← सूक्तं २०.०२० | अथर्ववेदः - काण्डं २० सूक्तं २०.०२१ सव्यः। |
सूक्तं २०.०२२ → |
दे. इन्द्रः। जगती, १०-११ त्रिष्टुप् ]] |
न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥
दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥२॥
शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥३॥
एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥४॥
समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥
ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥
युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥
त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥८॥
त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।
षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्॥९॥
त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥१०॥
य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥
सायणभाष्यम्
‘न्यूषु वाचम्' इति सूक्तस्य ब्राह्मणाच्छंसिनः प्रथमपर्यायशस्त्रे विनियोग उक्तः । अत्र ‘य उदृचि' इत्येषा अन्तिमा परिधानीया ।।
नि । ऊं इति । सु । वाचम् । प्र । महे । भरामहे । गिरः । इन्द्राय । सदने । विवस्वतः ।।
नु । चित् । हि । रत्नम्। ससताम्ऽइव । अविदत् । न । दुःऽस्तुतिः । द्रविणःऽदेषु । शस्यते ।।१
“महे महते । महच्छब्दस्य अच्छब्दलोपश्छान्दसः । “इन्द्राय देवाय “सु “वाचम् शोभनां स्तुतिं “नि “प्र “भरामहे नितरां प्रयुञ्ज्महे । “उ इति पदपूरणः । न्यूष्विति । ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' ( पा ८,२,४ ) इति स्वरितत्वम् । तच्च उदात्तपरत्वात् संहितायां कम्पते । ‘इकः सुञि' (पा ६,३,१३४ ) इति दीर्घत्वम् । “सुञः ( पा ८,३,१०७ ) इति षत्वम् । यतो “विवस्वतः परिचरतो यजमानस्य “सदने यज्ञगृहे इन्द्राय “गिरः स्तुतयः क्रियन्ते । “हि यस्मात् स इन्द्रः “नू “चित् क्षिप्रमेव “रत्नम् रमणीयम् असुराणां धनम् “अविदत् विन्दति । तत्र दृष्टान्तः - “ससतामिव यथा ससताम् स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत् । अतोऽस्मभ्यं धनं दातुं शक्त इति भावः । “द्रविणोदेषु धनस्य दातृषु पुरुषेषु “दुष्टुतिः असमीचीना स्तुतिः न “शस्यत नाभिधीयते न युज्यते वा । अतः सुवाचं प्र भरामहे इति पूर्वेण संबन्धः।।
दुरः । अश्वस्य । दुरः । इन्द्र । गोः । असि । दुरः । यवस्य । वसुनः । इनः । पतिः ।।
शिक्षाऽनरः । प्रऽदिवः । अकामऽकर्शनः । सखा । सखिऽभ्यः । तम् । इदम् । गृणीमसि ।।२
