← सूक्तं २०.०२३ अथर्ववेदः - काण्डं २०
सूक्तं २०.०२४
विश्वामित्रः।
सूक्तं २०.०२५ →
दे. इन्द्रः। गायत्री।

उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
हरिभ्यां यस्ते अस्मयुः ॥१॥
तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
कुविन् न्वस्य तृप्णवः ॥२॥
इन्द्रमित्था गिरो ममाछागुरिषिता इतः ।
आवृते सोमपीतये ॥३॥
इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
उक्थेभिः कुविदागमत्॥४॥
इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।
जठरे वाजिनीवसो ॥५॥
विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
अधा ते सुम्नमीमहे ॥६॥
इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
आगत्या वृषभिः सुतम् ॥७॥
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
एष रारन्तु ते हृदि ॥८॥
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
कुशिकासो अवस्यवः ॥९॥