← सूक्तं २०.००४ | अथर्ववेदः - काण्डं २० सूक्तं २०.००५ इरिम्बिठिः |
सूक्तं २०.००६ → |
दे. इन्द्रः। गायत्री। |
अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
प्र सोम इन्द्र सर्पतु ॥१॥
तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे ।
इन्द्रो वृत्राणि जिघ्नते ॥२॥
इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
वृत्राणि वृत्रहं जहि ॥३॥
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।
यजमानाय सुन्वते ॥४॥
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब ॥५॥
शाचिगो शाचिपूजनायं रणाय ते सुतः ।
आखण्डल प्र हूयसे ॥६॥
यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
न्यस्मिन् दध्र आ मनः ॥७॥