हे “इन्द्र त्वम् “अश्वस्य । जातावेकवचनम् । अश्वानाम् एतद् गजादीनामपि उपलक्षणम् । अश्वगजादिवाहनानां “दुरः दाता असि । डुदाञ् दाने । “मन्दिवाशि ( पाउ १,३८ ) इत्यादिना विधीयमान उरच्प्रत्ययो बहुलवचनाद् अस्मादपि भवति । अत एव आकारलोपः । तथा “गोः । एतद् उपलक्षणं महिष्यादेः। गोमहिष्यादीनां “दुरोऽसि । तथा “यवस्य । एतद् व्रीह्यादिधान्यजातस्य उपलक्षणम् । तस्य “दुरः असि । एवं “वसुनः धनस्य हिरण्यमणिमुक्तादिरूपस्य “इनः स्वामी “पतिः पालकश्चासि । “शिक्षानरः । शिक्षतिर्दानकर्मा । शिक्षाया दानस्य नेताऽसि । यद्वा शिक्षाविषयभूता नरा मनुष्या यस्य स शिक्षानरः “प्रदिवः प्रगता दिवो दिवसा यस्य स तथोक्तः । पुराण इत्यर्थः । “अकामकर्शनः कामानां कर्शनः कामकर्शनः स न भवतीत्यकामकर्शनः । स्वसेविनां कामवर्धक इत्यर्थः । एवं “सखिभ्यः समानख्यानेभ्यः सखिभूतेभ्य ऋत्विग्भ्यः “सखा मित्रभूतः एवंमहिमा य इन्द्रोऽस्ति “तं तादृशम् इन्द्रम् “इदं स्तोत्रं “गृणीमसि गृणीमः उच्चारयामः कुर्मः । गॄ शब्दे । क्रैयादिकः । ‘प्वादीनां ह्रस्वः' (पा ७,३,८०) इति ह्रस्वत्वम् । इदन्तो मसि’ ( पा ७,१,४६) इति मस इकारः ।
शचीऽवः । इन्द्र । पुरुऽकृत् । द्युमत्तम । तव । इत् । इदम् । अभितः । चेकिते । वसु ।
अतः । सम्ऽगृभ्य । अभिऽभूते । आ । भर । मा। त्वाऽयतः । जरितुः । कामम् । ऊनयीः ।३
हे “शचीवः । शची इति प्रज्ञानाम । प्रज्ञावन्निन्द्र। ‘मतुवसो रु संबुद्धौ छन्दसि’ (पा ८,३,१) इति रुत्वम् । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । हे “इन्द्र परमैश्वर्यगुणविशिष्ट “पुरुकृत् बहूनां कर्तः “द्युमत्तम दीप्तिमत्तम । एषाम् इन्द्रादीनाम् आष्टमिकं सर्वानुदात्तत्वम् । न च ‘आमन्त्रितं पूर्वम् अविद्यमानवत्' ( पा ८,१,७२ ) इत्यविद्यमानवत्त्वम्, 'नामन्त्रिते समानाधिकरणे' ( पा ८,१,७३ ) इति निषेधात् । एवंमहानुभाव इन्द्र “अभितः सर्वत्र यद् “वसु धनं विद्यते तद “इदं सर्वं “तवेत् तवैव स्वम् । धनजातस्य सर्वस्यापि त्वमेव स्वामीत्यर्थः । इत्थं “चेकिते भृशम् अस्माभिर्ज्ञायते । कित ज्ञाने । अस्माद् यङन्ताद् वर्तमाने लिटि ‘कास्प्रत्ययादाममन्त्रे लिटि' ( पा ३,१,३५ ) इति निषेधाद् आम्प्रत्ययाभावे सति लिट आर्धधातुकत्वाद् अतोलोपयलोपौ । हे “अभिभूते शत्रूणाम् अभिभवितरिन्द्र “अतः अस्मात् कारणात् “संगृभ्य सर्वं धनं संगृह्य “आ भर आहर अस्मभ्यं प्रयच्छ । “त्वायतः त्वाम् आत्मन इच्छतो “जरितुः स्तोतुर्मम “कामं “मोनयीः ऊनं मा कार्षीः । पूरयेत्यर्थः । ऊन परिहाणे । लुङि ‘णिश्रिद्रुस्रुभ्यः ' ( पा ३, १,४८ ) इति च्लेश्चङादेशस्य' 'नोनयतिध्वनयति' ( पा ३,१,५१ ) इत्यादिना प्रतिषेधे ‘ह्म्यन्तक्षण' ( पा ७,२,५ ) इति सिचिवृद्धिप्रतिषेधः ।
एभिः । द्युऽभिः । सुऽमनाः । एभिः । इन्दुऽभिः । निऽरुन्धानः । अमतिम् । गोभिः । अश्विना ।
इन्द्रेण । दस्युम् । दरयन्तः । इन्दुऽभिः । युतऽद्वेषसः । सम् । इषा। रभेमहि ॥४॥
