, इन्द्राग्नी, विश्वे देवाः। जगती, ४ अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्

यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।
तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥
नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्।
यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥
अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।
इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥
समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।
इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥

सायणभाष्यम्

'यदाबध्नन्' इति सूक्तेन सर्वसंपत्कर्मसु वासितयुग्मकृष्णलमणिबन्धनम् , सारूपवत्सौदने पुरुषाकृतिम् आलिख्य तत्प्राशनं च कुर्यात् । तथा च सूत्रम--" 'यदाबध्न [न्' ( अ १,३५), 'नव प्राणान्' (अ ५,२८ ) इति युग्मकृष्णलं वासितं बध्नाति । सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वाऽनभिमुखम् अश्नाति” ( कौसू ११,१९,२०) इति ।

तथा आयुष्कामः हिरण्यमणिं युग्मकृष्णलं संपात्य अभिमन्त्र्य स्थालीपाकं च संपात्य अभिमन्त्र्य तन्मणिब] न्धनं तदोदनप्राशनं च अनेनैव सूक्तेन कुर्यात् । तथा च सूत्रम् । “ 'यदाबध्नन्' ( अ १,३५), 'नव प्राणान्' ( अ ५,२८ ) इति युग्मकृष्णलम् आदिष्टानां स्थालीपाक आधाय बध्नाति । आशयति" ( कौसू ५२,२०,२१ ) इति ।

उपनयनकर्मण्यपि आयुष्कामस्य ब्रह्मचारिण आज्यहोमे विनियुक्तम् । तथा च सूत्रम् -- 'मेधाजननायुष्यैर्जुहुयात् ' ( कौसू ५७,३१) इति ।

तथा 'आदित्यां श्रुततेजोधनायुष्कामस्य' (शाक १७,३ ) इति विहितायाम् आदित्याख्यायां महाशान्तौ युग्मकृष्णलमणिबन्धनेऽपि एतत् सूक्तम् । तद् उक्तं शान्तिकल्पे--“ 'यदाबध्नन्' इति युग्मकृष्णलम् आदित्यायाम्” ( शाक १९,५) इति।

तथा प्रातःप्रातः अनेन सूक्तेन अलंकारान् अभिमन्त्र्य पुरोहितो राज्ञे प्रयच्छेत् । तथा च परिशिष्टे -- 'अथ पुरोहितकर्माणि राज्ञः प्रातरुत्थितस्य कृतस्वस्त्ययनस्य' इति प्रक्रम्य उक्तम् - “परिधत्त' (अ २,१३,२; ३) इति द्वाभ्यां राज्ञे वस्त्रम् अभिमन्त्र्य प्रयच्छेत् । 'यदाबध्नन्' इत्यलंकारान्” (अप ४,१,१-५ ) इति ।

हिरण्यगर्भाख्ये महादानेपि अनेन सूक्तेन हिरण्यस्रजं यजमानस्य बध्नीयात् । तद् उक्तं तत्रैव-- " 'अग्नेः प्रजातं परि यद्धिरण्यम्' (अ १९,२६ ), 'यदाबध्नन्' (अ १,३५) इति हिरण्यस्रजम् आग्रथ्य" ( अप १३,१,७ ) इति। - यदाबंधन दाक्षायणा


यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।

तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥

यत् । आऽअबध्नन् । दाक्षायणाः । हिरण्यम् । शतऽअनीकाय । सुऽमनस्यमानाः ।

तत् । ते ।बध्नामि । आयुषे । वर्चसे । बलाय । दीर्घायुऽत्वाय । शतऽशारदाय ॥१॥

दाक्षायणाः दक्षस्य अपत्यं दाक्षिः । अत इञ् ' ( पा ४, १,९५ ) इति इञ्प्रत्ययः। दाक्षेरपत्यं दक्षस्य गोत्रम् । तत्र 'यञिञोश्च' (पा ४,१,१०१) इति फक्। 'आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्' (पा ७,१,२) इति फस्य आयनादेशः । 'कितः' (पा ६,१,१६५ ) इत्यन्तोदात्तत्वम् । दक्षापत्यभूता महर्षयः सुमनस्यमानाः । शोभनं मनो येषां ते सुमनसः। सुमनस इव आचरन्तः सुमनस्यमानाः। सुमनस्शब्दात् 'कर्तुः क्यङ् सलोपश्च' (पा ३,१,११) इति क्यङ् । सलोपस्य विकल्पितत्वाद् अत्र अभावः। यद्वा प्राग् असुमनसः सुमनसो भवन्तीति च्व्यर्थविवक्षायां भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' (पा ३,१,१२) इति क्यङ् । अन्त्यहलो लोपाभावश्छान्दसः। तदन्तात् लटः शानच् । 'कर्तरि शप्' (पा ३,१,६८ ) इति शप्प्रत्ययः। तस्य पित्त्वाद् अनुदात्तत्वम् । अदुपदेशाल्लसार्वधातुकम्” (पा ६,१,१८६ ) इति शानचोनुदात्तत्वम् । क्यङः प्रत्ययस्वरेण उदात्तता। सौमनस्यं कुर्वाणाः सन्तः शतानीकाय। शतम् अनीकानि यस्यासौ शतानीकः । 'दिक्संख्ये संज्ञायाम्' (पा २,१,५०) इति समासः *[?] । 'शतानीकं सात्राजितम् अभिषिषेच' ( ऐब्रा ८,२१ ) इति श्रुतिप्रसिद्धाय राज्ञे यत् प्रसिद्धं कृष्णलादिरूपं हिरण्यम् हितरमणीयरूपं सुवर्णम् । हिरण्यशब्दं बहुधा यास्को निरवोचत्-- ‘हितरमणं भवतीति वा, हृदयरमणं भवतीति वा, हर्यतेर्वा स्यात् कान्तिकर्मणः' (या २,१०) इति । हर्य गतिकान्त्योः । 'हर्यतेः कन्यन् हिर् च' ( पाउ ५,४४) इति कन्यन् प्रत्ययः। 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इत्याद्युदात्तत्वम् । आबध्नन् बन्धनं कृतवन्तः। बन्ध बन्धने। अस्मात् लङि श्नाप्रत्ययः। 'श्नाभ्यस्तयोरातः' (पा ६,४,११२) इत्याकारलोपः। 'लुङ्लङ्लृङ्क्ष्वडुदात्तः' (पा ६,४,७१) इति अट उदात्तत्वम् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः। तत् तथाविधं हिरण्यम् हे आयुरादिफलकाम ते तव बध्नामि बन्धनं करोमि । तद्बन्धनस्य फलम् आह--आयुषे आयुरभिवृद्धये वर्चसे तेजसे बलाय बलप्राप्तये । आयुष इत्युक्तं तदेव विवृणोति-–दीर्घायुत्वाय दीर्घायुष्ट्वाय। छान्दसः सलोपः। चिरकालजीवनाय । कियत्परिमितम् आयुषो दैर्घ्यम् इति तद् आह--शतशारदाय । शरदृतोः संबन्धिनः तद्विशिष्टाः संवत्सराः शारदाः । शतं शारदाः समाहृता यस्मिन् जीवने तत् शतशारदम् । तस्मै। शतसंवत्सरजीवनायेत्यर्थः। आयुर्दैर्घ्यपरिच्छेदस्तु मनुष्याणां परमायुर्विवक्षयेति द्रष्टव्यम् । तथा च श्रुत्यन्तरम् -– 'शतायुः पुरुषः शतेन्द्रियः' (तै २,३,११,५) इति ।


नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्।

यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥

न। एनम् । रक्षांसि । न । पिशाचाः । सहन्ते । देवानाम् । ओजः । प्रथमऽजम् । हि । एतत् ।

यः । बिभर्ति । दाक्षायणम् । हिरण्यम् । सः । जीवेषु । कृणुते । दीर्घम् । आयुः ॥ २॥

एनम् आबद्धहिरण्यं पुरुषं रक्षांसि राक्षसाः । 'रक्षो रक्षितव्यम् अस्मात्' इति हि यास्कः (४.१८)। न सहन्ते नाभिभवन्ति । ज्वराद्युपद्रवकरणेन न बाधन्त इत्यर्थः । षह अभिभवे इति धातुः । तथा पिशाचाः पिशिताशिनो भूतविशेषाः न सहन्ते । धृतहिरण्यस्य ईदृशं सामर्थ्यं कुत इत्यत आह -- देवानाम् इति । एतत् सुवर्णं देवानाम् इन्द्रादीनां प्रथमजम् प्रथमत उत्पन्नम् । जनी प्रादुर्भावे । 'अन्येष्वपि दृश्यते' (पा ३,२,१०१) इति डप्रत्ययः । ओजो हि । ओजः शरीरधारको बलहेतुः अष्टमो धातुविशेषः। यद् आहुराचार्याः--