हे इन्द्र “एभिः अस्माभिर्दत्तैः “द्युभिः दीप्तैश्चरुपुरोडाशादिभिः एवम् “एभिः अस्माभिर्दत्तैः “इन्दुभिः सोमैश्च प्रीतस्त्वम् अस्माकम् “अमतिम् दारिद्र्यम् “गोभिः बह्वीभिः “अश्विना अश्ववता धनेन च “निरुन्धानः निवर्तयन् “सुमनाः शोभनमनाः । भवेति शेषः । वयम् “इन्दुभिः अस्माभिर्दत्तैः सोमैः प्रीतेन “इन्द्रेण “दस्युम् उपक्षपयितारं शत्रुं “दरयन्तः दारयन्तो हिंसन्तः अत एव “युतद्वेषसः। अत्र यौतिरमिश्रणार्थः । पृथग्भूतद्वेषाः अपगतशत्रवः सन्तः “इषा अन्नेन इन्द्रदत्तेन “सं “रभेमहि संरब्धा भवेम । संगता भवेमेत्यर्थः ।
सम् । इन्द्र । राया । सम् । इषा । रभेमहि । सम् । वाजेभिः । पुरुऽचन्द्रैः । अभिद्युऽभिः ।
सम् । देव्या । प्रऽमत्या । वीरऽशुष्मया । गोऽअग्रया । अश्वऽवत्या । रभेमहि ॥ ५ ॥
हे “इन्द्र “राया धनेन त्वदीयेन “सं “रभेमहि संगच्छेमहि । तथा “इषा सर्वैरिष्यमाणेन अन्नेन “सं रभेमहि । तथा “वाजेभिः वाजैर्बलैः “सं रभेमहि । कीदृशैः ।। “पुरुश्चन्द्रैः पुरूणां बहूनां प्रजानाम् आह्लादकैः “अभिद्युभिः अभितो दीप्यमानैः । किं च “देव्या देवस्य इन्द्रस्य संबन्धिन्या “प्रमत्या प्रकृष्टया बुद्ध्या अनुग्रहरूपया “सं “रभेमहि । प्रमतिं विशिनष्टि - “वीरशुष्मया विविधम् ईरकं निवारकं शुष्म बलं यस्याः सा तादृश्या । “गोअग्रया गावो दातव्या अग्रे यस्यां प्रमत्यां सा तथोक्ता तादृश्या । ‘सर्वत्र विभाषा गोः' ( पा ६,१,१२२ ) इति प्रकृतिभावः । “अश्वावत्या अश्वैरस्मभ्यं दातव्यैस्तद्वत्या । ‘मन्त्रे सोमाश्वेन्द्रिय” ( पा ६,३,१३१ ) इति मतुपि दीर्घत्वम् । एवंमहानुभावया प्रमत्या सं रभेमहीति संबन्धः। ।
ते । त्वा । मदाः । अमदन् । तानि । वृष्ण्या । ते । सोमासः । वृत्रऽहत्येषु । सत्ऽपते ।
यत् । कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हयः ॥ ६ ॥
हे “सत्पते सतां पालक इन्द्र “वृत्रहत्येषु वृत्राणां शत्रूणां हत्येषु हननेषु निमित्तभूतेषु सत्सु “ते प्रसिद्धा “मदाः मदकरा आज्यपुरोडाशादयो मरुतो वा “त्वा त्वाम् “अमदन् हर्षं प्रापयन् । तथा “तानि प्रसिद्धानि “वृष्ण्या वर्षकस्य तव हर्षसाधनत्वेन संबन्धीनि स्तोत्राण्यपि त्वाम् अमदन् । “ते प्रसिद्धाः “सोमासः सोमा अपि त्वाम् अमदन् । “यत् यदा “कारवे । स्तोतृनामैतत् । स्तोत्रे “बर्हिष्मते यागवते यजमानाय “दश “सहस्राणि “वृत्राणि आवरकाणि पापानि अमित्रान् वा “अप्रति प्रतिरहितं यथा भवति तथा “नि “बर्हयः न्यवधीः । तदानीम् इति पूर्वेण संबन्धः। बर्हयतिहिँसाकर्मा । लङि ‘बहुलं छन्दस्यमाङयोगेऽपि' ( पा ६,४,७५) इत्यडभावः। शपः पित्त्वाद् अनुदात्तत्वे णिचः स्वरः शिष्यते । यद्वृत्तयोगाद् अनिघातः ।
युधा । युधम् । उप । घ । इत् । एषि । धृष्णुऽया । पुरा । पुरम् । सम् । इदम् । हंसि। ओज॑सा ।
नम्या । यत् । इन्द्र । सख्या । पराऽवति । निऽबर्हयः । नमुचिम् । नाम । मायिनम् ॥ ७ ॥
हे “इन्द्र त्वं “युधा प्रहरणसाधनेन वज्रेण आयुधेन । अथवा योधनं युध् तेन । प्रहरणेनेत्यर्थः । संपदादिलक्षणः क्विप् । कीदृशेन । “धृष्णुया धर्षकेण “युधम् शत्रोरायुधं प्रहरणं वा “उप “घेदेषि । घेति पूरणः । उपैष्येव उपगच्छस्येव । अनेनास्य द्वन्द्वयुद्धकुशलत्वम् उक्तं भवति । एवं “पुरा नगरेण । अत्र पूर्शब्देन तत्रस्था भटा लक्ष्यन्ते । पुरस्थैः स्वकीयैर्योद्धृभिर्मरुत्प्रभृतिभिः “इदम् इदानीं “पुरम् शत्रुनगरं पुरस्थान् योद्धॄन् वा “ओजसा बलेन “सं “हंसि सम्यग् नाशयसि । “यत् यस्मात् कारणात् “नम्या नम्यया सर्वैः प्रह्रीभवितुम् अर्हया “सख्या सखिभूतया शक्त्या आयुधेन “परावति दूरदेशे “नमुचिं “नाम नमुचिनामधेयम् असुरं “मायिनम् मायावन्तं “निबर्हयः नितराम् अहिंसीः । अतस्त्वम् एवं स्तूयस इत्यर्थः ।
त्वम् । करञ्जम् । उत । पर्णयम् । वधीः । तेजिष्ठया । अतिथिऽग्वस्य । वर्तनी ।
त्वम् । शता। वङ्गृदस्य । अभिनत् । पुरः । अननुऽदः । परिऽसूताः । ऋजिश्वना ॥ ८ ॥
हे इन्द्र “त्वं “करञ्जम् एतन्नामानम् असुरं “वधीः अवधीः हतवान् असि । हन्तेर्लुङि सिपि ‘लुङि च' ( पा २,४,४३ ) इति वधादेशः । तस्य अदन्तत्वाद् वृद्ध्यभावः । अत एव अनेकाच्त्वाद् इट्प्रतिषेधाभावः । ‘इट ईटि ( पा ८,२,२८ ) इति सिचो लोपः । “उत अपि च “पर्णयम् एतत्संज्ञकम् असुरं वधीः । किमर्थम् अवधीरिति तत्राह -“अतिथिग्वस्य अतिथ्यर्था गावो यस्यासौ अतिथिग्वः । तस्य राज्ञः प्रयोजनाय । केन साधनेनेति उच्यते । “तेजिष्ठया अतिशयेन तेजस्विन्या । तेजःशब्दाद् ‘अस्मायामेधास्रजो विनिः' ( पा ५,२,१२१ ) इति मत्वर्थीयो विनिः । तस्माद् आतिशायनिक इष्ठन् । ‘विन्मतोर्लुक्’ ( पा ५,३,६५ ) इति विनो लुक् । ‘टेः' ( पा ६,४,१४६ ) इति टिलोपः । नित्त्वाद् आद्युदात्तत्वम् । तादृश्या “वर्तनी वर्तन्या शक्यापा एतन्नामकेन आयुधेन । किं च “त्वम् “ऋजिश्वना एतन्नामकेन राज्ञा निमित्तेन “परिषूताः परितोऽवष्टब्धाः “शता शतानि शतसंख्याका वङ्गृदस्य एतत्संज्ञकस्य असुरस्य “पुरः पुराणि नगराणि “अभिनत् नाशितवान् । कीदृशस्त्वम् । “अननुदः नुदति शत्रून् अपसारयतीति नुदः न तादृशोऽनुदः अप्रेरकः । तादृशो न भवतीत्यननुदः। सर्वदा शत्रुच्यावक इत्यर्थः । अथवा अनु पश्चाद् द्यति खण्डयतीत्यनुदः अनुचरः। स यस्य नास्ति सोऽननुदः । असहायभूत इत्यर्थः । दो अवखण्डने। ‘आदेचः” ( पा ६,१,४५ ) इत्यात्त्वम् । ‘आतश्चोपसर्गे' ( पा ३,१,१३६ ) इति कप्रत्ययः । नास्ति अनुदोऽस्य इति बहुव्रीहौ ‘नञ्सुभ्याम्' ( पा ६,२,१७२ ) इति उत्तरपदान्तोदात्तत्वम् ।।
त्वम् । एतान् । जनऽराज्ञः । द्विः । दश । अबन्धुना । सुऽश्रवसा । उपऽजग्मुषः ।
षष्टिम् । सहस्रा । नवतिम् । नव । श्रुतः । नि । चक्रेण । रथ्या । दुःऽपदा । अवृणक् ।।९