xxx ओजो नामाष्टमी दशा।

क्षेत्रज्ञस्य तदोजस्तु केवलाश्रय इष्यते।' इति ।

यद्वा देवानाम् । आदरार्थं बहुवचननम् । देवस्य अग्नेः एतत् हिरण्यं प्रथमजम् ओजः प्रथमोत्पन्नं रेतोरूपं तेजो हि । यस्मात् कारणाद् रक्षसां हन्तुरग्नेस्तेजो हिरण्यम् 'अग्निः खलु वै रक्षोहा' (तै ६,१,४,६ ) इति श्रुतेः तस्मात् हिरण्यं रक्षोनिवर्तकम् इत्यर्थः। हिरण्यस्य अग्निरेतस्त्वं तैत्तिरीयके श्रूयते 'आपो वरुणस्य पत्नय आसन् । ता अग्निरभ्यध्यायत् । ताः समभवत् । तस्य रेतः परापतत् । तद्धिरण्यम् अभवत्' (तैब्रा १,१,३,८) इति । यतो हिरण्यं रक्षोघ्नम् अतस्तद् दाक्षायणम् । दाक्षायणैः शतानीकस्य प्रथमम् आबद्धत्वाद् हिरण्यमपि दाक्षायणम् उच्यते । तथाविधं हिरण्यं यः पुरुषो रक्षोवधकामो बिभर्ति । डुभृञ् धारणपोषणयोः । जुहोत्यादित्वात् शपः श्लुः। 'श्लौ' (६,१,१० ) इति द्विर्वचने 'भृञामित्' (७,४,७६ ) इत्यभ्यासस्य इत्त्वम् । 'भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वं पिति' (पा ६,१,१९२) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः । स पुरुषः जीवेषु मध्ये दीर्घम् शतसंवत्सरपरिमितम् आयुः जीवनकालं कृणुते करोति । रक्षाकरहिरण्यधारणात् निरामयः सन् शतसंवत्सरं जीवतीत्यर्थः । डुकृञ् करणे । व्यत्ययेन श्नुः ।


अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।

इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥

अपाम् । तेजः । ज्योतिः । ओजः । बलम् । च । वनस्पतीनाम् । उत । वीर्याणि ।

इन्द्रेऽइव । इन्द्रियाणि । अधि । धारयामः । अस्मिन् । तत् । दक्षमाणः । बिभरत् । हिरण्यम् ॥ ३॥

अपाम् उदकानां संबन्धि यत् तेजः स्नानपानादिना नैर्मल्यकरं सामर्थ्यम् । अपां तेजः वनस्पतीनाम् वीर्याणि इत्याद्यन्तयोर्गुणानां गुणिविशेषसंबन्धश्रवणात् मध्येपि ज्योतिरादीनां यथायोगं गुणिविशेषसंबद्धानामेव ग्रहणम् अत्र द्रष्टव्यम् । तथा च ज्योतिष्मतां सूर्यचन्द्रादीनां संबन्धि यत् ज्योतिः ओजस्विनाम् इन्द्रादीनां संबन्धि यद् ओजः बलहेतुभूतो धातुविशेषः। इन्द्रस्य ओजस्वित्वं यजुर्मन्त्रवर्णे प्रसिद्धम् । 'इन्द्रौजस्विन्नोजस्वी त्वं देवेषु भूयाः' (तै ३,३,१,१) इति । बलवतां पुरुषाणां यद् बलम् शरीरसामर्थ्यम् । उक्तसर्वसमुच्चयार्थश्चकारः । उतशब्दः अप्यर्थे । वनस्पतीनाम् वृक्षविशेषाणां वीर्याणि उपकारजननसामर्थ्यान्यपि यानि सन्ति । वनानां पतयो वनस्पतयः । 'पारस्करप्रभृतीनि च संज्ञायाम् (पा ६,१,१५७) इति सुडागमः। 'उभे वनस्पत्यादिषु युगपत् (पा ६, २,१४० ) इति पूर्वोत्तरपदयोर्युगपत् प्रकृतिस्वरत्वेन आद्युदात्तत्वम् । तानि सर्वाणि अस्मिन् उक्तहिरण्यधारके पुरुषे । अधिः सप्तम्यर्थानुवादी । धारयामः स्थापयामः। तत्र दृष्टान्तः--इन्द्रियाणि इन्द्रस्य असाधारणचिह्नानि । 'इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमि न्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा' (पा ५,२,९३) इति निपात्यते । तानि इन्द्र इव । यथा तानि इन्द्र एव असाधारण्येन वर्तन्ते तद्वद अस्मिन्निति संबन्धः । यस्मात् तेजःप्रभृतीनि धारयामः तत् तस्मात् कारणाद् दक्षमाणः वर्धमानः असौ पुरुषः। दक्ष वृद्धौ इति धातुः । हिरण्यम् तेजःप्रभृतीनां प्रापकं कृष्णलादिमणिरूपं बिभरत् बिभर्तु । डुभृञ् धारणपोषणयोः। लेटि अडागमः। 'इतश्च लोपः परस्मैपदेषु' (पा ३,४,९७ ) इति इकारलोपः । जुहोत्यादित्वात् शपः श्लुः । 'श्लौ' (पा ६,१,१० ) इति द्विर्वचने 'भृञामित्' (पा ७,४,७६ ) इत्यभ्यासस्य इत्त्वम् ।


समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।

इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥

समानाम् । मासाम् । ऋतुऽभिः । त्वा । वयम् । सम्ऽवत्सरस्य । पयसा । पिपर्मि ।

इन्द्राग्नी इति । विश्वे । देवाः। ते । अनु । मन्यन्ताम् । अहृणीयमानाः ॥ ४ ॥

हे सर्वसंपदादिफलकाम त्वा त्वां समानाम् संवत्सराणां मासाम् मासानाम् । 'पद्दन्नोमास्” (पा ६,१,६३ ) इति मासशब्दस्य मास्भावः । 'ऊडिदंपदाद्य” (पा ६,१,१७१) इति विभक्तेरुदात्तत्वम् । व्यधिकरणे षष्ठ्यौ । संवत्सरसंबन्धिनां चैत्रादिमासानां संबन्धिभिः ऋतुभिः वसन्ताद्यैः । समाशब्दो यद्यपि नित्यबहुवचनान्तः तथाप्यत्र अर्थबहुत्व एव बहुवचनं विवक्षितम् । तत्सामर्थ्येन पुरुषायुषसंबन्धिशतसंवत्सरावयवभूतमासारब्धैः ऋतुभिरित्यर्थः संपद्यते । तथाविधैः ऋतुभिः वयम् । व्यत्ययेन बहुवचनम्। अहं पिपर्मि पूरयामि । एतत्सुवर्णधारणेन एनं पुरुषं शतसंवत्सरपर्यन्तं जीवयामीत्यर्थः । पॄ पालनपूरणयोः । जुहोत्यादित्वात् शपः श्लुः। 'अर्तिपिर्त्योश्च' (पा ७,४,७७ ) इत्यभ्यासस्य इत्त्वम् । यद्वा समानाम् आरम्भकैः ऋतुभिः। ऋतुसमुदायो हि संवत्सरः। तथा मासाम् मासानां कार्यभूतैः ऋतुभिः इति षष्ठीद्वयस्य ऋतुशब्देनैव संबन्धः । दरिद्रस्य दीर्घमपि आयुर्निरर्थकम् इत्यत आह -- संवत्सरस्येति । संवत्सरस्य संवत्सरकालसंबन्धिना । संवत्सरव्यापिनेत्यर्थः । तादृशेन पयसा क्षीरेण । एतद् अन्येषामपि फलानाम् उपलक्षणम् । गोधनधान्यादिरूपेण च पिपर्मि पूरयामि । एतत्सुवर्णधारकस्य पुरुषस्य आयुर्मध्ये यथा एकमपि दिनम् उक्तफलरहितं न भवति तथा करोमीत्यर्थः । क्रियमाणेर्थे देवानाम् अनुमतिं प्रार्थयते--इन्द्राग्नी इन्द्रश्च अग्निश्च । 'देवताद्वन्द्वे च' (पा ६, २,१४१) इति प्राप्तस्य उभयपदप्रकृतिस्वरत्वस्य 'नोत्तरपदेनुदात्तादौ” (पा ६,२,१४२) इति प्रतिषेधे 'समासस्य' (पा ६,१,२२३) इत्यन्तोदात्तत्वम् । तथा विश्वे सर्वे अन्येऽपि देवाः ये सन्ति ते सर्वे अहृणीयमानाः । हृणीयतिः क्रुध्यतिकर्मा । अक्रुध्यन्तः क्रियमाणकर्मणि संभवद्वैकल्यनिमित्तं क्रोधम् अकुर्वन्तः अनु मन्यन्ताम् अनुजानन्तु । सुवर्णधारणादिक्रियाजनितम् आयुरादि फलम् अङ्गीकुर्वन्तु इत्यर्थः। हृणीङ् इति कण्ड्वादिषु पाठात् 'कण्ड्वादिभ्यो यक्' ( पा ३,१, २७ ) । तस्य ङित्वाद् आत्मनेपदम् । नञ्समासे अव्ययपूर्वपदप्रकृति स्वरत्वम्।


इति प्रथमकाण्डे षष्ठोनुवाकः ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरश्रीवीरहरिहरमहाराजधुरंधरेण सायणाचार्येण विरचिते अथर्वसंहिताभाष्ये प्रथमकाण्डः समाप्तः॥