हे इन्द्र “श्रुतः विख्यातः “त्वम् “अबन्धुना बन्धुरहितेन सहायवर्जितेन “सुश्रवसा एतन्नामकेन राज्ञा निमित्तेन “एतान् प्रसिद्धान् “उपजग्मुषः उपगतान् निरोधं कृतवतः “द्विर्दश द्विगुणितान् दशसंख्याकान् । विंशतिसंख्याकान् इत्यर्थः। तथा “षष्टिं “सहस्रा सहस्राणां षष्टिं षष्टिसहस्रसंख्याकान् तथा “नवतिं “नव नवोत्तरनवतिसंख्याकान् “जनराज्ञः जनानां भटानां स्वामिनः उक्तसंख्याकान् सेनानायकान् “दुष्पदा दुष्पदनेन शत्रुभिर्गन्तुम् अशक्येन “रथ्या रथार्हेण । ‘रथाद् यत्' ( पा ४,३,१२१ ) इति यत् । “चक्रेण “न्यवृणक् न्यवर्जयः अनाशयः । वृजी वर्जने । रौधादिकः । लङि मध्यमैकवचने ‘हल्ङ्याब्भ्यः' ( पा ६,१,६८ ) इति सिपो लोपः । ‘चोः कुः' ( पा ८,२,३० ) इति कुत्वम् ।।
त्वम् । आविथ । सुऽश्रवसम् । तव । ऊतिऽभिः । तव । त्रामऽभिः । इन्द्र । तूर्वयाणम् ।
त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे। यूने । अरन्धनायः ॥१०॥
हे “इन्द्र “त्वम् “सुश्रवसम् पूर्वमन्त्रे अबन्धुना सुश्रवसेत्युक्तम् असहायं दुर्बलम् एतन्नामानं राजानं “तव “ऊतिभी रक्षाभिः “आविथ ररक्षिथ । तथा तस्यैव राज्ञोऽर्थाय “तूर्वयाणम् एतत्संज्ञकं राजानं “तव “त्रामभिः पालनैः । आविथेति संबन्धः । त्रैङ् पालने । ‘आदेच:" ( पा ६,१,४५ ) इति आत्त्वम् । “आतो मनिन्” ( पा ३,२,७४ ) इति मनिन् । नित्त्वाद् आद्युदात्तत्वम् । एवं “त्वम् “अस्मै सुश्रवसे “राज्ञे । कीदृशाय । “महे महते “यूने वयःस्थाय युवराजभूताय “कुत्सम् “अतिथिग्वम् “आयुं च “अरन्धनायः वशम् अनैषीः । रन्धनं वशीकरणं करोति । तत् करोति' ( पावा ३,२,२६) इति णिच् । ‘णाविष्ठवत् प्रातिपदिकस्य' ( पावा ६,४,१५५ ) इति इष्ठवद्भावाट्टिलोपः । लङि सिपि दीर्घश्छान्दसः ।। य उद्दचन्द्र देवगौपाः सखायस्ते शिवतमा असाम । त्वां स्तौषाम त्वया सुवीरा द्राधीय आयुः प्रतरं दधानाः ॥ ११ ॥
ये । उत्ऽऋचि । इन्द्र । देवऽगोपाः । सखायः । ते । शिवऽतमाः । असाम ।
त्वाम् । स्तोषाम् । त्वया । सुऽवीराः । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥ ११ ॥
हे “इन्द्र “ये वयम् “उदृचि उदर्के यज्ञसमाप्तौ वर्तमाना “देवगोपाः देवेन त्वया पालिताः ते तव “सखायः सखिवद् अत्यन्तप्रियाः अत एव “शिवतमा “असाम अतिशयेन कल्याणा अभूम । अस भुवि । लुङर्थे लोटि ‘आडुत्तमस्य पिच्च' ( पा ३,४,९२ ) इति पिद्वद्भावात् ‘पिञ्च ङिन्न' ( तु. पामा ३,१,८३ ) इति ङित्त्वाभावे ‘श्नसोरल्लोपः' ( पा ६,४,१११) इत्यकारलोपाभावः । पित्त्वादेव तिङोऽनुदात्तत्वम् । धातुस्वरः शिष्यते । ते वयं यज्ञसमाप्त्युत्तरकालमपि “त्वां “स्तोषाम स्तवाम । स्तौतेर्लौटि ‘सिब्बहुलं लेटि' ( पा ३,१,३४ ) इति बहुलग्रहणात् लोट्यपि सिप् । तस्य पित्त्वाद् गुणः । अस्माभिः स्तुतेन “त्वया “सुवीराः शोभनपुत्रवन्तः सन्तः “द्राघीयः अतिशयेन दीर्घम् “आयुः जीवनं “प्रतरम् प्रकृष्टतरं यथा भवति तथा “दधानाः धारयन्तो भूयास्म ।
इति तृतीयेऽनुवाके चतुर्थं सूक्तम् । ।
टिप्पणी